Book Title: Dvadasharnaychakram Part 1
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
Catalog link: https://jainqq.org/explore/002584/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Labdhisurishwar Jain Granthamala No. 20 THE DVADASHARANAYACHAKRAM OF SRI MALLAVADI KSHAMASRAMANA THE NYAYAGAMANUSARINI COMMENTARY A. D. 1948] WITH BY SRI SINHASURAGANI VADI KSHAMASRAMANA 2010_04 PART I Edited with Critical Introduction, Index & Vishamapadavivechana BY ACHARYA VIJAYA LABDHI SURI Ø PUBLISHED BY CHANDULAL JAMNADAS SHAH 3 SECRETARY SHRI LABDHI SURISHWAR JAIN GRANTHMALA CHHANI (BARODA STATE) ++ FIRST EDITION 750 COPIES PRICE 6 RUPEES [V. S. 2004 Page #2 -------------------------------------------------------------------------- ________________ श्रीलब्धिसूरीश्वरजैनग्रन्थमाला प्रकाशितग्रन्थसूची १ जैनव्रतविधिसंग्रह ०-८-०११ मूर्तिमंडन (हिन्दी) २ हीरप्रश्नोत्तराणि ०-१२-० १२ आरम्भसिद्धिः (सटीका) २-८-० ३ श्रीपालचरित्रम् भेट १३ तत्त्वन्यायविभाकरः ( सटीकः) ५-०-० ४ तत्त्वन्यायविभाकरः ( मूलः) ०-८-०१४ दीपालिकाकल्पः ५ पञ्चसूत्रम् भेट १५ सम्मतितत्त्वसोपानम् ६ हरिश्चन्द्रकथानकम् भेट १६ सूत्रार्थमुक्तावलिः ५-०-० ७ वैराग्यरसमञ्जरी भेट | १७ सकलार्हत्स्तोत्रम् (सटीकम् ) ८ चैत्यवन्दनचतुर्विंशतिः ०-२० १८ आत्मानन्दस्तवनावली ९ कविकुलकिरीट ०-८-० १९ धन्य नारी भेट १० मूर्तिमंडन (गुजराती) ०-४-०२० द्वादशारनयचक्रम् १ भागः ६-०-० प्रकाश्यमानग्रन्थसूची १ श्रेयांसनाथचरित्रम् , मानतुङ्गसूरिकृतम् २ श्राद्धविधिप्रकरण मूल अने टीकाना गुर्जरानुवादसहित ३ प्रगतिनी दिशा. जाहेर व्याख्यानो, सारभूत अवतरण. ४ नूतनस्तवनावली. 2010_04 Page #3 -------------------------------------------------------------------------- ________________ ॥ अहम् ॥ श्रीलब्धिसूरीश्वरजैनग्रन्थमालाया विंशतितमो मणिः [२०] तार्किकशिरोरत्नवादीन्द्रश्रीमल्लवादीक्षमाश्रमणविरचितम् द्वादशार न य च कम् । तांगमपारङ्गतसिंहसूरगणिवादीक्षमाश्रमणसन्हब्धया न्या या ग मा नु सारिणी-व्याख्यया विभूषितम् । व्याख्याधारेण मूलं विशोध्य, विषमपदविवेचनाख्यव्याख्यया चालङ्कृत्य सम्पादकः संशोधकश्च आचार्य श्री म द्वि ज य ल ब्धि सूरीश्वरः। तस्य चा यं प्रथम-द्वि ती या राम को प्रथमो विभागः। प्रकाश यि ता छाणीस्थ-श्रीलब्धिसूरीश्वरजैनग्रन्थमाला-सञ्चालकः शाहेत्युपातः जमनादासात्मजश्चन्दुलालः। प्रथम संस्करणे ७५० प्रत यः बीरसं० २४७४ आत्मसं. ५२ विक्रमसं० २००४ मूल्यं षड् रुप्यकाः 2010_04 Page #4 -------------------------------------------------------------------------- ________________ प्रकाशक : प्राप्तिस्थानश्च चन्दुलाल जमनादास शाह मंत्री, लब्धिसूरीश्वर जैन ग्रन्थमाला छाणी (वडोदरा स्टेट) मुद्रक : रामचंद्र येसू शेडगे, निर्णयसागर प्रेस, २६-२८ कोलभाट स्ट्रीट, मुंबई नं. २ 2010_04 Page #5 -------------------------------------------------------------------------- ________________ 2010_04 Page #6 -------------------------------------------------------------------------- ________________ पू० पाञ्चालदेशोद्धारक न्यायाम्भोनिधि युगप्रधानकल्प जैनाचार्य श्रीमद्विजयानन्दसूरीश्वरजी महाराजके पट्टालंकार निस्पृहचूडामणि सद्धर्मसंरक्षक जैनाचार्यश्रीविजय कमलसूरीश्वरजी महाराज 2010_04 Enter trurte. t. नि. सा. प्रेस, मुंबई. RCM HOIMB 100 Page #7 -------------------------------------------------------------------------- ________________ प्राव्राज्य शिक्षणं दत्त्वा कृत्वा विद्याविशारदम् । सिद्धान्तं पाठयित्वा यैर्वात्सल्यात् प्रतिपाल्य माम् ॥ १॥ पदे स्वकीये संन्यस्य ख्यातिमन्तं विधाय च । ग्रन्थमेतं समीकर्तुं प्रेरितः स्तम्भने पुरे ॥ २ ॥ कालादशुद्धिभूयिष्ठं सुविचार्य विशोधितम् । श्रीमत्कमलसूरिभ्यस्तेभ्य एनं समर्पये ॥ ३ ॥ विजयलब्धिसूरिः 2010_04 Page #8 -------------------------------------------------------------------------- ________________ 2010_04 Page #9 -------------------------------------------------------------------------- ________________ धन्य वा द अने आ भार श्रीद्वादशारनयचक्र-सटीक जेवा विशालकाय ग्रन्थरत्नना प्रकाशननी अमारी योजनानी जाण थतां, तेना प्रकाशन माटे आवश्यक द्रव्यसाहाय्य करी, अमारी योजनाने तात्कालिक मूर्त खरूप आपवानो अमारो उत्साह वधारी, श्रुतज्ञाननी आराधनाना सहभागी थनारा पुण्यवानोनी शुभ नामावली आ नीचे आपीने अमे कृतार्थता अनुभवीये छीए. अमने मळेली साहाय्य आ प्रकाश्यमान एक भाग पूरती ज नथी, पण समग्र ग्रन्थना प्रकाशनने अंगे छे. हजी पण वधती जती मुद्रणसाधनोनी मोघवारीमां, आ साहाय्य आ एक भागने माटे पण परिपूर्ण थाय तेम नथी. छतां आ ग्रन्थरत्ननुं मूल्य, पडतरथी पण घणुं ओछु राखवामां आव्यु छे. साहाय्य अर्पनार सद्गृहस्थोनां अने प्रेरणा करनार पू. गुरुभक्त उपा० श्रीजयन्तविजयजी गणिवरना अमो अत्यन्त आभारी छीये. साहाय्यकोनां शुभनामो आ प्रमाणे छः १०३९ शेठ भाणजीभाई धरमशी शापरीया मुंबई १००१ वापी जैन पंच (ज्ञानद्रव्यनी आवकमांथी) १००१ शेठ पुनमचंदजी गुलाबचंद गुलेच्छा फलोधी (मुंबई) ७०१ दमण जैनश्री संघ ( ज्ञानद्रव्यनी आवकमांथी) ५०१ शेठ शान्तिलाल जीवणलाल अबजीभाई वढवाण शहेर ५०१ शेठ धीरजलाल अमुलखभाई कपासी चूडा (सौराष्ट्र) (ची० कीर्तिकुमार तथा ची० रजनीकान्तना श्रुताराधननिमित्ते) -प्रकाशक 2010_04 Page #10 -------------------------------------------------------------------------- ________________ પ્રકાશકીય વક્તવ્ય દ્વાદશાનિયચક-પ્રથમ ભાગના પ્રસ્તુત પ્રકાશનથી, અમારી પ્રકાશન પ્રગતિ એક નવું જ સીમાચિ સ્થાપે છે. દ્વાદશાહનચક, જૈન શાસનનો એક મહાન દર્શન પ્રભાવક ગ્રન્થ છે. આના કતા પૂ. આચાર્ય શ્રીમદ્ભવાદી ક્ષમાશ્રમણ છે. તેઓ શ્રીમદે વિધિનિયમભદ્રવૃત્તિએ પદથી શરૂ થતી એક જ કારિકા ઉપર આશરે આઠ હજાર શ્લોક પ્રમાણ ભાગરૂપે આ ગ્રન્થરતની રચના કરી છે. આ ભાષ્ય ઉપર, પૂ. શ્રીસિંહસૂરગણિવાદી ક્ષમાશમણુજીએ, સંક્ષિપ્ત અને અતિગહન “ન્યાયાગમાનુસારિણી નામક ટીકા કરી છે. આ ટીકા પણ અમે સાથે જ પ્રકાશિત કરીએ છીએ. પૂ. શ્રીમદ્ભવાદી ક્ષમાશ્રમણજીના ભાષ્યનું સ્વતંત્ર અસ્તિત્વ આજે ક્યાંય નજરે પડતું નથી. ટીકામાં પ્રતિક રૂપે લેવાયેલાં પ્રતિક પદોના આધારે, પૂ. આચાર્ય મહારાજજી એ, ભાષ્યને અતિ પરિશ્રમે તૈયાર કરી અલગ તારવ્યું છે. તે ઉપર આપવામાં આવ્યું છે. આ ગ્રન્થનું સંપાદન, પૂ. ગુરૂદેવ શ્રીમદ્વિજય લબ્ધિસૂરીશ્વરજી મહારાજાએ, અનેકાનેક હસ્તપ્રતિઓ સન્મુખ રાખીને, તેમજ જે જે દર્શનનું વિવરણ ગ્રન્થકારે કર્યું છે તે તે દર્શનના ઉચ્ચ અને પ્રામાણિક ગ્રન્થો દ્વારા ગ્રન્થના હાર્દને શુદ્ધ કરવા પૂર્વક કર્યું છે. સેંકડો વર્ષોથી અભ્યાસમાં ન આવવાને કારણે આ ગ્રન્થ એટલો તો અશુદ્ધિભંડાર બની ગયો છે કે આનું સર્વીશે શુદ્ધિકરણ કરવું એ ઘણું જ પરિશ્રમ સાધ્ય છે. ગ્રન્થની ગહનતાને લક્ષમાં લઈને પૂ. મહારાજશ્રીએ આના ઉપર “વિષપદવિવેચન નામક વ્યાખ્યા લખી છે, તે પણ આ સાથે જ પ્રસિદ્ધ થાય છે. ગ્રન્થના બાર આરામાંથી પહેલા અને બીજા આરાને આ પ્રથમ ભાગ છે. બાકીના ભાગે ત્વરીત પ્રકાશિત કરવાનો અમારે યથાયોગ્ય પ્રયા ચાલુ જ છે. આર્થિક સહાધ્યકોની નામાવલી અન્યત્ર આપી છે. અન્ય રીતિએ સહાયક બનનાર પુણ્યવાનોને અમે આભાર માનીએ છીએ અને ઈચ્છીએ છીએ કે, આ મહાન ગ્રન્થરતનો અધિકાધિક સર્વાણ અભ્યાસ કરી વાંચકો શુતારાધન કરી ગ્રન્થકાર, સંપાક અને પ્રકાશકો વિગેરેનો પરિશ્રમ સફલ બનાવે. – પ્રકાશક, 2010_04 Page #11 -------------------------------------------------------------------------- ________________ न्यायागमानुसारिणीसमलकृतस्य द्वादशारनयचक्रस्य विस्तरतो विषयक्रमः ا سم سم ه ه ه م م م م م م विषयाः पृ० पं० विषयाः प्रथमे विध्यरे दर्शनान्तरसाधुताज्ञानं व्यामोहकारणाम व्याख्याकृतो मङ्गलाचरणम् वर्णनम् मूलकृतो मङ्गलश्लोकः ३ १० शेषशासनेषु विसंवादेन जिनशासने आस्थाशासनस्य द्रव्यार्थतो व्यापित्वाभिधानम् | कथनम् पर्यायार्थत एकस्थरववर्णनम् एतदर्थप्रतिपादकनयचक्रस्यावतरणकरणम् अनंतत्वान्तवत्वयोवर्णनम् |प्रसन्नवाग्देश्यनुगृहीता गाथा ज्ञानपाटवहेतुतावर्णनम् १८ | शास्त्रारम्भसम्बन्धप्रयोजनाभिधानम् व्यामोहहेतुस्वाशङ्कनम् अन्यशासनानृतत्वप्रतिपादनेन जैनवचसः विरोधं व्यत्यस्यानेकान्तस्थापकत्वकथनम् सत्यता गम्यत इति कथनम् शासनस्योर्जितस्वाभिधानम् विधिनियमशब्दयोः पर्यायशब्दाभिधानम् जयिस्वाभिधानम् तव्याख्यानम्. गम्यस्वागम्यत्ववर्णनम् । विधिनियमाश्रयेण द्वादशभङ्गाख्यानम् प्रकारान्तरेण तयोरेव वर्णनम् तेषां संक्षेपेणार्थकथनम् प्रागसमीक्ष्य किञ्चिदुक्त्वा पश्चात्तत्समीकरणाय वृत्तिशब्दस्य व्याख्या कल्पनान्तराश्रयणं दर्शनान्तरेष्वेवेति वर्णनम् ६ ४ | | प्रत्येकं भङ्गा नयरूपा न वृत्तय इत्यभिधानम् १ . प्रज्ञापनीयभावानन्तभागवर्तिस्ववर्णनम् ६ १३ परस्परापेक्षा भङ्गवृत्तय इत्यभिधानम् ११ ११ परवादतिरस्कारेण जयित्वाभिधानम् यथालोकग्राहं वस्त्विति विधिवृत्त्यारम्भणम् १११७ यदेवंविधं तननं जयति, शासनस्यैवंविधत्वमेव तीर्थकशास्त्रेषु लोकाभिप्रायस्य न विवेक प्रतिपादनीयं तत्तु तथाविधप्रतिपाद्यस्यैवा. भावाहुरुपपादमित्याशङ्कनम् _इति कथनम् प्रतिपाद्यप्रदर्शनम् तरसाधनाय विकल्पविरचनम् द्रव्यार्थिकपदसिद्धिशङ्कनम् ७ १४ तत्र प्रथमकल्पे सांख्यादीनां दोष इति लौकिकस्योक्तिः द्वित्वस्याविवक्षितत्वकथनम् स्वविषयसामान्यपक्षे एकत्र सर्वालपलम्भ. अनेकनयानामेकवाक्यतासम्पादकत्वं शासन समर्थनम् स्येत्यभिधानम् परशासनेषु सत्यत्वाशक्कापि न कर्तुमुचितेति सामान्यविरोधोद्धावनम् वर्णनम् तस्यैव समर्थनम् १२ १७ युगपदाविप्रत्यक्षविनिश्चयपदार्थेषु विसंवादि तत्रैव सामान्यरूपतायां दोषप्रदर्शनम् तावर्णनम् आत्मरूपतायां दोषवर्णनम् १२ २२ अयुगपद्भाविप्रत्यक्ष विनिश्वेयेषु विसंवादिता आत्मसामान्पयोरभेदाशङ्कनम् वर्णनम् सामान्यभेदप्रसङ्ग इत्युत्तरप्रदानम् भनुमानविनिश्चये विसंवादित्वकथनम् ८ १६ तत्स्फुटीकरणम् लौकिकव्यवहारोऽप्यनेकान्तवस्तुविषय | ततः प्रधानकल्पनावैयर्थ्यप्रकटनम् १३ २१ एवेति कथनम् ९ ३ तरसार्थकतां शकित्वा निराकरणम् द्वान अनु. 1 m १२ १९ 2010_04 Page #12 -------------------------------------------------------------------------- ________________ विषयाः आचार्यादिष्टान्तः कार्यकारणभावाभावाख्यानम् प्रधानवच्छन्दादीनां प्रधानधर्मतापादनम् वर्णनम् शब्दादिदान्तिकोपनयनम् प्रवृत्तेर्यादृच्छिकत्ववर्णनम् विशेषाभ्युपगमप्रसञ्जनम् परविषय सामान्यपक्षेऽसामान्यत्वापादनम् परस्य प्रदर्शनम् एकतर कारणत्वादित्यत्र तरपो विचारः सर्वभावव्यापित्वं द्रव्यस्येत्यभिधानम् द्रव्यशब्दव्युत्पत्तिः द्रव्यं कथं भवतीत्याशङ्कनम् तस्य समाधिः क्षेत्रमपि सर्वभावव्यापीति वर्णनम् क्षेत्रशब्दव्युत्पत्तिः लोकनायेन क्षेत्रस्वरूपम् कालोsपि सर्वभावव्यापीत्यभिधानम् क्रियाया वर्तनाया वा कालखाभिधानम् तस्य व्यापित्वोपदर्शनम् युगपद्वृत्तिकालाभिधानम् अयुगपद्वृत्ति कालप्रदर्शनम् भावस्य सर्ववस्तुतत्वव्यापितावर्णनम् क्षेत्रकालयोरपि भावत्वाभिधानम् भवनसामर्थ्यं सर्वस्येति समर्थनम् द्रव्यादीनि स्वविषयसामान्यवादिनापि स्वीकार्याणीत्यभिधानम् तेनापि स्वीकारान परविषयसामान्यप्रसिद्धिरिति वर्णनम् यस्य समानभवनं तदेव मुख्यं सामान्यमितिवर्णनम् f द्वादशार नयचक्रम् पं० विषयाः ९ तस्यैव परिष्करणम् १६ | परस्पर विशिष्टैक रूपाणां घटपटादीनां समुदायस्य परविषयसामान्यशङ्कनम् १८ २२ | पूर्वोदितदोषस्यैवात्रापादनम् 2010_04 पृ० १४ १४ १४ १४ १५ १५ ५ १५ १० १५ १८ १५ २२ १६ ३ १६ १२ १६ १४ १६ १७ १६ १८ १७ १ १७ ३ १७ १० १७ १५ १७ १८ १७ १७ १८ २ १८ ११ १८ १५ १८ १७ १८ १९ २० १९ ६ १५ न तु सादृश्यादि सामान्यमिति प्रतिपादनम् १९ ११ स्वेष्टेऽर्थे व्याकरणस्यापि प्रमाणीकरणम् १९ अनुमानतो द्रव्यादीनां सामान्यतासाधनम् १९ २० तत्र दृष्टान्तवर्णनम् अनुमानप्रयोगप्रकटनम् २० २० ४ अनेकैरवसामान्य मापाद्य तस्यासामान्यता कथनम् २२ ४ १४ संघातैः समवस्थितानामभेदो न सम्भवतीत्यभि धानम् जन्यजनकभावविनाश्यविनाशकभावसम्बन्धा भावाभिधानम् संघातानां परस्पर विलक्षणानां क्षणिकतया समा नत्वानुपपत्तिवर्णनम् मेदमभेदमते च सामान्यासम्भवे प्रतिपादिते उभयवादिना स्वमते तत्सम्भवतीत्युच्यत इत्यभिधानम् उभयवादिमतेन सामान्यसाधनारम्भः विशिष्टोक्तिप्रत्यययोः सामान्यव्यतिरेकेणापि सम्भव इति तम्मत निरासः arप्रत्ययसमर्थनम् गगनादौ सामान्याभावेऽपि तयोः सम्भव इति न यदृच्छयेति वैशेषिकसूत्रं प्रमाणीकृत्य पूर्वपक्षारचनम् पृ० पं० २० १५ व्यावर्णनम् तौ तत्रोपचरितावित्यस्य निराकरणम् २० लोकवृद्धव्यवहारादेव तौ भवत इति वर्णनम् २२ २१ लोकवृद्धव्यवहारोऽपि सामान्यादिनिमित्तेनैव, तत्रानवस्थाप्रसङ्गप्रकाशनम् वृद्धव्यवहारस्यानादिताकथनम् २० १९ २० २२ २१ २१ ६ २१ १२ अत्रार्थे पतञ्जलिप्रोक्तनित्यतालक्षणोद्भावनम् सामान्यसम्बन्धाभ्यां विमापि अभिधानप्रत्यय प्रवृत्तिवर्णनम् आपदार्थ प्रकाशनम् २४ लिखितादौ घटत्वाद्यारोपेणाभिधानादि - सम्भवेऽपि तत्त्वाभावस्तदवस्थ एव, अन्यथा तत्वमपि तत्र स्यादित्यादिदोषोद्भावनम् लोकनाये तु विनोपचारेण तत्सम्भव इति रूपणम् ३. इथं सामान्यपक्षं दूषयित्वा विशेषपक्षमुत्थापयति स्वविषयविशेषपक्षे विशेष विरोधादिदोषोत्की नम् २१ १७ २१ १९ ३ २२ ५ २२ ८ to * २२ १० २२ १२ १५ २२ २२ २३ ४ २३ ६ २३ ७ २३ १२ २३ १६ २४ २४ २४ વ્ ४ १५ १९ Page #13 -------------------------------------------------------------------------- ________________ Lar १ वाया ३३ २२ .. अनुक्रमणिका . विषयाः पृ० पं०] विषयाः पृ० पं० विशेषस्य क्षणिकत्वेनाऽऽरमाभावाभिधानम् २४ २२ तथा सति सामान्यस्वापत्तिरिति समाधानम् ३० मात्मनो विशेषाभेदमाशय निराकरणम् २५ ४ परस्परविशिष्टरूपादीनामेव विशेषत्वमिति विशेषस्यात्माभेदमाशय निराकरणम् २५ ८ शङ्कनम् विशेषस्यान्यथाभवनादनात्मत्वमिति निरूपणम् २५ १५ रूपादीनां द्रव्यादिभिरसम्बधेऽरूपादित्वमेवे. भारमविशेषयोरभावप्रतिपादनम् __ स्युत्तरप्रदानम् परविषय बिशेषपक्षप्रसअनम् २५ २१ | विशुद्धरूपाधभावाख्यानम् तत्रापि दोषाऽऽख्यानम् वायौ शुद्धस्पर्शसद्भावशङ्कनम् पटाद्यवृश्यात्मक एव घटः पटाद्यपेक्षत इत्या तत्रापि अनभिव्यक्तक्षेत्रादिद्व्यरूपादि. शङ्कनम् ___सम्बन्धकथनम् तद्वृत्तावनुपकारिणस्तेनानपेक्षणीयत्वमिति अनभिव्यक्ती कारणकथनम् ३१ २० ___ वर्णनम् वायौ रूपादीनां साधनम् समानजातिवादपेक्षत इत्याशङ्कनम् सतोऽप्यग्रहणे निदर्शनप्रदर्शनम् तर्हि सर्वत्र जातिसम्भवाद्विशेषाभाव एवेति एककालस्थितानां विशेषसद्भावशका ३२ ५ . निरूपणम् तथापि सामान्यत्वापस्या विशेषत्वाभावातस्यैव स्फुटीकरणम् २६ १९ । पादनम् कारणावस्थायां कार्यस्थाभावात् कार्यावस्थायां विशेषस्वतत्वस्य सर्वसामानाधिकरण्यादशेषस्य सिद्धत्वेन कारणापेक्षाभावात् कार्यकारण विकार एकविकारेऽपीति कथनम् ३२ १५ भावाभाव इत्यभिधानम् सामान्य विशेषयोस्तहुज्यासत्या ग्रहणशङ्कनम् ३३ । भावाभावयोरविशेषत्ववर्णनम् । २७ ९ यत्रासस्यभावस्तत्र तयोरभावत्वोक्तिः ३३ ९ पार्थिवस्वायपेक्षामभ्युपेत्यापि दोषोत्कीर्तनम् २७ द्रव्यगुणकर्मणां सामान्यविशेषाभावे स्वशातत्तत्त्वेनापेक्ष्यत्वात्तदात्मत्वमिति व्याख्या खानर्थक्योडावनम् ३३. १५ , विशेषाभावप्रसञ्जनम् तदुख्यासत्तेः काप्यभावारसामान्यविशेषयोरः द्रव्यत्वादीनां विशेषत्वमौपचारिकमन्त्य एवं ___भाव इति समर्थनम् विशेषो मुख्य इति शङ्कनम् २८ २ विशदं तमाख्यानम् द्रव्यक्षेत्रादित एव भेदसिद्धेरन्त्योऽपि व्यर्थ प्रत्यासत्तेद्वैविध्यनिरूपणम् इति निराकरणम् २८ ११ उभयोदृष्टान्तं प्रदर्य सामान्यविशेषसद्भाविशेषस्य प्रत्यक्षादिनाऽग्रहणमिति वर्णनम् वव्यावर्णनम् एतस्यैव विशदीकरणम् अर्थलक्षणप्रत्यासत्तौ दोषोद्धावनम् तत्रैवानवस्थोद्धावनम् सरवद्गब्यस्वादीनां सामान्यविशेषत्वानुपपत्तिपरविषयविशेषपक्षेऽविशेषत्वोक्तिः २९ ९ कथनम् अविशेषत्वापत्तिश्च परसामान्यपक्षनिराकरण तत्रैव स्वविषयसामान्य विशेषत्वापादनम् - वैपरीत्येनेति वर्णनम् तथा पूर्वोदितदोषानिर्मोकताप्रसञ्जनम् एकैकस्य जगद्विशेषणमित्याख्यानम् संसर्गवादिनं प्रत्यपि दोषप्रदानम् तत्समर्थनम् सर्वथाऽन्तरङ्गं वस्स्वभ्युपेयमिति स्थित्यभावाद्विशेषव्यवस्था न सम्भवतीत्या पक्षान्तरोगावनम् ख्यानम् घटादिभवनस्यान्तरकत्वस्वमूर्तिस्थरवादिअसम्बद्धदेशाद्यपेक्षयैतद्भवतु सम्बद्धदेशा समर्थनम् पेक्षया तु नेति शङ्कनम् ३० १६ तस्य व्यवस्थितत्वकथनम् 2010_04 Page #14 -------------------------------------------------------------------------- ________________ विषयाः सामान्य विशेषयोस्त्वव्यवस्थितत्वाभिधानम् ३७ घटभवनस्य सामान्याद्यनपेक्षत्वोक्तिः ३७ ३७ ३७ ३७ ३७ तस्य सापेक्षत्वशङ्कनम् तत्रेतरेतराश्रयदोषापादनम् अस्य विशेषानपेक्षत्वोक्तिः तेन न पूर्वोदितदोषप्राप्तिरित्यभिधानम् सामान्यविशेषाभ्यां घटभवनस्य पूर्वश्वोप पादनम् तस्यानपेक्षित पूर्वापरप्रभेदस्वकथनम् अस्योभयविधप्रलयासम्भवप्रतिपादनम् भवनस्य सत्तार्थतया सदा सद्भाववर्णनम् स्वपक्ष निगमनम् कारणमेवेत्यादिपरकल्पना व्यर्थेत्यभिधानम् एकान्तवादानां उच्छेदासम्भवाभिधानम् स्वोतार्थे सम्मतिगा थोद्भावनम् अम्योरप्युङ्कनम् अशक्यप्राय फलत्वाभिधानम् कारणे कार्य सदेव, असदेव वेत्यनियम इत्यु द्घोषणम् करणम् कारणशब्दसिद्धिः arrant कचित्कार्याकरणादकारणत्वाप द्वादशारनयचक्रम् पृ० पं० १ ४ त्तिदानम् कारणे कार्य सदसरवानियम इत्याख्यानम् अनियमपि कारणशब्दार्थतासमर्थनम् अज्ञातज्ञापनाथैव शब्दप्रयोगो न तदानीमप वादस्पर्श इति वर्णनम् ४१ वातकपुष्यादावव्यक्तं फलमस्तीति शङ्कनम्. ४१ व्यक्तकार्यस्याव्यक्तत्वानुपपत्तिरिति दूषणम् ४१ कारणस्य कार्याकरणेsकारणत्वमिति पूर्वपक्षी तत्र दृष्टान्तोद्भावनम् असति कारणे कार्यस्य सदसत्वानियमः अनियमस्यैव पुनः प्रदर्शनम् सेवादेरर्थप्राप्ति क्लेशप्राप्तिफले अपि न नियते इत्यभिधानम् ३८ ३८ 2010_04 ४० ८ कारणे कार्यस्य सम्वनियमे दोषप्रदर्शनम् ४० १३ कारणे कार्यस्यासत्वनियमेऽपि दोषाविष्करणम् ४० १९ सरकार्यवादे व्यभिचारप्रदर्शनम् 9 ३८ १३ ३८ १८ ३८ २३ ३९ १ ३९ ९ ३९ १६ ३९ २० ४० ३ १५ २० २३ २४ ४१ ४१ ५ ९ ४३ 20 5 ५ ४१ १४ ४१ १९ २२ ४१ सांख्यदूषणम् तत्र लौकिक प्रकृतिस्वस्य हेतूकरणम् अन्यथा देशादेरपि साम्यावस्थैव स्यादित्या ४५ ७ ४५ ९ पादनम् देशादेरनभिव्यक्तिःप्रकृतेः साम्यावस्था च न युज्यत इति कथनम् तत्र निष्प्रयोजनत्व हेतुदीरणम् प्रकृतेरनभिव्यक्तिसाम्यावस्थयोरयोगाभिधानम् ४५ १२ अनभिव्यक्तेः प्रयोजनाभाववर्णनम् प्रकृत्यनभिव्यक्तिसाम्यावस्थानयोः कालादिहेतुरवशङ्कनम् तत्राभ्युपेतविरोधदोषोद्भावनम् प्रकृतेरुपायानभिज्ञतया कारणान्तरापेक्षेति पूर्वपक्ष: ४५ १६ ज्ञानार्थायास्तस्या अपेक्षाऽनौचित्यप्रकटनम् परतंत्रत्वात्साssपेक्षत इत्यपि न स्वतंत्रत्वादिति वर्णनम् १० ४६ १९ २० २१ ४६ १३ | अप्रतिहत सर्वगतत्वादित्यपि हेत्वन्तराख्यानम् ४६ प्रकारान्तरेण हेतूनां व्याख्यानम् प्रधानस्य नित्यप्रवृत्तताया एव साधनम् ४७ ६ दहन प्रकाशनप्रवृत्ताभिदृष्टान्ते व्याप्तिप्रदर्शनम् ४७ १० भस्मन्नान हेतोर्व्यभिचाराऽऽशङ्कनम् किञ्चिदप्यप्रकाशयन्नभिरेवासौ न भवतीति ४७ १४ विषयाः १० क्लेश प्राप्तेरीप्सितत्वशङ्का ફ્ सेवकस्यार्थप्राप्तिशक्तिरेव सन्निहितेतिसमाधिः ४३ तत्र दृष्टान्ताभिधानम् ४३ एतत्पक्षप्रतिविधानम् ४३ ४३ ४४ ४२ ง समाधानम् ९ | गृहप्रदीपकदृष्टान्तः ४२ ४२ १५ ४२ २१ ६ देशादीनां प्रतिबन्धकत्व निराकरणम् देशादीनां कारणत्वे सर्वफल भवनसाधनम् देशादीनां सर्वकारणत्वेऽपि न सवं फलं भवत्यनभिव्यक्तत्वाद्देशादेरिति सांख्यशङ्का ४४ १० तत्र प्रधानसाम्यावस्थाया दृष्टान्तत्वेन वर्णनम् ४४ देशादेरिव प्रकृतेर्वैषम्यावस्थैव भवेदिति १४ प्रधानस्य भस्मच्छन्नाभिसमध्वमपि नेत्यभिधानम् निखिलपुरुषाणां स्वाम्यस्वज्ञापने कृते तस्य पुनः साम्यावस्था वैयर्थ्योक्तिः ४४ ४५ पं० ४५ ५ ६ ११ १४ २० ५ २२ २ ४८ ५ ४६ २ ४६ ६ ४६ १४ ४६ १६ ४७ १९ ४८ १ ४८ ६ १४ Page #15 -------------------------------------------------------------------------- ________________ विषयाः अकृतेऽपि च साम्यावस्था निष्प्रयोजनेत्य भिधानम् ४८ ४८ ४९ तस्य कालाद्यनपेक्षत्वोपवर्णनम् पुनरुक्तिशङ्का निराकरणम् कार्यकारणरूपेण जगतो नित्यप्रवृत्तिप्रसञ्जनम् ४९ कारणमपि प्रत्यक्षभूतमेव नाप्रत्यक्षमिति प्रसञ्जनम् कार्यानियवर्णनम् तत्रानुरूपदृष्टान्तप्रदर्शनम् तस्यैवाभिप्रायस्फोरणम् अनियतादित्वं सदसद्भूत कारणकार्यस्वञ्च जगत इत्युपसंहारः अत एव तथाविधशास्त्र वैयर्थ्य जल्पनम् तस्यैव समर्थनम् अप्राप्ते क्रियाक्रियाफलसम्बन्धे उपदेशः सार्थक इत्यभिधानम् प्रधानादिवादोऽप्यप्रत्यक्षत्वादप्राप्तत्वात्सार्थक इति शङ्का प्रत्यक्षविषये कार्यकारणभावे विचारानर्थ. क्यमिति समाधानम् लोकदर्शनस्याप्रामाण्यशङ्कनम् तत्र प्रत्यक्ष मात्रप्रामाण्याभावप्रसञ्जनम् प्रत्यक्ष विशेषस्य दुष्टत्वेऽपि न सर्वं व्यभिचारीत्यभिधानम् कार्यकारणभावप्रत्यक्षन्तु न बाधितमित्या• ख्यानम् सत्रार्थे शास्त्रवचनप्रामाण्ये प्रत्यक्षमप्रमाणमेव स्यादिति कथनम् एवञ्च प्रत्यक्षदृष्टमात्रस्य तर्कतो विपर्ययापत्ति रित्यभिधानम् तस्यैवोपपादनम् पुनरपि दृष्टान्तान्तराणामभिधानम् शास्त्रनिरूपण विपरीतस्यैव प्रत्यक्षादेरप्रामा ण्यमिति शङ्का पृ० 2010_04 ४९ ४९ ४९ ४९ ५० ५० ५० ५१ ५१ ५१ ५१ ५२ ५२ ५२ ५२ अनुक्रमणिका पं० शास्त्रेण सर्वमेवापोदितमिति कथनम् एतस्यैव भाववर्णनम् ५४ प्रकारान्तरेण व्याख्या शास्त्रेण प्रत्यक्षसिद्धं सर्वमपोद्यत इत्यभिधानम् ५४ विषयाः तेन सर्व समर्थितं नापोदितमित्यस्य खण्डनम् ५४ १५ | सामान्यविशेष नानास्वैकान्तवादेऽपि सर्वमपोदितमेवेति जल्पनम् १७ ५४ ५४ ३ तस्य विशदीकृत्यै संक्षेपतस्तन्मतज्ञापनम् ६ अण्डहरिणेत्यादिमूलेन विवक्षितार्थव्यावर्णनम् ५५ तेषामभावभावना ५५ ५५ ५६ ५६ १२ सर्वथातत्त्ववृत्तिम्यतीतत्वप्रतिपादनम् १९ वैधर्म्य दृष्टान्तत्वकथनम् प्रसिद्धिविरुद्ध प्रतिज्ञत्वशङ्काप्रतिक्षेपणम् लोकाप्रामाण्यात् प्रसिद्धिविरोधाद्यसम्भवक थनम् १० | स्वरूप विपरीतसाधक हे तोरतर्कत्वशङ्कनम् विरोधादिदोष प्रदर्शनम् १५ १७ २० २४ ४ १५ असपक्षव्यावृत्योरभावकथनम् २० १ ष्टान्तासिद्धिवर्णनाय दृष्टान्तस्वरूपाख्यानम् अत्र हेतौ सर्वे दोषा लोकाप्रमाणकस्य तवै. वेत्यभिधानम् एतस्यैव स्फुटीकरणम् अनित्यत्व कृतकत्वयोः सद्भावशङ्काया निराकरणम् तत्व एव तथाभिव्यक्तेरित्यस्य भावार्थः २ विशेषैकान्ते तत्पक्षाद्यभावप्रतिपादनम् तथाऽस्थितेरिति हेतुव्याख्या ३ उभया नेकस्वैकान्ते साध्यसाधनाद्यभाव ५७ १४ | अविशेषैकान्तवादेऽन्य पक्षाद्यसम्भवसमर्थनम् ५८ अन्यस्याभावादित्यस्य व्याख्या विशेषाः ५८ ५२ २१ ५२ ५३ जल्पनम् १० तथाऽपूर्वस्वादिति हेतोर्भावनम् ५३ ५३ ५३ १८ १४ १५ पृ० पं० १५ शास्त्रस्य लोकाश्रयत्वाभिधानम् अध्यारोपात्तच्छास्त्रप्रवृत्तिरिति कथनम् अध्यारोपादेव शास्त्रस्यालो करवशङ्कनम् मृगतृष्णिका बदलौकिकत्वादेवाप्रामाण्य कथनम् ५७ ५८ ५६ १५ ५६ २१ ५७ ५७ ५८ ५८ ५९ ५९ S ६० ६१ ६१ ४ प्रतिज्ञादीनामप्यसम्भवाभिधानम् ६१ ८| अविशेषैकान्तवादे प्रतिज्ञानुपपरयुद्भावनम् ६१ १९ २२ ५ ፡ २० 9 ५ ५९ ५९ १९ दृष्टान्तस्य प्रामाण्ये प्रतिज्ञातव्याघातस्वोक्तिः ५९ २३ तस्य भावार्थवर्णनम् ६० २२ शास्त्रस्या लोकत्वमाशंक्य निरसनम् ६० ८ ६० १२ ३ ६ १५ १७ २ ६ ९ १३ १६ ११ १४ * * * * ८ १५ ६ १२ १८ Page #16 -------------------------------------------------------------------------- ________________ द्वादशारनयचक्रम् विषयाः पृ० पं० विषयाः पू० पं. विशेषकान्तवादेऽपि प्रतिज्ञानुपपत्तिवर्णनम् ६१ २१ प्रत्यक्षस्यालौकिकत्वोक्तिः १६ २५ उभयैकान्तवादेऽपि तदुक्तिः ६२ क्रियावादिनोऽपि ज्ञानस्य प्राधान्यम् , अविशेषकान्तवादे अंशे प्रत्यक्षविरोधादि. तत्रापि प्रधान प्रत्यक्षं तत्कथमप्रमाणमित्या___ वर्णनम् शङ्कनम् विशेषकान्तवादे तद्वर्णनम् त्वत्प्रत्यक्षाबलौकिकं काल्पनिकमिति समाधानम् ६७ ४ उभयानेकत्वैकान्तवादेऽपि तद्वर्णनम् ६२ १० कल्पनापोढस्य प्रत्यक्षत्वं न सामान्यवादिनोलोकानुसरणे प्रतिज्ञा भङ्गतादवस्थ्यकथनम् ६२ १६ रिति कथं सर्वमते तरकल्पनात्मकमिकिञ्चिल्लोकवत्, किञ्चिच्च शास्त्रनिरूपणवदि त्याशङ्कनम् ६७ १२ ति शङ्कनम् ६२ २० | सर्वमते तत्कल्पनात्मकतासमर्थनम् तद्वयाख्या ६३१ विशेषवादिनो लक्षणस्यैव मूल कृता प्रदर्शने अविशेषैकान्तवादेऽभ्युपगमविरोधाभिधानम् ६३ ४ ___कारणाभिधानम् विशेषैकान्तवादे तदाख्यानम् विशेषवादिसम्मतकल्पनापदविवक्षितार्थकथनम् ६८ उभयानेकत्वैकान्तवादे तदेव वर्णनम् ६३ तस्य व्याख्यानम् लोकात्मक दृष्टान्तमभ्युपगम्य लोकस्यैव तिर प्रत्यक्षोत्पत्तिप्रकारप्रकाशनम् ६८ १४ स्करणे उन्मत्ततरत्ववर्णनम् असाधारणार्थविषयत्वोपवर्णनम् ६८ १९ पदाश्रयेण दोषाभिधानम् अभिधानगोचरातीतत्वोक्तिः. स्वार्थ द्रव्यादेः पदार्थतायां पतञ्जलिसंवाद प्रत्यात्मवेदनीयत्वकथनम् .. प्रदर्शनम् अनार्थे बौद्धागमोहक्कनम् अपराभ्युपगमविरोधोद्धावनम् तदर्थव्यावर्णनम् बाक्यलक्षणप्रतिज्ञाया एवाभ्युपगमो न तु प्रकरणपदनामकागमव्याख्यानग्रन्थसंवादपदप्रयोगविषयः तस्मादेव लोकाप्रामाण्य प्रदर्शनम् सिद्धेरिति शङ्कनम् ६४ ११ अर्थेऽर्थसंज्ञी न स्वर्थे धर्मसंज्ञीत्यस्य व्याख्या ६९ १९ एतस्यैव विरादीकरणम् कल्पनात्मकं ज्ञानं न प्रत्यक्षमिति साधनम्. ७. ' पूर्वोक्तहेतुभ्यः पक्षादेरभावान्तद्युज्यत इति अर्थे धर्मसंज्ञी नेत्यत्राभिधर्मस्य प्रमाणीकरणम् ७० निरूपणम् तदेवं बौद्धलक्षणं प्रदर्य तस्य कल्पितस्व. लोकप्रामाण्यापत्तिप्रकाशनम् ___ कथनम् लोकं विना न शास्त्रव्यवहार इति निरूपणम् ६५ १० कल्पितस्याप्येतस्याफलस्वोक्तिः लोकवदेवार्थ इति व्यवहारादिति हेतुवर्णनम् ६५ १४ स्ववचनध्यपेक्षाक्षेपदुस्तरविरोधपरिहारत्तोलोकानुसारेण शब्दार्थे प्रमाणभूतेऽङ्गीकृते भावनम् यथा लोकेन गृह्यते न तथा वस्स्विति जल्पनं तदर्थे दृष्टान्ताभिधानम् विरुद्धमित्यभिधानम् ६५ २२ | कल्पनात्मकत्वस्यासिद्धतानिराकरणम् विरुद्ध्येतेत्याशङ्कावचने कारणप्रदर्शनम् तत्रोक्तनिरूपणविकल्पात्मकत्वहेतोरसिद्धता. लोकविरोधोद्धावनम् निरसनम् शास्त्राणां कोकेन विरोधेऽप्रवृत्तिरेवेत्यभिधानम् ६६ नेयं विपरीताप्रतिपत्तिरिति शङ्कनम् लोकाप्रामाण्ये प्रत्यक्षानुमानयोर्विरोधवर्णनम् ६६ १३ अध्यारोपात्मकत्वादिति हेतुना तच्छाया पौनरुक्त्यव्यपाकरणम् ६६ १५ निरासः तत्स्थत्वात्तयोरिति हेतुभावनम् ६६ १८ तस्यापि सामान्यरूपविषयत्वादित्यनेन प्रत्यक्षस्य प्रमाणज्येष्ठत्वाभिधानम् ६६ २४ । साधनम् _ 2010_04 Page #17 -------------------------------------------------------------------------- ________________ विषयाः पृ० तस्यापि तदतद्विषयवृत्तित्वादित्यनेन साधनम् ७१ अस्य हेतोर्व्याख्या ७१ सर्वथा साधारणार्थत्वहेतोरभिधानम् आदिग्रहणाभिमत हे तूपदर्शनम् दृष्टान्तानामभिधानम् अभिधर्मागमं प्रदर्श्य कल्पनात्मकत्वादेरसि द्विनिरसनम् आलम्बनपरमाणूनां परमार्थसतामविषय खोक्तिः उक्तार्थव्याख्यानम् सतिपरमाणूनां तदा परमाणुत्वेनावस्थानं न कस्यापि सम्मतमिति निरूपणम् प्रतिपत्तेरालम्बन विपरीततासमर्थनम् एतस्या एव स्फुटीकरणम् अव्यपदेश्यैकात्मकनीलरूप विषयत्वप्रति पादनम् सापि व्यपदेश्यैव, अर्थान्तरेणाधिगम्यमानस्वादित्युक्तः तस्य व्याख्यानम् पादनम् प्रत्यक्षप्रतिपत्तेः कारक हेतुकरये सञ्चयान्नस्यादिति निरूपणम् दृष्टविघात साध्यधर्मवैकल्यप्रदर्शनायैषो किर्ममेत्यभिधानम् कारकात् प्रत्यक्षस्य भावेऽण्वादेर्न स्याद्भवति ततो न प्रत्यक्षं तत् धूमापेक्षाद्मि तु, ज्ञानवदित्याख्यानम् तस्य प्रत्यक्षत्वे च सचयस्य न कारकत्वं स्यादिस्युक्तिः ७२ ७२ ७२ अलातचक्रदृष्टान्तः अकारकत्वे प्रत्यवयवव्यवस्थानमात्रत्व हेतू पदर्शनम् 2010_04 ७२ १२ ७२ १३ ७२ १७ अनुक्रमणिका पं० विषयाः पृ० पं० १६ | सञ्चयवे प्रत्यक्षस्य व्यपदेश्यतैवेत्यभिधानम् ७५ १८ | व्यपदेशव्यपदेश्यत्वान्न प्रत्यक्षमिति जल्पनम् ७६ ४ तस्यैव विशदं व्याख्यानम् ७६ ७ सर्वथा नीलादिज्ञानस्यार्थतो व्यपदेश्यत्वसम नम् अर्थान्तरनिमित्तत्वकथनम् अभिधानतोऽव्यपदेश्यत्व निराकरणम् बहुविषयत्व हेतोरभिधानम् तथा च प्रत्यक्षं विकल्प एवेति तव लक्षणं दुष्टमिति कथनम् एकतत्वैकरूपाध्यारोपेण तस्य निरूपणादिति वर्णनम् प्रत्यक्षमनुमानात् पापीयः, प्रत्यक्षेऽन्या नपोहादनुमाने चान्यापोहादिति निरूपणम् संकीर्ण तर विषयत्वादपोह्यार्थापोहशक्ति शून्यत्वादिति हेतुद्वयाभिधानम् प्रज्ञप्तिपरमार्थस्थितसंचय परमाणुपरिग्रहा १७ स्मकत्वात्तदतद्विषयत्वं प्रत्यक्षस्येति निरूपणम् ७८ २२ | तस्याप्रत्यय प्रत्ययात्मकत्वादप्रत्यक्षत्ववर्णनम् तद्व्याख्यानम् १८ ५ ७९ ७९ ६ ५ तस्यानुमानत्वमपि नेत्युक्तिः ७९ १३ ७९ १७ ७४ व्यपदेश्यस्वादेव कल्पितस्वभावनम् प्रत्यक्षप्रतिपत्तेः सञ्चयः कारकहेतुरिति वर्णनम् ७४ अर्थान्तरेणाभिगम्यमानत्व हेतोर्विरुद्धस्वोप ७२ २१ ७३ ६ ७३ ८ ७३ . ७३ १३ ७३ १० ७४ १४ ७४ १७ ७४ २१ ७५ ७४ २३ ७५ स्वलक्षणविषयत्वेनार्थान्तरनिरपेक्षत्वकथनम् ७५ ५ अर्थान्तरनिमित्तत्वेऽप्रत्यक्षत्वापादनम् सञ्चयस्य कारकत्वासम्भववर्णनम् ७५ ७ ७५ ७५ तस्य व्याख्या सञ्चयस्यारूपत्वे चक्षुर्ग्राह्यत्वानुपपत्तिरित्यभिधानम् चक्षुषोsनोक्तिः १८ ११ १३ | विज्ञानस्याविज्ञानत्ववर्णनम् ७६ ७६ ७७ अन्यथाऽर्थप्रतिपत्तेरिति हेतुकथनम् अलातचक्रदृष्टान्तः ७७ ७७ ८० सम्बद्धगृहीतस्यान्यथाप्रतिपत्तेरिति हेतुः प्रत्यक्षविधिविधानाभ्युपगमेन स्वलक्षणमात्रविषयप्रत्यक्षत्वस्य विरुद्धस्वोक्तिः चक्षुर्विज्ञानसमङ्गीत्यस्याघटितार्थत्वप्रतिज्ञानम् ८० सञ्चयस्य रूपमात्रत्वात् सञ्चितालम्बन कल्पनाया निरर्थकत्वकथनम् ७७ ७८ २ नीलरूपस्य सञ्चितत्वेऽतीन्द्रियत्वेन तदग्राहकरवादपि चक्षुषोऽचक्षुष्वोक्तिः ८१ अत एव चक्षुर्विज्ञानसमङ्गीत्यत्र चक्षुःपदं व्यर्थ - मिति कथनम् ८० ८१ AAAA G ८१ ८१ २३ 9 ५ ७८ १३ ८१ ८१ १७ २१ ४ ८ १३ २० ८० १६ ८० १७ ८ AD ९ २३ 9 ९ ११ १३ २१ २२ Page #18 -------------------------------------------------------------------------- ________________ ५ ७ س ८७ س س ८८ द्वादशारनयंचक्रम् विषयाः पृ० पं० विषयाः एवं विज्ञानं दूषयित्वा समनिस्वदूषणम् ८२ जात्याकारादिनाऽतपस्वोक्तिः चक्षुर्विज्ञानस्य रूपादन्यत्रासम्भवादिति हेतूक्तिः ८२ ३ आदिपदग्रामकथनम् समङ्गित्वसाफल्यमाशय निराकरणम् ८२ परमाणूनामत्यंतमितरेतरण्यावृत्ता साधारणचक्षुर्विज्ञानसमङ्गित्वं सञ्चयस्यापि नेति प्रति रूपस्वोक्तिः पादनम् ८२ १. द्रव्यसद्रूपत्वोपपादनम् नीलविज्ञानसम्बन्धी न भवति तत्सन्तानस्तदा. इतरेतराभावपरमार्थरवासीलनीलान्तरयोरकारज्ञानोत्पत्ति हेत्वभावादिति निरूपणम् ८२ भाववर्णनम् तमाख्याविधानम् ८२ १९ चक्षुर्विज्ञान समङ्गी संचितालम्बन इति नीलपरमाणून प्रत्येकसमुदितकारणवशका वाक्यस्यार्थकथनम् प्रतिक्षेपः | तस्य संचयस्यासतश्चक्षुषा ग्रहणादिति हेतुतस्य युगपज्ज्ञानासम्भवादिति हेतुना स्फुटी प्रदर्शनम् करणम् | अनर्थेऽर्थसंज्ञी न चार्थे धर्मसंज्ञीति तस्य तत्र तदीयकारिकोद्धावनम् भावना ज्ञानस्य क्रियावैधर्म्यकथनम् अथ तस्यार्थवर्णनम् रूपसमुदाययोरेकज्ञानस्वादेकज्ञेयत्वे सर्व आक्षेपलभ्यस्य न स्वर्थेऽर्थसंज्ञीत्यस्य व्याख्या ८८ सर्वात्मवादित्वापादनम् अनर्थ एव धर्मसंज्ञीत्यस्य व्याख्या ८८ एकत्वे च एकग्रहणे सर्वस्य, सर्वग्रहणे चैकस्य अर्थेऽर्थसंज्ञी न स्वर्थे धर्मसंज्ञीत्यस्योकार्थभाव. ग्रहणप्रसक्तिकथनम् ८३ १८ ___ कस्वकथनम् सर्वसर्वात्मकवादितायाः स्फुटीकरणम् ८३ २२ अर्थापत्याऽनर्थेऽर्थसंज्ञी तस्मिन्नेव च धर्मएतस्या व्याख्यानम् __संज्ञीति फलितार्थकथनम् विशेषकान्तवादी अविशेषकान्तवादिनमति एवच प्रत्यक्षानुमानयोः पापीयस्वमिति निरूपणम् शेते इति कथनम् ८४ १४ अभिधर्मकोशे निदर्शितस्य विचारः सञ्चयस्य संद्रावो मायोपम इति वर्णनम् अनेकप्रकारभिन्ने रूपायतने कदाचिदेकेन चक्षुअत्रार्थे तदीयागमोद्भावनम् ८५ विज्ञानमुत्पद्यते, कदाचिदनेकेनेत्यस्य प्रत्यतदागमोदितविचारोपन्यसनम् ४ क्षलक्षणानुषङ्गागतस्यभिधर्मकोशोक्तवातत्र निर्णीतार्थप्रकाशनम् क्यस्य व्याख्या ८९ १२ तस्यैव समर्थनम् | अत्रार्थे तदक्तोदाहरणप्रदर्शनम् ८९ १० नीलं विजानातीति वाक्यं न कमप्यर्थ संवदतीति सञ्चितालम्बनाः पञ्च विज्ञानकाया इत्यस्याऽऽक्षेप:८९ २३ कथनम् ८५ १४ मायतनस्वलक्षणं प्रत्येते स्वलक्षणविषया न द्रव्यनीलं न विजानातीति वाक्यं संगतार्थमिति स्वक्षणं प्रतीत्यस्याने विचार: करिष्यत इति वर्णनम् कथनम् नीलपरमाण्वाकारनियतज्ञानोत्पत्तिहेतुत्वा अधुना विचार्यमाणवचनाभिधानम् भावादिति भावनम् ८५ २० रूपायतनं पश्यतः स्खलक्षणविषयत्वासम्भव. नीलं विजानातीत्यस्य संगतार्थत्वशङ्का समुदायस्यानीलत्वाभिधानम् २ एकप्रकारावच्छेदो वा कथम् , भविभागसमयपुनः समुदायस्य प्रत्येकाभेदानीलं विजाना. स्थसमूहात्मकत्वादिति पृच्छनम् ९०१५ तीति शंकनम् ४. एकेन परमाणद्रव्येण कथं चक्षुर्विज्ञानमुत्पद्यतइतरेतरनीलरवेनानीलत्ववर्णनम् ७) इति पृच्छा ४४ २३ ME WW वर्णनम् _ 2010_04 Page #19 -------------------------------------------------------------------------- ________________ विषयाः ९८ २० अनुक्रमणिका पृ० पं०विषयाः पृ० पं. भत उक्तबुद्धवचनं किं बुद्धवचनमित्याक्षेपः ९१ ६ ननु भिन्नकाले तथा नकदाऽनेकरूपतेति शङ्कनम् ९६ ८ एकद्रव्येण ज्ञानोत्पादे सञ्चितालम्बनकल्पना एककाल एवोभयरूपत्वादिति हेतुना तन्निरवैयोक्तिः __सनम् तत्प्रकारावच्छेदादीनामसम्भवत्वोक्तिः एतस्यैव हेतोवर्णनम्। तस्यैव स्फुटीकरणम् ग्रहणापदेश विशिष्टार्थत्वादिति हेस्वन्तरनरसिंहदृष्टान्तः ९२ १ ___व्याख्यानम् नरसिंहानेकप्रकारगतिरप्यणुषु न सम्भवतीति | अत्र विरोधोद्भावनेऽनपेक्षितस्वाभ्युपगमदो. निरूपणम् पापादनम् एतस्यैव विशदीकरणम् भविभावितैवमर्थ्य पूर्वाभ्युपगमस्वादिति अनेकद्रव्येण ज्ञानोत्पादेऽसत्कल्पनाऽऽपादनम् ९२ १९ __ हेत्वन्तरोद्भावनम् द्वयं प्रतीत्य चक्षुर्विज्ञानमिति वुद्धवचनेन वि. सर्वेषां नयवादिनामुन्मुग्धभ्रान्तत्वाद्याख्यानम् ९७ २० रोधोद्भावनम् ९२ २५ प्रत्यक्षस्य कल्पनात्मकत्वं स्वयापि प्रतिष्ठापितअस्यैव भावप्रकाशनम् मेवेति प्रदर्शनम् ९७ २३ रूपाणीति बहुवचनानुपपत्तिकथनम् ९३ १ अज्ञानत्वप्रसङ्गरूपदोषान्तरोन्दावनम् बुद्ध्यादेरैन्द्रियकत्वस्य रूपादेर्वाऽचक्षुर्ग्राह्यत्व. बौद्धानेकार्थजन्यत्वादित्यादिवाक्यव्याख्या. स्यापादनम् ९३ १४ प्रदर्शनम् ऐन्द्रियकरवसाधकातीन्द्रियवहेतोविरुद्धस्वेऽपि तत्र दृष्टान्तकथनम् भवहुद्धि निवर्त्तनाय प्रयुक्तमित्यभिधानम् ९३ १५ दृष्टान्तवैषम्यमाशंक्य पूर्वपक्षिणा निरसनम् पुनरपि चक्षुःप्रतीत्येत्यादिवचनविरोधाऽऽदर्शनम् ९३ २३ अत्र सिद्धान्तिना जैनेनोत्तरप्रदानम् अतीन्द्रियत्वाभिमतः परमाणुश्चक्षुर्विषयतां अङ्गीकृतार्थविनाशित्वहेतुव्याकरणम् ९९ ११ यातीति स्वीकारे वादपरमेश्वरसंश्रयणस्वा परमाणोरविषयतां प्रतिज्ञाय तदतद्विषयतया पादनम् तदतद्भूतसामान्यगोचरोपसंहारात् वैशेषिकवादपरमेश्वरसंश्रयेण न विरोध इति व्यवहा. ___ साम्यतेत्युक्तिः रनयोक्तिः स्वार्थे सामान्यगोचरत्वान्न प्रत्यक्षमिति दूषणम् १०० २ तत्संश्रयः कथमिति शंकित्वाऽनेकात्मक स्वार्थे सामान्यगोचरमिति विरुद्धमित्यरूपायतनाभ्युपगमादित्युक्तिः ९४ २१ भिधानम् स्थाद्वादैकदेशा एकान्तवादा नया इत्यत्र विरुद्धवचनत्वस्यैव प्रकाशनम् १०. १० सम्मतिगाथाप्रमापणम् व्याख्याकर्तुरपि तद्वयाख्यानम् नयस्य मिथ्यादृष्टित्वं तस्य लोकनाथसमाश्रयणे स्वार्थसामान्ययोर्मिनप्रमेयताकथनम् स्वसामान्य लक्षणाभ्यामन्यप्रमेयाभावकथनम् १०१ ३ निग्रहस्थानप्राप्तिः प्रतिपक्षवादाभ्युपगमादिति प्रतिपादनम् विषयद्वयेऽनेकप्रमाणवृत्तिशङ्कनम् स्वयाप्यनेकान्तवादोऽभ्युपगत एवेति तन्निरसनम् निरूपणम् लक्षणशब्दस्यार्थपर्यायतासमर्थनम् १०११. तथाऽविभक्ततत्वेन ज्ञानोत्पत्तेरिति हेत्व. स्ववचनविरोधोपसंहारः १०१ २१ भिधानम् स्वार्थसामान्ययोः सम्बन्धाभाववर्णनम् । अस्यैव सम्यगुपपादनम् ९५ १५ | असम्बद्धयोस्तयोः प्रत्यक्षविषयत्वे स्वलक्षणारूपायतनमेकानेकात्मकं तथाऽविभक्ततत्वेन भावाभिधानम् ज्ञानोत्पत्तेः दूरान्मणिसमूहवदिति प्रयोग तथाचैकस्यैवानुमानस्य प्रमाणत्वात् प्रमाणसमर्थनम् प्रमेय द्वित्वकल्पनाऽऽनर्थक्यकथनम् १०२ १२ द्वा. न. अनु. 2 ९४ १२ १०२ । 2010_04 Page #20 -------------------------------------------------------------------------- ________________ द्वादशारनयचक्रम् १०८ २२ १०९ २१ विषयाः पृ० पं० विषयाः अनेकार्थजनितसामान्यगोचररूपादिप्रकारपरि- प्रथमहेतोदृष्टान्तेऽनुमानेऽसिद्धिशंकानिरा. ग्रहात् प्रत्यक्षमप्यनुमानमेवेत्यभिधानम् १०२ १६ करणम् एतस्याभिप्रायाविष्करणम् १०२ १९ कारकत्वज्ञापकत्वविशेषनिराकरणम् स्वसामान्यलक्षणयोरस्वलक्षणस्वसाधनम् असंचितानेकार्थजन्यस्वमनुमानस्येति वैध. सामान्येऽस्वलक्षणत्वसाधनं स्वार्थस्वाभ्युप. | Hशङ्कनम् १०८ १५ - गमादिति कथनम् धूमोऽपि सञ्चितानेकार्थ एवेति तन्निरसनम् १०८ १९ अनेकार्थजन्यस्वार्थसामान्यगोचरज्ञानस्या. अधिपतिप्रत्ययं प्रत्यक्षं नानुमानमिति वैध. - प्रत्यक्षवं स्वयाऽपि स्वीकृतमिति प्रकाशनम् १०३ १० शिङ्का अनेकैकत्वापत्तिसामान्यगोचरस्वानुपपत्ति. प्रत्यक्षमप्यनधिपतिप्रत्ययमेवेति समाधिः १०९ १ वर्णनम् १०३ २३ एतस्यैव व्याख्यानम् स्वायतने सामान्यगोचरत्वानुपपत्तिप्ररूपणम् १०४ ५ | उक्तहेतुद्वयादनुमानस्य प्रत्यक्षताऽऽपादनम् १०९ १२ तस्यानेकद्रव्योपाद्यत्वाभावादिनिरूपणम् १०४ ९ हेतुद्वयाद्विषयैक्यापत्तेः प्रमाणैक्यापादनम् १०९ १८ स्वाभासज्ञानोत्पत्तरालम्बनत्वमपि नेत्य एतस्यैवोपपादनम् भिधानम् १०४ १४ | वसुबन्धुदिन्नयोर्विचारोहकनम् १०९ २२ सञ्चयस्य स्वभावावभासोऽपि न ज्ञानेनेत्युक्तिः १०४ १८ | अत्र विचार्य विषयाभिधानम् ११० १ परमाणूनामप्यविषयत्वप्रज्ञापनम् १०४ २२ ततोऽर्थाद्विज्ञानं प्रत्यक्षमिति वसुबन्धुलक्षणो. प्रत्यक्षस्यैवाभावात्तल्लक्षणमनर्थकमिति प्रति. परि समुदयकृतनीलादेरालम्बनत्वोक्तिः ११०. पादनम् १०५ ५ तस्यैव विशदीकरणम् ११० ४ भावेऽपि सञ्चयस्यैव विषयतया कल्पनात्म प्रत्यक्षार्थप्रदर्शनम् ११० १४ कमेवेत्युक्तिः ज्ञानमर्थेन विशेष्यत इत्युक्तिः ११० १७ कल्पनात्मकतां प्रकटयति १०५ १४ अर्थस्याभावादेतस्य प्रत्यक्षस्य निराकरणम् ११.