________________ सूत्र 16] स्वोपज्ञभाष्य-टीकालङ्कृतम् मुदेति तदा तदेवावधारणमिति भण्यते यस्मादवधारयति कालान्तरानुभूतमर्थमेवमेतन्मया सेवितमिति / सम्प्रति पर्यायशब्देस्तामेव त्रिप्रकारामाचष्टे-धारयत्यर्थ त्रिभिरप्येभिः प्रकारैः सा धारणा। प्रतिपत्तिर्नाम परिच्छिन्नेऽर्थे यावदन्यत्रोपयोगं न याति तावदनाशस्तस्यार्थस्य तस्मिन् विज्ञान इति / अवधारणं पुनः कालान्तरानुस्मरणमागृहीतम् / अवस्थानमित्यनेन तु अन्यत्र पदार्थे उपयुक्तस्य या लब्धिरूपा धारणा सा गृहीना / पुनरेषामन्ये त्रयो यथास ख्यकेन भेदा निदश्यन्ते-निश्चयोऽवगमोऽवबोध इति / निश्चय इत्ययं प्रतिपत्तिरित्यस्य पयोयः, अवगम इत्ययं तु मत्यवस्थानस्य लब्धिरूपस्येति / अथवा अविशिष्टधारणायाः सर्व एते पर्याया इत्यनर्थान्तरमित्याह / भावना चैवं कार्या-अपवरकाद्यन्धकारस्थितेन पुंसा यदा स्पर्शनेन्द्रियेणोपलब्धमाद्यक्षणे सामान्यमनिर्देश्यमशेषकल्पनारहितं सोऽवग्रहः / यदा पुनस्तमेव विचारयति किमयं मृणालस्पर्श उताहिस्पर्श इति सेहा / यदाऽस्य निश्चित भवति मृणालस्यैवायं नाहेरिति सोऽपायः / यदा तु निश्चितं सन्तमविच्युतिरूपेण धारयति लब्धिरूपेण वा कालान्तरानुस्मरणे वा सा धारणा / एवं रसनादिभिः रसादीनां योपलब्धिः सकेका चतुर्विधा मावनीयेति // 15 // __ अत्राह-एते ह्यवग्रहादयो ज्ञानविशेषाः क्षयोपशमवैचित्र्यात् स्पर्शादिकमर्थमन्यथा पाऽन्यथा निश्चिन्वन्तस्तथाव्यपदेशभाज इत्युक्तम् / / अथैषां स्वस्थाने क्षयोपशमवैचित्र्यमस्ति नास्तीति ? / उच्यते-अस्ति, यतोऽवग्रहः क्षयोपशमोत्कर्षापकर्षांपेक्षोऽनेकधा बहादेरथस्य परिच्छेदकः, एवमीहादयोऽपीति, एतदनेन प्रतिपादयति सूत्रेणसूत्रम्-बहुबहुविधक्षिप्रानिश्रितासन्दिग्धध्रुवाणां सेतराणाम् // 1-16 // ____टी-बहुवहुविधेत्यादिना। श्रुतानुमितैश्च पदैः प्रायो व्याख्या सूत्राणाम् , इष्टेऽपि अनुमीयमानैरवग्रहादिमिर्बहादीनां सम्बन्धं लगयन्नाह भा०-अवग्रहादयश्चत्वारो मतिज्ञानविभागाः एषां बह्वादीनामर्थानां सेतराणां भवन्त्येकशः / सेतराणामिति-सप्रतिपक्षाणामित्यर्थः / / टी-अवग्रहादयश्चत्वार इत्यादि / अवग्रहादयः प्रागत्र (1.15) निरूपितस्वरूपाः _ मूलभेदतश्चत्वार इति, क्षयोपशमवैचित्र्यात् तु नानाभेदास्त एव भवन्तीति 1. मत्वा चत्वार इत्याह / मतिज्ञानस्य च प्रकृतत्वात् तद्भदा एत इति " मतिज्ञानविभागा इत्याह, अवग्रहादयः / एतेऽवग्रहादयः एषां सूत्रोपन्यस्तानां बहादीनां षण्णाम् अर्थानाम् अर्यमाणानामित्यर्थः / बहादीनां पण्णामर्थानां सेतराणां च तेऽवग्रहादयो ग्राहका इत्यर्थ इत्याह-सेतराणां भवन्तीति / एकश इति पाएकैकस्य बहादेरर्थकलापस्य सेतरस्य ग्राहका इति एकैकोऽवग्रहादिरेकशः। सेतर इत्यस्य पार्थो नैवं ग्राह्यः-बहोरर्थस्य क्षिप्रार्थ इतर इति शक्यं वक्तुम्, एवं बहादीनामनिश्रितादिरितर नाऽन्यथा' इति ब--पाठः। 2' त्रितानुकधुवा.' इति घ-पाठः / अपग्रहादे दया भेदार