________________ वस्वार्थाधिगमसूत्रम् [ अध्यायः 5 बते, तस्मादस्ति द्रव्यं तद्भावाव्ययलक्षणं स्थित्यात्मकमन्वयिरूपत्वात् स्वभेदानां प्राक सदान्वयिन्योश्च(१) मृदन्वयाविच्छेदादेकम्, न पुना रूपादि पमुदायमात्रम्, अतः सर्वैकान्तध्वंसविधायिनि स्याद्वादे दूग्मपास्तमसद्विकल्पचतुष्टयम् , किं तत् , एवं समूहिनः परिणामिनो वा तत्कार्यमुत नैव तत्कार्यमथ कार्यमेवास्ति न कारणं कारणमेव वा विद्यते न कार्यमिति, एष च सामूहिकः समस्तोऽपि रत्नावलीपटस्तम्भकुम्भसेनावनयूथादिरर्थः स्वसकार्यकारणा कारण मये पारिणामिक एव, भिन्नाभिन्नदेशानां परिणामिना परिणामाभ्युनेकान्तत्वम् - पगमात् , तथापि भेदेनोपन्यासो लोकव्यवहारानुवृत्त्या, पूर्वधर्मोपमनोसरधर्मोत्पादः परिणामो लोके क्षीरदध्यादिवत् समूहिषु पारिणामिषु चानकान्तव्या. सिप्रपञ्चप्रदर्शनार्थः / तथाहि-आलोकविशिष्टरूपग्रहणमपि नात्यन्तभेदप्रतिपत्तये, विशेषणविशेष्यभावश्चैकान्तभेदविषयो न कश्चित् प्रसिद्धः, दण्डयादावपि सामान्य विशेषभावे सति विशेषणविशेष्यभावात् / यच्चोतमवधारणं रूपादिग्रहे सत्येव भावात्, तदप्युभयस्वभाववस्त्वभ्युपगमे न कञ्चनापक्षा( 1 )लमावहति / यदप्यारेको प्रमाणानुभवमन्तरेण स्मृतिरनुपपन्नेति पश्चात् परिजिहीर्वताऽभ्यधायि विकल्पितेऽपि ह्यर्थे स्मृतिदृष्टेति, तदप्यसत, अर्थाभिधानप्रत्ययानां वस्तुत्वाभ्युपगमादत्यन्ताभावस्य च निरुपाख्यस्य प्रतिषिद्धत्वाद, सर्वप्रकारमसतः संन्यवहारायोग्यत्वात्, बभूवुरनादौ संसारे बन्धुमत्यादयः प्राणिविशेषा स्तदभिधानानि तदालम्बनाच प्रत्ययाः, ततश्च प्रमाणानुभवपूर्विकैव स्मृतिः सर्वत्र नान्यथा, समुदायस्य च प्रतिपादितवग्तुत्वान्न निर्मूल विकल्पत्वम्, बुद्धिभेदाच्चान्यत्वमेकान्तत एवेति पूर्वमेव प्रत्यस्तम् / नहि बुद्धिभिदा सर्वप्रकाराऽस्ति जनेन्द्राणां द्रव्यास्तिकनयाभिप्रायेग ग्रहणात्, सदद्रव्यतया भेदाभावात्. पर्यायतः सङ्गव्यापरिमाणाकारभेदसद्भावात् भिन्नाभिन्नस्वभावेव शेमुषी. सा च भेदाभेदखभाव एव वस्तुनि व्यापारमासादयन्ती स्वात्मप्रतिष्ठा प्रतिलभत इति न किश्चिदनिष्टम् / यच्चोक्तम-"तुलानतिविशेषाग्रहणादनन्योऽवयव्यवयवेभ्य" इति, तदिष्टमेव, अन्यत्वस्य सर्वथा निषिध्यमानत्वात्, यतो विनाऽप्यवयविना संयोगमात्र तदर्थान्तरभूतमवातपरिणामाद् दशपलपरिमाणत्वमस्त्येवेति अतो नावयविकृतं पलदशकस्य दशपलपरिमाणत्वं, विनाऽपि तेनोपलभ्यमानत्वादेकादशपलेनेव, इतवावयवव्यतिरेकेणा पन्नवयवी, अनभिभूतगु णत्वे सत्यायवरूपादिव्यतिरेकेणानुपलभ्यमानरूपादिगुगत्यात्, तुरगभवयाचना वारणाद्यवयवव्यतिरेकेण सेनावत् / यदि च स्याद् रूपादयो पि च गुणा ऽनन्यत्वम् प गृह्यरनवयविनः पृथक्वेन, घटबदरादिवदिति व्यतिरेकः, विशेषणोपादानाद् विद्यमानेवभिभवादनुपलभ्यमानगुणत्वं तारकादिषु दृष्टमित्यनै कान्ति रुत्वव्यावृत्तिः, द्रव्यात्मना च तन्तुपरिणतौ पटपरिणामोऽस्त्येव, सुचिरादपि तत्र भावात्, पर्यायात्मना चाभावाद्, अतीतानागतपरिणामानामसत्त्वायव्यवहार्यत्वाद् वर्तमानपर्याय एव परमार्थतोऽस्त्युपयु 1. निरूपाख्य' इति क-पाठः / 2 'ग्रहणानान्या' इति क-ख-पाठः /