________________ सूत्र 7 ]. स्वोपक्षमाष्य-टीकालङ्कृतम् 'किमभ्यन्तरमात्मा उत बाह्य प्रतिमादिवस्तु यदुपष्टम्भेनोपजातमुतोभयमिति प्रनित आहमात्मसग्निधाने तावदित्यादि / आत्माधारविवक्षायां जीवे सम्यग्दर्शनं, तस्यान्यप्रादर्शनात, यथा रुचिः, एवं ज्ञानचारित्रे अपीति, एतदाह-जीवे ज्ञानं जीवे चारित्रमिति / न च ज्ञानदर्शनचारित्राणि विरहय्यान्यो जीवोऽस्तीति काल्पनिकमपदिशति / कथम् ? बदा. तावज्जीवे सम्यग्दर्शनं तदा ज्ञानचारित्रे आधारभावं प्रतिपद्येते, ज्ञानचारित्रात्मनि जीवे सम्यग्दर्शनम् / यदा जीवे ज्ञानं तदा दर्शनचरणयोराधारता, यदा जीवे चारित्रं तदा ज्ञानदर्शनयोराधारता, चारित्रमाधेयमिति / एतदादि इति / एतानि ज्ञानादीनि आदियस्य गुणान्तरस्य तदेतदादि, तदपि जीवे आधारे दृश्यम्, भव्याभव्यत्वादि / पालसन्निधाने जीवे सम्यग्दर्शनमित्यादि // ननु चात्मन्येवोपलभ्यत इत्युक्तं कथमिदानी परस्मिन्नपि व्यपदिशति / उच्यते-न यदेव यत्राविभागेनावस्थितं तदेव तत्रेत्युच्यते, किन्तु अन्यत्राप्यवस्थितमन्यत्र अपदिश्यते, देवदत्ते धनमिति गेहस्थमेव तत्रेत्युच्यते / जीवे सम्यग्दर्शनमित्यादयो विकल्पाः पूर्व भाविता एव, इहाप्याधारभेदं केवलमुच्चारयता सर्व तथैव भावनीयम् / उभयसन्निधाने चाभूताः सद्भूताश्च षडेव यथोक्ता भङ्गा एव विकल्पाः भङ्गेषु वा विकल्पा इति // स्थितिद्वारम्, स्थितिरित्येतद् विवृणोति- भा०—स्थितिः। सम्यग्दर्शनं कियन्तं कालम् ? / सम्यग्दृष्टिर्द्विधा / समयदर्शनस्य सादिः सपर्यवसाना सादिरपर्यवसाना च / सादिसपर्यसम्यग्दृष्टेश्च विधा वसानमेव सम्यग्दर्शनम् / तजघन्येनान्तर्मुहूर्तम, उत्कृष्टेन - स्थितिः षट्षष्टिः सागरोपमानि(णि) माधिकानि / सम्यग्दृष्टिः सादिरपर्यवसाना / सयोगः शैलेशीप्राप्तश्च केवली सिद्धश्चति // : टी०-सम्यग्दर्शनं कियन्तं कालं सम्पन्नं सदवतिष्ठते ? "कालाध्वनोः" (पाणिनिः ब. 2, पा० 3, सू० 5) इति द्वितीया / प्रश्नयितुरयमभिप्रायः प्रागभूत्वा थ्यादृष्टेदेर्शनमाविश्वकास्ति, यच्चोत्सत्तिमत् त(त्किञ्चित् सादि सपर्यवसानं दृष्टं मनुष्यत्वादिवत, किश्चित् सादि अपर्यवसानं सिद्धत्वादिवत्, आचार्योऽपि प्रश्नाभिप्रायानुरूपमेवोत्तरमाहसम्यग्दृष्टिईिविधेत्यादि / द्विविधेति सादिः सपर्यवसाना सादिरपर्यवसाना चेत्येवं विविधा शोभना दृष्टिः / का च शोभना ? या शुद्धदलिककृता, या च दर्शनमोहनीरक्षयात् त्रयाणां भवति छमस्थस्य श्रेणिकादेरिव, अपरा भवस्थस्यापायसद्व्यपरिक्षये देवलिनः, अपरा सिद्धस्येति / तत्र याऽपायसद्व्यवर्तिनी श्रेणिकादीनां सदद्रव्यापगमे . भवति अपायसहचारिणी सा सादिसपर्यवसाना, यस्मिन् काले श्रेणिकादिमि नमोहसप्तकं क्षपयित्वा रुचिराप्ता स आदिस्तस्याः, यदा त्वपायः-आमिनिवोधिकअपगतं भविष्यति केवलज्ञाने उत्पने सोऽन्तोऽस्याः सम्यग्दृष्टेः, एतदाह-सादिः सपर्यव 'अन्यथा' इति पाठान्तरम् / 2 'मन्यत्वं' इति क-ख-पाठः /