SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ 174 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 2 दिक-नूपुरक-गण्डूपद-शङ्ख-शुक्तिका-शम्बूका-जलूका-प्रभृती. या नामेकेन्द्रियेभ्यः पृथिव्यादिश्य एकेन वृद्धे स्पर्शनरसनेन्द्रिये भवतः / ततोऽप्येकेन वृद्धानि पिपीलिका-रोहिणिका-उपचिका कुन्यु-तुंबुरुक-त्रपुसबीज-कासास्थिका-शतपद्युत्पतक-तृणपत्र-काष्ठहारक-प्र. भृतीनां त्रीणि स्पर्शन-रसन-घ्राणानि / ततोऽप्येकेन वृद्धानि भ्रमर-वटर-सारङ्गमक्षिका-पुत्तिका-दंश-मशक-वृश्चिक-नन्द्यावत-कीट-पतङ्गादीनां चत्वारि स्पर्शनरसन-घ्राण-चभृषि / शेषाणां च तियायोनिजानां मत्स्योरग-भुजङ्ग-पक्षि-चतुष्पदानां सर्वेषां च नारक-मनुष्य-देवानां पञ्चेन्द्रियाणीति // 24 / / ___टी-कृमिपिपीलिकादि सूत्रम् / अयमादिशब्दः प्रत्येकमभिसम्बध्यते कृम्यादिषु, न समुदाय इति भाष्येण दर्शयति-कृम्यादीनामित्यादिना / गतार्थमेतत् , यथासङ्ख्यमेकैकवृद्धानीन्द्रियाणि भवन्ति / सूत्रे त्वेकैकवृद्धानीत्युक्तं, तत्र न ज्ञायते प्रथममेकेन कतमेन वृद्धमिति सन्देहव्यवच्छेदार्थमाह-यथासङ्ख्यम् , येन क्रमेणोपन्यस्तानि तमेवोररीकृत्यैकैकेन वृद्धानि भवन्ति, न क्रमोल्लङ्घनेन / एतदेव पुनः स्पष्टयति-य. थाक्रम-यथानुपूर्वी, तद्यथेत्यनेन तामानुपूर्वीमादर्शयितुमुपक्रमते-कृम्यादीनां कृमिप्रकाराणाम् , आदिशब्दस्य प्रकारार्थत्वात् / अपादिकादयः प्रायः प्रसिद्धाः, एपामेकेन वृद्धे स्पर्शनरसने भवतः, पृथिव्यादिभ्यः सकागादेकेनेन्द्रियेण (रसनेन) वृद्धे सति स्पर्शने द्वे स्पर्श नरसने भवतः, अन्यथा योकेन वृद्धे स्पर्शनरसने सम्बध्येते ततस्त्रीणि प्राप्नुवन्ति, ततोऽप्येकेन वृद्धानीत्यादिभाषितेनापि द्वीन्द्रियेभ्यः पिपीलिकादीनामेकेन घ्राणेन सहिते स्पर्शनरसने त्रीणि सन्ति ततो वृद्धानि भवन्ति इति, ततोऽप्येकन वृद्धानि भ्रमरादीनां सुज्ञानम् , शेषाणां च तिर्यग्योनिजानामिति एकेन्द्रियादितिर्यग्योनिजापेक्षया शेषग्रहणम्, एतद्वयतिरिक्ताः शेषास्तिर्यग्योनयस्तान् विस्तरतो मत्स्यादीन् दर्शयति-सर्वेषां च नारक-मनुष्य-देवानां पञ्चन्द्रियाणि / अतिर्यग्योनित्वात् पृथगु. पादानं नारकादीनाम् / किं पुनरत्र मनुष्यादीनामित्यभिधाय सूत्रे नारकमनुष्यदेवानामिति विवृतं शेषाणां च तिर्यग्योनिजानामिति, न यथा कृम्यादिषु प्रदीधैंकदण्डकपाठस्तथेह, उच्यते-कुम्यादिष्वेकजातीया एव सर्वे दण्डकेन निर्दिष्टा इति युक्तम् , इह पुनस्तिर्यग्योनयोऽवश्यं पृथय् निवेश्याः भिन्नजातीयत्वान्नारकादिभ्यः, तथा नारकादिक्रमे हेतुः / र नारकादयोऽपि भिन्नगतिवर्तित्वात् भेदेनैवोपात्ताः / एवं तार्ह मनुष्य ॐ नारकदेवानामिति किं नोक्तमादौ मनुष्योपैन्यासात् / उच्यते-लोककमसन्निवेशमाचार्येणाधाय चेतसि नारकमनुष्यदेवानामित्युक्तम् / अथवा विवरणग्रन्थो यथे १'जलौका' इति ग-टी-पाठः। 2 'कुन्थुछुरुक' इति क-ख-पाठः। 3 'वृद्धादीनीति' इति क-ख-पाठः। ४'पन्यसनात् ' इति ग-पाठः।
SR No.004407
Book TitleTattvarthadhigam Sutra Part 01
Original Sutra AuthorN/A
AuthorBhavyadarshanvijay
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy