________________ 123 सूत्रं 35 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् .. अथ सङ्ग्रहः कथं घटमिच्छतीत्याह. भा०-एकस्मिन् वा बहुषु वा नामादिविशेषितेषु साम्प्रतातीतानागतेषु घटेषु सम्प्रत्ययः सङ्ग्रहः॥ ____टी. ---एकस्मिन्नित्यादि / एकस्मिन् घटे बहुषु घटेषु वा नामादिविशेषितेविति नामस्थापनाद्रव्यभावघटेष्वित्यर्थः। साम्प्रतेषु-वर्तमानेप्वतीतेषु-अतिक्रान्तेप्वनागतेषु-आगामिषु घटेषु यः सम्प्रत्ययः-सामान्यं घटो घट इति परिज्ञानं स सङ्ग्रहः, यस्मात् सामान्यमेव घटादिरूपेण निर्भासते, न सामान्यादन्ये विशेषाः सन्ति / व्यवहाराभिप्रायप्रकटनायाह भा०-तेष्वेव लौकिकपरीक्षकग्राह्येषूपचारगम्येषु यथास्थूलार्थेषु सम्प्रत्ययो व्यवहारः॥ ___टी-तेष्वित्यादि / एकद्विवहुत्वनामादिरूपेषु लोके विदिता लौकिकाः परीक्षकत्वेन ज्ञाताः लौकिकपरीक्षकाः-पर्यालोचकाः तेपां ग्राह्याः-आदेयाः जलाद्याहरणार्थ ये घटास्तेषु, उपचारगम्येष्विति लोकक्रियाधारेषु, यथास्थूलार्थेविति सूक्ष्मसामान्योरसजेनेषु, यतोऽस्य विशेषैरेव व्यवहारो भूयसा, न सामान्येनेति // ऋजुसूत्रनयमतं विवृणोतिभा०-तेष्वेव सत्सु साम्प्रतेषु सम्प्रत्ययः ऋजुसूत्रः॥ टी०–तेष्ववेत्यादि / घटेषु सत्सु-विद्यमानेषु वर्तमानसमयावधिकेषु सम्प्रत्ययः अजुसूत्र इति // अधुना साम्प्रताभिप्रायं निरूपयति. . भा०-तेप्वेव साम्प्रतेषु नामादीनामन्यतमग्राहिषु प्रसिद्धपूर्वकेषु घटेषु सम्प्रत्ययः साम्प्रतः शब्दः // टी.-तेप्ववेत्यादि / ऋजुसूत्राभिप्रेतेषु वर्तमानकालाधिकेषु नामस्थापनाद्रव्यभावघटानां ये वाचकाः शब्दास्ते चान्यतमग्राहिणः, यस्माद् यस्य शब्दस्य नम्यमानः पदार्थों वाच्यो न तस्य स्थापना, यस्य वा स्थापना न तस्य द्रव्यं, यस्य द्रव्यं न तस्य भावः इत्यतो नामादीनां घटानां ये शब्दाः अन्यतमं-नामस्थापनादिकं गृह्णन्ति तेऽन्यतमग्राहिणस्तेषु शन्देषु उच्चारितेष्वन्यतमग्राहिषु यद् विज्ञानं स साम्प्रतः, ते शब्दा यदि प्रसिद्धाः पूर्व भवन्तिनिर्माताभिधेयसम्बन्धाः अस्येदं वाच्यमित्यनेन रूपेण, तथा गमका इत्येतदाह-प्रसिद्धपूर्वकेषु, प्रसिद्धः पूर्वो येषां प्रथमं सङ्केतस्ते प्रसिद्धपूर्वकास्तेषु नामादीनामन्यतमवाचकेषु सम्प्रत्यय इति // समभिरूढमतोद्विभावयिषया आह१' उच्च रितेषु ' इति ख-पाठः /