________________ गणिकृतटीका ] सम्बन्धकारिकाः प्रधानकार्यसिद्धिश्च, यथा इतोऽष्टयोजन्यामुज्जयिनी वर्तते तामेकेनाहा गच्छ परेण निवर्तेथाः यदि चैकेनाहा न प्राप्नुयास्ततोऽमुकस्मिन् ग्रामे सुखमुषित्वा श्वः प्रवेष्टांसि तूर्णं चागच्छेरित्येतस्माद् वाक्याद् गन्ता प्रश्वस्तः सन् न गमने विरसीभवति, पूर्वस्मात् तु व्याहन्यते, एवं नूसुरैश्चर्यद्धिनिरपेक्ष उपदेशोप्रश्वासाय स्यादिति, ततः प्रश्वासार्थमुच्यते " परमार्थालामे वा" (3) इत्यादि / जन्मान्तरसञ्चितानां हि कर्मणां बन्धनिकाचनाद्यवस्थावैचित्र्यात् तहेतुकरागादिदोषाणां च कर्मावाहित्वताच्छील्यात कश्चित तद्भवेनैव निःश्रेयसं नाधिगच्छेत, तथापि तस्य शुद्धप्रयोगहेतुकं कल्याणप्राप्तिकारणं पुण्यं कर्म स्यादिति / स्यान्मतम् , नन्वेवमभ्युदयाशंसा कृता स्यात् इष्टशरीरेन्द्रियादिनृसुरविशेषप्रादुर्भावफलत्वात् पुण्यस्य, निषिदाभ्युपगमे चाभ्युपेतबाधा स्यादिति / उच्यते, नैष दोषः / नृसुरैश्वर्यसुखप्रतिषेधात् / नृसुरैश्चर्यसुखप्रतिषेधपरं हि मुनेः कृत्स्नं वचनम् // "सल्लं कार्मों" इत्यादि / स्वर्गलोकगमनसुकुलप्रत्यापत्त्यादिवचनं तु प्रधानार्थनिश्चयदाढर्यापादनार्थम् / यथाऽनुच्छिभारिशेषोऽपि विजिगीषुर्भोगेषु न व्यासज्येतेति, तदुच्छेदाद भोगेषु व्यासङ्गोऽपि स्वनुबन्ध इति तत्प्राधान्यप्रतीतेरितरसुखस्याप्यसुखत्वमुपदिष्टं स्यात्, तन्मात्राभिष्वङ्गपरिहारार्थमित्थं, सर्वत्र प्रियहितनिश्चयसिद्धेः / " सिद्धे वा भवति सासए, देवे वा अप्परए महिडिए" // -दशवैकालिके अ० 9, उ०४, गा०७. “उप्पसन्ने विमलेव चंदिमा, सिद्धि विमाणाणि वयंति ताइणो" // --दश० अ० 6, उ० 2, गा० 68. "दुक्कराइं करित्ताणं, दुस्सहाई सहित्तु य / केइत्थ देवलोएसु, केवि सिझंति नीरया"|-दश० अ०३, गा० 14. इत्यादि // नृसुरैश्वर्यनिःश्रेयसविषयाणां सर्ववाक्यानां सिद्धिः / ततश्च नेदं यथोक्तप्रश्वासवाक्यतुल्यम्, न ह्यत्र कालाध्वपरिमाणगन्तृशक्तिवनिवृत्तिकालपरिच्छेद इति / यथा वा सर्वअपकृतं भोजनविधानमुपचर्य ब्रूयात् किन्त्वपथ्यमिति / एवं च तत्प्रसङ्गप्रतिषेधो गम्यते तस्मात् १'प्रवेष्टास्मि' इति ग-टी-पाठः / 2 'स्यान्मन्ता' इति ख-ग-पाठः / 3 'बाधी' इति क-पाठः / 4 सालं कामा विसं कामा कामा आसीविसोबमा। कामे पत्थयमाणा अकामा जति दुग्गतिं // (उत्तराध्ययने अ० 9, गा० 53.) [शल्यं कामा विषं कामाः कामा आशीविषोपमाः। कामान् प्रार्थयमाना अकामा यान्ति दुर्गतिम् // ] ५'पदार्थोपदानार्थ' इति ग-टी-पाठः। 6 सिद्धो वा भवति शाश्वतः देवो वा अल्परजाः (अल्परतः) महार्द्धकः / . . 'उप्पसन्ने' इति ख-पाठः / ऋतु ( शरत् ) ( काले ) प्रसन्नः विमलश्च चन्द्रमा इव तायिनः ( प्रसन्ना विमलाश्च ) विमानानि सिद्धि (0) अवन्ति. '५दुष्कराणि कृत्वा दुःसहानि सहित्वा च / केचिदत्र देवलोकेषु ( उत्पद्यन्ते ) केचित् सिध्यन्ति नीरजसः /