२२ संज्ञादिक्रमेण दृष्टान्तक्रमकथनम् १०५ १८ भावार्थाभिधानम् ११० २५ इदं नैव प्रत्यक्षमतथाभूतार्थाध्यारोपात्मक तैमिरिकादिज्ञानदृष्टान्तेन ज्ञानस्वहेतुनेन्द्रिस्वादिति अभिधर्मकोशग्रन्थोक्तसाधना यबुद्धिषु स्वनि सिव्यतिरिक्तप्रमेयाभावभिधानम् १०५ २१ साधनम् संवृतिसल्लक्षणज्ञापककारिकाव्याख्योद्भावनम् १०६ ६ | अप्रत्यक्षत्वेन वसुबन्धुलक्षणं दूषयितुस्तेऽनुमा. परमार्थसल्लक्षणप्रदर्शनम् नविरोध इति कथनम् १११ १४ मूलकारकृतमेतल्लक्षणखण्डनम् | प्रत्यक्षविरोधोऽयं नानुमानविरोध इति शङ्कनम् १११ १६ रज्जुसर्पदृष्टान्तसंघटनम् १०६ २० प्रत्यक्षस्यैवाभावात् कस्य निराकरणमित्यनुमानअनेकार्थजन्यस्वार्थसामान्यगोचरवाक्यख. विरोध एवेत्युक्तिः ण्डनोपसंहारः १०७ १ | घटसंख्योत्क्षेपणसत्ताघटत्वाद्याकारज्ञानानां मायतनस्वलक्षणं प्रत्येते स्वलक्षणविषया प्रत्यक्षस्वप्रसङ्गप्रदानम् इति वाक्यप्रतिक्षेपाऽऽरम्भणम् समानासमानानेकार्थजन्येन्द्रियस्वार्थीदुत्पन्नअनेकार्थविषयकप्रत्ययस्वारसामान्यरूप ज्ञानस्याप्रमाणत्वं द्विचन्द्रदर्शनवदित्युक्तिः ११२ १० तयाऽस्वलक्षणस्वमित्यादिपूर्वोदितन अत एव नानावर्णमणिसंघातजज्ञानस्याप्रमाणन्थभावना कार्येत्यभिधानम् स्वोक्तिः ११२ १४ प्रत्यक्षस्याप्रत्यक्षत्वसाधके अनेकार्थजन्यत्वात् तत एव हेतोः प्रज्ञप्तिसतः परमार्थसदाकारला. स्वार्थे सामान्यगोचरत्वादिति हेतू स्व भात्तद्विषयस्य ज्ञानस्य प्रत्यक्षत्वे घटसंथैवोद्भाविताविति कथनम् १०७ २० ख्याद्याकारमपि प्रत्यक्षं स्यादिति रूपणम् ११२१६ १११ १७ 2010_04 Page #21 -------------------------------------------------------------------------- ________________ विषयाः नीलाद्याभासस्यैव ज्ञानस्य प्रत्यक्षत्वं न घटाद्याभासस्येत्यत्र नियामकाभाव इति निरूपणम् विषयाः आदिप्रतिज्ञातयता प्रदर्शनम् अनेकार्थजन्य स्वार्थ सामान्यगोचरनिरसनमत्र दोष इत्युक्तिः ११८ १३ २ आदिप्रतिज्ञातार्थ निरसनं वा दोष इत्यभिधानम् ११८ १५ अनेकान्तवादापत्तिकथनम् ११८ २० तद्व्याख्याकरणम् ११८ २२ मूलकृत एतस्यैव समर्थनम् १९९ ३ साक्षातदुक्ततश्वत्वाद ने कैकस्व भृशगत्यर्थसमुदायपरिग्रहलक्षण हेतु द्वयव्याकरणम् समुदायत्वमेव नैतस्प्रतिज्ञातस्येत्यभिधानम् प्रत्येकमभूतत्व हेतोर सिद्धता निरसनम् प्रत्येकत्व प्राप्तानन्तरमेव विनष्टत्वाभिधानम् प्रत्येकत्व प्राप्तिरपि नेत्यभिधानम् ૧૧૪ ९ तद्व्याख्या ११४ १३ सहोत्पादस्यापि निरसनम् परमाणूनामनालम्बनत्वाभिधानम् तथा विद्यमानानामन्याभासज्ञानजनकत्वेऽनिप्रत्यक्षज्ञानालम्बनं धूमः स्यादिति दोषोस्कीर्त्तनम् सहस्वस्य विकल्पतो निरास: भूतस्य सहत्वमिति शङ्काया निराकरणम् १२० १९ एतस्यैव समर्थनम् ११४ १९ सहस्वावस्थां प्राप्त एवोत्पद्यत इति शङ्काप्रतिक्षेपः १२१ २ अभूतस्य यौगपद्येनोत्पादोऽपि न सम्भवती ११४ २१ धूम निमित्ताभिज्ञानं वा प्रत्यक्षं स्यादित्यापादनम् ११५ ११ चक्षुरादीनामालम्बनत्वापादनम् ११५ १३ नीलादि गोचरचक्षुरादिविज्ञानस्य परमाणवो नालम्बनमिति साधनम् ११५ १९ चाक्षुषज्ञाने परमाण्वालम्बनत्वाभावसाधनम् ११५ २५ प्रत्येकमेव ते समुदिताः कारणमित्याशङ्कनम् ११६ ८ प्रत्येकस्य समुदायस्य वा केवलं न कारणत्व मिति समर्थनम् एतत्पूर्वपक्षस्यैव विशदं व्याख्यानम् तथासति सञ्चितालम्बना पञ्च विज्ञानकाया इत्यभ्युपगमस्य निरासः, असञ्चिताण्वा. लम्बनत्वाश्रयणादित्युक्तिः एतस्य व्याख्यानम् प्रत्येकशक्तानां समुदाये शक्तयभिव्यक्तिरित्याशंका जनकानन्यथात्वादिति हेतुना निराकरणम् एतस्य स्फुटं व्यावर्णनम् कल्पनेषा ते आदिप्रतिज्ञा तुल्येत्यभिधानम् अत्रापि दोषोद्भावनम् पृ० अनुक्रमणिका पं० उभयोर विशेषतासमर्थनम् नीलादिसमुदाये परमार्थसदाकारोऽस्ति न घटाद्याकारः परमार्थाकारः घटाद्याकारपरमाण्व - भावादिति शङ्कनम् तस्य व्याख्या 2010_04 ११२ २२ ११३ - ११३ ९ ११३ ११ पुनरुभयत्राविशेषापादनेनोकशंका निराकरणम् ११३ १८ अविशेषताया एव समर्थनम् १९३ २३ यथा ते विद्यन्ते तथा नालम्बन मित्याश्रयणे पक्षान्तरापत्तिकथनम् अत्रापि वसुबंधु प्रत्युक्तदोषास्तवापीति निरू पणम् ११४ ७ ११६ ९ ११६ १३ विज्ञानस्य प्रत्यक्षादिरूपत्वासम्भववर्णनम् उक्तार्थस्य विशदीकरणम् संशयभ्रान्त्यादिरूपत्वमपि न सम्भवतीति वर्णनम् ११७ ५ भावार्थप्रकाशनम् ११७ ७ बौद्धप्रत्यक्षलक्षण निराकरणोपसंहारः अस्याविशेषैकान्तवादिप्रत्यक्षलक्षणेऽतिदेशः ११ पृ० पं० ११८ 19 युक्तिः १२१ ९ तद्व्याख्यानम् १२१ १२ सन्तानस्य स्थितत्वात्सहोत्पाद इत्याशङ्का १२१ १६ तस्यापि प्रोक्त विकल्पेनानुपपत्तिरिति निराकरणम् १२११८ अत एव विज्ञानमात्रमेवेदमिति विज्ञान वा दिशङ्का १२१ २२ तस्य भावार्थाभिधानम् १२२ ४ विज्ञानत्वाभावाख्यानम् 9 ५ | सांख्यसादृश्य संघटनम् ११९ ८ ११९१५ ११९१९ ११९२३ १२० ६ १२० ९ १२० १२ १२० १४ १२३ १३ १२३ १६ १२४ २ १२४ ६ १२४ १४ ११७ १५ अविशेषवादिप्रत्यक्षलक्षणम् ११७ १६ वस्तुनो विभागाभावाच्छ्रोत्राद्यभावप्ररूपणम् १२४ १५ ११७ १८ एतस्य स्फुटीकरणम् १२४ १८ ११८ लोकशास्त्रप्रोक्तप्रत्यक्षलक्षणं प्रदर्श्य निराकरणम् १२५ १४ ११८ १२५ १२ १२२ १४ १२२ १६ १२२ १९ Page #22 -------------------------------------------------------------------------- ________________ १३२ १४ द्वादशारनयचक्रम् विषया: पृ० पं० विषयाः पृ० पं० वस्तु निर्विकल्पम्. प्रत्यक्षञ्च न निर्विकल्पं ज्ञानभिस्वादात्मनोऽप्यचेतनत्वकथनम् १३० १५ शम्दादिविभागविषयीकरणादित्युपपादनम् १२५ २१ | इन्द्रियादीनामारमभेदेऽपि तत्प्रकाशितमप्यज्ञासांक्ये समुदायः परमार्थसन् नीलादिः संवृति नात्मकमेवारमा प्रतिपद्यते प्रकाशत्वात् समिति विषयाभावादभावविषयमप्रत्यक्षमे इति वर्णनम् ३० १९ वेति बौद्धप्रत्यक्षोकप्रपञ्चातिदेशनम् १२६ ५ | अचेतनकरणा प्रकाशितपरमाण्वादेरज्ञानअस्यैव प्रपञ्चनम् १२६ ९ प्रतिबद्धत्वं कथमिति शङ्का रूपादेः पदार्थस्वसम्भावनेऽपि साम्यावस्थानं निरूपणोपायाभावात्तत्वमिति समाधानम् १३. ७ न तस्य घटत इत्युक्तिः १२६ १० सुरवादीनां स्वसंवेदनरूपाणां निरूपणोपायोs. रूपादेः साम्यावस्थानसम्भवेऽपि तस्याव्यक्त स्तीत्याशङ्का १३१ १४ स्वेनातीन्द्रियतया संघातस्यालम्बनत्वे स्वसंवेदनेनाप्यभ्यवहतानां न सञ्चेतनमिति प्रत्येक रूपादेः संवृतिसत्वेनाभावादवि. समाधानम् १३. १५ षयस्वापादनम् | एतदर्थपरिष्करणम् १३१ २९ एतस्य निर्मलीकरणम् १२७ ६ | कल्पिताकल्पिततथाभूतप्रत्ययानुपपत्तेरज्ञाना. प्रधानवस्तु अतीन्द्रियत्वादप्रत्यक्ष रूपादिवच. विद्धमिन्युपसंहरणम् १३२ २ नपरमार्थसत् इत्यादियथायोग्यं विशेषवा अज्ञानशब्दोचारणादेव ज्ञानमभ्युगतमित्याशङ्का १३२ ७ दोक्तदणातिदेशः १२७ १० राधकपूर्णकमातृव्यपदेशेन समाधानम् १३२ ९ अतिदेशसंघटनम् १२७ १४ दृष्टान्तस्य भावना कारकज्ञापकहेतुस्वाभ्यामपदेशापादकग्रन्थ अवबोधार्थाभेदात् ज्ञानस्वाज्ञानस्वयोरविसङ्घटनम् १२७ १९ शेषत्वोक्तिः १३२ १८ उभयमतप्रत्यक्षमलौकिकरवादयुक्तमित्या एतस्य भिन्ननयभङ्गेऽज्ञात एवशब्दस्यार्थ इति ख्यानम् १२८ १२ कथनम् १३२ २१ नानास्वैकान्तवादेऽपि प्रत्यक्षस्वाभाववर्णनम् १२८ १३ एतदर्शनज्ञापकतया हरिका रिकाया उना. तस्य प्रत्यक्षलक्षणप्रदर्शनम् १२८१८ वनम् १३३ ४ दम्यादिविनिर्मूलत्वात् प्रत्यक्षवाभावरूपणम् १२८ २० तस्य अर्थवर्णनम् द्रव्यादेनिर्मूलत्वमपरिणामित्वादिति वर्णनम् १२८ २३ एतस्मिमयभङ्गे सर्वाणि पदानि वाक्यार्थ इति इतिशब्दस्य हेत्वर्थत्वेऽनुभवप्रदर्शनम् १२८ २५ कथनम् द्वन्यादीनां सदसदादिरूपाणामेकात्मककल्पनात् वाक्यं प्रति मतिभेदप्रदर्शनम् १३३ १४ कल्पनारमकतेत्युक्तिः १२९ ३ व्यवहारदेशत्वाच्चास्य द्रव्यार्थतेति कथनम् ततो भ्रान्त्यादिवदप्रत्यक्षत्वसमर्थनम् १२९ १० __ तत्वार्थभाष्योक्तव्यवहारलक्षणप्रदर्शनम् च १३३ १९ एवज सर्वप्रमाणाविरोधितश्वव्यवहारसमव द्रव्यशब्दार्थव्युत्पत्तिप्रदर्शनम् १३४ ४ स्थलोकपरिग्रहवदेवसामान्यविशेषाविति अस्या विधिवृत्तेरेकदेशवृत्तिवं लोकत एवेति विधिविचारोपसंहरणम् १२९ १३ वर्णनम् १३३ ८ एतस्य व्याख्यानम् १२९ १५ तस्य स्फुटं वर्णनम् १३४ १० एषविधिनयोऽज्ञानवाद इत्यभिधानम् एतन्नयनिबन्धनभूतागमप्रदर्शनम् १३४ २० क्रियाऽक्रियादिचतुर्विधनयभेदेष्वज्ञानवादेऽन्तर्भाव इत्युक्तिः विधिविध्यरे द्वितीये भज्ञानप्रतिबद्धत्वमेव जगतः साधनम् १३० ८ विधिवृत्त्येकान्तस्यास्यायुक्तस्वाभिधानम् १३५ २ तन्मयस्वात् पृथिव्यादीनामचेतनत्वोपपादनम् १३० १० | सामान्यादिविधिवृत्याऽस्य विधिवृत्त्येकान्तस्य इन्द्रियाणामपि तत्साधनम् १३० १३ । सम्बन्धकथनम् _ 2010_04 Page #23 -------------------------------------------------------------------------- ________________ विषयाः विप्रतिषेधादिति हेत्वभिधानम् विप्रतिषेधोद्भावनम् एतस्य स्फुटीकरणम् प्रतिषेध्यं ज्ञायत इत्युक्तावपि दोषप्रदर्शनम् एतस्यैव व्याख्यया विशदीकरणम् सर्वस्याऽज्ञातत्वेऽप्रत्ययात् प्रतिषेवाभावः, ज्ञातः चाशक्यं लोकतत्वं ज्ञातुमित्यप्रत्ययमिति वर्णनम् प्रतिषेधेऽपि विप्रतिषेधस्य वर्णनम् क्रियोपदेश न्याय्यत्वाभ्युपगम स्याप्ययुक्त स्वोक्तिः संसेव्य विषय स्वतवानुपाति परिणाम विज्ञानरहितस्वहेतोर्यावर्णनम् अवैधौषधोपदेशदृष्टान्त संघटनम् बालकादिग्रहणदृष्टान्तकथनम् उपदेशादेव ज्ञानयोग इति शङ्कनम् तत्र पूर्वज्ञानकारणकाचे वेदस्यापि तथेत्युक्तिः उपदेशाप्रसिद्ध्यभिधानम् लोकतत्वान्वेषणव्यतिरेकेणाभावादिति हेतु अनुक्रमणिका पृ० पं० विषयाः १३५ ७ इतरार्थाविचारेण प्रसिद्धताभिधानम् अग्निहोत्रकर्त्तव्यताप्रतिपत्तिरपि लौकिकप्रकर्त्तव्यवाप्रतिपत्तितुल्यैव प्रतिपत्तित्वादिति १३५ १० १३५ १४ १३५ १९ १३६ १ सम्बन्धाभावकथनम् सांख्यादितुल्यता वैधर्म्य कथनम् तस्य व्याख्या उभयथापि पौरुषेयत्वादप्रमाणत्वमित्यस्य १३७ ११ व्याकरणम् अन्यथा सख्याद्युपदेशप्रामाण्यापत्तिकथनम् १३७ १४ वैद्यकादिष्वप्य पौरुषेयत्वापादनम् १३७ १६ २३७ २० १३८ ५ कथनम् अग्निहोत्राद्युपदेशानां लोकतत्वान्वेषणपराणामपि शक्यप्राप्तिफलत्वयोः स्वीकारेऽन्यत्रादि तथेत्युक्तिः एतस्य व्याख्यानम् उपदेशाप्रसिद्ध परीक्षकस्वहानिरिति कथनम् प्रमाणानवस्थामाशंक्य निराकरणम् प्रमाणानवस्थायां क्रिया विधायिशास्त्र वैयर्थ्या पादनम् क्रियाविधायिवाक्यप्रदर्शनम् तस्याप्रसिद्धार्थ विषय विधायितया विधित्वाभि• धानम् एतस्य विधेरसंव्यवहार्यश्वात्तद्विहित क्रियाफल. 2010_04 १३६ ५ १३६ ७ १३६ १३ १३६ १७ १३६ २३ | हवनकर्त्तव्यतैवाग्निहोत्रकर्त्तव्यतेति शङ्कनम् २ | नामार्थधात्वर्थयोर्भिन्नार्थत्वात्, तथा पौन १३७ १३७ ५ १३७ ८ १३८ ९ १३८ १४ १३८ १६ १३९ ३ १३९ ७ १३९ ९ १३९ १६ १४० 9 शङ्कनम् तस्य हवनमात्रकर्त्तव्यतामात्र बोधकत्वोक्तिः विविक्तार्थवाचित्वाभिमतानां शब्दानां पदा न्तरार्थावृत्तित्वकथनम् साधनम् अग्निहोत्रादिकर्त्तव्यताया अलौकिकत्वमप्रसिद्धे रित्युक्तिः १४१ १२ लौकिक कर्त्तव्य तेतिकर्तव्यता वैषम्य प्रकाशनम् १४१ १८ अग्निहोत्र कर्त्तव्यताया अप्रसिद्धेः कथनम् जुहुयाच्छन्दोऽग्निहोत्रकर्त्तव्यतां ब्रवीतीति १४१ २१ शङ्कनम् पदेन स्वार्थे परिच्छिन्ने न पदान्तरार्थोऽपेक्ष्यत इति कथनम् वाक्यन्याय प्रदर्शनम् तत्र दृष्टान्तसंघटनम् अग्निहोत्रशब्दस्यार्थवत्वापेक्षाकथनम् इतरथाऽग्निहोत्रशब्दस्य प्रमादाधीनत्वकथनम् तथा च तद्वाक्याथैप्रकाशनम् वष्टान्तवैधम्र्योक्तिः साधर्म्येण वैधम्र्येण वाऽग्निहोत्रहवनयोरनम्व योक्तिः तयोराकांक्षाकृत मैक्यं नास्तीत्यभिधानम् अग्निहोत्रहवनयोरविहितत्वाद्विशेषणविशेष्यभावो न भवतीत्युक्तिः १३ पृ० पं० १४० १७ रुक्तत्यादग्निहोत्रपदवैयर्थ्यमिति समाधानम् १४२१७ वाक्यन्यायेन पदं पदान्तरार्थे वर्तत इत्या अनुवाद विधिविषयत्वे वाक्यभेदकथनम् तत्र दृष्टान्तसमन्वयनम् १४१४ समाधिः १४० ५ तस्य व्याख्या १४० १२ | हवनं कुर्यादिति नोच्यत इति पूर्वपक्ष: १४२ ४ १४२ ९ १४२११ १४२ १५ १४२ २१ १४३ २ १४३ ७ ६ ६ ३ ९ १४३ ११ १४३ १४ १४३ १६ १४४ २ १४४१६ १४५ ३ १४५ ५ अनिविषया हवनक्रियैव विधीयत इत्याशङ्का १४५ ९ घटादिकर्त्तव्यतावन्नाग्निहोत्रकर्त्तव्यता प्रसिद्धेति १४४ १४४ १२ ३. १४५ १५ १४५ १८ १४६ १ Page #24 -------------------------------------------------------------------------- ________________ द्वादशारनयचक्रम् विषयाः पृ० पं० विषयाः पृ० पं० अग्निहोत्रं कुर्यादित्युच्यते जुहुयादित्यस्य कुर्या- अस्यैव च निरूपणम् १५.१७ दित्यर्थः हवनस्याग्निहोत्रशब्देन प्राप्त केवलं पदभेद एवेत्युक्तिः स्वादित्युक्तिः प्रकारान्तरेणास्य व्याख्यानम् १५१ ३ जुहोत्यर्थत्यागोऽर्थभेदश्चेति समाधानम् अन्यथाऽर्थाधिगतेः श्रुतिप्रतिपत्त्यभाववर्णनम् १५१ १० जुहोत्यर्थत्यागस्य प्रतिपादनम् १४६ २२ एतस्य स्फुटीकरणम् १५१ १३ नामधात्वोः प्रत्येकं व्यर्थवृत्तित्वादर्थभेदप्रति शब्दप्रामाण्यत्यागेन पुरुषबुद्ध्यार्थकरणाच्छ्रुति. पादनम् १४७ ३ प्रामाण्यत्याग इति समर्थनम् १५१ १५ शब्दार्थसङ्करवर्णनम् वादावसान निग्रहस्थानप्राप्तिरिति कथनम् .१५१२० प्रसिद्धिविरोधनिरूपणम् हवनं कुर्यादिति व्याख्यानेऽप्येष दोष इति सर्वधात्वर्थविशेषत्यागापत्तिकथनम् __ कथनम् तत एव सर्वधात्वर्थसामान्यस्यापि त्यागापत्ति. अग्निहोत्रहवनयोविशिष्टयोर्ग्रहणान शब्दार्थकथनम् त्याग इति शंका क्रियासामान्यस्योक्तावपि न विशेषाभावः आस एकस्माद्वाक्यादर्थद्वयविधानासम्भव इति श्रुताग्निहोत्रकर्त्तव्यताबोधादित्याशङ्कनम् १४७ १३ समाधानम् अर्थविशेषस्मारकहेत्वभिधानम् १४७ १६ जुहुयाच्छब्देन विहितं हवनमेवानूद्यत इति तत्राप्यासन्नतरश्रुतजुहोत्यर्थत्यागवर्णनम् १४८ २ शंकनम् तदर्थोपादानेऽप्यप्रसिद्धत्वादिदोषतादवस्थ्य १५२ १३ कथनम् १५२ १४ १४८ अप्राप्तस्य अनुवादासम्भवोक्तिः ४ पदान्तरार्थाभिधानं स्वीकृत्यापि दोषाविर्भावनम् १४८ ७ एतदर्थव्याकरणम् १५२ १७ तस्य व्याख्यानम् अग्निहोत्रशब्देन प्राप्तत्वे तु पौनरुत्यापत्तिरिति अग्निहोत्रपदस्य होत्रमात्रवृत्तत्वोक्तिरसङ्गतेति कथनम् १५२ २२ शंकनम् १४८ ५४ अनुवादलक्षणस्यात्रासम्भव इत्यभिधानम् १५३ ४ तिङ्प्रत्ययार्थैकीभूतप्रकृत्यर्थत्वात्सङ्गतार्थे वेति पुनरुक्तदोषाभावो दुरुधर इत्यभिधानम् समाधिः १४८ ५७ तद्भाववर्णनम् १५३ ९ अग्निपदार्थविवक्षायामपि कुम्भकारादिवत्समा पौनरुक्त्यव्याख्यानं सदृष्टान्तम् १५३ १५ सोपपत्तिरिति शङ्कनम् | जुहुयादिति पदमपूर्वोपदेशत्वादनुवादवैधाच्च साकांक्षतया समासाभाव एवेति समाधानम् १४९ ३ नानुवाद इति वर्णनम् १५४ ३ अस्तिक्षीरेत्यादेरिवापि न समास इति कथनम् १४९ ४ विशेषाविधानेऽनुवादता नेत्यभिधानम् १५४ १० सापेक्षत्वेनासामर्थ्यास्समासाभावकथनम् १४९ ९ विशेषो विधीयत इत्याशङ्कनम् १५४ १२ सापेक्षस्यापि प्रधानत्वे समासः, सोऽत्र नेति कश्चन विशेषोऽत्र नास्तीति समाधिः कथनम् विधिलिङर्थव्यतिरिक्तं सर्व दुष्टमेवेत्यभिधानम् १५४ १७ अपशब्दश्वामिहोत्रार्थे इत्युक्तिः १४९१८ विधिलिङर्थस्यावश्यवक्तव्यत्वे तदपेक्षप्रकृत्युजुहोत्यर्थं त्यक्त्वा कर्थग्रहे कुर्यादित्यस्य वैय. पपादनान्यथानुपपत्याऽऽसन्ना जुहोतिर्विवर्थ्यकथनम् १५. १ क्ष्यत इत्याशङ्कनम् १५४ २२ एतस्यैव स्पष्टं प्रतिपादनम् १५० २ एतस्य विशदीकरणम् जुहोतिप्रयोगस्याप्रशस्तताकथनम् अत्यासन्न कृप्रकृतेरेव ग्राह्यत्वौचित्योक्तिः १५५ १० अस्यैव निरूपणम् १५०१० कृञ् प्रकृतेर्विवक्षायामपि पूर्वोदितदोषादविनिक्रियाप्रातिपदिकयोः स्ववृत्तित्यागोपादानाभ्यां मुक्तिरित्युक्तिः भेदाभावप्रसञ्जनम् १५०१५ | एतदर्थनिरूपणम् _ 2010_04 Page #25 -------------------------------------------------------------------------- ________________ अनुक्रमणिका विषयाः पृ० पं० विषयाः पुरुषतर्कलक्षणेन न्यायेन विचार्यमाणमपि अग्निहवनं कुर्यादित्यर्थे उक्तार्थेषु वा दूषितवाक्यमिदं न युक्तमिति कथनम् मेति कथनम् १५६ १ स्वोक्तिः । तस्ववादवत् क्रियोपदेशवादोऽप्यशक्यप्राय अप्रत्यवेक्षितार्थयाथातथ्योरिति हेतोा . फलस्वाभ्यां त्यक्तो भवेत् यादृच्छि. वर्णनम् १६० ७ कत्वादिति कथनस् १५६ २ अग्निहोत्रं हवनं कुर्यादित्यत्र दोषान्तराभिधानम् १६० १५ तदर्थव्याख्यानम् १५६ ५ अलौकिकत्ववदप्रसिद्धस्वरूपत्वात करणासिद्धिबालप्रलापवत् सार्थकत्व निरर्थकत्ववेदनाश रित्युक्तिः क्यत्ववर्णनम् १५६ ११ विध्यन्तरविधानशैल्या प्रसिद्धिशङ्कनम् १६० २२ व्यवस्थापेतत्वप्रतिपादनम् यूपं छिनत्तीति विध्यन्तरप्रदर्शनम् अफलस्वाऽऽवेदनम् १५६ २१ कालतः शैलीवैषम्यान प्रसिद्धिरिति समाधानम् १६१ ९ ज्ञवचन मिद मिति नाभ्युपेमः प्रमाणभूतस्य क्रियाकाल एव तादादासयूप इति वैषज्ञस्याभावात् शब्द एव च निर्दोषः, अतोऽयं __ म्याभावशंका १६१ १५ विफलः प्रयास इत्याशङ्कनम् १५७ ४ छेदनसंस्कारविधानवैयोद्धावनम् वाक्यस्यास्याज्ञोक्ततयाऽप्रमाणत्व क्रियोपदेश एतस्यैव भावोद्घाटनम् १६२ साफल्यवादो भन्न इति समाधानम् अवधारणतोऽपि वैषम्यकथनम् ६ १५७ १० चेतनोच्चरितत्वानङ्गीकारे वचनस्वप्रामाण्या. यूपं छिनत्तीत्यत्रावधारणप्रदर्शनम् भावकथनम् . १६२ १५ अग्निहोत्रवाक्ये तदसम्भवकथनम् १५७ १३ प्रसिद्धिवैषम्यस्यापि प्रकाशनम् १६२ २० अस्यैव प्रकटीकरणम् १५७ १७ अग्निहोत्रपदमप्रसिद्धार्थ यूपपदन्तुप्रसिद्धार्थ. वेदवचनस्य कर्ता नास्ति वक्ता तु प्रमाणभू मिति कथनम् १६२२२ तोक्तितथावचनमपीत्याशङ्कनम् १५८ ४ शैलीसाम्यं नास्तीति निगमनम् १६३ २ आदिवक्तरीवोत्तरवक्तर्यपि अनाश्वास एवेति प्रकारान्तरेण शैलीप्रामाण्य इति ग्रन्थसमाधानम् १५८ ६ व्याख्यानम् पूर्वोत्तरपक्षयोरनयोरभिप्राय प्रकाशनम् १५८ ८ सेवादिक्रियासाम्यत्वाशङ्कनम् १६३ १३ धातुकमंत्रादिवक्तृदृष्टान्तकथनम् १५८१४ ज्ञातस्वाज्ञानत्वाभ्यां वैषम्याऽऽदर्शनम् अविवक्षितार्थकजुहोतिप्रयोगाभ्युपगमोऽपि पूर्वपक्षस्फुटीकरणम् न न्याय्य इत्यभिधानम् १५० १८ सेवापदार्थे ज्ञातेऽञ्जलिकरणादीनां तदर्थतेत्युक्तिः१६३ २० भमिहोत्रहवनयोः क्वचिरसार्थकयोरेव स्वार्था अज्ञाते तस्मिन्नतथेत्युक्तिः १६३ २३ विवक्षा सम्भवति नानर्थकयोरित्यभिधानम् १५८ १९ | हवनादीनां दानाद्यर्थतया ज्ञातरवेन सेवादि. सदृष्टान्तमुक्तार्थाभिप्रायस्फोरणम् १५८ २२ साम्यत्वशङ्का १६४ ५ उक्तन्यायस्यानियतत्वे दोषोत्कीर्तनम् १५९ ४ | लोकप्रसिद्धदानार्थतापत्तिप्रसञ्जनम् विशेषविवक्षायाः सप्रयोजनस्वे किं सार्थक पूर्वोत्तरपक्षस्फुटीकरणम् स्यैवाविवक्षेति नियमेनेति शङ्कनम् १५९ ९ अग्निसम्प्रदानत्वविरोधोक्तिः १६४ १४ विवक्षाविवक्षयोरतंत्रत्वेऽमिहोत्रशब्देऽग्नि अग्नये इति सम्प्रदानविशेषो लौकिक एवेति पदमेप्यविवक्षितार्थं स्यात्, भमहोत्र. शङ्कनम् मित्यपि वदेदिति दूषणम् १५९ १३ एवं तर्हि लौकिक एवं गृह्यमाणेऽर्थे विचाराअन्यादेरविवक्षा युक्ततरीतिकथनम् १५१ १८ नर्थक्यकथनम् एतदुपपादनम् १५९ १९ हवनक्रिया न प्रसिद्धदानामिका, तदाभवाअस्य वाक्यस्याप्रत्यायकत्वमपीति वर्णनम् १६० २ दिति साधनम् _ 2010_04 Page #26 -------------------------------------------------------------------------- ________________ पृ. ५० १७० १० द्वादशारनयचक्रम् विषयाः पृ० पं० विषयाः प्रधानादिवादसाधुतापादनम् १६५ ९ | स च तर्कोऽप्रति पूर्णः प्रतितकेंण बाधितश्चेति अग्निहोत्रशब्दस्यापूर्व विशेषाभिधायित्वशङ्कनम् १६५१४ कथनम् सच्छङ्काया एव विशदीकरणम् असत्कार्यस्वं न वस्तुनस्तत्वं व्यङ्ग्यस्यादित्यसतत्र कोऽभिधेयः समर्थित इति पूर्वपक्षिणं कार्यवादसाधकस्य कार्यत्वेन परिगृहीतप्रति प्रश्नः स्वादिति तर्कस्यासिद्धवस्य कथनम् १७०२० वर्ग भावयेदित्ययमर्थः साधित इति क्रियाया व्यङ्गयत्वस्य प्रकाशनम् पूर्वपक्षिणोऽभिधानम् १६६ ८ | पिण्डकालीनघटदृष्टान्तवर्णनम् शब्दप्रयोगस्य तत्वज्ञानोत्पत्यविद्यानिराका. एकस्य व्यक्ताव्यक्तते बाधिके भवत इति शङ्कनम् १७१ ६ रणर्थतयाऽनेन शब्दप्रयोगेण किमूनी तत्त्व एव तथाभूतेन काचिदव्यक्ता नामावस्थेति कृतमित्याक्षेपणम् समाधानम् १७१ ७ भस्याक्षेपस्यैव विशदीकरणम् १६६ १४ घटस्वात्मवदिति दृष्टान्तो युक्तो न तु पिण्डजुहुयाच्छब्दादेव भावनस्योक्तस्य गतार्थ कालघटदृष्टान्त इति शङ्का १७१ १५ तयाऽग्निहोत्रपदव्यर्थताभिधानम् १६७ १ | तुल्यप्रत्यासत्तित्वादिति समाधानम् २७११७ अपूर्वविशेषाभिधानाभ्युपगमेऽपि तस्याप्रत्यक्ष एतस्य भावार्थप्रकाशनम् १७१ २० तया निरूपणमसम्भवीत्यभिधानम् प्रकारान्तरेण समाधानम् १७२ २ मिरूपणासम्भवस्यैव निरूपणम् हवनक्रियायाः कारणमात्रत्वोक्तिः अदृष्ट कार्यकारणत्वव्याख्याया अनुपपत्तिकथनम् १६७ ८ तदात्मत्वात्तन्निर्वृत्तस्वादिति हेतुद्वयोक्तिः हतुक्षयाक्ति १७२१२ वाक्यान्तरेणाग्निहोत्रस्य प्रसिद्धिरिति शङ्का १६७ १४ एवमप्रतिपूर्णतर्कत्वप्रतितर्कबाध्यत्वकथनम् १७२ २५ प्राप्तिशब्दसाधनम् १६७१७ कारणे कार्यस्य सत्त्वमभ्युपगम्य तत्यागः कृत अग्निहोत्रपदसमासकथनम् | इति प्रदर्शनम् वाक्यान्तरप्रदर्शनम् एतस्यैव सदृष्टान्तं विशदीकरणम् सर्वेतिकर्तव्यतानां प्रसिद्धिरेवाग्निहोत्रप्रसिद्धि स्वशब्दापत्तिविषय विपरीतार्थत्वाद्विवक्षा. रिति कथनम् भेदव्याघातोद्भावनम् १७३ ८ जुहुयात् पदवैयोद्धावनम् १६८ २ तस्वानपेक्षणदोषात्ती न पश्यसीति कथनम् १७३ १४ तस्य व्याख्यानम् कारणात्मकस्वाभ्युपगमेऽपीतिकर्तव्यताया अत्रापि पुरुषप्रमाणकवादापत्तिप्रसञ्जनम् जन्यत्वानुपपत्तिकथनम् १७३ १७ उत्तरोत्तरविरोधपरिहारविचारप्राप्याथै जनकत्वादिहेतूगावनम् परिग्रहादिति हेतूद्भावनम् १६८ ९ तस्याजन्यत्वे जनकत्वाभाववर्णनम् १७४ ८ तर्कलक्षणं गौतमोक्तम् । कारणमात्रत्वे कर्तव्यतायाः प्रत्येकेतिकर्तव्यएकावस्थामात्रविच्छिन्नपूर्वापरत्वाझ्यादिभिन्न तायां समाप्तस्वासमाप्तत्व विकल्पतो दूषणम् १७४ १३ वस्तुत्वाभिनिवेश विधानाद्धवनक्रियाफला. प्रत्येकपरिसमाप्तौ दोषाविष्करणम् दीनां परस्परमसम्बन्ध इति निरूपणम् १६९ ५ अपरिसमाप्तौ दोषोद्भावनम् १७४ २२ समुदाये कर्तव्यताशक्तिरित्यस्य दूषणम् भसरकार्यवादाश्रयेणैतस्य व्याख्यानम् सरकार्यवादेवेतन्न भवेदिति कथनम् अभिमतविध्यनुवादवैपरीत्यदोषोद्भावनम् १७५ २ मसरकार्यवादाभ्युपगमं प्रकाशयति ६६९ २१ दोषस्यास्य स्फुटीकरणम् सत्कार्यवादिसांख्य विलक्षणसरकार्यवादकथनम् १७० ४ अवाक्यत्वमग्निहोत्रादिवाक्यानामित्यभिधानम् १७५ १२ अत्र वादे भेदविधेनिविषयत्वोक्तिः १७० ६ साधुत्वासाधुत्वयोरसम्भवप्रतिपादनम् १७५ १७ भेदानां विधानादेव तणासरकार्यवाद माश्रित ज्ञातार्थशब्दप्रयोगे ज्ञातार्थतायाञ्च कारणस्य इत्युक्ति १७० १० कथनम् . 2010_04 Page #27 -------------------------------------------------------------------------- ________________ १८२ अनुक्रमणिका विषयाः पृ० पं० विषयाः कारणात्मकार्यवादेऽस्मिन् पदादेः साधुस्वास दाहनात्मकमेव दानमित्य युगम्य दूषणम् म्भवप्ररूपणम् १७६ १० प्राप्तेर्युदासप्रतिपादनम् असाधुस्वस्याप्यसम्भवाभिधानम् १७६ १२ घृतेन जुहुयादिति अप्रमत्तप्रयुक्तत्वागतार्थतासाधनान्तराभिधानम् विज्ञानमित्युक्तिः १८२१२ कारणास्मकं कार्यमिति कथनमप्यबुद्धिपूर्वकमे तत्र इषेत्वेत्यादिमंत्रोदाहरणोपन्यसनम् १८२ १७ वेति रूपणम् १७७ ९ अक्षरविद्यादृष्टान्तकथनम् १८२ १९ कारणात्मककार्यवादोऽसत्कार्यवादश्चाभ्युपग सहि प्राप्तिवाक्यवृत्तजुहोत्यनुवादोऽयमिति __ म्यतेऽतो न कश्विदोष इत्याशङ्कनम् १७७ १३ शङ्कनम् १८३ ८ एतस्यैव वर्णनम् जुहोतीत्यस्य विधिलिविषयस्वाज्ञानादिति. अलब्धवृत्तित्वहेतुप्रदर्शनम् १७८ ६ दूषणम् १८३ १२ क सत्कार्य कुन चासत्कार्यमिति विवेचनम् १७८ ९ पूर्वपक्षिणा स्वेष्टसिद्धौ व्याकरणस्य प्रमाणीकरणम् १८३ १७ , एतन्मतदूषणम् अज्ञातस्वादेवाननुवादत्वादितिहेतुना दूषणम् १८३ २० असरकार्यवादाङ्गीकारेऽपि अग्निहोत्रवाक्यस्यावा. जुहोत्यर्थे जुहुयाच्छन्दमङ्गीकृत्यापि दोषकथनम् १८४४ क्यता, इति कर्त्तव्यता वाक्यसिद्धेरित्युपपा पुरुषस्य कर्मण्यनियोजितत्वोक्तिः १ ८४ ५ दनम् १७८ २५ विध्यर्थोऽर्थापद्यत इति शङ्कनम् इतिकर्तव्यतावाक्यस्थावाक्यत्वकथनम् १८४८ १७९ कर्तृकर्मक्रियादीनां विशिष्टतालाभवर्णनम् अननुवादत्वहेतोः साधनम् ५ १८४ १५ तत एव शब्दात्तस्य क्रियाविशेषस्य गतेरितिअग्निहोत्रवाक्यार्थानां निर्मूलार्थत्वादिकथनम् १७९ १० हेतूक्तिः घृतेन जुहुयादित्यत्र जुहुयादित्यस्यानुवादत्वास तत्र दृष्टान्तवर्णनम् १८५ ३ म्भवोक्तिः १७९ १५ हवनस्याग्निहोत्रवाक्यतः प्रसिजूस्वशङ्कनम् १७९१६ एतस्याख्याने प्रधानश्रुत्यत्यागलक्षणोगुणोऽस्तीतस्य निरासः १७९ १७ त्युक्तिः तस्यैव विशदं व्यावर्णनम् एतव्य ख्यानस्यापि निरसनम् १८५२० हवनापूर्वकरणार्थतायां अग्निहोत्रश्रुतित्यागाप. अनुवादस्वासम्भव इति हेतूक्तिः त्तिदानम् १८० २ पुनरुक्तनिग्रहस्थाननिरूपणम् तस्य प्रधानत्वात् सार्थकत्वाभ्युपगमे जुहुया अस्या व्याख्याया जघन्यतरस्वोक्तिः च्छन्दवैयर्थ्यकथनम् १८. ६ पुरुषप्रमाणकत्वशब्दाप्रामाण्यदोषकथनम् अग्निहोत्रहवनोभयकरणार्थत्वरक्षेऽपि दूषणक. विधीयमानवाक्यार्थविषयानुवदनाद्वाक्यभेद- - थनम् १८० १६ पुनरुक्तिदोषौ १८६ १७ तस्य स्पष्टीकरणम् वाक्यभेदप्रतिपादनम् १८७ १. शैल्याप्रसिद्धावग्निहोत्रस्यानग्निहोत्रत्वापादनम् १८१ ३ | पौनरुत्यप्रतिपादनम् १८७ ५ अनग्निहोत्रत्वस्यैव स्फुटं प्रतिपादनम् १८१ ६ अनुवादत्वाभावनिरूपणम् १८७ १२ प्राप्तिवाक्येन प्रसिद्धौ दाहने एन जुहोति प्रयो. प्राप्तविषयार्थत्वादिहेतुवर्णनम् १८७ १३ गविधानकथनम् घृतेन जुहयादित्यस्य विधिविषयविप्रकृष्टीभूततस्य व्याकरणम् . १८१ १७ ___ स्वात् कर्तव्यताविषयत्वं न सम्भवतीत्युक्तिः १८७ १८ तस्पक्षे लोकप्रसिद्धिवैपरीत्येन घृतेन जुहया एतद्वयाख्या १८७ २० दित्यस्यार्थवर्णनम् १०१ २१ इतिकर्तग्यता कर्तव्यताया घटितविघटितत्वोक्ति-१४८ . भन्नार्थे पूर्वग्रन्थातिदेशः १८२ ३ | तदुपपादनम् द्वा. न. अनु. 3 _ 2010_04 Page #28 -------------------------------------------------------------------------- ________________ द्वादशारनयचक्रम् विषयाः पृ० पं० विषयाः पृ० पं० घृतेन जुहयादिस्यस्यानुवादरवेऽभिमतेऽहन्ते तयोरसत्वे तुल्ये वैलक्षण्यानुपपत्तिरित्य. बुद्धिसंविभागं करोमीति प्रदर्शनम् १८८१८ भिधानम् १९५ ७ तत्रच स्वविष्टार्थविरोधो भवतीति निरूपणम् १८८२३ | असतस्तुल्यत्वं नेत्याशङ्कनम् १९५ १३ जुहोतिप्रयोगबाहुल्यवैयाभिधानम् १८९ ५ असतो विशेषाश्रयत्वे सत्त्वापादनम् १९५ १५ एतस्यैव विशदंग्यावर्णनम् १८९ ११ अस्मन्मतेऽभावोऽपि वस्त्वेवेत्यभिधानम् १९५ १७ तद्वचनस्याप्रमाणनियमागमत्वानुपदेशकस्वोक्तिः १८९ २२ प्रथम विकल्पोपसंहारः अप्रत्यवेक्षितार्थत्वादिहेतुव्यावर्णनम् - १९० ४ कार्यमेवास दिति द्वितीयविकल्पारम्भणम् तस्य दोषाविनिर्मुक्तत्वमुक्त्वा ज्ञानवद्वचनत्वा खपुष्पस्य सत्वापादनम् १९६ ९ भावोक्तिः १९० १२ अवधारणविचारो दोषप्रदर्शनञ्च, विचारयोग्यमभिधायास्यायोग्यत्वव्यावर्णनम् १९०१४ असत्त्वविपरीतं घटादीनां कार्यासत्त्वं नामघृतादिषु स्वर्गादिफलस्यासस्वस्वीकारोऽप्य मात्रमिति कथनम् १९७ १ - भ्याय्य इस्युक्तिः एतस्यैव विस्पष्टं प्रतिपादनम् १९७ ३ न्यायेन बाध्यमानस्वाभिधानम् स्ववचनादिविरोधापत्तिप्रदर्शनम् न्यायप्रदर्शनम् १९१ १२ एतस्य भावार्थाभिधानम् कार्यस्यासद्विकल्पासङ्गतत्वाभिधानम् १९१ १८ असतोऽनवधारणात् पूर्वोदितदोषासञ्जनम् १९७ १५ असद्विकल्पप्रदर्शनम् अस्यैव विभावनम् १९७ १६ प्रथमविकल्पासङ्गतस्ववर्णनारम्मः १९१ २२ अवधारणकृतदोषवारणशङ्कनम् १९७ २० विकल्पचतुष्टयेष्वसत्कार्यपक्षे प्रथमद्वितीययो. कारणकाले कार्यखपुष्पयोरविशेषोक्तिः १९८ ४ रेव सम्भवाभिधानम् १९२ २ पूर्वतुल्यत्वापत्तिदोषाभावकथनम् १९८ १० कार्याविर्भाववत् खपुष्पाविर्भावापादनम् १९२ ८ तयोरविशेषतासमर्थनम् अस्थानङ्गीकारे खपुष्पस्य सत्त्वापत्यभिधानम् १९२ ११ खपुष्पात् कार्यस्य सामान्य विशेषवधादिअसद्विलक्षणत्वहेतुसमर्थनम् १९२ १८ विशेषाङ्गीकारेऽप्यसत्त्वे दोषाभिधानम् १९९ १ उक्तहेतोय॑भिचारित्वशङ्कनम् १९२ २१ अस्यैव विशदीकरणम् . सतोवैलक्षण्यादियुक्त्या समाधानञ्च १९२ २२ अन्यथा खपुष्पस्याप्यसत्त्वाभावप्रसङ्गोद्भावनम् १९९ ११ सतोवैलक्षण्यादिति हेतुव्याख्या १९३ ३ सामान्यविशेषवदिति दृष्टान्तकथनम् __ प्रकारान्तरेण तस्यैव व्यावर्णनम् १९३ ७ खपुष्पस्य कारणवत्सरवं कारणस्य वा खपु. सदसद्विलक्षणस्वादिति हेत्वन्तरोपादानम् पवदसत्वमिति प्रसञ्जनम् । सतो वैविध्यप्रदर्शनम् १९३ १० कार्यासस्ववैलक्षण्यादिति हेतुच्यावर्णनम् १९९ २१ असतोऽपि द्वैविध्यमुक्त्वा हेतुसमर्थनम् १९३ ११ खपुष्पस्योपादानादिमस्त्रानङ्गीकारेऽसत्त्वे कार्यस्य खपुष्पासस्वनिश्चयानिवृत्तौ प्रादुर्भावात्म प्रथम विकल्रपक्षे पूर्वोदितदोषचक्रप्रसञ्जनम् २००१ करवात् कार्यस्यासस्वं न स्यादित्यापादनम् १९३ २० एतस्यैव व्यावर्णनम् एतस्य भाववर्णनम् पूर्वग्रन्थभावना २००१० मस्यापत्तेर्नजात्युत्तरस्वमित्यभिधानम् १९४ ९ द्वितीयविकल्पपक्षेऽपि पूर्वोदितदोषासजनम् २००१७ एवमपि कार्यस्वासस्वे प्रादुर्भावः कदापि कारणे कार्यस्य सत्वे प्रत्यक्षस्वशक्कनम् न भवेदिति निरूपणम् १९४ ११ तत्समाधानव्याख्या २०१ ७ भत्रार्थेऽतीतग्रन्थयोजनम् १९५ १३ प्रकारान्तरेण तमाख्या २०१९ फलितार्थोपसंहारः १९४ २० प्रत्यक्षस्वसाधकस्य सत्त्वहेतोः प्रकरणसमदोकार्यखपुष्पयोर्वेलक्षण्यप्रदर्शनम् १९५ ५ षत्वकथनम् २०१ १३ 2010_04 Page #29 -------------------------------------------------------------------------- ________________ २०८ १७ अनुक्रमणिका विषयाः पृ. पं० विषयाः पृ. ५० प्रादुर्भावाप्रादुर्भावयोरपि सरवं व्यभिचरि- तस्य व्याख्यायां प्रकाशनम् तमिति शङ्कनम् पुरुषवादारम्भणम् २०९ ३ असस्कार्यवादी सत्कार्यवादेऽपि स्वपक्षसम पुरुषस्य स्वरूपं तन्मयत्वं जगत इति प्रतिज्ञापनम् २०११ दोषत्वमुझावयति २०१ २० पुरुषस्य भवनकर्तृत्वनिरूपणम् २०९१० एतस्य व्याख्या २०२ १२ अज्ञस्यापि कर्तृत्वमिति शङ्कनम् २०९१६ अनुवृत्तिव्यावृत्योरपि चतुर्विधविकरूपतो दोष क्षीरदध्यादीनां ज्ञप्रवृत्तिशेषत्वं न स्वज्ञस्य क. समन्वयनम् २०२ १९ र्तृत्वमिति समाधानम् २०९ १९ आविर्भावानाविर्भावयोरपि चक्रकद्वयसंघटनम् २०३८ चक्रभ्राम्तिवत् सर्वस्य ज्ञशेषत्वसमर्थनम् २०९ २३ स्वपक्षसमदोषत्वनिराकरणम् २०३ १८ दृष्टान्तसमर्थनेन मूलकारणनिरूपणम् तत्रोक्तहेतूनामसिद्धत्वाभिधानम् २०३ २३ तस्य स्फुटं प्रकाशनम् २१० . तत्र स्ववचनविरोधोनावनम् २०४ १२ अचेतनानामभ्रादीनां चेष्टा दृश्यत इत्याशंका २१० ११ अस्यैव विशदीकरणम् अचेतनानां ज्ञस्य सप्तावस्थात्वोक्तिः इतिकर्तव्यतैव कर्तव्यतेतिव्याख्याविफल. पूर्वोत्तरपक्षाभिप्रायवर्णनम् २१०१६ त्वोक्तिः २०५ २ ज्ञशेषत्वमेव सर्वमिति भावनम् २१० २३ तस्य प्रकटीकरणम् २०५ ५ स्थूलपृथिव्यादीनां सूक्ष्मरूपादिपूर्वकत्वकथनम् २११ १ अज्ञानप्रतिबद्धमेव सर्वमितिपक्षे स्ववचनवि रूपादिभ्यः परतोऽपि कारणस्वस्य साधनम् २१११५ रोधोद्धावनम् २०५ १२ तद्वयाख्यानम् २१११७ व्याख्यायां विकल्पद्वारेण तदुद्भावनम् २०५ १५ तस्य कारणस्य ज्ञानस्वतस्वभूतात्मस्व निरूपणम् २११ २२ अभ्युपगमलोकप्रमाणादिविरोधोद्भावनम् २०५ १७ ज्ञानमेव रूपादिशब्देनोच्यत इति निरूपणम् २१२ ४ आत्मैव सामान्यमित्यभ्युपगमो युक्त इत्या तस्यैव विभक्ताविभक्तत्वकथनम् २२२ ११ ख्यानम् सदृष्टान्तं तत्साधनम् २१२ १२ स चारमा पुरुषो विशेषास्तु तदवस्था इति वर्णनम् प्रत्यक्षविरुद्धकल्पनात्वाशङ्कनं समाधानञ्च २१२ १८ २०६ ५ अत्र पक्षे पूर्वोक्तदोषाभावप्रकाशनम् २१२ २१ रूपादिभिन्नद्रव्यत्वमाशय निराकरणम् आत्मशब्दस्य पुरुषपर्यायत्वे कारणवर्णनम् २०६ १२ पूर्वोत्तरशङ्कासमाधानस्फुटीकरणम् २१३ २ विशेषाणां तस्यैवावस्थात्वव्यावर्णनम् पूर्वोत्तरग्रन्थपौनरुत्यनिराकरणम् २१३ ६ पक्षेऽस्मिन् गुणोऽप्यस्तीति कथनम् २०६ २२ प्रत्यक्षाविरोधिकल्पनाप्रकाशनम् अत्रैव विचारानर्थक्यस्य न्याय्यतेत्यभिधानम् २०७ १ तदर्थभावनम् २१३१ एतस्यैव व्याख्यानम् भेदपक्ष एव विरोध इति कथनम् २१३ १४ अस्यैव विधिविधिस्वं सम्भवतीति निरूपणम् २०७ ८ ज्ञानस्यैव ग्राह्यत्वं ग्राहकत्वञ्चेस्युक्तिः २१३ १९ तस्य समर्थनम् २०७१३ व्यतिरेकस्यानुपपत्तेस्तस्समर्थनम् २१३ २३ भावशब्दव्युत्पत्तिः २०७ १५ क्रमयोगपद्यभाविधर्माणां तत्रैव व्यवस्थेत्युक्तिः २१४ ३ विशेषादिवादेषु भावो न घटत इत्यभिधानम् २०७ अयत्नेन सर्वज्ञतालाभोक्तिः २१४ १४ भविन्नभावात् तन्न भावोऽविविक्त एवेति निरू. सर्वज्ञतासाधनम् २१४ १९ पणम् २०७ २१ तत्रैव हेत्वन्तराभिधानम् २१५ ६ तत्र विधित्वानुपपत्तिप्रतिपादनम् २०८ ४ वक्तवादिधर्मभ्योऽसर्वज्ञतेति वर्णनम् २१५७ अविविच्यमानार्थविधानत्ववर्णनम् २०८ ७ ततोऽपि सर्वज्ञतासाधनम् २१५१८ स्वमतेन विधित्वकथनम् २०८ १५ आकाशसाधनम् २१५ २२ पत. 2010_04 Page #30 -------------------------------------------------------------------------- ________________ द्वादशारनयचक्रम् विषयाः पृ. पं० विषयाः पृ० पं० अवस्थाकादसर्वातथ्याभिधायिता विपर्यय. कार्यात्मनो वर्णनम् २२३ २ . साधनम् २१६ २ सुषुप्तावस्थाया द्रव्येन्द्रियरवकथनम् २२३ ७ रष्टान्तवर्णनम् २१६ ६ सुषुप्तावस्थाया ज्ञानात्मकत्वसाधनम् २२३ १० अवस्थास्वस्य न विपर्ययसाधकरवं संशयहेतु तत्र दृष्टान्तान्तरप्रदर्शनम् २२३ १३ . स्वादिति शंका २१६ १२ परिणामपरिणामिनोरभेदोपवर्णनम् २२३ १९ धूमवरवादेरपि सविपर्ययस्वान्न तस्य संशयहे. तद्रव्यवहेतोरुक्तिः २२४ ५ तुतेति समाधिः २१६ १३ तस्कार्यत्वहेतोर्वर्णनम् २२४ ८ एतस्य व्यावर्णना २१६ १६ तद्वयतिरेकेणाभावादिति हेत्वभिधानम् २२४ १२ वचनस्वस्याप्यवस्थारूपतया पौरुषेयत्वकथनम् २१७४ तद्देशस्वादिति हेतुनिरूपणम् २२४ १३ एकदैकस्य तत्तदभावरूपत्वे प्रत्यक्षादिविरोध आत्मनो बन्धवर्णनम् २२४ १८ माशंक्य समाधानम् पुरुषभ्रमणाभिधानम् प्रत्यक्षत एव तत्तदभावरूपताग्रहणमिति प्रद. अनाद्यनन्तशः स्थूलसूक्ष्मशरीरादिरूपादि प्रतिर्शनम् २१७ १७ पत्त्यभिधानम् २२५ १४ ब्रीडादेरबाचात्मकतासाधनम् २१७ २० कार्यात्मस्वहेतुना तस्समर्थनम् २२५ १५ ब्रीहिकाले तथाऽग्रहणादप्रत्यक्षतेत्याशंकनम् २१८१ एवं सति चैतन्यरूपादिमत्वाविवेके ज्ञ एव भ. तथासति सर्वाप्रत्यक्षताकथनम् २१८४ वतीति कथमित्याशङ्कनम् २२६ ४ रूपस्य सर्वस्य ग्रहणं भवत्येति पूर्वपक्षीकरणम् २१८ १२ अयमेवार्थः सिषाधयिषित इत्युत्तराभिधानम् २२६ ६ तस्यापि न सर्वतोग्रहणमितिसमाधानम् २१० १५ भवनधर्माश्रयस्यावश्यवक्तव्यत्वात्तथाभिधाचेतनस्यावस्थाचतुष्टयाभिधानम् २१८ १९ नामिति निरूपणम् २२६ १९ तनेदाख्यानम् २१८ २० भेदभूतपदार्थपरिग्रहे तु भवनाभाव एव प्रथमावस्थात्रयस्य कार्यकथनम् २१९ २ देशभेदप्रत्ययादिति निरूपणम् चतुर्थावस्थास्वरूपाभिधानम् २.९ ४ कालभेदप्रत्ययेनापि भवनाभावनिरूपणम् २२७ ७ आत्मनः सर्वास्ता एकदैव स्युरिति शंका २१९ १० एतस्यैवार्थस्य स्पष्टीकारः २२७ ९४ क्रमनियतस्वमवस्थामामिति समाधानम् २१९ १५ | अनुवर्त्यपदार्थाभ्युपगमे तु नैष दोष इत्यविशदं तुरीयावस्थास्वरूपाभिधानम् २१९ १७ भिधानम् २२७ २४ करणात्मनः प्रदर्शनम् २२० ४ विज्ञानमात्रवादिभिर येवमेव स्वमतं साधसुप्तानां प्रदर्शनम् २२. यन्तीत्यभिधानम् इन्द्रियव्यावर्णनम् २२० ११ रूपादेः परस्परविविक्तत्वे तु तन्मात्रतापि खेमावस्थाकथनम् २२१ १ __ नैवेति निरूपणम् २२८ १६ द्रव्यपुरुषनिरूपणम् २२१ ४ ज्ञानस्यस्वभावे प्रत्यक्षादिविरोध इति तत्स्वपुरुषस्य करणारमावस्थानुपपत्तिशङ्कनम् २२१ ९ भावस्यैकस्यात्मनः सिद्धिरित्याख्यानम् २२८ २० तरसमाधानम् . २२१ १० प्रत्यक्षादिविरोधवर्णनम् २२९ १ पुनश्च करणारमावस्थायाः परमात्मना वैरूपय सन्निपत्याराहूरादुपकारिणामुपदर्शनम् २२९ ८ मित्याशङ्कनम् २२१ १८ ज्ञानस्वरूपास्मैवेदं सर्वमिति प्रमाणीकरणम् अर्थस्य तथातथातत्त्वादितिसमाधिहेतुवर्णनम् २२२ १ तदर्थप्रकाशनम् २२९ १५ सुप्तावस्थाया ज्ञानात्मत्वोक्तिः जीवस्यानन्तभागस्य नित्योद्घाटितस्वोक्तिः २३० ४ संशयविपर्ययानध्यवसायानां विज्ञानरवसम आरमन एव सर्वस्वात् सत्वादिपदाभिधेय“र्थनम् २२२ ११, त्वमिति वर्णनम् २३० १३ 2010_04 Page #31 -------------------------------------------------------------------------- ________________ २३१ ११ २३२ ८ अनुक्रमणिका विषयाः पृ० पं० विषयाः तत्र दृष्टान्तकथनम् २३० २३ नियते दाभावः कथं भेदो वा कथं नेत्यामात्माऽऽत्मानं सृजति बध्यत इत्यादीनामा शङ्कनम् २३७ २ त्मनि वृत्तिविरोधादनुपपत्तिरित्याशङ्कनम् २३१ ६ | भेदाभदरूपत्वप्रातपादनम् २३७ ४ शक्तिमेदात्तदुपपद्यत इति समाधि. पूर्वपक्षव्यावर्णनम् २३७ ६ दृष्टान्तपूर्वकं तत्समर्थनम् २३१ १२ समाधानाभिप्रायप्रकाशनम् पुरुष एव कालप्रकृत्यादिशब्दवाच्य इत्युप. भेदाभेदरूपत्वस्यैव सकारणं निरूपणम् २३७ १६ दर्शनम् २३२ १ द्रव्यदेशादे नावस्थत्वव्यावर्णनम् २३७ २२ द्रव्यक्षेत्रादिभेदेन सर्वा प्रवृत्तिः पुरुषस्यैवे. कालमात्रान्नैवं नियम इत्यभिधानम् २३८ १३ । त्यभिधानम् अनियतप्रवृत्तित्वहेतुव्यावर्णनम् २३८ १८ स्वभावादपि न नियम इति समर्धनम् तत्र दृष्टान्तपूर्वक समन्वय विधानम् २३२ १३ २३८ २१ पुरुष एवाईदादिपदैरुच्यत इत्युक्तिः २३२ २२ नियत्यनभ्युपगमेऽभ्युपगमविरोधप्रदर्शनम् २३९ ४ अर्हत्वसम्भवत्वकथनम् नियतेरेकत्वानेकत्व विरोधपरिहरणम् २३९ १२ २३३ २ बाह्यान्तरनिदर्शनयोरेकस्यानेकस्वव्यावर्णनम् २३९ १६ पुरुषवादोपसंहारः दाष्टान्तिकसमीकरणम् २३९ १९ नियतिवादारम्भणम् भनेकापि सत्येका भवतीति सदृष्टान्तं वर्णनम् २३९ २२ अङ्गीकृतांशोद्भावनम् २३३ ८ अनियतार्थवशादनियतिकारणत्वमिति शङ्कनम् २४० ४ कर्तुत्वे विवाद इत्यभिधानम् २३३ १० तत्रापि तादृशी नियतिरेव कारणमित्युक्तिः २४० ९ भवनस्वातंत्र्यापहवाशक्यत्वाभिधानम् २३३ १३ सदसाध्यत्वादिचतुर्भङ्गप्रदर्शनम् २४० ११ सर्वज्ञस्य भवनाभ्युपगमे दोषप्रदर्शनम् २३३ १८ सदसाध्यत्वे निदर्शनम् २४० १५ स्वात्मनिष्ठाजनकत्वसाधनम् । २३३ १९ असदसाध्यत्वे निदर्शनम् २४०१८ दृष्टान्तसमर्थनम् तदर्थप्रकाशनम् २४० २१ पुरुषस्य निद्रावदवस्थावृत्तेन पूर्वदोष इति साध्याभावे साधनानां साधनस्वाभाववर्णनम् २४१ ३ शङ्कनम् असत्साध्यस्वे निदर्शनम् २४१.८ एतस्यैव सदृष्टान्त रूपणम् २३४ ३ असदसाध्यत्वतुल्यतानिराकरणम् २४१ १२ न तर्हि तस्य ज्ञत्वमुचितमिति समाधानम् सरसाध्यत्वे निदर्शनम् २४१ १७ चेतनः सन्नचेतनोऽपि ब्रुवता कारणान्तर यष्टिदृष्टान्तः २४१२१ स्थास्तित्वमभ्युपगतमित्यापादनम् २३४ १४ मृदृष्टान्तः २४१ २२ तथाभावान्यथाभावाभावान्नियतिकारणत्वं दृष्टान्तद्वयप्रदर्शने विशेषकथनम् .. २४२ १ सर्वस्येति उक्तिः २३४ २१ प्रकारान्तरेण पुरुषदृष्टान्तः . २४२ २ तस्या एकत्वकल्पनायां दोषाभावप्रकाशनम् २३५ ८ एषां सर्वेषां नियतिकृतत्ववर्णनम् २४२ ७ तत्रार्थे ज्ञापकप्रदर्शनम् सुविस्तरमस्यैव व्याख्यानम् २४२ १४ अयनप्रतिपाद्यत्वगुणस्याप्यत्र पक्षे सम्भव अन्यथा तस्सियभावकथनम् २४३ ४ इत्युक्तिः २३५ १९ | सिद्धिस्वरूपप्रकाशनम् २४३ ८ तदर्थस्य स्फुटीकरणम् २३६ १ मया कृतमिदमिति पुरुषस्य मिथ्याभिमानक्रियाक्रियाफलयोरनियमनिरासः २३६ । इत्युक्तिः २४३ १५ नियतेभिन्नाभिन्नत्वशङ्कनम् २३६ ४ तत्र कारणप्रदर्शनम् तस्याः परमार्थतोऽभेदत्वकथनम् २३६ १७ विनाशे नियतेरहेतुत्वे दोषाभिधानम् २४४ ३ भेदबुद्धेर्विकल्पबुद्धि विषयभेदाश्रितत्वोक्तिः २३६ २० नियतिसंततेरनाद्यनन्तत्वोक्तिः 2010_04 Page #32 -------------------------------------------------------------------------- ________________ द्वादशारनयचक्रम् २४७ ११ विषयाः पृ० पं० विषयाः मायाकारपताकिकानिदर्शनम् २४४ १६ | नियतिमात्रकारणत्वे पूर्वपश्चाद्धावव्यवहारादग्धे बीजेऽराभावात्कथमनायनम्तस्वमिति नुपपत्तिप्रदर्शनम् २५२ १८ शंकानिरासः २४४ २२ तस्य भावार्थाभिधानम् २५२ २० स्फुटमस्य व्याख्यानम् कारणान्तराभिधानम् नियतेः सर्वसमर्थतायां व्यभिचारोद्धावनम् | नियतेरेव योगपद्यायभ्युपगमे नियत्यानर्थअत एव नियत्यभाव इति व्याख्यानम् __ क्यवर्णनम् २५३ ६ योनिप्राभृतीययोनिद्वैविध्यवर्णनम् २४६ ६ अन्यतरवैयोझावनम् प्रकृते तु नियतिवैयर्थ्यमित्यभिधानम् उक्तशंकायास्तथाविधनियतित्वात् समाधानम् २४६ १३ २५३ १२ कालस्यैवावश्यकत्वाभिधानम् तथाविधानियतित्वस्यैव समर्थनम् २४६ ०८ उदकादेः सभावकस्वाभावकत्वप्रदर्शनम् २४७ २ त्वदभिमतकार्यकारणभावस्य कालत्वात् क्रमाभूमिवाय्वादेः सभावकस्वाभावकत्वकथनम् २४७ १० दिव्यवहारस्य तत एव सिद्धेनियत्यभाव पुरुषप्रेरिताप्रवृत्तिरित्यस्य निराकरणम् इत्यभिधानम् २५३ २० नियतिवादे आचारोपदेशवैयर्थ्यवर्णनम् एतस्य व्याख्यानम् २४७१४ २५४ ६ लोकलोकोत्तराचारोपदेशयोः प्रदर्शनम् २५४८ करणादीनां सामर्थ्यमपि नियतेरेवेत्यभिधानम् २४८ २ तत्र दृष्टान्तवर्णनम् सर्वज्ञतापि नियत्यैवेत्यभिधानम् २५४ १३ २४८ १० यत्नस्यापि नियतिकृतत्वे लोकागमविरोधकथनम् २५४ १८ सर्वज्ञस्य तथा तथानियतिदर्शनमित्यभिधानम् २४८१७ विरोधस्फुटीकरणम् २५४ २० बन्धमोक्षप्रक्रियावर्णनम् भावस्यान्यथाभावाभावहेतोर्वर्णनम् २५५ १ नियतिवादसमापनम् प्रत्यक्षविरोधवर्णनम् कालवादारंभोक्तिः एवं नियतेः क्रियानियतिरित्याशंक्य समाधानम्२५५ १३ काल एव भवनधर्मा न नियतिरित्यभिधानम् २४९ १२ एवमपि क्रियासिद्धौ कालासिद्धिरित्याशंक्य त्वदीयभावनयैव कालस्यैव भावत्वमित्यभि समाधानम् २५५ १८ धानम् २४९ १४ अभ्युपगमविरोधोद्धावनम् २५६ २ युगपदवस्थायिसूक्ष्मघटरूपरसादीनां भवने पुरुषादीनां नावश्यम्भावित्वग्याप्यत्वचर्चा २५६ ४ विकल्पोद्धावनम् २५० २ ववचनपक्षधर्मस्वादीनां निराकरणस्ववर्णनम् २५६ ८ तेषां स्वतः प्रविभक्तिो भाने दोषाविधाला २५० ५ कालकारणत्वे भाचाराद्यानर्थक्याभावकथनम् २५६ १६ कालसामर्थ्यादव तेषां भवन मिति समर्थनम् २५० १५ तस्य भावार्थवर्णनम् २५६ १८ स्थलानां घटादीनां तथाभवनप्रदर्शनम् २५० १६ उक्तभावनावदित्यस्य व्याख्यानम् २५७ १ अयुगपद्भाविनामपि कालसामागवनवर्णनम् २५१ ४ | धर्माद्यर्थ विहितक्रियाप्रदर्शनम् २५७ ५ तस्य व्याख्यानम् २५१ ६ तस्या व्यवस्थापनम् २५७ ७ नियतिवादे स्वभाववादवदोष इत्यभिधानम् २५१ १२ सर्वस्य कालात्मत्वप्रकटनम् २५७ १५ तस्यैव समानत्वस्य व्यावर्णनम् २५१ १५ | चेतनाचेतनयोः स्वस्वरूपेऽनियतत्वकथनम् २५७ १९ कालाभावे दोषप्रदर्शनम् २५१ १८ विपरिवृत्त्यभ्यावृत्तिकथनम् २५८ ५ आविर्भावतिरोभावावपि कालसामर्थ्यादेवे कलनस्य द्वैविध्यप्रदर्शनम् २५८ १२ त्यभिधानम् २५२ ३ कालस्यामदादेरनुमानगम्यस्ववर्णनम् २५८ १५ कालाभ्युपगमप्राप्यगुणशून्यत्वमन्येषामिति सर्वज्ञस्य तु तस्य प्रत्यक्षत्वकथनम् २५८ १७ वर्णनम् २५२ १४ | वर्तनात्मा काल एव भूतभविष्यद्पो भवतीत्यग्राहशब्दप्रयोगान्मूलक श्चित्तनैर्मल्यप्रकाशनम् २५२ १५ भिधानम् २५८ २१ 2010_04 Page #33 -------------------------------------------------------------------------- ________________ विषयाः एतस्यैव व्याख्या कालस्यैव सकलकारकत्वरूपताप्रदर्शनम् कालस्य ज्ञानेन क्रियया चैक्यवर्णनम् ज्ञानेनैक्यता व्यावर्णनम् क्रिययैक्यता निरूपणम् दृष्टान्तं तद्व्याख्यानम् heatra कार्यकारणभावेन विपरिवृत्तिक्षम वोक्तिः पुरुषादेरथाश्ववर्णनम् पुरुषवादिनापि कालस्य समर्थितत्वादित्युक्तिः कालवादे संसारस्यानादितोपपद्यत इत्युक्तिः पुरुषवादे तु नेतिकथनम् तस्य संसारासम्भववर्णनम् नियतेः संसारानादित्वानुपपत्ति दर्शनम् स्वभावात् तदनुपपत्तिनिरूपणम् कालवादे यौगपद्येन तदुपपत्तेरुपवर्णनम् तदर्थव्याख्यानम् भार्थे पूर्वापरविरोधपरिहारः यावर्णनम् दान्तिक व्याख्या क्रमेणापि संसारानादित्वोपपादनम् तस्यैव व्यावर्णनम् उत्पत्तिस्थितिभङ्गानां वर्त्तनात्मत्वोदीरणम् तत्र प्रसिद्धि प्रदर्शनम् कालादेकस्माद्भावभेदप्रदर्शनम् एकसमायामपि भावभेदोक्तिः द्रव्य क्षेत्रभावैर्भेदसमर्थनम् सुषमसुषमादौ भावभेदकथनम् दुःषमसुषमादौ भावभेदप्रदर्शनम् एकस्मिन्नपि समये भावभेदप्रदर्शनम् एक मुहूर्त्तजातानामपि फलभेदोपपत्तिरित्या - अनुक्रमणिका २३ पं० पृ० विषयाः पं० पृ० २५९ ३ कालवादोपसंहारः २६७ १८ २५९ १० स्वभाववादारम्भकथनम् २६८ २ २५९ १६ पुरुषादिवादैः स्वभाव एव भाव्यत इत्युक्तिः २६८ ३ तस्यैव प्रतिपादनम् २५९ १८ २६८ ८ २६० ९ स्वभावस्यैव कर्तृत्वे पुरुषादीनामभवनस्वव २६० १२ र्णनम् 2010_04 २६० २१ २६१ ३ २६१ ११ तदर्थ व्यावर्णनम् पुरुषादीनां धर्मिरूपेणा पेक्षेति शङ्कनम् धर्मबलादेव धर्मिणः सत्वात्स्वभाव एव मुख्य इत्युक्तिः स्वभावकारणत्वस्य व्यापित्वप्रदर्शनम् २६१ १८ २६१ १९ | तद्भावार्थस्फोरणम् २६२ ३ काल एव भवनारमा न पुरुषादय इत्यत्रापि स्वभाव एवेत्युक्तिः २६२ ८ २६२ १५ | कालवादे पुरुषादीनां स्वत्वव्यावर्णनम् २६२ १९ पुरुषवादे नियत्यादीनां स्वत्ववर्णनम् २६३ ६ नियतिवादे कालादीनां स्वत्वकथनम् २६३ १० एवं द्रयार्थस्य सर्वत्र सस्वात् स्वभाव एव सिद्ध्यतीयुक्तिः २६३ ११ २६३ १८ | पुरुषादेर्न कालतुल्यतेति काळवादिन आशङ्का २६४ ६ तत्रापि स्वभाव एव निबन्धनमिति समाधिः २६४ ११ तस्य व्याख्या २६४ १५ कालस्य नित्यत्वेन विभागाभावाद्व्यवहारा २६४ २० भावशङ्कनम् २६५ ४ २६५ तथापि स्वभावस्य दुरपह्नवतेति समाधानम् ६ कालसाधकानुमानप्रत्याख्यानदोषकथनम् २६५ ९. कालानुमानं स्वभावानुमानमेवेत्यभिधानम् २६५ १४ स्वभावस्य प्रत्यक्षगम्यत्वमपीत्युपवर्णनम् २६५ १८ एतस्यैव समर्थनम् २६६ ६ तत्रैव निदर्शनान्तरप्रदर्शनम् तत्रैव कारिकाद्वयोपन्यासः रुवानम् २६६ १० २६६ ३३ एवंविधकालज्ञानमर्हत एवेत्युक्तिः एतदर्थव्यावर्णनम् विसंवाददर्शनशङ्का निराकरणम् २६७ 9 निश्चिता निश्चितधियां निःशंकसाशंकताभिधानम् २६७ एतदर्थस्फुटीकरणम् २६७ २६६ १५ एतस्यैव व्याख्यानेन स्फुटीकरणम् स्वभावकारणत्वे अनुपपत्तिप्रदर्शनम् ५ स्वभावस्याभ्यभिचारिकारणत्ववर्णनम् द्रव्याद्यपेक्षयैव भवतीति ब्रुवता स्वभाव एव समर्थित इत्युपपादनम् ९ काल एव हि भूतानीतिकारि काव्याख्यानम् २६७ १३ स्वभावकारणतायां भूभ्यायपेक्षणं व्यर्थमिति शङ्कनम् २६८ १७ २६८ १९ २६८ २३ २६९ ४ २६९ ११ २६९ १३ २६९ १९ २७० จ २७० ४ २७० ५ २७० ७ २७० १३ २७० २० २७० २१ २७१ ७ २७१ ८ २७१ १५ २७१ १८ २७१ २२ २७२ १ २७२ ८ २७२ १३ २७२ १४ २७२ १९ २ ८ २७३ २७३ 、 २७३ १६ Page #34 -------------------------------------------------------------------------- ________________ २४ द्वादशारनयचक्रम् विषयाः पृ. पं0 विषयाः पृ० पं० एतद्वयाख्यानम् २७३ ५९ | कर्मणः सान्ततानान्ततायां स्वभाव एव कारपुरुषप्रयतवैयर्थ्यप्रतिपादनम् २७४ २ णमित्युक्तिः निमित्तानां निमित्ततापि स्वाभाविकीति निरू अनादेः सान्तत्वे आकाशमपि सान्तं स्यादिति पणम् २७४ ५ कथनम् २८१ ११ वयःक्षीरादिदृष्टान्तः २७४ १३ | स्वभावकरणताया व्यापकत्वसमर्थनम् २८१ १६ वैपरीत्ये दोषापादनम् स्वभावानभ्युपगमे वादहानिप्राप्तिरित्यभिधानम् २८२ ६ अस्यैवार्थस्य भावना २७४ १९ पक्षहेतुदृष्टान्तादीनापि स्वभावतो व्यवस्थेत्यक्रिययोत्पत्तिदृश्यत इत्याशक्य निराकरणम् २७४ २१ । भिधानम् २८२ १० अनभिव्यक्तिरपि स्वभावादेवेति वर्णनम् २७५ ३ स्वभावकारणवादोपसंहारः २८२ १५ अग्रहण निमित्ताभिधानम् शब्दब्रह्मवादातिदेशः २८२ १६ भतिसन्निहिताथग्रहण इवानभिव्यक्ताग्रह सर्वेऽप्येते विधिविधिनयस्वरूपास्पर्शिन इत्युक्तिः२८२ १७ णेऽपि स्वभाव एव कारणमिति वर्णनम् । २७५ ९ ___ शब्दब्रह्मवादकारिका २८२ २१ अत्यन्तानुपलब्धिरपि स्वभावादेवेति वर्णनम् २७५ १६ | सामान्येन पुरुषादिवाद निरसनम् २८३ १ पुरुषेच्छायनादिभ्यो नोत्पत्तिरिति वर्णनम् २७५ १७ पुरुषस्य कार्यत्वानेकत्वानित्यत्वादि प्रसञ्जनम् २८३ ११ आत्मादेरनुपलब्धि स्वभावाज्ञानादेव शाक्या तदर्थभावना दीनां विवाद इत्याख्यानम् २७६ १ नियत्यादेरप्यतिदेशः २८४ २ पुरुषादेय॑भिचारप्रदर्शनम् २७६ ४ भाववादारम्भणम् २८४ ६ स्वाभाविकत्वे वैद्यकप्रमाणप्रदर्शनम् २७६ १३ स्वभाववादे कारणावस्थायामेव भेदग्रहणप्रसतस्य व्याख्या २७६ १६ अनम् २८४ ७ पुरुषप्रयत्नात् कार्यदर्शनशंका २७६ २३ तस्याभिप्रायप्रकटनम् २८४ ९ स्वभावादेव पुरुषयन इति समाधानम् २७७ १ सम्भवे व्यभिचारे च विशेषणत्वोक्तिः २८४ १२ प्रयोजनान्तरप्रदर्शनम् २७७ ६ नीलोत्पलदृष्टान्तः २८४ १३ पुरुषप्रयासानर्थकत्वमाशंक्य समाधिकरणम् २७७ ५२ स्वभावे संघटनम् २८४ १५ प्रवृत्तिनिवृत्त्यो_यये स्वभावानुरूपाप्रवृत्ति. स्वभावविशेषणस्वशब्दस्य भावार्थासंस्पर्शित्वरीति प्रतिज्ञा व्याहतेत्याशंक्य समाधानम् २७७ १८ कथनम् २८५ ५ भावार्थप्रकाशनम् भावशब्दार्थव्युत्पत्तौ समत्वोक्तिः अनादिप्रवृत्तस्वभावकारणं जगदिति वर्णनम् २७८ ७ स्वशब्दार्थकथनम् २८५ १२ एतदर्थभावनम् २७८ १३ तस्य भेदमात्रविषयत्वोक्तिः २८५ १ ईदृशकारणविपर्यये दोषाभिधानम् २७८१८ स्वशब्दो भावमपि ब्रूत इति शंका निराकरणम् २८५ १० पुरुषक्रियाफलानां तथास्वभावस्वकथनम् २७८ २० अस्वव्यावर्तनमपि न स्वशब्दार्थ इति वर्णनम् २८५ १९ अनुरूपं कारणं स्वभाव इत्यभिधानम् २७९ ५ भवने स्वशब्दस्योपक्षीणशक्तित्वकथनम् २८६ १ तस्य द्वैविध्यप्रकाशनम् २७९ ६ अर्थोऽपि स्ववाचकं स्वशब्दं न प्रयोजयतीति एतस्यैव विशदं व्याख्यानम् २७९ ८ वर्णनम् सर्वस्य स्वभावरूपत्वे बन्धमोक्षोपादनम् २८० २ व्यावाभावकथनम् कनकाश्मदृष्टान्तः २८० ४ अभावो व्यावोऽस्तीत्याशंक्य निराकरणम् २८६ ११ एतस्य विशदं भावना २८. ८ व्यावय॑स्य भावत्वसमर्थनम् २८६ १३ कनकाविर्भावदृष्टान्तकथनम् २८० १५ असतःप्रसङ्गाभावेनाव्यावत्यर्यतेति दृष्टान्तपूर्वक भवसिद्धिकाभवसिद्धिकाभिधानम् २८० १९। समर्थनम् _ 2010_04 Page #35 -------------------------------------------------------------------------- ________________ विषयाः व्यावसत् किञ्चित्वादिस्वनुमानान्तराभि धानम् स्वभास्य व्यापित्वाव्यापित्वशङ्कनम् व्यापित्वे दोषोद्भावनम् asted दोषाभिधानम् व्यापित्वे स्वभावस्याप्यापादनम् भावस्वन्दयोः पर्यायत्वे स्वशब्दवैयर्थ्य प्ररू पणम् एतस्य स्फुटं प्रतिपादनम् घटादिभेदस्य भावत्वाभावस्वयोर्दोषदानम् भावस्वे दोषकथनम् अभावस्ये दोषसमर्थनम् भवनस्य कर्त्ता घटादिस्ततो भिन्न इत्याशंक्य निराकरणम् एतस्य भावनम् तत्र दृष्टान्तप्ररूपणम् प्रत्यस्तमित निरवशेष विशेषणं भवनं कारणमि व्युक्तिः तस्य भावप्रकाशनम् भवनस्यैव कार्यत्वकारणत्वोक्तिः अस्यैव समर्थनम् हस्त्यादिदृष्टान्तनिरूपणम् भावभिनस्यापि भवने दोषः दोषसङ्गमनम् ख्यानम् तदर्थावर्णनम् भेदप्रतीत्युपपादनम् अन्यथा वर्त्तमानस्यान्यथावर्त्तनमेव भेद इति वर्णनम् अनुक्रमणिका पृ० पं० विषयाः द्वा० न० अनु. 4 2010_04 अभावस्यापि भावस्वे तयोर्भेद एव न खादिस्युक्तिः २८७ ४ २८७ २८७ १० २८७ १२ हेतोरस्या सिद्धि निराकरणम् २८७ १७ | विपर्ययेऽनिष्टापादनम् २८८ भेदस्य प्रत्यक्षतो ग्रहणाभावसमर्थनम् ५ | भेदस्य कल्पनात्मकत्वाद्भावकथनम् २८८ ७ कल्पनाया अस्या असद्रूपत्वोक्तिः २८८ १२ | अभेदे भेदकल्पना भवति तदिह नास्तीति वर्णनम् २८८ १४ २८८ १६ | अभेदस्यैव प्रत्यक्षतो गृह्यमाणत्वसमर्थनम् तर्हि समस्तग्रहणं कुतो नेत्याशङ्कनम् भेदपक्षे पर्यनुयोगकरणम् उभयोर्दोषस्य समध्ये नैकः पर्यनुयोज्यइत्यभिधानम् सर्वत्रैवेति पदस्य व्याख्या २८९ १२ अभेदपक्षे दर्शनप्रतिपादनम् २८८ १९ २८९ ९ २८९ ९ भस्मनाभावादिति हेतूकरणम् भावाद्भेदाभावाद्भाव एव सर्वमिति वर्णनम् भेदसंसर्गपरिणामै विकल्प इति कथनम् भावस्य भेदादयो नेतिकथनम् भावस्यैव विकल्पसंभावनेति प्रदर्शनम् व्याख्ययोकार्थप्रकाशनम् प्रत्यक्षतो भेद एव गृह्यते नाभेद इति वर्णम् १९१२१ अनुमानलक्षणप्रकटनम् दिगादिभेदेनार्थभेदस्य दृष्टान्ताः भावव्यतिरिक्तस्य दिगादेरभावान्न भेद इत्या ८ | दध्यायवस्थानामुपचितापचितभावनाभावे आदिनिधन विभागाभावस्य हेतुस्वप्रदर्शनम् २९३ २५ पृ० पं० २९२ २१ ३ २९३ १० २९३ २० २९३ २० २९४ ६ २९४ ८ २९४ ९ २९४१५ २९४ १९ २९५ २ २९५ २९५ २९५ ११ 8 66 २८९ १४ | एकदेशग्रहणेऽपि समस्तस्यैव ग्रहणमिति २८९ २० निरूपणम् २९५ १८ २९० ३ ततोऽभिन्नत्वतद्भावश्व हेतुवर्णनम् २९५ २० २९० ८ एतयोरेव भावनम् २९६ ३ २९० १३ एकदेशस्यैव समस्तत्वे विरोध इत्यस्य समाधिः २९६ 6 एकत्वाभिमतभेदस्य निर्विभागवन्नावच्छेदो २९० १४ २९० १८ भावस्येत्युक्तिः २९० २३ दृष्टान्तस्य वर्णनम् २९१ २ ध्रुवादिनित्यविषशेणानि २९१ ७ इहैव प्रत्यक्षप्रमाणसिद्धिवर्णनम् २९१ १३ | उक्तवदित्यनुवृत्तदृष्टान्तवर्णनम् २९१ १५ भवन्मतेऽनुमानतैवेत्युक्तिः ७ २९६ १३ २९६ १७ २९७ 9 २९७ १० २९७ १३ २९७ १६ २९७ १८ ५ २९१ २३ | वस्तुतोऽनुमानतापि न सम्भवतीति निरूपणम् २९८ एतस्यैव भावाविष्कारः ४९८ ७ २९२ २९८ १२ ३ भेदवादिप्रत्यक्षं नाज्ञानमपीति प्रकाशनम् २९२ ६ अज्ञानभेदसंशयलक्षणमुक्त्वा तत्रानन्तर्भा२९२ १३ वोक्तिः २९८ १७ २९८ १८ संशयलक्षणकथनम् २९२ १७ | तथाविधार्थाभावान्ना संशयादिरिति वर्णनम् २९९ ง Page #36 -------------------------------------------------------------------------- ________________ द्वादशारनयचक्रम् विषयाः पृ० पं० विषयाः पृ० पं० विधिविधिनयदर्शने भेदाभावादीनामभ्युपगन्तुः घटादिशब्दानामर्थस्वरूपवाचकस्वनिषेधनम् ३०१ ११ : परस्य सम्मतिप्रदर्शनम् २९९ ६ व्यवहारविरोधमाशंक्य समाधानम् तिमिरोपनदृष्टगंगने भेददर्शनदृष्टान्तः पाख्यानमेतदर्थस्फूर्य दान्तिकप्रदर्शनम् २९९ १२ मयूरविरुतबच्छद्वानां विज्ञानजनकत्वमितिनपुंसकनिर्देशसमर्थनम् २९९ १३ वर्णनम् ३०२ ६ एकस्यानेकधा प्रविभागे दृष्टान्तप्रदर्शनम्। शब्दानां ब्रह्मलक्षकत्वोक्तिः भावःस्वतःमानं सृजत्युपसंहरति चेत्यभि ३०२ १० धानम् सष्टं ब्रह्मलक्षकत्वसमर्थनम् ३०२ १३ एतस्य भावार्थवर्णनम् ३०० ४ वाक्यार्थनिरूपणम् ऋतुधामदृष्टान्तः ३०. ७ एतन्नयस्य जैननिबन्धनप्रकाशनम् विधिविधिनयविकल्पनिरूपणोपसंहारः ३०.