________________ 299 सूत्रं 21 ] स्वोपज्ञभाष्य टीकालङ्कृतम् 'कुलकुक्षिग्रीवाभ्यः श्वास्यलकारेषु' (पा० अ०४, पा०२, सू० 96 ) वदत्र ग्रीवायां प्रायो भवा ग्रैवेयकाः, तथा ग्रीव्या इति भाष्यकृतोपन्यस्तं ग्रीवायां साधवो ग्रीव्या इति स्याद् व्युत्पत्तिः॥ _ भा०-अनुत्तराः पञ्च देवनामान एव / विजिता अभ्युदयविघ्नहेतवः एभिरिति विजयवैजयन्तजयन्ताः / तैरेव विघ्नहेतुभिने पराजिता अपराजिताः / अनुत्तराणां सर्वेष्वभ्युदयार्थेषु सिद्धाः सर्वार्थश्च सिद्धाः सर्वे चैषामभ्युद्पञ्चविधत्वम् यार्थाः सिद्धा इति सर्वार्थसिद्धाः। विजितप्रायाणि वा कर्माण्येभिरुपस्थितभद्राः परीषहैरपराजिताः सर्वार्थेषु सिद्धाः सिद्धप्रायोत्तमार्था इति विजयादय इति // 20 // टी०-अनुत्तराः पश्चेत्यादि / विमानविशेषाः पञ्च सर्वोपर्यनुत्तराः अविद्यमानमुत्तरमन्यद् विमानादि येषां तेऽनुत्तराः देवनामान एव ते विमानविशेषाः / विजिता अभिभूताः, अभ्युदयः-स्वर्गस्तस्य विघ्नहेतवो निरस्ता एभिर्देवैरिति विजयवैजयन्तजयन्ताः, ते हि सकलालभ्युदयविधातहेतूनपास्य हस्तकृत्य स्वर्गसुखसन्दोहरसमुपभुञ्जते / तैरेव चाभ्धुदयविधातहेतुभिर्न पराजिता इत्यपराजिताः / सर्वेष्वभ्युदयार्थेषु सिद्धाः सर्वार्थसिद्धाः आभ्युदयिकसुखप्रकर्षवर्तित्वात् सर्वप्रयोजनेष्वव्याहतशक्तयः सर्वार्थसिद्धाः / अथवा सर्वाथैश्च सिद्धाः। चशब्दो वाशब्दार्थः / सर्वाऽतिशयवद्भिः शब्दादिभिरतिमनोहरैः सिद्धाः-प्रख्याताः सर्वार्थसिद्धाः, सर्वे चैषामभ्युदयार्थाः सिद्धाः सर्वार्थसिद्धा इति निरवशेषमभ्युदयप्रयोजनप्रतिष्ठत्वाद् वा सर्वार्थसिद्धा इति / अयमपरः कल्पः-विजितप्रायाणि वेत्यादि, प्रतनुकर्मपटलावच्छन्नत्वात् प्रत्यासनानवद्यसुखनिर्भरसिद्धिवधूसमागमत्वादुपस्थितपरमकल्याणाः साधुजन्मनि परीषहैरपराजिताः सन्तो मरणादुत्तरमपराजिता एव देवाः समुत्पन्नाः, तत्र वा सतततप्तत्वान्न क्षुदादिभिः पराजीयन्त इत्यपराजिताः, तथा सर्वकर्तव्यतायाः परिसमाप्तेः सांसारिक्याः सर्वार्थसिद्धाः, सिद्धप्राय उत्तमार्थो येषां सकलकर्मक्षयलक्षणो मोक्षोऽनन्तरागामिजन्मभावित्वात् ते सर्वार्थसिद्धाः / एवं विजयादय इति / एवम्-एतेन प्रकारेण विजयादयोऽपि सर्वार्थसिद्धा एव / तथापि तु काचित् कचित् प्रसिद्धतरा भवति गमनाद गौर्यथेति // 20 // तत्राधिगतानुपूर्वीकाः दिवौकसः प्रकृताःसूत्रम्-स्थितिप्रभावसुखद्युतिलेश्याविशुद्धीन्द्रियावधिविषयतो धिकाः // 4-21 // भा०-यथाक्रमं चैतेषु सौधर्मादिषु उपर्युपरि देवाः पूर्वतः पूर्वत एभिः स्थित्या 1 'स्वास्यलङ्कारेवुढवुन्' इति ग-पाठः /