________________ सूत्रं 52 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् 225 नमित्युच्यते / संहतशुष्कतृणराशिदहनवत् / यथा हि संहतम्य शुष्कस्यापि तृणराशेरवयवशः क्रमेण दह्यमानस्य चिरेण दाहो भवति तस्यैव शिथिलपकणिपिचितस्य सर्वतो युगपदादीपितस्य पवनोपक्रमाभिहतस्यार्थस्याशु दाहो भवति तद्वत् // टी--न खल्वेते दोषाः प्रतिभान्ति जिनशासनावलम्बिनाम्, सिद्धान्तापरिज्ञानाचैत्र चोद्यते, नायमार्हतः कृतान्तः फलमदत्त्वा कर्म प्रणश्यतीति, किन्तु यथाक्तरुपक्रमैरथ्यवसानविपशखादिभिरभिहतस्याभिप्लुतस्य सर्वसन्दोहेन-सर्वात्मना साकल्येनासादितोदयमायुष्कं कर्म प्राप्तविपाकमाशु भवति, यस्तु तस्य क्रमभावी विपाकः सोऽपवत्येते, अनुभवः पुनः सर्वस्य युगपन्न निषिध्यते इत्येषोऽपवर्तनशब्दार्थः। बहिर्वर्तमानवस्तुविशेषप्रसिद्धया न्तःप्रसिद्धिः साध्यत इत्याह-संहतेति / संहतत्वात् परिशेषवानपि तृणपुञ्जश्चिराय दह्यते, यदा तु विरलितो भवत्यवयवशस्तदाऽऽशु भस्मसाद् भवति, तद्वदायुषोऽप्यनुभवः, यदाऽऽयुदृढसंहतमतिघनतया बन्धकाल एव परिणामापादितं भवति पवनश्लेषवत् तत् क्रमेण वेद्यमानं चिराय वेद्यते, यत् पुनर्बन्धकाल एव शिथिलमाबद्धं तद् विकीर्णतणराशिदाहवदपवाशु वेद्यत इति / एवंविधार्थप्रक्रमे दृष्टान्तसुलभतामादर्शयन्नाह भा०-यथा वा सङ्ख्यानाचार्यः करणलाघवार्थ गुणअपवर्सनेऽप्यक्षय क्षय. कारभागहाराभ्यां राशिं छेदादेवापवर्तयति, न च सङ्ख्येयस्खे दृष्टान्तः // " स्यार्थस्याभावो भवति, तदुपक्रमाभिहतो मरणसमुद्रातदुःखातः कर्मप्रत्ययमनाभोगयोगपूर्वकं करणविशेषमुत्पाद्य फलोपभोगलाघवार्थ कर्मापवर्तयति, न चास्य फलाभाव इति // विश्चान्यत् / टी-यथा वा सङ्ख्यानाचार्य इत्यादि / सङ्ख्यान-गणितशास्त्रं तत्प्रधान आचार्यः सङ्ख्यानाचार्यो गणितप्रक्रियायामाहितनैपुणः, करणलाघवाय करणानि-गुणकारभागहारापवर्तनोद्वर्तनादीनि गणितशास्त्रप्रसिद्धानि, तत्र यो लघुः करणोपायः स्वल्पकालस्तेन तत्फलमानयति गणिताभिज्ञत्वात, तुल्येऽपि हि फलानयने गुणकारभागहारो चिराय तत्फलमभिनिवर्तयतः, स पुनर्गणितनिपुणो गुणकारभागहाराभ्यां चिरकालकारिभ्यां सकाशात् करणलाघवार्थमपवर्तनाह राशिच्छेदादेवार्धादिकादपर्वतयति, पण्णवत्यादिकम्, अनपवर्तनाह पुनर्लघुकरणाभिज्ञोऽपि न शक्नोत्येवापवर्तयितुम्, एकपञ्चाशदुत्तरसहस्रादिकम् , गुणकारभागहारक्रममेवात्र प्रयोजयति, न च सङ्ख्येयस्यार्थस्याभावो भवति, फलभूतस्य करणविशेपे सत्यपि प्रेप्सितफलाभेदमादर्शयति / करणव्यापारकालो बहुरल्पभेदः फलमविशिटमेवोभययोर्यथैतबदुपक्रमाभिहतो मरणसमुद्घातदुःखातः कर्मप्रत्ययमनाभोग१ प्रसिद्धधतः प्रसिद्धिः' इति क-पाठः।