________________ सूत्रं 26 ] स्वोपनभाष्य-टीकालङ्कृतम् 179 (अ० 2, मू० 42), 'सर्वस्य' (अ 02, मू० 43) इतिवचनात् तैजसयोगसद्भावोऽपि, अतोऽष्टविधेनं काययोगेन भवितव्यम् , ततश्च पोडशभेदो योगः स्यात् , अवधारणं च भाष्ये कर्मकृत एवेति तदप्यसमीक्ष्य कृतं स्यात् , तत्रोच्यते-'सर्वस्य' (अ०२, सू० 43) इत्यत्र सूत्रे जसयोगमाचार्योऽन्यमतेन निराकरिष्यति, 'एके त्वाचार्याः नयवादापेक्षम्' (अ०२, सू० 43) इत्यादिना भाष्येण, अतः क्रममुदीक्षस्व मा त्वरिष्ठाः, तत्रैवेदं निश्चेष्यते, समासतस्तावद गृहाण-तैजसं कार्मणान्न भिन्नमेकमेवेदमित्यतः पञ्चदशधा योगः, तैजसस्य भिन्नयोगाभावः मन- अवधारणमपि भाष्ये नासमञ्जसमिति / सोऽयमधुना जीवेषु पञ्चदशविधो - योगः आयोज्यते-संज्ञिमिथ्यादृष्टेरारब्धो यावत् सयोगकेवली ताक्दाद्यतुर्यो मनोयोगौ लभ्येते, एतेष्वेव च स्थानेषु सत्यवाग्योगोऽपि, तुरीयः पुनर्वाग्योगो दीन्द्रियमिथ्यादृष्टेरारब्धो यावत् सयोगिकेवली तावत् समस्ति, द्वितीयतृतीयवाग्योगौ संज्ञिमिथ्यादृष्टेरारब्धौ यावत् क्षीणकपायवीतरागच्छद्मस्थस्तावल्लभ्यते / एवं मनोयोगावपि द्वितीयतृतीयौ / ऋजुगत्यां यावद् भवान्तरसम्प्राप्तिस्तावदन्तराले यथासम्भवमौदारिकवैक्रियकाययोगौ भवतः, वक्रायां तु पुनस्तौ विनिवर्तेते, नारकसुरा वैक्रिययोगभाजः, तियग र मनुष्या औदारिकवैक्रिययोगिनः, आहारकयोगः प्रमत्तेन निष्पाद्यते - पश्चादप्रमत्तस्य . भवति, एत एव हि नारकादयोऽपर्याप्तकावस्थावर्तिनो मिश्रयोगभाजो भवन्ति, औदारिकवैक्रिये येषां ग्राह्ये पुरोजन्मनि तेषां कार्मणेन मिश्रः, यस्याहारकं ग्राह्यं तस्यौदारिकेण मिश्रः, सम्यग्मिथ्यादृशमपहाय मिथ्यादृष्टेरारब्धोऽन्तर्गतौ कार्मण एव योगस्तावल्लभ्यते यावदुपशान्तकषायवीतरागच्छद्मस्थ इति / केवलिसमुदघातकाले च तृतीबचतुर्थपञ्चमसमयेषु कार्मण एव / सूत्रे चावध्रियते विग्रहगतेः, न कर्मयोगः, ततोऽन्यत्रापि दर्शनादिति, द्वितीयषष्ठसप्तमेष्वौदारिककार्मणमस्ति, प्रथमाष्टमयोरौदारिक एव, एवमन्यत्र तु यथोक्तः कायादियोगः समायोजितो भवति // अथ विग्रहगतौ कर्मयोग इतिवचनादेकविग्रहायामपि गतौ कार्मण एव योगः कसान भवति? साऽपि हि विग्रहगतिर्भवत्येवेति / उच्यतेविग्रहगताविति न व्याप्तिर्विवक्षिता तिलतैलवत् , किन्तु विषयो विवक्षितः खे शकुनिरुदके मत्स्य इति यथा, अवश्यं चैतदेवं ग्रहीतव्यम्, अन्यथा द्विविग्रहायां त्रिविग्रहायां वा गतावाचन्तयोरपि समययोः कार्मणयोगः प्राप्नोति, इष्यते च द्विविग्रहायां मध्यमसमये त्रिविग्रहायां मध्यमयोयोरिति // ननु च विग्रहगतिसमापन्नः कार्मणेन योगेन भवान्तरं सङजामति तत् कथं 'निरुपभोगमन्त्यम् ' ( अ० 2, मू० 45 ) इति वक्ष्यते, अयमेव हि विप्रगहतो निरु .. तस्योपभोगो यदुत भवान्तरसङ्क्रान्तिरिति ? / उच्यते-विशिष्टः सूत्रे "पा सुखदुःखयोरुपभोगः कर्मबन्धानुभवो निर्जरालक्षणश्च प्रतिपेत्स्यते, न चेष्टारूप इति / अथ कथं सूत्रमिदम् ?-"जावं च णं भंते ! अयं बीवे एयति वेयति चलति फंदति तावं च णं णाणावरणिज्जेणं जाव अंतराइएणं 1 यावच्च भदन्त ! अयं जीव एजते व्येजते चलति स्पन्दते तावच्च ज्ञानावरणीयेन यावद् अन्तरायिकेण