________________ 58 सम्यक्रवत्तिः तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 1 ज्ञानम्, तदन्यत्र हि ज्ञानदर्शनावरणीयवर्जिते कर्मणि नावरणीयव्यवहारः प्राय इति / कि पुनस्तदावरणीयम् ? मतिज्ञानाद्यावरणीयम्, अनन्तानुबन्ध्यादि च निमित्ततया आवरणीयम्, यतस्तस्मिन्नुपशान्तेऽनन्तानुबन्ध्यादिकर्मणि तत् मतिज्ञानावरणीयं क्षयोपशमावस्थां भजते एतावता तदावरणीयं भण्यते / एतच्च पुरस्ताद भावितमेव, अतः तदावरणीयस्य कर्मणः क्षयण-उक्तलक्षणेन उपशमेन च क्षयोपशमाभ्यामिति च प्राप्यत इति // ननु च ज्ञानावरणीयस्योपशमो नास्ति, त्वया चैतनिरूपितं ज्ञानावरणमस्यांवरणमिति, तत् कथमेतत् / / उच्यते-सत्यमेतदेवं, किन्तु मोहनीयोपशमादस्य ज्ञानावरणस्य क्षयः क्षयोपशमो वा भवति, ततः क्षयात् क्षयोपशमाञ्च सम्यग्दर्शनमिति भावितमेव किं भवता विस्मार्यते 1 // सम्प्रत्यधिकरणद्वारं स्पृशति भा०-अधिकरणं त्रिविधमात्मसन्निधानेन परसन्निधानेनोभयसन्निधानेनेति वाच्यम् / आत्मसन्निधानमभ्यन्तरसन्निधानमित्यर्थः / परसन्निधानं बाह्यसन्निधानमित्यर्थः / उभयसन्निधानं अभ्यन्तरबाह्ययोः आत्मपरोभयेषु / यषु सन्निधानमित्यर्थः / कस्मिन् सम्यग्दर्शनम् ? / आत्मसन्नि धाने परसन्निधाने उभयसन्निधाने इति / आत्मसन्निधाने तावतू जीवे सम्यग्दर्शनं जीवे ज्ञानं जीवे चारित्रमित्येतदादि / बायसन्निधाने जीवे सम्यग्दर्शनं नीजीवे सम्यग्दर्शन मिति यथोक्ता विकल्पाः। उभयसन्निधाने चाप्यभूताः सद्भूताश्च यथोक्ता भङ्गविकल्पा इति // , टी-अधिकरणमिति / अधिक्रियते यत्र तदधिकरणम्-आधार आश्रय इति / स चाधारस्त्रिविधः-आत्मा वा यत्समवेतं दर्शनं मुख्यतः, उपचारात् परत्रापि भवति, यद् वस्तु समालम्ब्य तदुपजातं तस्मिन्नपि, तदुभयविवक्षायां चोभयत्र तद् आत्मनि परत्र च / एतदेव त्रैविध्यं दर्शयन्नाह-आत्मसन्निधानेनात्मन्येव स्थितमित्यर्थः, परसन्निधानेन परत्र स्थितमिति, आत्मस्थमपि सदस्मिन् पक्षे न विवक्ष्यते, उभयसन्निधानेनात्मनि परत्र चेति वाच्यम्-व्याख्येयमिति / आत्मसभिधानमिति चास्याथै सुहृद् भूत्वा कथयतिआत्मसन्निधानमभ्यन्तरसन्निधानमित्यर्थः / आत्मैवाधार आत्मसभिधानम्, प्रसिद्धतरेण शब्देनाभ्यन्तरसविधानमिति व्यपदिष्टः, आन्तर आसन्नस्तस्य सम्यग्दर्शनस्येति / परसन्निधानमिति चास्यार्थ विवृणोति-बाह्यसन्निधानं, बाह्य-प्रतिमादि कल्पितरूपम् इति / एवमुभयभावना कार्या / अधुनाऽऽधारे त्रिविधे कथिते परस्यैतदेव सन्देहकारणं जातम् / क तर्हि सम्यग्दर्शन मिति पृच्छति-कस्मिन् सम्यग्दर्शनम् ? अथवा अन्यथा प्रश्नः-सम्यग्दर्शनमित्येष गुणः, गुणस्य चावश्यमाश्रयेण भवितव्यम्, स पुनराश्रयः १.अस्य सम्यग्दर्शनस्य' इति क-टी-पाठः / 2 'बाह्याभ्यन्तरसंनिधानं' इति ग-घ-पाठः / 3 'बाहप्रतिमादिः कल्पितरूप'इतिक-न-पाठः /