________________ सूत्र 22 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् 171 एवमितरेन्द्रियप्राप्तानामपि वाच्यम् / द्रव्यमिन्द्रियनानात्वान्नानाकारस्पर्शादिभेदमापद्यते स्वनिमित्ततस्त्वेकाकारद्रव्यस्वलक्षणविशिष्टत्वात् , यदेवास्यान्तरङ्गं लक्षणं तदेव स्वरूपं त एव हि तस्य धर्माः सर्वदाऽजहदृत्तित्वात् स्वलक्षणम् , परनिमित्तास्तु क्षेत्रद्रव्यकालादयोऽपगच्छन्तोऽनुगच्छन्तश्च न स्वलक्षणं तदनादिपारिणामिकधर्माविष्कृतस्वरूपं वस्त्वि न्द्रियादिव्यपदेशाद् भिद्यते, यश्च स्वरूपावस्थितस्य पश्चादिन्द्रियसम्बन्धो द्रव्यक्षेत्रादीनाम म नासी वस्तुनः स्वरूपं भवति तेन स्पर्शादयो न द्रव्यादर्थान्तरमथ न परनिमित्तता निमित्त एपां भेदो द्रव्याभेदेऽपीति / एतेन दार्शनस्पार्शनमेव च द्रव्यमिति प्रत्यस्तम् / अत्र चात्मागुलप्रमितसातिरेकयोजनलक्षावस्थितं चक्षुः प्रकाशनीयरूपं गृहाति प्रकर्षत इति सिद्धान्तः। एतेन पुष्करार्धवर्तिपुरुषसातिरेकैकविंशतिलक्षाप्रमितरदेशोत्कृष्टदिवसोदयकालवर्तिसूर्यदर्शनचोद्यमपास्तमध्यवसातव्यम् / अप्राप्तकारित्वाच योग्य देशव्यवस्थितमेव रूपमागृह्णाति शरीरदेशस्थम् / अप्राप्तकारिता चास्य area मनोवदनुग्रहोपघातशून्यत्वात् , न चास्य हुतभुगजलशूलाद्यालोकनाद् दहनक्लेदनपाटनादयो दृश्यन्ते / आवृताग्रहणात् प्राप्तविपयमिति चेत्, प्रसदेतत् , मनोऽपि हि विपगराद्यावृतं न गृह्णात्यथ चाप्राप्तकारीति, स्पर्शरसगन्धास्तु योजनवकप्रमिताद् देशादागताः प्रकर्पतः स्पर्शनादिभिः शरीरव्यवस्थितरुपलभ्यन्ते स्पर्शनरसनगणानां प्राप्त कारित्वात् , प्राप्तकारित्वं चोपघातानुग्रहदर्शनादग्निचन्दनादिभिरवगन्तव्यम् / ब्दोऽपि स्वपरिणाममजहद योजनद्वादशकप्रमितात् प्रदेशादागतः श्रोत्रेण प्रातकारिणोकर्णाद् गृह्यते स चायाति श्रोत्रदेशमाशु पुद्गलमयत्वे सति सक्रियत्वात् , सक्रियत्वं युना उह्यमानत्वाद् धृमस्येव, गृहादिपु तु पिण्डीभवनाद् विशेपतश्च द्वारानुविधानात यवत् प्रतिघाताच्च नितम्बादिषु वायुवदिति / प्राप्तकारित्वं चानुग्रहोपघातपाटववाधिगदिदर्शनादस्यावसेयम् / अवरतश्चक्षुरगुलसङ्ख्येयभागप्रमितदेशवर्ति रूपं परिच्छिनत्ति, पाण्यगुलासङ्ख्येयभागप्रमितप्रदेशादागतं विषयमाददते करणानीति // 21 // यथा चैषां स्पर्शादयोऽस्तैिग्रहणादेवमिदमहत्प्रणीतं यथास्थितजीवपदार्थख्यापनरम्, प्रयोजनापेक्षया द्वयनेकद्वादशभेदं श्रुतज्ञानं मनसोऽर्थ इत्याचिख्यासुराह-- सूत्रम्-श्रुतमनिन्द्रियस्य // 2-22 // भाo-श्रुतज्ञानं द्विविधमनेकद्वादशविधं नोइन्द्रियस्यार्थः // 22 // टी०–श्रुतमनिन्द्रियस्य / श्रुतं ज्ञानावरणक्षयोपशमप्रभवं द्रव्यश्रुतानुसारि प्रायो अनिन्द्रियस्य निजार्थोपसङ्गतमात्मनः परिणतिप्रसादरूपं तत्त्वार्थपरिच्छेदात्मकं भाव विषयः श्रुतं तदनिन्द्रियस्य मनसोऽर्थः, अथवार्थावग्रहसमसात् परतो मतिगानमेव श्रतज्ञानं भवति तच्च न सर्वेषामिन्द्रियाणामर्थावग्रहात् परतः, किन्तु मनोऽर्थावहादेव परतो मतिः श्रुतीभवति विशेषतस्तु श्रुतग्रन्थानुसारेणेति, द्वयनेकद्वादशविधविशे