________________ तत्त्वार्थाधिगमसूत्रम् [ श्रीदेवगुप्तयदपि कलमकेदारावसेकायानुषङ्गामिवर्धितोत्पलवनिःश्रेयसप्राप्त्यन्तरालदेवादिभवसुखं तदप्यवगणय्यासक्ता मोक्षायैव घटन्त इत्येतत् कुशलानुबन्धमनवयं कर्म, अन्यथा निरनुबन्धतुल्य एव स्यात् ततश्च पञ्चैव स्युः, अन्त्यस्य तु चरमत्वान्निरनुबन्धं चरमेष्वपि वक्तृत्वात् तद्विशेषपरिग्रहः // 5 // निरनुबन्धस्वामी, स चायम्यस्तु कृतार्थोऽप्युत्तम मवाप्य धर्म परेभ्य उपदिशति / नित्यं स उत्तमेभ्यो ऽप्युत्तम इति पूज्यतम एव // 6 // आर्या व्या०–यस्तु कृतार्थ इत्यादि / यः पुरुष इति वर्तते,पुनरर्थे तुशब्दः,यः पुनरिति, कृतोऽर्थोऽनेनेति कृतार्थोऽवाप्तेष्टार्थः। आनेडनेऽपिशब्दः, आस्तां तावदसदादिरकृतार्थः; कृतार्थोऽपि सन्नित्याचार्यो दर्शयति, उत्तम प्रधानं मोक्षफलमवाप्याधिगम्य ज्ञात्वा, स चोत्तमः क्षमादिदशलक्षणो वक्ष्यते / सुतलाभादिषु कृतार्थशब्दं व्यभिचरन्तं दृष्ट्वा विशेषणमाह-उत्तममवाप्य, किमुत्तममवाप्य उत्तममर्थ इति वर्तते, अर्थवशाच विभक्तिपरिणामः, उच्चैर्गृहाणि देवदत्तस्यामन्त्रयस्वैनमिति, यथा स चोत्तमोऽर्थः सर्वप्रयत्नप्रयोजनं केवलज्ञानं तदवाप्य कृतार्थो भवतीति दर्शयति,एतेनैव धर्मस्योत्तमत्वं व्याख्यातम् / नहि सर्वज्ञोऽन्यथा प्रणयति / परेभ्य उपदिशति कुतार्थत्वेऽपि चतुर्थी,वक्ष्यमाणनामकर्मचोदितःतदुपयोगार्थमुपदेशदानकर्मणा परानभिप्रैतीति दर्शयति-नित्यं स उत्तमभ्योऽप्युत्तम इति पूज्यतम एव, नित्यं प्रतिदिनमुपदिशत्याकर्मक्षयात्, अयं ह्यागमः-तीर्थकरः प्रतिदिवसमाद्यां चरमां च पौरुषी धर्मकथां करोति / नियोगपदादिषु चापेक्षिकमुत्तमत्वं पूज्यतमत्वं च तन्निषेधार्थमाह-नित्यमेवासावुत्तमोत्तमो नित्यं च पूज्यतमो न पर्वकालादिष्विति / स इति यदपेक्षो निर्देशः, उत्तमेभ्योऽनन्तरनिर्दिष्टेभ्योऽन्येभ्यश्च प्रसिद्धेभ्यः उत्तमेभ्योऽपि तावदयमुत्तमः किमुतेतरेभ्यः इत्यपिशब्दो दर्शयति / इति एवमर्थे, एवं च कृत्वाऽयं पूज्यतम एव / एवकारश्चार्थे, उत्तमोत्तमश्चायं पूज्यतमश्चेति, आदरं चावधारयति, सादरेणायं पूज्यतमः॥६॥ पञ्चभिरेव गतेऽर्थेऽस्योपन्यासः प्रवचनप्रणेतृत्वादाचार्यश्चोपदेष्टुकामः कृतार्थोऽप्युपदिशति किं पुनरसद्विध इत्यसूयाद्वारा उपदेशगौरवं दर्शयति / कः पुनरसाविति प्रयोजनमेवोदाहरणेनाह तस्मादर्हति पूजामहन्नेवोत्तमोत्तमो लोके / देवर्षिनरेन्द्रेभ्यः, पूज्येभ्योऽयन्यसत्त्वानाम् // 7 // आर्या व्या०-तस्मादहतीत्यादि / यथा(स्मात्) कृतार्थोऽप्युपदिशति तस्मात कारणादिति कारणे पञ्चमी, अर्हति भागी योग्यतमः, पूजामर्चनमभीष्टवादिभिरभिगमनं, कोऽसाविति