________________ 366 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 5 सति भवत्येव कार्य ड्यणुकादि ज्ञानादि वा, अन्यथा तु न भवत्येव, यतो यस्मिन् सति भवत्येव यस्य सद्भावस्तदभावे च न भवत्येव यत् तत् कारणमितरत् कार्यम् , एवं च यह च्छया प्राप्तानां व्योमाराममहीध्रादीनां कारणभावोऽन्यत्र निराकृतोऽवसेयः। एवमप्यनुपप __नमवधारणं यस्मिन् सति भवत्येव कार्य न भवत्येव चान्यथेति, यतः कायकारणलक्षणम् करवीरजन्मारुशोत्पलफलात् स्वकाण्डात् स्वबीजाच दृष्टम्, दूर्वा च गोली. माविलोमादिभ्यः, सरस्तु शृङ्गादिति, अत्रोच्यते-परमाणुषु सत्सु भवत्येवेदमात्मनि चेत्यदोषः, सङ्क्षपात् परिणामिकारणापेक्षाः परिणामाः प्रतिस्वमासादयन्त्युपजननं कारणवैकल्ये तु न प्रादुष्यन्ति मन्त्रप्रतिबद्धविषमारणशक्तिवत् / इत्थं निरवधं कार्यकारणलक्षणम् / यान्यपि कर्तृनिमित्तापेक्षाख्यानि कुम्भकारदण्डाकाशादीनि तान्यप्यनयैव दिशा योजनीयानीति न कश्चिद् विरोध इति सूचनीयः सूक्ष्म आगमसमधिगम्योऽस्मदादिभिः, नित्यश्चेति द्रव्यास्तिकनयापेक्षयाऽनुज्झितमूर्तिः, पर्यायापेक्षया तु नीलादिभिराकारैरनित्य एवेति, न ततः परमणीयोऽस्ति द्रव्यमिति परमाणुः, पञ्चानां रसानां द्वयोर्गन्धयोः पञ्चविधस्य वर्णस्यान्यतमेलेकेन रसादिना युक्तः, चतुर्णा स्पर्शानां मध्ये स्पर्शद्वयेनाविरुद्धेन युक्तः कार्येणास्मदादिप्रत्यक्षदृश्येन बादरपरिणामभाजाऽनेकविधेन लिङ्ग्यते-समधिगम्यत इति / अणुस्कन्धभेदप्रतिपादनायेदमाह--- भा०-तत्राणवोऽबद्धाः, स्कन्धास्तु बद्धा एवेति // 25 // टी-तत्राणव इत्यादि / अबद्धाः-परस्परेणासंयुक्ताः परमाणवः, स्कन्धाः पुनबोदरपरिणामपरिणता अष्टस्पर्शा बद्धा एवाणुसङ्घाताः, सूक्ष्मपरिणामभाजस्तु चतुःस्पर्शा एव भवन्ति बद्धाश्चे(एवे)ति परस्परसंहत्या व्यवस्थिता इति // 25 // भा०----कथं पुनरेतद् द्वविध्यं भवतीति ? / अत्रोच्यते-स्कन्धास्तावत् / / अत्राह टी.----अत्राहेत्यादिसम्बन्धग्रन्थः / अज्ञः प्रश्नयति-परमाणवः स्कन्धाश्चेति किंकृ. तोऽयं विशेषस्तुल्ये पुद्गलद्रव्यत्वे ? मूरिराह-स्कन्धास्तावदित्यादि / क्रमप्राप्तेषु परमाणुषु वक्तव्येषु स्कन्धास्तावद् बहुवक्तव्यत्वात् प्रथममुच्यन्ते, तावच्छब्दः क्रमभेदावद्योतनार्थः, यथा च ते स्कन्धाः समुद्भवन्ति तथा मूत्रऽत्र दर्शयति सूत्रम्-सङ्घातभेदेभ्य उत्पद्यन्ते // 5-26 // भा०-सङ्घाताद भेदात् सङ्घातभेदादित्येभ्यस्त्रिभ्यः सङ्घातोद्भवे कारणेभ्यः स्कन्धा उत्पद्यन्ते द्विप्रदेशादयः। त्रिकारणता टी०-सङ्घातादित्यादि भाष्यम् / एतदुक्तं भवति-संहतत्वाद् भिन्नत्वात् सङ्घातभेदाच स्कन्धानामुद्भवः / इतिशब्दः कारणेयत्ताप्रकाशनार्थः, विप्रदेशादय इति सकलस्कन्धराशेरायस्कन्धोपन्यासभावनयाऽशेषस्कन्धविषयः सङ्घातः सुज्ञान इत्यादिग्रहणमुदचीचरत् // १'ततो यस्मिन्' इति क-पाठः। २'गोलोमानुलोमा' इति क-पाठः। 3.' यथा.वा' इति क-ख-पाठः।