________________ त 178 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 2 ___ उक्तः प्रतिविशिष्टानामेव भवस्थानां मनोयोगनियमः / अथ येऽन्तर्गतौ वर्तन्ते प्राणिनस्तेषां कतमो योगः 1 / उच्यते सूत्रम्--विग्रहगतौ कर्मयोगः // 2-26 // टी-अथवा संसारिणोऽधिकृतास्ते च संसरणधर्माणो भवाद् भवान्तरप्राप्तः, तञ्च तेषां संसरणं द्विधा-देशान्तरप्राप्तिलक्षणं भावान्तरप्राप्तिलक्षणं च, तत्र सुसरणस्य ये पूर्वशरीरपरित्यागाद् देशान्तरं गत्वा जन्म लभन्ते तेषां देशाद्वविध्यम् न्तरप्राप्तिलक्षणम् , ये पुनः स्वशरीर एवोत्पद्यन्ते मृताः सन्तः कृम्यादिभावेन तेषां भावान्तरप्राप्तिलक्षणम्, एतदुभयमपि न चेष्टालक्षणयोगमन्तरेण संसरणमस्ति, त्यक्तपूर्वकशरीरस्य जन्तोर्गतेरभावाद गतिपूर्विका चोभयप्राप्तिरिति ? उच्यते-गतिहेतुसद्भावान्न गमनप्रतिषेधः, सा गतिरन्तरालवर्तिनी द्विधा-ऋज्वी वक्रा च, ऋज्वी तावत् पूर्वशरीरयोगोत्थापितप्रयत्नविशेषादेव गतिरिअन्तर्गतिविचारः प्यते धनाविमोक्षाहितसंस्कारेषुगमनवत् , तस्यां च पूर्वकः स एव योगो वाच्यः, अतोऽन्यस्यानु विग्रहगतौ कर्मयोगः, विग्रहो वक्रमुच्यते, विग्रहेण युक्ता गतिविग्रहगतिः अश्वरथन्यायेन, विग्रहप्रधाना वा गतिः विग्रहगतिः शाकपार्थिवादिवत्, तस्यां विग्रहंगती कोष्टकेनैव योगः, न शेषौदारिकादिकायवाङ्मनोव्यापार इति, कर्मणो योगः कर्मयोगः कार्मणशरीरकृतैव चेष्टेत्यर्थः / एतदेव व्यक्तं भाष्येण दर्शयति भा०-विग्रहगतिसमापन्नस्य जीवस्य कर्मकृत एव योगो भवति / कर्मशरीरयोग इत्यर्थः / अन्यत्र तु यथोक्तः कायवाङ्मनोयोग इंति // 26 // टी-विग्रहगतीत्यादि / समासादितवक्रगतेजन्तोः कर्माष्टकं कर्मशब्देनोच्यते / कर्मकृत एव योगो भवतीत्यवधारणेन व्युदासमावेदयति शेषयोगानाम्,पुनः स्पष्टतरमसन्देहार्थ विवृणोति-कमशरीरयोग इत्यर्थः / कमव शरीरं कर्मशरीरं कार्मणमिति स्फुटयति, स्वार्थ च व्युत्पत्तिमावेदयति कमैव कार्मणम्, न पुनजोतभवाद्यर्थसम्बन्धोऽत्र कश्चित् समस्ति / अयं च नियमोऽन्तर्गतेरेव क्रियते न कार्मणस्येति ख्यापयन्नाह–अन्यत्र तु यथोक्तः कायवाङ्मनोयोग इति / अन्तगेतेरन्यत्र यथाभिहित आगमे कायादियोगो भवति, तुशब्दो गत्यन्तरविशेषप्रदर्शनपरतयोक्तः / तद्यथा-नारकगर्भव्युत्क्रान्तितिर्यग्मनुष्यदेवानां त्रयोऽपि योगाः, योगविभागः / .. सम्मूर्च्छनजन्मभाजां तिर्यग्मनुष्याणां कायवाग्योगावेव / अथवा विभाग यथोक्त इति / येन प्रकारेणोक्तः कायादियोगः पञ्चदशभेदः स तथा समायोजनीयो गत्यन्तरभेदेध्विति सूचयति, तत्र मनोयोगश्चतुर्धा-सत्यः, असत्यः, सत्यासत्यः, असत्यामृष इति, एवं वाग्योगेऽपि, काययोगः सप्तभेदः-औदारिकः, औदारिकमिश्रा, वैक्रियः, वैक्रियमिश्रः, आहारकः, आहारकमिश्रः, कार्मणश्चेति // ननु च 'अनादिसम्बन्धेच' १वक्रगतौ चेत्यधिकम् / 2 ' इत्यर्थः' इति घ-पाठः /