________________ तत्वार्थाधिगमसूत्रम् [अध्यायः 5 एवोत्थितासीनोत्कुटकशयितपुरुषवत्, तदेव च वृत्त्यन्तरव्यक्तिरूपेणापदिश्यते जायतेऽस्ति विपरिणमते वर्धतेऽपक्षीयते विनश्यतीति, पिण्डातिरिक्तवृत्त्यन्तरावस्थाप्रकाशतायां तु जायत इत्युच्यते, सव्यापारे च भवनवृत्तिः, अस्तीत्यनेन निर्व्यापारात्मसत्ताख्यायते भवनत्तिरुदासीना, अस्तिशब्दस्य निपातत्वात् , विपरिणमत इत्यनेनापि तिरोभूतात्प्ररूपस्यानुच्छिन्नतयाऽनुवृत्तिकस्य रूपान्तरेण भवनम्, यथा क्षीरं दधिभावेन परिणमते विकारान्तरवृत्त्या भवनमवतिष्ठते, वृत्त्यन्तरव्यक्तिवृत्तिर्हेतुभाववृत्तिा विपरिणामः / वर्धत इत्यनेन तु स एव परिणामः उपचयरूपः प्रवर्तते, यथाऽङ्करो वर्धते, उपचयवत्परिणामरूपेण भवन त्तिय॑ज्यते, अपक्षीयत इत्यनेन तु तस्यैव परिणामस्यापचयवृत्तिराख्यायते दुर्बलीभवत्पुरुषवदपचयरूपभवनवृत्त्यन्तरव्यक्तिरुच्यते, विनश्यतीत्यनेनाविभूतभवनवृत्तितिरोभवनमुच्यते, यथा विनष्टो घटः प्रतिविशिष्टसमवस्थानात्मिका भवनवृत्तिस्तिरोभूता, न त्वस्वभावतैव जा. ता, कपालाद्युत्तरभवनवृत्त्यन्तरक्रमावच्छिन्नरूपत्वादित्येवमादिभिराकारेद्रव्याण्येव भवनलक्षणान्यपदिश्यन्ते / अपरे सूत्रद्वयमेतदधीयते-“द्रव्याणि, जीवाश्च", तदयुक्तम्, अस्तिकायता द्रव्यता च प्रतिपिपादयिपिता जीवानाम्, सा चैकयोगेऽपि सति प्राणिनामव्याहतैव चशब्दोपादानसामर्थ्यादतः क एष निर्विशेषो योगद्वयादरः? / सम्प्रति भाष्यमनुस्रियते भा०-एते धर्मादयश्चत्वारो जीवाश्च पञ्च द्रव्याणि च भवन्तीति / उक्त हि-'मतिश्रुतयोनिबन्धा द्रव्येष्वसर्वपायेषु, सर्वद्रव्यपर्यायेषु केवलस्य' (अ० 1, सू० 27, 30) इति // 2 // टी-एते धर्मादय इत्यादि / एत इति प्रथमसूत्रोपदिष्टाः धर्मादयश्चतुःसङ्ख्यावच्छिन्नाः प्राणिनश्वास्तिकायाः द्रव्याणि, चशब्दादुभयमभिसम्बध्यते प्राणिषु, द्रव्यता चैषां स्वपरनिमित्तद्वयोपलक्षिता, तत्र स्वनिमित्तं स्वधर्मव्याप्तिर्ययाऽसाववष्टब्धस्तथा गृह्यते स्वधर्मव्याप्त्यैव द्रव्यं, प्रतिषिध्यते प्रत्याय्यते च यथाभूतं वा ज्ञायते / स्वधर्मप्राप्तिश्च व्याप्तिलक्षणा तादात्म्येन व्यवस्थानम्, ततश्च स्वभावावस्थानमेव द्रव्यलक्षणम् / परनिमित्तं चक्षुाह्य रूपमित्यादि योज्यम् / द्रव्यमेव हि तत् तथा व्यपदिश्यते रूपादितया गत्याद्युपग्रहकृत्तया च विशेषणापेक्षम्, पितापुत्रभ्रातृभागिनेयमातुलादिसम्बन्धिदेवदत्तवत् परनिजनिमित्तोपलक्षणदर्शनाभिप्रायेण चाह-उक्तं हीत्यादि / प्रथममभिहितं मतिज्ञानश्रुतज्ञानयोहणता द्रव्येषु धर्मादिष्वसकलपर्यायेषु, चक्षुरादिभिरिन्द्रियैस्तान्युपलक्ष्यन्ते, श्रुतेन चेत्यविशुद्धग्रहणमेतद, विशुद्धं तु सर्वद्रव्यपर्यायेषु केवलस्येति, तेनापास्तसकलविशेषणेन केवलज्योतिषा द्रव्याणां याथात्म्य स्वनिमित्तलक्षितमागृह्यते, अतः स्वपरनिमित्तोपलक्षितानि धर्मादीनि द्रव्याणि द्रव्यास्तिकायाभिप्रायवशात् प्रतिपत्तव्यानीति // 2 // १'भवनरूप ' इति क-पाठः / 2 'प्राणिनथ ' इति घ-पाठः।