________________ तवार्थाधिगमसूत्रम् [ अध्यायः 1 सम्यगिति प्रशंसाओं निपातः, समश्चतेर्वा भावः / दर्शनमिति दृशेरव्यभिचारिणी सर्वेन्द्रियानिन्द्रियार्थप्राप्तिः, एतत् सम्यग्दर्शनम् / प्रशस्तं दर्शनं सम्यग्दर्शनम् / सङ्गतं वा दर्शनं सम्यग्दर्शनम् / एवं ज्ञानचारित्रयोरपि // 1 // ___टी-अर्हदभिहिताशेषद्रव्यपर्यायप्रपञ्चविषया तदुपघातिमिथ्यादर्शनाद्यनन्तानुबन्धिकषायक्षयादिप्रादुर्भूता रुचिर्जीवस्यैव सम्यग्दर्शनमुच्यते, सम्यग्ज्ञानं तु लक्ष्यलक्षणव्यवहाराव्यभिचारात्मकं ज्ञानावरणकर्मक्षयक्षयोपशमसमुत्थं मत्यादिभेदं, सम्यक्चारित्रं तु ज्ञानपूर्वकं चारित्रावृतिकर्मक्षयक्षयोपशमोपशमसमुत्थं. सामायिकादिभेदं __सदसत्क्रियाप्रवृत्तिनिवृत्तिलक्षणं मूलोत्तरगुणशाखाप्रशाखम् // अत्र सम्यकशब्द भाष्ये चोदयति-अथ किमर्थ प्रत्येकं सम्यक्शब्दः प्रयुज्यते ? फलम् यावता सम्यग्दर्शने सति यज् ज्ञानं चरणं वा तत्सम्यगेव भवतीत्यतो न सम्यकशब्दोऽनयोविशेषणतयोपादेयः / उच्यते-सत्यमेतत्, किन्तु न ज्ञानमात्रमत्र विवक्षितं, चारित्रमानं वा, किन्तु विशेषरूपे उभे अपि, इतरथा हि सम्यग्दर्शनसम्पन्ने विद्यते सम्यग्ज्ञानसम्यकचारित्रे न तु ते. साक्षान्मोक्षमार्गतां विभृत इति एतद्, नैव तत्र सम्यरुचारित्रसम्भव इति / तच्च न, यतो देशरूपेऽपि चारित्रे चारित्रशब्दो वर्तत एव-तच्चाज्ञाभिमतचारित्रात् सम्यंक्शब्दविशेषणेन व्यावयंत इति / स्यादेवं तत्राशङ्का-किं ते भवतो मोक्षकारणे उत मा भूतां ? तदाशङ्कानिरासार्थ सम्यगिति ज्ञानचरणयोरुपाधित्वेनोपादायि सूरिणा / अथवा. दर्शनज्ञानचारित्राणां त्रयाणामपि व्यभिचार उपलभ्यते, यतो मिथ्यादर्शनपुद्गलोदये जीवस्य मिथ्यादर्शनं मिथ्याज्ञानं मिथ्याचारित्रमिति मुक्तेरसाधकत्वान् मिथ्याशब्देन विशेष्यन्ते, तान्येव सम्यग्दृष्टेमुक्तिसाधनत्वाद् यथार्थग्राहित्वाच सम्यक्शब्देन विशेष्यन्ते, दर्शनं च ज्ञानं च चारित्रं च दर्शनज्ञानचारित्राणि सम्यक् च तानि दर्शनादीनि चेति सम्यग्दर्शनज्ञानचारित्राणीति, अतो व्यभिचाराद् युक्तं यत् सम्यकशब्देन सर्वाणि दर्शनादीनि विशेषयति / चारित्रमिति, योऽयमितिशब्दः स इयत्तां दर्शयति, एतावन्त्येव मुक्तेर्मार्गो नातोऽन्योऽस्ति / एष इत्यनेन तु इतिना इयत्ताऽवधृतस्वभावमन्तर्विपरिवर्तमानं स्वप्रत्यक्षं परस्मै वा सामान्येन प्रतिपादित परप्रत्यक्षं निर्दिशति / तिस्रो विधाः-प्रकारा अनन्तरप्रदर्शिता यस्य स त्रिविधः, कोऽसौ ?, उच्यते-सूत्रोपन्यस्तो मोक्षमार्ग इति / मोक्ष इति च ज्ञानावरणाद्यष्टविधकर्मक्षयलक्षणः केवलात्मस्वभावः कथ्यते स्वात्मावस्थानरूपो, न स्थानम्, यतो मोक्षस्य मार्गः, शुद्धिरुच्यते, न पुनर्धाम्नः शुद्धिर्विवक्षिता, या त्वसौ कर्मणां मुच्यमानावस्था तच्छोधनायैतानि प्रवर्तन्ते, १ज्ञानचारित्रयोरपि सम्यक्कयोपादानमित्यर्थः /