________________ 158 तत्त्वार्थादिगमसूत्रम् [ अध्यायः 1 यदितः प्रभृति वक्ष्यते आ चतुर्थाध्यायपरिसमाप्तेस्तत् सर्व संसारिणामित्यधिक्रियते / तेच संसारिणो जीवा द्विविधा भवन्ति, तद्यथा-प्रसाः स्थावराश्चति / परिस्पष्टसुखदुःखे. च्छाद्वेषादिलिङ्गास्त्रसनामकर्मोदयात् त्रसाः, अपरिस्फुटसुखादिलिङ्गाः स्थावरनामकर्मोदयात् स्थावराः, आदौ च त्रसाभिधानं सुखग्रहणार्थम् , स्पष्टलिङ्गत्वात, समास उभयेषां परस्परसङ्कमार्थम् , त्रसाः स्थावरेषु स्थावराः त्रसेषु मृत्वोपजायन्त इति / एवं तावत् संसारिणो द्वैविध्येन विकल्पिताः-त्रसाः स्थावराश्चेति // 12 // सूत्रम्-पृथिव्यम्बुवनस्पतयः स्थावराः॥२-१३ // भा०-पृथ्वीकायिकाः, अप्कायिकाः, वनस्पतिकायिकाः इत्येते त्रिविधाः स्थावरा जीवा भवन्ति / तत्र पृथिवीकायोऽनेकविधः शुद्धस्थापणा पृथिवीशर्करावालुकादिः / अप्कायोऽनेकविधः हिमादिः / वन स्पतिकायोऽनेकविधः शैवलादिः / / 13 // टी०-तत्र स्थावरानेव तावद वच्मः-पृथिव्यम्वुवनस्पतयः स्थावराः // ननु च यथोद्देशं निर्देशः कर्तव्यः, प्रथमं वसा वक्तव्याः ततः स्थावराः / उच्यते-प्रेक्षापूर्वकारितयाऽऽचार्येण स्वरचितव्यवस्थां भित्वा स्थावरास्तावदभिहिताः। का पुनरसौ प्रेक्षापूर्वकारिता ? भण्यते-वक्ष्यत्युत्तरसूत्रं(१४) 'तेजोवायू द्वीन्द्रियादयश्च त्रसाः, तत्र इन्द्रियप्रकरणमधीत्य वक्ष्यति 'वाय्वन्तानामेकम् ' (अ० 2, मू० 23 ) तत्रायमर्थः पृथिव्यादीनां वाय्वन्तानामेकेन्द्रियं स्पर्शनं भवति, यदि पुनः पूर्व प्रसाभिधानं कुर्यात् पश्चात् स्थावरानभिदध्यात् तथा( दा) गौरवं जायेत, अर्थलाघवैषिणा सता क्रमो भिन्नः। तत्रेत्यनेन सूत्रं सम्बन्धयति, तत्र द्वितये प्रस्तुते स्थावरास्तावदुच्यन्ते प्रयोजनार्थम्-पृथिवीकायिका इत्यादि भाष्यम् // ननु च मूत्रे कायग्रहणं नास्ति, भाष्ये कथमकस्माद् विहायसोऽपतदिति ? / उच्यते लाघवार्थिना सूत्रे नोपात्तम्, विनापि तेन सिद्धेः, भाष्ये तु यथेष्टमधिकमप्युच्चार्यते सूत्रार्थममुञ्चतेति / तत्र पृथिव्येव कायः पृथिवीकायः, स येषां विद्यते ते पृथिवीकायिकाः // ननु च लघुत्वात् प्रक्रमस्य बहुव्रीहौ सति तदभिहितत्वान्मत्वर्थी येन न भाव्यम्, ततश्च पृथिवी कायो येषां ते पृथिवीकायाः, सत्यमेवमेतत् , तथाप्यनरवन्ति चक्राणीत्येवमाद्यनेकप्रयोगदर्शनात् साधुत्वमत्रापि प्रतिपत्तव्यम् / अथवा पृथिवीकायादयो जातिशब्दास्ततश्च मत्वर्थीयः सिद्धः कृष्णसर्पवद्वल्मीकन्यायेनेति, एवमितरयोरपि योज्यमेतत् / इतिशब्दोऽर्थपदार्थकः / त्रिविधा एव स्थानशीला भवन्ति जीवाः पृथिव्यादयः, न पुनः स्थावरनामकर्मोदयनिवृत्तानां त्रैविध्यं निर्धारयति, तेजोवाग्योरपि तनिवृत्तेरिति / स्थूलोत्तरद्वयाधारत्वादादौ न्यस्ता पृथिवी, तदन्यापस्तदाधेयत्वाल्लेश्याप्र १'मृत्वोपयात ' इति क-ख पाठः। २'पृथ्व्यब्व.' इति घ-पाठः / 3 'लाघवार्थ' इति ख-पाठः ४'इतरेतरयोरपि' इति क-ख-पाठः।