________________ सूत्र 2 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् 235 अतुर्दशसहस्राधिकलक्षायाम्, सप्तम्यास्त्ववगाह्याधः पश्चाशत्सहस्राणि पञ्चविंशतिशताधिकानि अधव-तावन्त्येव विहाय मध्ये त्रिषु सहतेषु नरका भवन्ति, एष च सप्तमपृथिवीगतविशेषो नोपात्तः साक्षाद् भाष्यकारेण, तत्रायमभिप्राय:-यत् किल बाहुल्याद् वर्तते तदुपा. चमितरदेकपृथिवीवर्तियुतकमेवाऽतो नाख्यातमिति // तानिदानी प्रसिद्धैरिहत्यनिदर्शनैर्भयानकसंस्थानैर्नरकान् प्रतिपादयितुमाहभा०-तद्यथा-उष्ट्रिकापिष्टपचनीलोहीकरकेन्द्रजानुकाजन्तोकायस्कुम्भायः कोष्टादिसंस्थाना वज्रतलाः सीमन्तकोपक्रान्ताः, रौरवोऽच्युतो साना रौद्रो हाहोरवो पातनस्तापनः शोचनः क्रन्दनो विलपनश्छेदनो संस्थान नामानि भेदनः खटापटः कलापेञ्जर इत्येवमाद्याः अशुभनामानः, कालमहाकालरौरवमहारौरवाऽप्रतिष्ठानपर्यन्ताः // टी-तद्यथा-उष्ट्रिकेत्यादि / उष्ट्रिकादयो भाण्डकविशेषा लोकप्रसिद्धत्वात् सुज्ञाना एव, एवंविधाकृतयो हि नरका अविद्यमानसुखाः क्षुरप्राकृतिवातलाः प्रबहलध्वान्तपटलपूरिताथसपेमाजोरादिमृतकगन्धयः करपत्र-शक्ति-कुन्त-तोमराग्रसदृशस्पर्शाः आवलिकातो बहिर्वत. माना नानासंस्थाना उष्ट्रिकाद्याकृतयः प्रकीर्णनरका भवन्ति, आवलिकान्तःपातिनस्तु त्रिविधसंस्थाना वृत्तव्यस्र चतुरस्राकृतयः, ते च सीमन्तकोपक्रान्ताः, सर्वेऽपि हि ते रत्नप्रभापृथिवीप्रथमातरमध्यवर्तिसीमन्तकाभिधाननरकेन्द्रकमवधिमवस्थाप्योपक्रम्यन्ते, तत्रावलिकाप्रविष्टा दिक्षु रत्नप्रभायां त्रयोदशसु प्रस्तरेषु विदिक्षु च प्रथमप्रतरदिगावलिका प्रमाणेनैकोनपश्चाशन्नरकाः, अष्टचत्वारिंशच नरका विदिक्ष्वावलिका, इदमावलिकाद्वयमप्येकैकेन नरकावासेन हीयमानं हीयमानमशेषप्रतरवर्ति तावनेतव्यं यावत् सप्तमवसुन्धरायामेकैकः शेषो दिक्षु नरकः सञ्जातो विदिक्षु नास्त्येव मध्ये चैक इन्द्रकः शेष इति / अत्र कांश्चिन्नामग्राहमाख्याति-रौरवोऽच्युत इत्यादिना / एषां मध्ये केचिदिन्द्रकाः केचिदावलिकाप्रविष्टाः केचित प्रकीर्णकाः मूरिणोपात्ताः सत्त्वानां संवेगप्राप्त्यर्थम्, एषां हि नामान्यप्यादधति भयमतुलमाकर्ण्यमानानि, किमुत तत्र जमभोग इति भीताः सन्तो न सहसा पापस्थानेषु वर्तिष्यन्त इत्यभिप्रायः॥ एवमाद्या-एवंप्रकाराः, अशुभनामानो यावन्तः किल लोके व्याधयः शपथाश्थानिष्टनामानि च तन्नामानो नरकाः सर्वे भवन्ति // अधुना सप्तमपृथिवीवर्तिनः पञ्च नरकान्नामादेशं कथयतिकालेत्यादि / अप्रतिष्ठाननरकेन्द्रकात् पूर्वतः कालः, अपरतो महाकालः, रौरवो 'तदुपपातं' इति क-पाठः। 2 'पृथिवीवर्तियुतकमेवावर्तियुतकमेव' इति ग-पाठः। 3 'जानुकजन्त्राकाय इति घ-पाठः। 4 'हारवः' इति ग-टी-पाठः। 5 'शोचनस्तापनः क्रन्दनो' इति घ-पाठः / 6 'संवेगमाप्त्यर्थ इति, संवेगसमाप्त्यर्थं' इति च ग-टी-पाठः।