SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ सूत्र 22] स्वोपज्ञभाष्य-टीकालङ्कृतम् 351 तथा शिशिरे-अतिदुर्भगशशाङ्ककिरणे परिपाकसुरभिफलसम्पद्विनम्यमानशाखाभराः फलार्थिभिः शिशुकदम्बकैरनुगततला बदरीतरवः, तुहिनशिलाशकलविशदकुन्दमालतीकुसुम वासवाहिनो मारुताः, प्रियङ्गरोध्रप्रसवसनाथानि दिङ्मुखानि, प्रलीनाः शिशिरवर्णनम् पङ्कजाकराः सायामा यामिन्यः, कश्मीरजागुरुगन्धाढ्यगर्भगेहशायिनः सुखिनस्तपस्तपस्यनाम्नोमासयोः॥ तथा वसन्ते-समन्ततः किश्चिद्विभाव्यमानकुसुमाः कुन्दयष्टयः केसरतिलककुरबकशिरीषकोल्लप्रसूनजृम्भमाणपरागभाजः समीरणाः तरुणजनहृदयहारिणः, सहकारमञ्जरीरजःपुञ्जपिञ्जरितविग्रहाः कुसुमासवपानवशगताः सहचरीपक्षपातैराच्छुरन्तः कलगिरो बद्धमण्डलाः कातरजनान् रागपरिवृतः कुसुमधनुषो गोचरीकुर्वन्तः परिपतन्ति वनाघसन्तवर्णनम् नि मधुपाः, परभृतकुलकलनिनादकोलाहलप्रतिवध्यमानगमनाः पदे पदे प्रस्खलन्तः पलाशवनानि कुसुमभरभाजि ज्वलदनलकूटानीव पुरः प्रेक्ष्यमाणा मलयवायुवेगावधूतचम्पकरजःपटलैरवकीर्यमाणलोचनपुटाः प्रत्यावर्तन्त एव पथिकसार्थाः, परिणतविम्बफलच्छविभिरशोकपुष्पप्रकरैरुपशोभिताश्च सर्वतो दिशां भागा मासयोमेधुमाधवाभिधानयोः // तथा निदाघसमये-दहनमिव किरणनिकरैः किरन् किरणमाली भुवस्तलमास्तीर्णाङ्गारप्रकरमिव करोति, चीरीविरावद्राधीयांसो दिवसाः कथञ्चिदपवाह्यन्ते पथिकजनैः, आवाहोपकण्ठप्ररूढद्रुमच्छायाधिश्रयितश्रान्तकार्पटिकधोरणध्वानपरिपूरिता दिगाभोगाः, चन्दनपङ्का गरागपरिपाण्डुराः किङ्करकरोत्क्षिप्ततालवृन्तश्वसनशीतलितशरीराः शिग्रीष्मवर्णनम् शिरेषूपवनेषु सरित्सरसीतीरेषु च विविधधारागृहान्तर्गता भोगिनो . निरस्तधर्मग्रसरमभिरमन्ते, करिदशनशकलधवलमल्लिकाकोरकबहलपरिमलहारिणः परिमलितपाटलप्रसवाः सायं प्रातश्च पवना विलासिनां मदनमादीपयन्तः सुरभयो विचरन्ति, अरण्यान्यः कठोरकठिनकन्धरवराहदंष्ट्राकोटिविलेखोत्खातमुस्तादलसुगन्धयः करिमहिषयथावगाढपल्वलाः कलभचीत्कारपूरितदशदिशो मृगतृष्णाभिरारचितसरस्तरङ्गमालाभिरिव विप्रलब्धमुग्धहरिणवजाः शुचिशुक्राभिख्ययोर्मासयोः॥ तथा वर्षासु-सौदामिनीवलयविद्योतितोदराभिनवजलधरपटलस्थगितमम्बरमारचितपाकशासनचापलेखमासारधाराप्रपातशमितधूलिजालं च विश्वम्भरामण्डलम् , अङ्गसुखाः समीरा: कदम्बकेतकरजःपरिमलसुरभयः, स्फुरदिन्द्रगोपकप्रकरशोभिता शाद्वलवती भूमिः, कूलङ्कष जलाः सरितः, विकासिकुटजप्रसूनकन्दलीशिलीन्ध्रभूषिताः पर्वतोपवर्षावर्णनम् त्यकाः, पयोदनादाकर्णनोपजाततीवोत्कण्ठाः परिमुषितमनीषा इव प्रवा सिनः, चातकशिखण्डिमण्डलमण्डूकध्वनिविषमविषवेगमोहिताः पथिक१ 'कश्मीरगुरु' इति क-ख-पाठः। 2 'केलगिरौ' इति क-ख-पाठः। 3 ' परिधृतः ' इति ग-पाठः / ४'अरणान्यः ' इति ग-पाठः / 5 'चितस्तरङ्ग' इति क-ख-पाठः /
SR No.004407
Book TitleTattvarthadhigam Sutra Part 01
Original Sutra AuthorN/A
AuthorBhavyadarshanvijay
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy