________________ 226 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः योगपूर्वकं करणविशेषमुत्पाद्य फलोपभोगलाघवार्थ कर्मापवर्तयति, न चास फलाभाव इति, उपक्रमो-विषाग्निशस्त्रादिस्तेनाभिहतो मरणं-आयुःक्षयस्तत्र समुद्घात मरणसमुद्घातो नाम स्वशरीरकादात्मप्रदेशापको मूर्छानुगतश्चेतनाविमुक्त इवाव्यक्तप्रबोो लक्षणोऽस्तमितसकलबहिवर्तिचेष्टाक्रियाविशेषः स एव चातिचिररूढमूलप्रदशोत्खननरूपत्वाद् दुःखं तेनाता-विषण्णः किंकतेव्यताविमुखः कमेप्रत्ययं-कमेकारणं करणविशेषमुत्पाद्यापवतनाख्यम्, कर्मकारणता तु करणविशेषस्य पूर्वभवबन्धकाल एव प्रयत्नशैथिल्यात् सोपक्रमबन्धः अत्यन्तापरिज्ञानमनाभोगः अनाभोगकृतो योगः योगः-चेष्टाविशेषः अनाभोगयोगस्तत्पूर्वक तत्कारणम् / एतदुक्तं भवति-अजानान एव हि तदपवर्तनाकरणेनापवर्तनाह कर्मापवर्तयति आहा. ररसादिविपरिणामवत्, किमर्थं पुनरपवतेयति ? फलोपभोगार्थमायुष्कर्मफलोपभोगायानाभो. गनिर्वर्तितेन वीर्य विशेषेणेति, न चास्यायुष्कर्मणः फलाभावो भवति / इयांस्तु विशेषः-क्रमपरिभोगे बहुकालः, संवर्तितपरिभोगे स्वल्प इति, न पुनरभुक्तं तत्र किश्चित् कर्म परिशटतीति / किश्चान्यदित्यनेनापरमपि प्रकृतार्थोपयोगिनमादर्शयति दृष्टान्तम्--- - भा०-यथा वा धौतपटो जलाने एव संहताश्चरेण शोषप्रकृतम्य समर्थनम् , "मुपयाति, स एव च वितानितः सूर्यरश्मिवायुभिर्हतः क्षि शोषमुपयाति, न च संहते तस्मिन्नभूतस्नेहागमो नापि वितानिते सति अकृत्स्नशोषः, तद्वद्याक्तनिमित्तापवर्तनैः कर्मणः क्षिप्रं फलोपभोगो भवति, नप कृतप्रणाशाकृताभ्यागमाफल्यानीति // 52 // टी०-यथा वा धौतपट इत्यादि / एवं चैप प्रकृतोऽर्थः प्रतिपत्तव्यः / यथा वा क्षालितपटो जललेशोपचितमूर्तिरेवावेष्टितश्चिगयोद्वायति, स एव प्रयत्नविशेषतो विस्तारितः सन् सहस्त्ररश्मिमयूखमालाभिः परिपीताशेपजललवः प्रबलपवनवेगविघटितनिरवशेषप्रदेशः शीघ्रमपास्ताश्रितजलसङ्घातःसमासादिताधिकतरधवलिमाऽपि परिशष्यति / न च संहते तरिमन्नभूतस्नेहागम इति, न चाभूतजलस्नेहागमो भवति तस्मिन् संवेष्टितपटे, किन्तु संहतत्वात तावन्त एव जलावयवाः कालेन बहुना परिशटन्ति, न पुनरभूतानामेव स्नेहावयवानामागमः, नापि वितानित अकृत्स्नशोषः, न च प्रसारिते तस्मिन् पटे कृत्स्नजलावयवपरिशोषो न भवति, विततेऽपि हि सर्व एव ते जलावयवाः परिगध्यन्ति, तेषां हि जलावयवानां यावती मात्रा वेष्टितपटे तावत्येव प्रसारितेऽपि, परिशोपकालस्तु मिद्यते। परे व्याख्यानयन्ति-न च संहते तस्मिन् न भूतः स्नेहापगमः, भूत एव सञ्जात एवेत्यर्थः, किन्तु बहोः कालात, विता. निते तु द्रागेव च कृत्स्नवारिनिवहापगमः। तद्वदित्यनेन दाष्टान्तिकमर्थम्य दर्शयतितुल्यतया यथोक्तनिमित्तापवर्तनैः क्षिप्रं फलोपभोगो भवतीति / यथाभिहितं विषा ग्निशस्त्रादि येषामपवर्तनानां तान्यवपर्तनानि यथोक्तानि निमित्तानि तैर्यथोक्तनिमित्ता १.वाय्वभिहतः' इति घ-पाठः /