________________ 392 तत्त्वार्थाधिगमसूत्रम् ( अध्यायः 5 तेन सदात्मना स्थित्यंशेनाविगतं परिणामापत्तौ सत्यामपि स्वभावाप्रच्युतेनित्यमुच्यते / तमेव च ध्रौव्यांशमाश्रित्य समस्तास्तिकायेषु नित्यताव्यवहारः प्रतीयते, अथवा भूतिर्भावः स्वात्मेत्यर्थः। स चासौ भावश्च तद्भावः कश्वासौ ? यः सर्वास्ववस्थासु निर्विकारः, शुद्धा द्रव्यास्तिकनयप्रकृतिरविवक्षितसकलभेदग्रन्थिः , अयो-गमनं विरुद्धोऽयो व्ययस्तद्भावस्य च विरुद्धगमनमभावापत्तिः, न व्ययोऽव्ययः, न जातुचित् तद्भावोऽभावो भवतीति वाक्यार्थः, धोव्याभिसम्बन्धाच्च नपुंसकनिर्देशः, तद्भावश्चासावव्ययं च तद्भावाव्ययम्, किं तत् ? प्रकृतत्वादेवंविधविशेषणसामर्थ्याद धौन्य नित्यशब्देनाभिधीयते, भाष्ये च यद्यपि भाष्यकृता पञ्चमी प्रदर्शिता विवक्षावशात् तथापि विवक्षितस्यार्थस्याभिन्नत्वात् तृतीयाषष्ठयोन दोपः॥ ननु च प्रागपि नित्यावस्थितान्यरूपाणीत्यत्र (तृतीये) मूत्रे नित्यग्रहणं ध्रौव्यार्थमेव व्याख्यायि भवता, तत् किमर्थमिदमुच्यते तद्भावाव्यये नित्यम्' इति ? अत्रोच्यते-इह नित्यस्य लक्षणमभिधिसितं, लक्षितेन चेह नित्यत्वेन तत्र व्यवहारः प्रदर्शितः / अपरे त्वेवं वर्णयन्ति-द्वे नित्यते, नत्रैका स्वभावानच्युत्या कालत्रयाव्यभिचारिणी नित्यता, अपरा पारम्पर्यप्रवृत्तिनित्यता, तत्र च प्राच्यां नित्यतामाश्रित्य नित्यावस्थितान्यरूपाणीति पठितम्, परम्परावृत्त्यवच्छेदमधिकृत्योत्पादव्ययध्रौव्यसूत्रमध्य ___ गायीति, एतदपि यत्किञ्चित्, यतस्तद्भावाव्ययं नित्यमित्येकमेव नित्यनित्यसूत्रफलम् लक्षणं लक्षणान्तरानभिधाना। कथं द्वे नित्यते ? नित्यप्रहसितादिषु ___ दृष्टेति चेत्, तदयुक्तम्, अभीक्ष्णार्थाभिधायित्वादर्थान्तरवृत्तिस्तत्र नित्यशब्दः, तत्त्वविचारप्रस्तावे च न किञ्चिदुपचारेण प्रयोजनम्, अतो व्यवस्थितमेव लक्षण तद्भावाव्ययं नित्यमिति // एवमन्वय्यंशो नित्यत्वेन लक्षितो द्रव्यनयस्वभावः / पर्यायनयस्वभावौ तूत्पादविनाशावभूतभावभूताभावलक्षणावुक्तन्यायेन स्थित्यंशप्रतिबद्धौ / स्थितिरपि पर्यायप्रतिबद्धा, सर्वदा संसर्गरूपत्वाद् वस्तुनः, एवमेकाधिकरणावुत्पादविनाशौ जैन एव शासने साङ्गत्यमनुभवतोऽन्यत्र तु व्यधिकरणावेवोत्पादविनाशौ नियतौ वेति // नन्वेवमपि यथा तद् द्रव्यमात्मापरित्यागात् तथोत्पादविनाशलक्षणः पर्यायोऽपि द्रव्यपर्यायाभ्यां आत्मभूतो द्रव्यस्येत्यतः पर्यायनिवृत्तिवद् द्रव्यनिवृत्तिप्रसङ्ग इति / नित्यानित्यत्वे अत्रोच्यते-स्यादेतदेवं, यदि घटादिनिवृत्ती मृन्निवृत्तिदृश्येत, मृन्नि वृत्तौ वा पुद्गलनिवृत्तिः, न च दृश्यते मृदोऽन्वयिन्याः पुद्गलजाते, कस्यांचिदवस्थायां निवृत्तिस्तदभिधानप्रत्ययव्यवहार्यत्वात्, घटादिनिवृत्ती वा यदि न किञ्चित् पश्चादुपलभ्येत श्रद्दधीत विद्वज्जनः पर्यायनिवृत्तौ द्रव्यांशनिवृत्तिः, न च प्रत्यक्षविरोधे नर्कः क्रमत इत्यपकण्यमेतत्, एवमुपपत्यागमाभ्यामवस्थितं तद्भावाव्ययं नित्यमिति // 30 // ___ एवं सत्रद्वयन निरूपिते समस्ते वस्तुन्यर्थाभिधानप्रत्ययरूपे स्थित्युत्पत्तिव्ययस्वभावे पुनर्विस्तरविशेषार्थी पर आरेकते, यद् व्येत्युत्पद्यते च तत् सन्नित्यं चेत्यतिसाहसम्, अथवा 44 किश्चिदसदनित्यं वा, सन्नित्यत्वाभ्यां निराकृतत्वात्, ततो लोकव्यवहारोच्छेदः, तदेतद्