________________ 432 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 5 तस्मान्मानुषलोक एव कालः, स च परिणामी, न पुनरेक एव विच्छिन्नमुक्तावलीमणिवदविद्यमानपूर्वापरकोटिर्वर्तमानः समयोऽभ्युपेयते, निरन्वयसमयोत्पादविनाशप्रसक्तेः, एकनयावलम्बित्वं चैवं स्यात् , अतोऽनर्पितद्रव्यनयमतानुसारिभिः सन्ततिपक्षप्रतिज्ञानाद् विद्यमानतैव पूर्वोत्तरसमययोः, वर्तमानसमय एवोत्तरसमयरूपेणोत्पद्यते तथापरिणामात्, नापूर्वमुत्पद्यते खपुष्पादि, नापि निरन्वयमेव किञ्चिद् विनश्यति कार्यत्वात् तत्सन्तानपतितत्वादुपान्त्यसन्ताननिरूपत्वात् , न पुनः सर्वथैवोद्भवविनाशौ निराधारावेव, ध्रौव्यं तयोराधारस्तसिन् सति तयोर्भावादिति / यच्च परत्वापरत्वादि काललिङ्गमभ्यधायि प्राक् तदपि नयान्तराभिप्रायादेव, अन्यथा तु स्थितिविशेषापेक्षे हि परत्वापरत्वे, पष्टिवर्षाद् वर्षशतिकः पंरांपरत्वादेः परः, अपरः षष्टिवर्ष इति, स च स्थानविशेषः पष्टिवर्पाणां शतं वर्षाणास्थितिविशेषापेक्षिता मिति स्थितेरेव, सा च सत्त्वापेक्षा, अस्तित्वादेव भावानाम्, अस्तित्वं _चानपेक्षमित्युक्तम्, तस्मात् कालापेक्षे परत्वापरत्वे न भवतः, योगपद्यमपि कर्तृषु व्यवस्थितं तेषामेव कर्तृणां कांश्चित् क्रियाविशेषानपेक्षते, न कालम् , न च ते क्रियाविशेषास्ताभ्यः क्रियाभ्योऽत्यन्तमेव नाना भवितुमर्हन्ति, यदा तु काकतालीयेनैकः कर्ता तथाविधक्रियामापद्यतेऽन्योऽपि को तथैव तक्रियापरिणतस्तदा युगपदिति व्यपदेशः, एवमयुगपदित्यपि भावनीयम् // तथा चिरक्षिप्रयोरेष एव प्रपञ्चः, ते च गतिविशेषापेक्षे, गतिश्च परमाण्वादिद्रव्यप्रतिबद्धेति // अथ कस्मादादावेकनयालम्बनेन सूत्रार्थमुपक्रम्य पुनर्नयद्वयेनोपसंहरति भवानित्याक्षिप्तेऽभिधीयते-विविक्तार्थसूत्रार्थदर्शनार्थत्वात्, आफै हि षष्ठं कालद्रव्यमितरद् द्रव्यविविक्तं दशेयत्येकनयप्रवृत्तेः / न च जैने प्रवचने कश्चिदेको नयः समस्तं वस्तुस्वरूपं प्रतिपादयितुं प्रत्यलः, यतस्तत्प्रतिद्वन्द्विनयानुसारि सूत्रमपरमागमेऽति किमिदं भंते ! कालोत्ति पवुच्चति ? गोयमा! जीवा चेव अजीवा चेव""। इदं हि सूत्रमस्तिकायपञ्चकाव्यतिरिक्तकालप्रतिपादनाय तीर्थकृतोपादेशि, जीवाजीवद्रव्यपर्यायः काल इति सूत्रार्थः, कलनं कालः-प्रतिविशिष्टपयोयोत्पादसङ्ख्यानम्, कल्यते वाऽनेन वस्त्विति कालः, स चवर्तनादिरूपो द्रव्यस्यैव पर्यायः, तत्र स्वयं सद्भावेन वर्तमानमर्थ या प्रचो. कालस्य पर्यायता दयति वर्तस्व वर्तस्व मा न वर्तिष्ठाः हेतुमण्णिचि “ण्यासश्रन्थो युच्" (पा० ___ अ०३, पा० 3, सू० 107) इति स्त्रीलिङ्गे भावे वर्तना क्रिया, सा च वर्तितुर्भा वादनान्तरं कालस्तत्परिणामत्वात्, द्रव्यमेव काल इति कर्मधारयवृत्तिव्यार्थाभेदविवक्षायाम, नहि वर्तनादिक्रियाभ्यो भिनं द्रव्यमस्ति, एकस्यापि समयस्य प्रतिद्रव्यमभेदेन वृत्तवादान 15 यता वर्तमान ' इति क-ख-पाठः। 2 ' प्रसृतेः ' इति क-पाठः। 3 समस्तवस्तु' इति क-पाठः / किमिदं भदन्त | काल इति प्रोच्यते ? गौतम ! जीवाश्चैव अजीवाश्चैव / 5 “समयाइ वा आवलियाइ वा जीवाति या अजीवाति या पबुच्चइ " इति पाठस्तु स्थानाङ्ग ( सू० 95), द्रव्यस्यैव पर्याया' इति क-ख-पाठः।