SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ सूत्र 33 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् 421 इत्यन्तरयोगाथाभिसम्बन्धः, स्निग्धगुणानां रूक्षगुणानां च बन्धो भवतीति, इतिशब्दोऽवधारणार्थः / किमेष नियम एव सर्वस्य स्निग्धगुणस्य रूक्षगुणेन बन्ध इति, एवं पृष्टे अनोच्यते इत्याह / सति विधावविशेषेण प्रवृत्तेनिकृष्टमध्यमोत्कृष्टस्निग्धरूक्षाणामनभिप्रेतार्थप्रसङ्गविनिवृत्त्यर्थमिदमभिदध्महे सूत्रम्-न जघन्यगुणानाम् // 5-33 // टी०–अतिप्रसक्तस्य विधेरयमपवादारम्भः // भा०-जघन्यगुणस्निग्धानां जघन्यगुणरूक्षाणां च परस्परेण बन्धो न भवति // 33 // टी-जघन्यगुणस्निग्धानामित्यादि भाष्यम् / प्रकृतत्वाद् बन्धः प्रतिषिध्यते नशब्देन, केषां बन्धो न भवति ? जघन्यगुणस्निग्धानां जघन्यगुणरूक्षाणां च / जघने भवो जघन्यः, ( जघन्य इवान्यो जघन्यः ) निकृष्ट इत्यर्थः, जघन्यश्चासौ गुणश्च जघन्यगुणः ( जघन्यगुणः) स्निग्धो येषां ते जघन्यगुणस्निग्धाः पुद्गलास्तेषां जयन्यगुणरूक्षाणां च परस्परेण बन्धः प्रतिषिध्यते, परस्परेणेति सजातीयविजातीयविशेषप्रतिपादनम् / स्वस्थाने स्निग्धस्य स्निग्धेन नेष्यते बन्धः, रूक्षस्यापि रूक्षेण नैवास्ति बन्धः, तथा परस्थानेऽप्येकगुणस्निग्धस्यैकगुणरूक्षेण नैवास्ति बन्धः, सत्यप्येषां संयोगे स्निग्धरूक्षगुणत्वे च न परस्परमेकत्वपरिणतिलक्षणो बन्धः समस्ति, किं पुनः कारणमत्रैषां बन्धो न भवतीति ? तादृग्विधपरिणतिशतेरभावात्, परिणामशक्तयश्च द्रव्याणां विचित्राः क्षेत्रकालाद्यनुरोधिन्यः प्रयोगविस्रसापेक्षाः प्रभवन्ति, न जातुचित् पर्यनुयोगवशेन पर्यनुयोक्तुरिच्छामनुरुध्यते, जघन्यश्च स्नेहगुणः स्तोकत्वादेव जघन्यगुणरूक्षं पुद्गलं न प्रत्यलः परिणामयितुम्, तथा रूक्षगुणोऽप्यल्पत्वाजघन्यगुणस्निग्धं नात्मसात्कर्तुं समर्थः, सङ्ख्यावाची चायं गुणशब्दः, यथैक एवास्य गुणः पुरुपस्येति, आधिक्यार्थे वा द्विगुणत्रिगुणमिति यथा, अस्ति च स्नेहादिगुणानां प्रकर्षापकर्षभेदः, तद् यथा जलादजाक्षीरं स्निग्धम्, अजाक्षीराद् गोपयः, गोपयसो महिषीपयः, ततः करभीपय इत्युत्तरोत्तरस्नेहाधिकत्वम्, एषामेव पूर्व पूर्व रूक्षम्, तत्रैकगुणस्निग्धस्यैकगुणस्निग्धेनैव ब्यादिना सर्वेण सदृशेन सङ्ख्येयासख्येयानन्तानन्तगुणस्निग्धेन वा नास्ति बन्धः, तथैव चैकगुणरूक्षस्यैकगुणरूक्षादिभिः सदृशैर्यावदनन्तगुणरून भवति बन्धः, सूत्रव्यापारस्तु जघन्यगुणस्निग्धानां जघन्यगुणरूक्षाणां च पुद्गलानां नास्ति बन्धः परस्परम्, शेषं वक्ष्यमाणसूत्रव्याख्येयमुक्तं प्रसङ्गतः, इत्येवमेतौ जघन्यगुणस्निग्धरूक्षौ विहायान्येषां मध्यमोत्कृष्टस्निग्धानां रूक्षैः सह 1 अत्र चिहान्तस्थो भागः क-ख-योर्नास्ति / 2 'रूक्षादिभिः' इति क-ख-पाठः।
SR No.004407
Book TitleTattvarthadhigam Sutra Part 01
Original Sutra AuthorN/A
AuthorBhavyadarshanvijay
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy