________________ सूत्र 12 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् 157 कमनाचार्यत्वात् / अधुना सूत्रार्थः-समासत एवेत्यादि भाष्यम् / पुनरपि सङ्क्षपादेव दैविध्यमभिधीयते, जीवा इति प्रेक्षापूर्वकारितयोदचीचरद् इदं कपति चेतसि सूरीतानामप्यभिसम्बन्धप्रसङ्गः समनस्कामनस्कत्वेनेत्यतो जीवाः प्रतिविशिष्टायुर्द्रव्यसहिताः परिगृह्यन्त इति सिद्धव्युदासः / समनस्काश्चेति सह मनसा समनस्काः, तद्विरहितास्त्वितरे / किं पुनस्तन्मनो येन सम्बन्धात् समनस्का इति व्यपदिश्यन्ते ? / उच्यते-द्विविधं तद् द्रव्यभावभेदात् , तत्र मनोऽभिनिवृत्यै यद् दलिकद्रव्यमुपात्तमात्मना सा मनःपर्याप्तिर्नाम करणविशेषः, तेन करणविशेषेण सर्वात्मप्रदेशवर्तिना मनसो वैवि- - व. याननन्तप्रदेशान् मनोवर्गणायोग्यान् स्कन्धान चित्तार्थमादत्ते ते करणध्यम् विशेषपरिगृहीताः स्कन्धाः द्रव्यमनोऽभिधीयते(न्ते ) / भावमनस्तु जीवस्योपयोगः चित्तचेतनायोगाध्यवसानावधानस्वान्तमनस्काररूपः परिणामः / श्रुतज्ञानावरणक्षयोपशमजतया चैतन्मनोरूपं करणमिष्यतेऽर्हद्भिः, धारणा च मनोयुक्तस्यैव च जन्तोर्भवति, नेतरस्येति / अत्र ये द्रव्यभावमनोभ्यामुभाभ्यामपि युक्तास्ते समनस्काः, ये पुनर्भावमनसैवोपयोगमात्रेण मनःपर्याप्तिकरणविशेषनिरपेक्षेण युक्तास्ते अमनस्काः, एषां मनःपयोप्तिकरणनिवृत्त्यभावात् , चेतना तु तया पटीयसी भवति यथेतरेषां द्रव्यमनोऽवष्टम्भाद्, वृद्धयष्टिस्थानीयद्रव्यमनोऽवष्टम्भेन संज्ञिनः स्पष्टमनुचिन्तयन्ति / तत्प्रविभागवायम्-नारकदेवगर्भव्युत्क्रान्तिकमनुष्यतिर्यश्चः समनस्काः, शेपास्त्वमनस्काः, तान् पुरस्ताद् वक्ष्याम इति 'संज्ञिनः समनस्काः ', पुरो-भविष्यति सूत्रे (अ० 2, सू० 25 ) व्याख्यास्यामः समनस्कामनस्कविशेषमिह पुनर्भेदमात्राख्यानमित्यावेदयति भाष्यकार इति // 11 // ... अथ जीवप्रकारान्तरसङ्ग्रहप्रस्तावमेवोपजीवयन्नाहाचार्यः सूत्रम्-संसारिणस्त्रसस्थावराः // 2-12 // संसारिजीवभेद- भा०-संसारिणो जीवा द्विविधा भवन्ति-त्रसाः स्थाव प्रदर्शनम् राश्च // 12 // तत्र / - टी.-संसारिणस्त्रसाः स्थावराः / इतः प्रभृति संसार्यधिकार एव आ अजीवकायाध्यायाद् वेदितव्यः / मुक्ताः पुनर्दशमेऽध्याये वक्ष्यन्ते / उक्तलक्षणः संसारः, स येपामस्ति ते तथोच्यन्ते // ननु च संसारिणो मुक्ताश्चेति इह सूत्रे यत् संसारिग्रहणं तदेवानन्तरसूत्रसम्बन्धितमधिकरिष्यते नार्थः पुनः संसारिग्रहणेन / उच्यतेपूर्वक संसारिग्रहणं भेदकथनाभिप्रायेण जीवानामवाचि, तच्च समनस्कामनस्कसूत्रे प्रयत्नतः सम्बन्धमुपनीतं नोत्तरत्र प्रवर्तितुमुत्सहते, इदं पुनर्ने भेदप्रतिपत्तये, किन्तु 1 'स्त्रसाः स्थावराः' इति ग- पाठः। 2 "पुनर्भेद ' इति क-ख-पाठः /