SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ सूचीपन पञ्चमोऽध्यायः 5 टी-निर्देशस्वामित्वादिभिरनुयोगद्वारैर्लक्षणविधानभाजो जीवानभिधायोद्देशसूत्रे तत्समनन्तरोपदिष्टानजीवान् विवक्षुः पञ्चमाध्यायसम्बन्धाभिप्रायेणाह भा०–उक्ता जीवाः, अजीवान् वक्ष्यामः // टी.-अभिहिता यथाशक्ति द्रव्यभावप्राणकलापवर्तिनो जन्तवः सुरतियअनुष्यनारक.. विधानतस्तथा साकारानाकारोपयोगद्वयलाञ्छनाविच्छिन्नचैतन्यशक्तितश्च / " अधुना तु लक्षणविधानाभ्यामजीवान् धर्मादींचतुरः सहकालानभिधास्याम इति प्रत्यज्ञायि वाचकमुख्येन, अतः प्रकृतप्रतिज्ञास्वतत्त्वप्रचिकाशयिषयेदमाह-- सूत्रम्-अजीवकाया धर्माधर्माकाशपुद्गलाः॥ 5-1 // टी०-उक्तलक्षणा जीवाः, ' उपयोगो लक्षणम् ' (अ० 2, सू०८) इति. न जीवा अजीवाः द्रव्यभावप्राणानभिसम्बन्धादनात्तचैतन्यशक्तयः, वैशेषिकं जीवलक्षणमनुसन्धाय प्रतिषेधः क्रियते, न सत्त्वज्ञेयत्वप्रमेयत्वादि, 'नयुक्तमिवयुक्त चेत्यादिन्यायात, अन्यया व्योमोत्पलादिकल्पाः स्युरजीवा इत्यतो जीवद्रव्यविपर्यया भवन्त्यजीवाः / न चात्र द्रव्यवस्तुतयोविपर्यास इष्टः, यस्माद् द्रव्यत्वमेवात्रानुशास्ति शास्त्रकारः, तथा वस्तुताविपर्यासे प्रतिषेधस्य गगनेन्दीवरसमानताऽनुषज्येत धर्मादीनाम्, अतः पारिशेष्याचैतन्य वैविध्यम् गुणविपर्ययः, स च विपर्यासरूपः प्रतिषेधो द्विधा-प्रसज्यपर्युदासभेदात्, तयोर्मूलल क्षणमिदम्- "प्रतिषेधोऽर्थनिर्दिष्ट, एकवाक्यं विधेः परः / वद्वानस्वपदोक्तश्च, पर्युदासोऽन्यथेतरः॥" जीवादन्योञ्जीव इति पर्युदासः सत एव वस्तुनोऽभिमतः, विधिप्रधानत्वात्, अतस्तुल्यास्तित्वेषु भावेषु चैतन्यनिषेधद्वारेण धर्मादिष्वजीवा इत्यनुशासनम् // अपरे वर्णयन्ति-जीवनीमकर्मणः प्रतिषेधोत्र विवक्षितः, तच जीवनाम जीवनात् किल भवति, अतोऽचेतनेष्वकर्मसु च वस्तुषु तुल्येऽस्तित्वे धर्मादिष्वजीवत्वमिति / अत्र द्वयं दुष्यति, प्राक् तावद् वाचोयुक्तिरेवानुपपना जीवनामकर्मेति, नहि किश्चिज्जीवनामकर्म प्रसिद्धमागमे, आयुर्हि जीवनमुच्यते, न पुनर्नामेति, तथा यद्यकर्मसु वस्तुष्वजीवत्वविधिः, सिद्धानामप्यजीवत्वप्रसङ्गः, ततश्चाजीव १.तिप्रतिज्ञास्य तत्त्व०' इति ग-पाठः / 2 अजीवन जीवन्ति जीविष्यन्ति चेति जीवा इतिव्युत्पत्तिव्यभावप्राणधारणमाश्रित्य न कर्मणः प्रतिषेधोऽजीवे. यदाच केवलद्रव्यप्राणापेक्षया जीवनं तदा गोशब्दवत् वाच्यनियमनं वाच्यं पारिणामिकं जीवत्वं, तच्च सिदेऽपि, ततो नासावजीवः ऋजुसत्रायपेक्षया तस्याजीवत्वेऽपि नैगमाद्यपेक्षया तथात्वात् नात्र तस्याजीवत्वविवक्षा।
SR No.004407
Book TitleTattvarthadhigam Sutra Part 01
Original Sutra AuthorN/A
AuthorBhavyadarshanvijay
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy