________________ अथ कार्यारम्भे 'श्रीमोहनलालजीजैनसेन्ट्रललाइब्रेरी'तः तत्त्वार्थाधिगमसूत्रस्य श्रीसिद्धसेनगणिकृतटीकायाः प्रतिः श्रीजयमरिप्रधान शिष्य श्रीमत्प्रतापमुनिद्वारा समासादिता / प्रत्यन्तरं च लब्धं श्रीजीवनचन्द्रात् / तदनन्तरं मुद्रणालय पुस्तिका समारब्धा / पाठान्तरार्थ श्रीजयमूरिदत्तमुद्रितपुस्तकस्य 'बङ्गालएशियाटिकसोसायटी' प्रकाशितस्य पुस्तकस्य चोपयोगः कृतः / एषामादर्शपुस्तकानां क-ख-ग-घेति संज्ञा निर्धारिता / सन्दिग्धस्थलेषु साधनीभूतायाः सूर्यपुरस्थजैनानन्दपुस्तकालयप्रतेस्तु साक्षादुल्लेखः / पञ्चाध्यायपर्यन्तमुद्रणालयपुस्तिकायाः प्रायः समाप्तौ सत्यां विषयसूचकानां पार्श्वनिर्दिष्टटिप्पनिकानां मयोल्लेखोऽकारि येन सुलभतया सर्वेषां विषयाकलनं स्यादिति / अनन्तरं मुद्रणालयपुस्तिका जैनसिद्धान्तपारङ्गतश्रीआनन्दसागरसूरिसविधे प्रहिता / मय्यनुकम्पाहृदयस्तैर्मदभ्यर्थनया प्रायः सर्वत्र आगमोद्धृतपाठस्थलच्छायाभिः पञ्चमाध्याये टिप्पनीभिश्च सा विभूषिता। संशोधनकार्ये चातीव साहाय्यमकारीति तेषां परोपकृतिसौजन्य वर्णयितुं न पारये। ग्रन्थार्धस्य परिसमाप्तौ प्रकाशकाय मया सूचितं यदस्य शुद्धिपत्र सार्वसिद्धान्ततत्ववेदिना मुनिवरेण तज्ज्ञगृहस्थेन वा यदि क्रियेत तर्हि महान् लाभो मविष्यति ग्रन्थोऽपि विशेपत आदरणीयः स्यादिति / तद्रीकृत्य तेन विज्ञप्तर्जनशासनसेवाहेवाकैः उपाध्यायश्रीमङ्गलविजयैर्मत्प्रोत्साहनगर्भितमेतत् कार्य स्वीकृतम् / 'उग्रसेन ( आग्रा )पुरस्थश्रीविजयधर्मलक्ष्मीज्ञानमन्दिरस्य 326 पंवात्मिका श्रीविक्रमात् 1722 तमे वर्षे ज्येष्ठकृष्णद्वितीयायां लिखितां नात्यशुद्धां प्रति समादाय शुद्धिपत्रं पाठान्तरसमेतं स्वानुभवगम्यपाठकलितं तैरकारीति तेषां कियान् परिश्रमो बभूवेति विद्वांस एव जानीयुः / अन्ते यैर्महानुभावैर्येन केनापि साहाय्यदानेनाहमृणीकृतः तेषां सौजन्य संस्मरन् पठनपाठनप्रवणपण्डितवर्येभ्यः स्खलितस्थलसम्बन्धिनी क्षमा याचमानोऽस्माद् विज्ञापनप्रस्तावाद् विरमामि S . पारये। रसिकनन्दनः कापडियेत्युपाहो हीरालालः। 1 पत्रस्योभयपाधै त्रिंशत् त्रिंशत् पङ्कपः, प्रत्येकपटी च एकषष्टिरक्षराणि /