________________ सूत्रं 31] स्वोपज्ञभाष्य-टीकालङ्कृतम् 401 नानेकपर्यायोपघ्नास्तविपरीतपर्यायाश्रयाश्च तत्र तत्र व्यवहियन्ते व्यवहारार्थिभिः, अतो मातृकॉपदमेवास्ति व्यवहारयोग्यत्वान्, न शेषमिति व्यवहारनयाभिप्रायः / सङ्ग्रहव्यवहारौ च प्रत्येकं शतभेदत्वादनेकमुखौ, व्यवहार इति चान्वर्थसंज्ञत्वादेवास्य नयस्य, अवहरणमवहारः, कस्य ? एकसत्त्वस्य, केन ? विशेषेण-घटादिना, नानासत्त्वेन लोकयात्रासिद्धेः // ____अधुना द्रव्यास्तिकमातृकापदास्तिकाभिहिताविशिष्टवस्तुप्रतिक्षेपेण भेदा एव वस्तुत्वेना. वध्रियन्ते पर्यायनयेन, अनवरतोत्पादविनाशप्रवाहमात्रमेव वस्तु सकलव्यवहारनिवन्धनम्, न तु स्थितमस्ति किञ्चित्, आत्मभावलक्षणानन्तरविनाशित्वान्न किञ्चित् पर्यायवादिमतम् केनचिदेकेनाभिन्नेन स्थित्यंशेनावबध्यमानं सम्भाव्यते, तत्राशेपस्थल सूक्ष्मोत्पादकलापस्य प्रतिपादकमुत्पन्नास्तिकमुत्पन्नेऽस्तिमति, नानुत्पन्ने वान्ध्येयव्योमोत्पलादाविति, योऽप्यात्मलाभक्षणोऽस्ति सन्नित्येवंविधशब्दवाच्यः सोऽप्यभूतप्रादुर्भावः प्राग् नासीत् पश्चालब्धात्माऽस्ति सन्नित्यादिशब्दव्यपदेश्यः, न तु भूत्वाऽस्तिमनुभवनस्तीत्याख्यायते',क्रियायाः कृतकत्वात् पचत्यादिवत्, कर्तुश्च तत्सम्बन्धेन कर्तृत्वप्रतिलम्भस्य कृतकत्वान्न स्थितसत्ताकमेकमस्ति किञ्चित्, प्रथमक्षणविलक्षणाश्चोत्तरोत्तरक्षणाः सन्तानाकारेणोपजनमासादयन्ति / तथा पर्यायास्तिकमित्युत्पत्तिमतोऽवश्यं विनश्वरत्वाद् यावन्त उत्पादास्तावन्त एव विनाशा इति विनाशेऽस्तिमति पर्यायास्तिकम् , पर्यायो भेदो विनाशलक्षणः सोऽस्त्येवोत्पन्नस्येति, पर्यायो हि विनाशपर्यायः, यथा प्राप्तपर्यायो देवदत्त इति, समस्तविलसाप्रयोगापादितविनाशसूचनाकारि च पर्यायास्तिकम् / अपरे तु वर्णयन्त्यन्यथा उत्पन्नास्तिकं पर्यायास्तिकं च, तत्र सामग्रीग्रहणादेकद्रव्यभाविनां पर्यायाणां कालतोऽर्थतो वाऽप्यव्यभिचारिणां यत्र व्यपदेशस्तदुत्पन्नास्तिकं सिध्यमानसिद्धवत्, यथा सिध्यमानः सिद्ध इति कालतोऽर्थतश्चाव्यभिचारी शब्दः, तथैकद्रव्यभाविनां पर्यायाणामयुगपदवृत्तीनां युगपदग्रहणात् सामग्रीग्रहणाञ्च यत्र व्यपदेशः स पर्यायदेशः, यथा स्पर्शादिमतां पुद्गलानामिन्द्रियैर्युगपदग्रहणादपि व्यपदेशः क्रियते स्पर्शरसगन्धवर्णवन्तः पुद्गला इति / अपरे व्याचक्षते " तेषामुत्पादसम्भक्ते-रुत्पन्नास्तिकदेशना / / उत्पद्यमानाः पर्यायाः, पर्यायास्तिकमुच्यते // " / तेषामिति / द्रव्यमातृकापदास्तिकभेदानामुत्पादयोगादुत्पन्नास्तिकदेशना, पर्यायनयस्यानुत्पन्नेन व्यवहाराभावात् तदानीमेव सन्, न ह्यनुत्पन्नाः केचिद् द्रव्यादयः सन्ति, अतीतानागतवर्तमानेष्वविशेषात्, यदा पुनरुत्पादसमावेशिनो वर्तमानकालावच्छिन्नाः पर्याया विवक्ष्यन्ते तदोत्पद्यमानावस्थायां पर्यायास्तिकमुच्यते / अन्ये वभिदधति-न मातृकापदास्तिकं द्रव्या. स्तिकाद् भिद्यत इति द्रव्यनयपरिग्रहः, पर्यायास्तिकं च नोत्पन्नास्तिकाद् विविच्यत इति १.लाभेक्ष.' इति क-पाठः / 1. भूयांसि म.' इति क-ख-पाठः / 3 अत्र 'क्रियते' इत्यधिकः क-पाठः। ४'गादिक' इति क-पाठः।