________________ तत्त्वार्थाधिगमसूत्रम् श्री उमास्वाति'वाचकवर्यविरचितं स्वोपज्ञभाष्यालङ्कृतम् श्री सिद्धसेन'गणिप्रणीतटीकायुतम् / प्रथमोऽध्यायः 1 हितोपदेशे च कर्तव्ये निःश्रेयसावाप्त्युपायोपदेशान् नान्यः कश्चिद्धितोपदेश इत्युक्तम्सूत्रम्-सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः // 1-1 // टीका इदमाद्यमनवयं मुक्तिपथोपदेशसूत्रं सकलतत्त्वार्थशास्त्राभिधेयमुररीकृत्य प्रावृतत्, द्वादशाङ्गप्रवचनार्थसङ्ग्राहिसामायिकसूत्रवत् / यत इह हि शास्त्रे प्रसङ्गानुप्रसङ्गतस्त्रय एव पदार्थाः सम्यग्दर्शनादयो विमुक्तेः कारणत्वेन निरूप्यन्ते / अथ कमात् हेतव एव मोक्षस्य कथ्यन्ते ? न पुनः स एव प्रधानत्वादादौ प्रदर्यत इति / उच्यते-कारणायत्तजन्मत्वात् कार्याणां कारणमेवोपाददते प्राक् प्रेक्षापूर्वकारिणः / अथवा सत्यमसौ प्रधानः तथापि तु तत्र प्रायो वादिनां नास्ति विप्रतिपत्तिः / यद्यपि भावाभावादिरूपेणास्ति विगानं, तथाऽप्यस्ति तावन् मोक्ष इत्यनादृत्य भावादिरूपतां तद्धेतुषु प्रायो विसंवाद इति मन्यमानः परपरिकल्पिताथाहेतूनेव मुक्तेः पश्यन् सम्यग्दर्शनादित्रयमेवोपन्यस्तवान् / अत्र चावधारणमवश्यं दृश्यं, सम्यग्दर्शनादीन्येव मोक्षमार्ग इति / अनवधारणे हि सति अन्यस्यापि मुक्तिपथस्य सद्भावादनर्थकमेवोपदेशदानं स्यात्, तेनैव सिद्धत्वादिति / सम्यकशब्दश्च दर्शनशब्दसनिधौ श्रूयते अतस्तेनैव सहास्यामिसम्बन्धो न ज्ञानचारित्राभ्यामिति कश्चिदाशङ्केत,अतस्तन्निवारणायाह भाष्यकारः भाष्यम्-सम्यग्दर्शनं सम्यग्ज्ञानं सम्यक्चारित्रमित्येष त्रिविधो मोक्षमार्गः / तं पुरस्तालक्षणतो विधानतश्च विस्तरेणोपदेक्ष्यामः / शास्त्रानुपूर्वीविन्यासार्थं तूद्देशमात्रमिदमुच्यते / एतानि च समस्तानि मोक्षसाधनानि / एकतराभावेऽप्यसाधनानीत्यतस्त्रयाणां ग्रहणम् / एषां च पूर्वस्य लाभे भजनीयमुत्तरम् / उत्तरलाभे तु नियतः पूर्वलाभः / तत्र