________________ तत्त्वार्थाधिगमसूत्रम् [श्रीसिद्धसेनबने धर्मस्यैकस्यापि पदस्योपयोगः संसारनिर्वाहकः किमङ्ग पुनरेवंविधार्थविस्तारविषयस्येति, तस्मात् सङ्क्षपाद् विस्तराञ्च जिनवचनं श्रेयस्करमिति / तदाह-"एकमपि तु जिनबचनाद्" इत्यादि यावत् “धार्य च वाच्यं च" (2728) इति // किश्च जिनमतानभिबस्य परस्येदं चोय-लोकानुग्रहासम्पादनाद्वयर्थ एकदेशसङ्ग्रह इति, कथं ?, संसारदुःखार्तसत्वाऽनुकम्पाद्रवीकृतात्मा परानुग्रहप्रवणो विधिप्रवृत्तोऽसपरोपकारोऽपि तत्प्रयोगशुद्धित एव स्वयं तावनिःश्रेयसभाग् भवतीति नियमादस्माकं यतिधर्मो देशनीयः सद्धर्म इति हेतोः / प्रोक्तं हि भगवद्भिः "उठिएसु वा अणुष्टिएसु वा सुस्सूसमाणेसु पवेअएय अज्जवयं" इत्यादि यावत् "बुज्झमाणाणं जहा से दीवे असंदीणे एवं सरणं भवइ महामुणी"।' -आचाराङ्गे, श्रु० 1 अ० 6. उ० प. तथा। "भवसयसहस्समहणो, विबोहओ भविय पुंडरीयाण।। धम्मो जिणपत्रत्तो, पकप्पजइणा कहेयव्वो"॥ आर्या इति, तदाह-" न भवति धर्म" इत्यादि (29-31) / . इति स्वोपज्ञसम्बन्धकारिकाः टीकाद्वयसमेताः समाप्ताः // १'द्वयर्थ' इति ख-पाठः। 2 उत्थितेषु ( उपस्थितेषु) अनुपस्थितेषु प्रवेदयेत्-आर्जविताम् / 3 उद्यमानाना यथा स द्वीपः अस्यन्दनः एवं शरणं भवति महामुनिः / 4 भवशतसहस्रमथनो विबोधनो भव्यपुण्डरीकाणाम् / धर्मो जिनप्रज्ञप्तः *प्रकल्पयतिना कथयितव्यः // * प्रकल्प:-आचारप्रकल्पः निशीथसूत्रमित्यर्थः /