________________ 420 तत्वार्थाधिगमसूत्रम् [ अध्यायः 5 शाभावेऽपीति ? अत्रोच्यते-परस्परानुप्रवेशस्तावन्नैवेष्यतेऽण्वोरणूनां वा शुषिराभावात, प्राइ चैतन्निर्णीतं प्रपञ्चतः, स्थापितं चेद-परिणतिविशेषादानां सर्वामत्ना बन्धो भवति, अयस्सिण्डतेजसोरिखान्योन्यप्रदेशाभावेऽपि गुणविशेषात् सार्वात्म्येनेष्यते बन्धः / कीदृशः पुनर्गुणविशेषात् स तादृशो बन्धः स्यादित्याह सूत्रम्-स्निग्धरूक्षत्वाद् बन्धः // 5-32 // भा०-स्निग्धरूक्षयोः पुद्गलयोः स्पृष्टयोबॅन्धो भवति // 32 // अत्राह-किमेष एकान्त इति ? / अत्रोच्यते टी-स्निग्धरूक्षयोरित्यादि भाष्यम् / स्नेहो हि गुणः स्पर्शाख्यः, तत्परिणामः स्निग्धः, तथा रूक्षोऽपि, एकः स्निग्धोऽपरो रूक्षः, तयोर्भावः स्निग्धरूक्षत्वं तत्परिणामापत्तिः तस्मात् स्निग्धरूक्षत्वादिति हेतौ पञ्चमी, अण्वोरणूनां वा बन्धो भवति, स्निग्धरूक्षयोरिति भाष्यकृता विभज्य द्विवचनप्रयोगोपन्यासोऽकारि सर्वाल्पस्कन्धज्ञापनाय, नातः परमल्पावयवः स्कन्धोऽस्ति, स्निग्धरूक्षव्यवहारः क्षेत्रकालविषयोऽपि भोक्तः समस्तीति तद्व्युदासाय पुद्गलयोरित्याह, पूरणाद् गलनाच पुद्गलाः, पूरकत्वेन स्कन्धान निवर्तयन्ति, गलनेन स्कन्धभेदं विदधति, स्पृष्टयोरिति संयुक्तयो संयुक्तयोरिति, अनेन संयोगमात्रं गृहीतं संयोगपूर्वकसकलबन्धज्ञापनार्थम्, तत्र बन्धात् प्रतिघातो जायतेऽण्वोरणूनां वा, प्रतिघातश्चैकदेशावगाहेऽन्योन्य प्रतिहननम्, ततो रौक्ष्यस्नेहविशेषाद् बन्धः-अण्वन्तरेणाणोः श्लेषः, मृद्रजोभिस्तृणादिबन्धवत, सन्ति घणव एकगुणस्निग्धादिक्रमेण सङ्ख्येयासङ्ख्येयानन्तानन्तगुणस्निग्धाः, तथैकगुणरूक्षादिक्रमेण हीनमध्यमोत्कृष्टसङ्ख्येयासङ्ख्येयानन्तानन्तगुणरूक्षाः, तोयाजागोमहिष्णुष्ट्रीशीरघृतस्नेहानुमानप्रकर्षाप्रकर्षवत्, चिक्कणत्वलक्षणः परिणामः स्नेहः, तद्विपरीतो रूक्षः, ततश्च संश्लेषकारणपरिणतिमत्त्वात् सर्वात्मसंयोगवन्धप्रसिद्धिः, प्रत्यक्षश्चैवंविधद्रव्याणां बन्धविशेषो नातीव युक्तिमपेक्षते, युक्तिरपि-संहतमहद्रव्यं घटादि प्रत्यक्षमणुबन्धस्यानुमापकम्, नाणुसत्संहतिविशेषमन्तरेण महत् संहतं युज्यते, एवमेव चापकर्षणधारणनोदनादिव्यवहारसिद्धिन त्वन्यथा, तथानुपग्रहणात् प्रतीघातः परमाणोः, लोकान्ते ह्युपग्राहकधर्मद्रव्याभावात् प्रतिहन्यतेऽणुरगतिः सन्, तथाष्णोः प्रतीघातो बन्धनयोग्यं परिणाममन्तरेणाप्यते, नापतता ( ? ) स्पर्शित्वान्मूर्तिमत्वाच, सप्रतिघातस्य च बन्धो दृष्टः श्लेषरूपरागादेः, अतः सुष्ट्रच्यते-स्निग्धरूक्षत्वात् पुद्गलयोः संयुक्तयोर्बन्धो भवतीति / इतिकरण उपप्रदशेनार्थः, एवं गृहाणेति // 32 // अत्राहेत्यादिसम्बन्धप्रतिपत्तिः / किमेष एकान्त इति ? / किमिति प्रश्नार्थः, एष 1 नोक्तः ' इति क-पाठः। 2 'क्षादि...नन्तगुणरू ' इति पाठः ग-पुस्तके नास्ति, तत्र तु मुद्रणदोष इति स्पष्टं प्रतिभाति।