________________ 354 तत्वार्थाधिगमसूत्रम् [ अध्यायः 5 परिहीणे परत्वापरत्वप्रत्ययाभिधानसम्भवात्, न च बन्धुजनापेक्षे, एकाकिन्यपि भावात्, न तपश्चरणालम्बने, अतपस्केऽपि दर्शनाद, न कर्मसंस्कारापेक्षे, तयोरनधिकारात्, न चादित्यनिमित्ते, तत्रापि दृष्टत्वात् , परोऽभियोग्यः अपर आदित्यः परः सविताऽपरोऽभियोग्य इति, अतः सामर्थ्यात् कालकृते, तयोविशेषणार्थमिदमुच्यते-प्रशंसाक्षेत्रकृतेऽपि पर त्वापरत्वे वर्जयित्वेति, वर्तनादयः सर्वे कालकृताः कालस्यापेक्षाकारणस्यानुग्रह उपकार इति सूत्रार्थः // एवं चायं यत्परत्वापरत्वे सूत्रभेदेन समस्य निर्दिष्टे मूरिणा तदवगमकं न प्रशंसाक्षेत्रकृतयोरत्र परिग्रहः, वर्तना परिणामः क्रियाश्च द्रव्यस्वभावः कालापक्षो निरदेशि, परत्वापरत्वे चावधित्वेन काललिङ्गमिति // 22 // भा०-अत्रीह-उक्तं भवता ( अ० 5, सू० 19 भाष्ये )-शरीरादीनि पुद्गलानामुपकार इति / पुद्गला इति च तन्त्रान्तरीया जीवान् परिभाषन्ते / स्पर्शादिरहिताश्चान्ये / तत् कथमेतदिति ? / अत्रोच्यते // टी-अत्राह-उक्तं भवतेत्यादिसम्बन्धग्रन्थः / अत्र प्रस्तावे परोऽभिधत्ते-प्रतिपादितं भवता शरीरादयः सुखादयश्च पुद्गलानामुपकार इति / तन्त्रान्तरीयाश्च मायासूनवीयाः पुद्गला इत्यनेन शब्देन जीवान् परिभाषन्ते-पुद्गलशब्दं जीवेषु सङ्केतयन्ति व्यवहारसिद्वयर्थमिति / / ननु च तेषां जीव एव नास्ति, कथं तद्विपयं पुद्गलध्वनि परिभाषेरन्निति ? / उच्यते--अस्त्यार्यसम्मितीयानामात्मा, सौत्रान्तिकानां तु चित्तताक्तसन्ततौ तत्पुद्गलप्रज्ञप्तिः, चित्तसन्ततौ वेदनासंज्ञा चेतनादिधर्मयुक्तायां चक्षुरादिसहितायां च चिंत्तेनान्योन्या ...... नुविधानात्, इत्येपा चित्ततद्युक्तानां धर्माणां सन्ततिरहङ्कारवस्तुत्वादापुद्गलसवाय त्मेत्युपचर्यते, तथा पुनः पुनर्गत्यादानात् पुद्गल इत्युपर्यते, योगाचारणां तु विज्ञानपरिणामः पुद्गलः // यथाऽऽह "आत्मधर्मोपचारो हि, विविधो यः प्रवर्तते / विज्ञानपरिणामोऽसौ, परिणामः स च त्रिधा // " एवं तन्त्रान्तरीयैः पुद्गलो जीव उक्तः, त्वया पुनः शरीराद्युपकारिणः पुद्गला इत्युच्यते तदेतत् कथं विप्रतिषिद्धत्वादिति प्रश्नयति // नन्वनुपपन्नः संशयः, पूर्वमुक्तमेव-रूपिणः पुद्गलाः ( अ० 5, मू० 4) इति, न च रूप्यात्मा प्रतीत इति, उच्यते-रूपशब्देन तत्र मूर्तिरुक्ता, सा च मूर्तिरन्यैरसर्वगतद्रव्यपरिमाणमिप्यते, यथा मनः, तच्च स्पशोदिरहितम्, एतन्निरासार्थमिदमवश्यं वक्तव्यं भवति मूत्रं-स्पादियुक्ता मूर्तिः, तथा चतुखिये. 1 धर्मादयस्तावदरूपिणो लक्ष्याश्च गत्यादिद्वारेण जीवानां च लक्षणमुपयोग इति प्रागेवोक्तमिति पुदललक्षणानि वक्त कामः परविप्रतिपत्तिनिरासाय शङ्कते, यद्वा संघातभेदो वक्तुकाम आरभते हेतूनाख्यातुं तत्राह / 2' चित्तेऽन्योन्या' इति क-ख-पाठः /