________________ 426 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 5 स्थिताः परमाणुस्कन्धेषु स्पादयः, स्पर्शादिशब्दादयश्चेति, अनवस्थितत्वे प्रतिज्ञाते पुनः प्रश्नयति-कुतः पुनरनवास्थितत्वम् 1 एवं मन्यते-किं प्रतिज्ञामात्रेणानवस्थितत्वमुत काचिद् युक्तिरप्यस्तीति ? एवमाशङ्किते युक्तिमाह-परिणामादिति / "तद्भावलक्षणः परिणामो" वक्ष्यते (सू० 41), स एव हि परमाणुः स्कन्धो वा द्रव्यत्वादिजातिस्वभावमजहत् स्पर्शान्तरादिगुणं शब्दान्तरादिगुणं प्रतिपद्यते, स्पर्शादिसामान्यमजेहतः परमाण्वादयः स्पर्शादिविशेपानासादयन्ति, अतोऽवस्थितानवस्थितत्वमेषां स्पर्शादीनाम्, परिणन्तारो हि स्वशक्तिणटवभाजो मरिचलवणहिङ्ग्यादयः परिणम्यं वस्तु कथिततक्रादिस्वाद्वाद्याकारेणात्मसात्कुर्वन्तो दृष्टाः, केचित् तु दधिगुडादयः परिणमनशक्तिखाभाव्यात् परस्परपरिणतिहेतवः, पूर्वेषामेकतः परिणतिशक्तिः पाटवातिशयात्, एवं परिणामादनवस्थिताः स्पादिशब्दादयः, परिणामानवस्थितत्वे प्रतिपादिते लब्धावकाशः पुनः अत्राह-द्वयोरपि बध्यमानयोगुणवत्त्वे सति कथं परिणामो भवतीति ? / एवं मन्यते-भवतु परिणतिविशेपादनवस्थितं गुणवत्त्वम्, अण्वोस्तु बध्यमानयोगुणवत्वे सति तुल्यगुणयोर्विषमगुणयोर्वा सङ्ख्यया द्विगुणस्निग्धस्य द्विगुणरूक्षस्य वेत्यादेस्तथैकगुणस्निग्धस्य त्रिगुणस्निग्धस्य चेत्यादेरेकगुणरूक्षस्य त्रिगुणरूक्षादेः कथं-केन प्रकारेण परिणामो भवति / अयमभिप्राय:-किं द्विगुणस्निग्धो द्विगुणरूक्षं स्नेहात्मतया परिणमयत्युत द्विगुणरूक्षो द्विगुणस्निग्धं रूक्षात्मतया परिणमयतीति ? एवं शेषविकल्पा द्रष्टव्याः / तथा किमेकगुणस्निग्धस्त्रिगुणस्निग्धमात्मसात्करोतीत्येवं त्रिगुणस्निग्धः एकगुणस्निग्धमित्यादिसन्देहविच्छेदायात्रोच्यते सूत्रम-बन्धे समाधिको पारिणामिकौ // 5-36 // टी-बन्धनं बन्धः-संयोगः, समः-तुल्यः, स च गुणतः परिगृह्यते, एवं च यस्यासौ समस्तस्येतरोऽपि सभो भवति, अधिकगुणोऽपि यदपेक्षयाऽऽधिक्यं लभते स हीनः, सूत्रे च साक्षात् समाधिको पारिणामिकावेव गृहीतौ, न तु परिणाम्यः समो हीनगुणो वेत्यतो बन्धशब्दोपादानादिष्टलाभः, सम्बन्धो हि यादिवृत्तिरित्युक्तम्, एवं च द्वितीयः समो हीनध सामर्थ्याद् बन्धपरिप्रापित इति, एतदेव भाष्येण दर्शयति भा०-धन्धे सति समगुणस्य संमगुणपरिणामको भवति / अधिकगुणो हीनस्येति // 36 // टी-सति धन्धे-सट्टलक्षणे विस्रसाद्वारेण तुल्यगुणो द्विगुणस्निग्धस्तुल्यगुणस्तविगुणरूक्षस्य परिणामकः-स्वमतेन स्नेहगुणेन रूक्षगुणमात्मसात्करोति, एवं रूक्षगुणः 1. जहन्तः' इति ग-पाठः। २'शक्तिपाटवा' इति क-पाठः। ३'णामको' इति क-ख-पाठः। 4 'समगुणः परि०' इति प्रतिभाति / '5 'गुणस्य द्विगुणः' इति प्रतिभाति /