________________ सूत्र 35 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् 117 भा०-आद्य इति सूत्रक्रमप्रामाण्यानैगमनाह / स विभेदो-देशपरिक्षेपी सर्वपरिक्षपी चेति / शब्दस्त्रिभेदः-साम्प्रतः, समभिरूढः, एवम्भूत इति // टी-आद्य इति सूत्रक्रमेत्यादि / आदौ भव आद्यः इत्यनेन मूत्रकारः कमाह ? / उच्यते-नैगमं, कुत इति चेत् ? सूत्रक्रमप्रामाण्यात् अर्थसूचनात् सूत्रं नैगमादि क्रमः-परिपाटी तस्य प्रामाण्यमेवमाश्रयणं तस्मान्नैगमनयं ब्रवीति, स आयो नैगमो नैगमस्य द्वैवि र द्विभेदो द्वौ भेदावस्येति द्विभेदः, तौ च भेदावाचष्टे-देशपरिक्षेपी - सर्वपरिक्षेपी च / देशो-विशेषः परमाण्वादिगतस्तं परिक्षेप्तुं शीलध्यम् ___मस्येति देशपरिक्षेपी, विशेषग्राहीत्यर्थः / सर्वपरिक्षेपी सर्व-सामान्यम् एकं नित्यं निरवयवादिरूपं तत् परिक्षेप्तुं शीलमस्य स सर्वपरिक्षेपी, सामान्यग्राहीतियावत् / सामान्यविशेपरूपस्तु नोक्तः, अनुवृत्तिलक्षणश्चेत् सामान्यं, व्यावृत्तिलक्षणश्चेत् विशेषः, ततोऽन्यस्याभावात् / अथवा आद्यन्तयोर्ग्रहणात् तन्मध्यगतस्यापि ग्रहणम् / शब्दस्त्रिभेद् इति शब्दनयस्त्रिभेदः व्यंश इति, तानाह--साम्प्रत इत्यादिना, शब्दस्य त्रैविध्यम् - साम्प्रतं-वर्तमानं भावाख्यमेव वस्त्वाश्रयति यतोऽतः साम्प्रतः, - सम्प्रतिकाले यद् वस्तु भवत् तत् साम्प्रतं तद्वस्त्वाश्रयन् साम्प्रतोऽभिधीयते / / ननु च 'कालागु(?)ञ्' (पा० 4 / 3 / 11) इति साम्प्रतिक इति भवितव्यम् , नैष दोषः, वर्तमानक्षणवर्तिवस्तु विपयोऽध्यवसायस्तद्भवः शब्दः साम्प्रतः, स्वार्थिको वा प्रज्ञादित्वात् / एष च मौलशब्दनयाभिप्रायाविशिष्ट इति न पृथगुदाहरणेविंभावितः / यां यां संज्ञामभिधत्ते तां तां समभिरोहतीति समभिरूढः, सोऽभिदधाति-यदि लिङ्गमात्र भिन्नमवस्तु, विसंवादित्वात् रक्तनीलतादिवत् , एवं सति मूलत एव भिन्नशब्दं कथं वस्तु स्यात् ? शब्देन ह्यर्थो निरुक्तीक्रियते एतस्मान्निरुक्तादेप इति, यत्र तद्भदस्तद्भिन्नमेव, यथा तु पूर्वनयेनैकं कृत्वोच्यते इन्द्रशक्रादि तथा यदवस्तु, घटज्वलनादिवद् भिन्ननिमित्तत्वात् , अनयोरेकत्वेनावस्तुता / एवं घटकुटयोरपि चेष्टाकौटिल्यनिमित्तभेदात् पृथक्ता, तथा प्रकृतिप्रत्ययोपात्तनिमित्तभेदाद् भिन्नौ शक्रेन्द्रशब्दावेकार्थों न भवतः, विविक्त निमित्तावबद्धत्वात् गवाश्वशब्दवत् / अथापि प्रतीतत्वादसंप्रमोहाल्लोके चैवं निरूढत्वात् इन्द्रशब्दस्य पुरन्दरादयः पर्याया इत्येतदनुपपन्नम, एवं हि सामान्यविशेषयोरपि पर्यायशब्दत्वं स्यादेव, यतः प्लक्ष इत्युक्ते द्राक् वृक्षेऽस्ति सम्प्रत्ययः, अस्तित्वासम्प्रमोहे च संज्ञान्तरकल्पनायामिहापि तर्युक्तादनुक्तप्रतिपत्तो सत्यां पर्यायत्वप्रसङ्गः प्रविश पिण्डी, भक्षयेत्यस्य गेमात् , तथाऽस्तिर्भवन्तीपरःप्रथमपुरुषेप्रयुज्यमानोऽप्यस्तीति गम्यते, वृक्षः प्लक्षोऽस्तीति गम्यते, न्यायादस्तिः पर्यायःप्राप्तः, तस्माद् भेदः साधीयान् दन्तिहस्तिनोश्चैकत्वाद् दन्तहस्तैकत्वप्रसङ्ग इति / एवं संज्ञान्तरोक्तः संज्ञा 'किमाह' इति क-ख-पाठः। २'गमनात् ' इति क-ख-पाठः /