________________ सूत्रे 37-38 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् 311 टी०-सनत्कुमारे सप्त सागरोपमाणि परा स्थितिरिन्द्रादीनामिति // 36 // सूत्रम्-विशेषत्रिसप्तदशैकादशत्रयोदशपञ्चदशभिरधिकानि च // 4-37 // भा०-एभिर्विशेषादिभिरधिकानि सप्त माहेन्द्रादिषु परा स्थितिर्भवति / सप्तेति वर्तते / तद्यथा-माहेन्द्रे सप्त विशेषाधिकानि, ब्रह्मलोके त्रिभिरधिकानि माहेन्द्रादीनां परा सप्त, दशेत्यर्थः / लान्तके सप्तभिरधिकानि सप्त, चतुर्दशेत्यर्थः। _ स्थितिः महाशुक्रे दशभिरधिकानि सप्त, सप्तदशेत्यर्थः / सहस्रारे एकादशभिरधिकानि सप्त, अष्टादशेत्यर्थः / आनतप्राणतयोस्त्रयोदशभिरधिकानि सप्त, विंशतिरित्यर्थः / आरणाच्युतयोः पञ्चदशभिरधिकानि सप्त, द्वाविंश. तिरित्यर्थः // 37 // टी०-सप्त सागरोपमाणि विशेषेणाधिकानि माहेन्द्रे परा स्थितिः, ब्रह्मलोके सप्त त्रिभिरधिकानि परा स्थितिः,दश सागरोपमाणीत्यर्थः। लान्तके सप्त सागरोपमाणि सप्तभिरधिकानि परा स्थितिश्चतुर्दशसागरोपमेतियावत् / महाशुक्रे सप्त सागारोपमाणि दशभिरधिकानि परा स्थितिः, सप्तदश सागरोपमाणीत्यर्थः / सहस्रारे सप्त सागरोपमाण्येकादशभिरधिकानि परा स्थितिरष्टादशसागरोपमेतियावत् / आनतप्राणतयोः सप्त सागरोपमाणि त्रयोदशभिरधिकानि परा स्थितिविंशतिसागरोपमेत्यर्थः / एकेन्द्रोपभोग्यत्वान्न पृथकू कल्पद्वयेऽभिहिता। आरणाच्युतयोः सप्त सागरोपमाणि पश्चदशभिरधिकानि परा स्थितिविंशतिसागरोपमेत्यर्थः / अत्राप्येकेन्द्रोपभोग्यत्वादेव न विवेकेनाभिधानमिति // 37 // सूत्रम्-आरणाच्युतादूर्ध्वमेकैकेन नवसु ग्रैवेयकेषु विजयादिषु ___सर्वार्थसिद्धे च // 4-38 // भा०-आरणाच्युतादूर्ध्वमेकैकेनाधिका स्थितिर्भवति नवसु अवेयकेषु विजयादिषु सर्वार्थसिद्धे च / आरणाच्युते द्वाविंशतिवेयकेषु पृथगेकैकेनाधिकास्त्रयोविंशति(प्रभृति)रित्यर्थः / एवमेकैकेनाधिकाः सर्वेषु नवसु यावत् सर्वेषामुपरि नवमे एकत्रिंशत् / सा विजयादिषु चतुर्ध्वप्येकेनाधिका द्वात्रिंशत् / साऽप्येकेनाधिका, सर्वार्थसिद्धे त्वजघन्योत्कृष्टा त्रयस्त्रिंशदिति // 38 // टी-आरणाच्युतादिति कृतैकवद्भावो निर्देशः, आरणोपलक्षितो वाऽच्युतः, ऊर्ध्वमेकैकेन सागरोपमेणाधिका नवस्वपि ग्रैवेयकेषु विजयादिषु च चतुषु सर्वार्थसिद्धे च परा स्थितिवेदितव्येति / शेष भाष्यं सुज्ञानमेव // 38 // भा०-अत्राह-मनुष्यतिर्यग्यानिजानां परापरे स्थितीव्याख्याते,अथौपपातिकानां किमेकैव स्थितिः परापरे न विद्यते इति ? / अत्रोच्यते