१६ | एकोऽनवयवः शब्दो वाक्यार्थ इति कथनम् ३०३ ११ एषु नयेषु पदस्यार्थप्रकाशनम् अन्नाथै हरिकारिकोटकनम् सहेतुकं विकल्पस्य शब्दार्थत्व निरूपणम् विधिविधिनयस्य संग्रहदेशस्वाद्रव्यार्थतेत्युक्तिः ३०४ १ सांख्यादिनयेष्वपि भेद आविद्यक इति एकैकनयस्य शतभेदत्वोक्तिः ३०४ ३ प्रदर्शनम् द्रव्यशब्दार्थः ३०४६ विद्यास्वरूपोपदर्शनम् आर्षनिबन्धनप्रदर्शनम् ३०४ ११ भागमाभ्यासस्योपयोगकथनम् विधिविध्यरसमापनम् ३०४ १६ LA .0000OM AMA 2010_04 Page #37 -------------------------------------------------------------------------- ________________ शुद्धाशुद्धपत्रम् س س س م م م " २४ १७ भशुद्धम् शुद्धम् पृ० पं० अशुद्धम् सिंहनन्दि सिंहसूर ३ ३ सदशा सादृश्या शक्र कीयसा कीयमसा (न?) कर्कश कक्खट जगत् कालादि जगत् ५ ९| त्वेवं त्वेव शेषन्यग्भवनेन शेषशासनन्यग्भावेन वे ६ १९ ईशान्याः (आप्याः ) विशेषा विशेष ८ १५ तानि तानि द्रव्यादीनि घट इत्यादि घटो घट एव रूपादयो ८ १६ वादेन वादिना इत्यर्थः न रूपादयो न घट इति वा ९ सौस्थित्याम सौस्थित्या सामान्यस्य समानस्य प्रत्यक्षग्रहे प्रत्यक्षग्राहे च ग्रहः भावात् भावादिति प्रभूत प्राभूत ९ २१ | वक्त समुस्थितनयप्रभूत समुत्पतितनयाभूत तवं तस्वञ्च तु भवति (तौ चेति) (तौचेति) तौ चोक्तिप्रत्ययौ २४ १२ व्याहृतःकत्रोंवा ध्याहृतःकत्रों गुणतः गुणतःकालतो वा आमर्यादया आदानं मयादया विनंष्ट्रपुरुषादिषु विनंष्टषु रूपादिषु मुभय उभय प्रत्यत्र प्रत्य पक्षापत्तिः पक्षापत्तिवा २५ २१ ब्यापृतः ज्यावृत्तः १. १८ द्रव्यत्वाधपेक्षा द्रव्यापेक्षा २६ स्मको विधेर्विधिमकं विधेर्विधि का का सा नियमो नियम द्रव्यस्वाधपेक्षा द्रव्यापेक्षा वृत्तानुवृत्ति वृत्ता तु वृत्ति वाभाव वा भाव भाविता (भावना?) ११ ७ विळेषा विशेषा २७ ९ पूर्ववरिस्थतास्थित पूर्वावस्थित ११ १० वाभाव वा भाव २७ ११ वृत्तानुवृत्ति वृत्ता तु वृत्ति सरूपे स्वरूपे तयाख्यान तस्वव्याख्यान ११ ११ किमन्य किमन्त्य २८ सम्बन्ध सम्बन्धे किञ्चित् कञ्चित् वृत्तिा वृत्तिरूपा व्या वस्तुनो घटादेश घटादेवस्तुन आ १२ ५ किञ्चित्सु कञ्चित्सु तत्रेति (तत्रेति) ૧૨ ૭ पादान पादन समान १२ १० इति स्थाच्छब्दात पुनः ३० ८ स्थावराभ्य स्थावराव्य १२ १२ अन्यथ: अन्यथा वृत्तित्वा विषय भावा भाव: मैकारम्यादे मैकाम्यापनमे १३ १४ गन्धादिति गन्धादिवदिति अथ तु तदुध्यासन- अथ तु तदुध्यासनावेव समुदय समुदाय मेव ग्रहीष्यते सामा- ग्रहीयेते सामान्य. समुदायश्च समुदयश्च न्यविशेषयोरित्येवं विशेषावित्येवं तथापि तथापितु १४ ४ सामान्यभावो सामान्याभावो सामान्या एकतरा १५ १० नर्थकमा नर्थक मा २७ २९ सर्व इति 2010_04 Page #38 -------------------------------------------------------------------------- ________________ Mmmmmm २७ ६२ . MMMM वा वा ३९ २० वोत्पाद लोक . द्वादशारनयचक्रम् अशुद्धम् शुद्धम् पृ. पं० अशुद्धम् शुद्धम् पृ० पं. रण्वादे रण्वो खपुष्पवत्, खपुष्पवत्न सन्ति गुणकर्म ३४९ सामान्यविशेषाः, अद्रनतु व्यत्वात् ५५ १७ सम्बन्धात् सम्बन्धाच्च ३४ २४ वत्तेत वत्ते प्रमाणत्वं प्रमाणत्वात् ५६ २७ गतागति तां गति कृतकस्वा कृतकस्वादाकाशव पलला पला लीनावि लीनाया आवि लौकिकानुवृत्ति विकुक्ष्या कुक्ष्या व्यावृत्ति लोकानुवर्ति अद्रव्यत्वा अद्रव्यत्वाद्वन्ध्यापुत्रव तद्यथा पूर्वा पूर्वा मत्यन्तभेदेऽन्यो मन्यो समया समयो करवे कत्वात् | नोपोद्ध त्य नापोद्धृत्य समया समयो परोक्षा पक्षा लोक लोका मेवे मेव वे लोका लोक (वाचस्पति मिश्राः) वा०प्र० श्लो. ३४ वा ब्युत्पाद लोका वेति वेति वा भिन्नाम् भिन्ना नन्य न्योन्य तमेत तदेत तमम पदे तनी यदेतन्नी ६९ १२ जन्यस्वा भन्यरवा ४३ २६ मनीषिको मनीषिकयो ७० ८ सर्वारमकस्वा सर्वात्मकत्वं ४५ स्वमदु प्रकृतिवदिति। प्रकृतिवदिति।किश्चान्यत् ४५ माणवक माणवके ७१ १४ किमर्थ किमर्थं वा ४५ १७ सज्ज्ञान ७२ ८ करण कारण ४५ १९ द्रव्यस्य सतां द्रव्यसता मण्डूक मयूराण्डक परमाणः परमाणवः मित्यापन दित्यापन स्यात् भवति तु तस्मान च" इति ४६ १७ प्रत्यक्षं ज्ञापकधूमाद्यपेक्षाग्निवरवात् वस्वादिति ४७ ९ ज्ञानवत् यस्य धौं यस्य | भेदे यदि यस्मिन् भिन्न ७५ १३ साध्यवैकल्यं साध्यधर्मवैकल्यं | धियाऽपि च धिया च ततू ७५ १४ अचेतन स्थितेरिन्धनदहनाविना. सत्तदन्यत्पपरमार्थ. भावात्, अचेतन ४७ २० सत् सत् परमार्थसदन्यथा . ७५ १४ पेक्षस्यादि पेक्षस्वेत्यादि ४८ १७ इति इति कारकत्वमभ्युपेत्याप्येष ननु प्रागुक्तम दोषोऽभिहितः कृत्वा न कृत्वा स्वरूपाणा स्वरूपाणामनेकरूपाणा चात्यन्त्या चात्यन्ता ५० २२ यत्क यत् क्वच साधनाया: सलाधनायाः ५१ १० पूरयति प्रतिपूरयति निरर्थकत्वादि अनिष्ठा? ५१ १६ यात्मने यगात्मने पद षट्पद ५२ २३ गमेन गम कर्कश कक्खट ५३ २ | स्थितम्, स्थितं शास्त्र अर्थ शास्त्रेऽर्थ ५४ २९ | त्वमेव स्वस्य स्खलक्षणमेव विशेषानारम विशेषाम ५५ ९ लावन ८० १४ ......2017... ....06.2030 स्वसद् स्थात् _ 2010_04 Page #39 -------------------------------------------------------------------------- ________________ पृ. पं० स्वेष्टी १२४ नुपात्त शुद्धिपत्रम् अशुद्धम् शुद्धम् पृ० पं० अशुद्धम् स्वेऽष्टी ८२ २३ ज्ञानस्य ज्ञानस्यास्वाभासज्ञानस्य ११५ मायोपमः मायेयीयः एवैको एकैको ११६ १ तद्वयक्तीना तच्छक्तीना नहीन्द्रिय नोक इन्द्रिय न्याकार न्यत्वकर न विरुद्ध्यते निरुह्यते संज्ञापि संश्यपि प्रत्येक प्रत्येकं ते भेदे यदि यस्मिन् मिने रन्तरयो रन्तयो ११८२० संज्ञापि संश्यपि ८८ १४ ११८ २२ मुत्पद्यते मुत्पाद्यते ८९ २६ द्रव्यान्तरपर्यायान्तर द्रव्यान्तपर्यायान्त सवयेषु सञ्चये तु कृताः तस्मा इत्यर्थः, कृतस्तरमा ययोः ययोनीलादिपरमाण्वादिद। वस्थान्तर वस्थान्तरा १२० ५ व्याणां मात्रविध्वंस मानवादविध्वंस १२२ २१ सञ्चयेषु सञ्चये तु ९२ १० परिपाच्या आपाद्या धर्मा धर्मा सन्तः न सन्ति १२५ २६ (अत्रेति) भत्रैकरूपायतनाधारतये यमपेक्ष्येति, अन्यमपेक्ष्ये ति १२५ २९ स्यादि ९५ १५ सतोऽपि वि सतोऽप्यवि १२६ किं किमपराद्धं ९७ २१ कारणाद्रूप कारणाद्रूपादि (अनेकार्थेति) भनेकार्थजन्यत्वात्स्वार्थे नुरूपात्त १२८ गतार्थः सामान्यगोचरमित्यादि व्यावृत्ति व्यावृत्ति १२८ यावत्तेषु पृथक् पृथग्ग्रहणा नील नीलरूप १२० ५ भावादिति, गतार्थम् ९८ १४ स्मकेनैव स्मतैव १२८ तस्मात् स्थात् संवृत्य संवृत्य पत्रे पत्रे पत्रे विलक्षणं विलक्षणं प्रत्यक्ष १२८ रेवरेव, कुतः? ९९ १० गन्धवत्वाच गन्धादिमरवाच विस्तरपरो विस्तरोऽपरो १०१ १९ गन्धे घ्राणं स्वार्थेऽस्य रसरूपस्पशेषु रसनाचक्षुस्वचः सामान्यस्य स्वार्थस्य सामान्य गन्धे इति घ्राणमिति पारि भाषिता परिभाषिता १०२ न्यथाव्यवहारात् न्यथावृत्तित्वात् १३४ तस्मान्न ततो न १०४ आयासिय आया पुण सिय सार्थमपि तमास्ति सार्थोऽपि न तत्रास्ति १०४ पुत्रत्वा पुत्रपुत्रत्वा १०४ १४ तु विधिवृत्त्येकान्तो सार्थमपि तनास्ति सार्थोऽपि न तत्रास्ति १०४ १६ कान्तोऽपि कान्तो १३५ पुत्रत्वा पुत्रपुत्रत्वा वृत्ता दूर एक्त दूरत एवं १०४ रूपा संवृतिसंज्ञान संवृतिसज्ज्ञान १०५ २२ विपाक विपाकः १३६ विवेकः विवेक १०५ ३३ दरमदादिभिर्वि पदेश दविसंवादिवि १०६ २० पदेशं परिणामेभ्यः धियाऽपिच १३७ २५ परिणामेभ्यो धिया च तत् १०६ २५ ज्ञानोत्पत्तेः १३७ मानमिति मानमपीति ज्ञानोत्पतेः १०८ १० ओषध औषध १३८ स्वग्रह स्वग्राह प्रमाणस्ये प्राध्य १४० १४ प्रमाणद्वयस्ये प्राज्ञ १०९ २१ अनेकार्थाः तावच्छेद ताच्छेद १४० २३ अनेकार्थः संवृति संवृतिसरवादिति,संवृति ११० ३२ देवतर्वि प्रत्यक्षजनक प्रत्यक्षज्ञानजनक ११२ १९ वर्तयेदिति वर्तयेरिति १२८ ه ه ش ه م १३० १५ १३४ २० م ه ه ه م س वृत्ती १३७ देवता 2010_04 Page #40 -------------------------------------------------------------------------- ________________ ६४१२ कर्म १४८ चेम, भशुद्धम् शुद्धम् व्याक्ति दूयक्ति हवनयो, हवनयोः, स्वभावा स्वभाव निर्वर्तके निर्वतकेऽथे मात्रभाव मात्राभाव सन्नतर सन्नतरश्रुत वत्तेंतेति वत्तेति चोक्तम् उक्तमभ्युपेत्य अभ्युपेत्यापि चेत्तदपि नोपपद्यते, प्रत्ययार्थी प्रत्ययार्थसा सत्त्वाभिधायि तदभिधायी तन्न तन्नः लिङ्गादीनां लिङादीनां त्तदर्थों त्तदर्थों यद्यग्नि यदग्नि वचन वदन वचन बदन वादात् वादे विदीय विधीय प्यवस्थितौ प्यर्थस्थितौ व्यवस्थोपेतशब्द शब्द प्रापाण्यं प्रामाण्यं विषयबला विषवला मंत्रादिवचन मंत्रादिवद्वचन न्याय्या न्याय्यम् सर्वत्र न सर्वत्र नक्षत्रे काक नक्षत्रेक्षणे दृष्ट्वा नक्षत्र नक्षत्रं दृष्ट्वा द्वादशारनेयचक्रम् पृ० पं०1 अशुद्धम् १४३ २७ | शब्द इति १४४ शब्द इत्यर्थः कार्यकारणो १४६ ११ १४७ २५ मीमांसका परादेश्च १४८ झव्यक्ता १४८ घटाः १४९ पनय १४९ ३ | स्यात्म १४९ १९ कर्त्तव्यतां १५१ १५ , १५१ ३० तावत्प्राप्नोति १५२ ७ कर्तव्यता १५२ जुहोत्यादी १५३ ४ तावत् प्रामोति १५३ एवमिति १५३ १७ १५४ ३१ सानादिमर्थे ६५५ १९| होत्रहवन १५६ १७ हेत्वर्थे १५६ २३ १५८ १४ तथा १५८ १६ पुरुषा १५८ १८ यथा १५८ २३ होत्रं विधानं १५८ २४ | भ्यहरति १५९ १ यदीद १५९ १८ एतच्चा १५९ १९ त्रिफला १५९ ३२ गमोऽनुपदेशकश्च १६. १४ पर्ययोगा १६० २३ प्रलपित १६१ ६ | बीजाकुर १६१ ८ इतरे १६२४ कारणा १६२ २२ कल्पति १६३ त्यन्तभाव १६४ सत्त्वेनियमः १६५ ४ विकल्प १६५ १४ कार्यमिति निवृत्त्यवधारण १६५ १८ अथोच्यते १६५ १९ धारणकृतोदोषः पृ० पं० शब्देनेति शब्देनेत्यर्थः १६५ ३३ कार्ये कारणो १६६. ३ कर्तृ १६७ मीमांसका १६७ ३१ पटादेश्व झब्यक्तता घट: पचय १७२ १२ स्थात्मा १७२ २९ कर्तव्यतं १७४ १३ १७४ १४ तावत् १७४ १६ कत्तव्यतं १७४ १८ जुहोतीत्यादी १७४ तावत् १७४ २२ ज्ञाताज्ञातविशेषाश्च घटज्ञानवत् एव मिति १७६ सानादिमदर्थे १७७ २४ होत्रं हवनं हेत्वर्थे, इत्येतस्मात्कारणात् तदा पुरुषेण यया होत्रविधानं १८७ भ्यवहरति १८७ २८ यद्यय १८८ २३ एतच्च त्रिफला गममनुपदेशकञ्च १८९ २२ पर्यायोगा १८९ २३ प्रलपितं १९० बीजादकर १९२ १० १९२ कारण १९२ २८ कल्प्यते १९४ २६ त्यन्ताभाव सत्त्वेऽनियमः १९६ १६ विकल्पम कार्यमिति । किश्चान्यत् १९७६ निवृत्त्येकान्त अथोच्येत १९७ २० धारणदोषः १८२ १८२ . २७ १८२ ३० युक्ततरी युक्ततरी युक्ततरा युक्ततरे वान्तरो पलाश वानन्तरो पालाश " पलाश पलाश विशेषम् एकैक होत्रस्था भवेत् कल्प्यते पालाश पालाश विशेषः एकैव होत्रस्या भवति कल्प्येत " शब्द: शब्देन 2010_04 Page #41 -------------------------------------------------------------------------- ________________ " व्यं २०३ सर्व सर्व - शुद्धिपत्रम् अशुद्धम् शुद्धम् । पृ० पं. अशुद्धम् शुद्धम् दोषः . दोषः अवधारणदोषः १९८९ चाक्षुष चाक्षुषादि २१७ यथाही यथैव ही . १९८ १५ नतर्हि २१८ विशिष्टत्वं विशिष्टं १९८ १६ चाक्षुष चाक्षुषादि २१८ निःसामान्य तनि:सामान्य संशयादिज्ञानमि संशयादी २२२ (अथेति) अथ कार्योपादानादिम विज्ञानमेव ज्ञानमेव २२२ स्ववदित्यादि २०० ७ ग्रहादेरित्य ग्रहादेः खरविषाणादे कार्यात्मा तत्कार्यारमा श्वासत इत्य | कार्यावस्था कार्यारमावस्था विशेषाच । एवं हि विशेषाच स्वस्पक्षेण समा परिणमित परिणामित २२३ १९ नोदोष इति । यदेतत् २०१ १९ २२४ ४ पक्षेन पक्षण द्रव्यं तद्रव्यं २२४ ५ पक्के पंक्त पुरुषत्व पुरुषस्यतत्व २२४ ग्रहणादावि ग्रहणादसदनुकान्तावि २०३ परिणामात् परिणामत्वात् २२५ भावकञ्च भावारमकञ्च २०३ १२ एते दोवि एते अणादिव भणोरिव २०३ २८ मातत्ताए मातत्ताए पितत्ताएसर्वस्यैव सर्पस्यव २०४ ३३ . भातित्ताए २०६ २३ हीत्यादि हीत्यादिना च २२६ २० नानाभावे ननाभावे च २०७ २० मृगवती मृद्भवति २२७ १० विधिर्न विधिर्विधिर्न कल्प कल्पानां २२७ २० विधिर्भवति विधिः २०८ १८ प्रकार प्रकारकं २२८ ३ न तु २०९ १० किंवा २२८ ६ सिद्धमिति सिद्ध इति २०९ २४ प्यहमने २२९ १५ प्रवृत्तिरपि प्रवृत्तेरपि २०९ स्साक्षदेव स्साक्षादेव २२९ २७ कुलालाद्यपेक्ष्य कुलालोऽपेक्ष्यः भव्यम् भाव्यम् २२९ चक्रनिस्यन्द चक्रादिनिस्पन्द २१० शरीरस्य शरीरतया सूक्ष्मावा स्थूला वा वच्या: मूर्त्तत्वप्रक्रमाः वाच्यः मूर्तप्रक्रमाः २३० गंधःशब्दः संसार २१२ संहार गंध: २३५ स्फुलिङ्गाः स्फुलिङ्गाः सहस्रशः २१२ यद्वा परस्य यद्वा २३१ २१३ एवं पर २३३ एव धर्माः २१३ २० यदाहु यदाहुरेके २३२ नान्तस्थ नान्तःस्थ स्वभाव: स्वभावः यथाहुरेके २३२ सूक्ष्माः स्थूल सूक्ष्मस्थूल २१४ (सत्यमिति) सत्यं भवनकर्तुरित्यादि २३३ परदृष्टा परिदृष्टा ज्ञास ज्ञः सन् २३३ मृदुः कठिनः मृदुकठिनं २१४ पद्यन्त पद्यत २३४ परदृष्टं परिदृष्ट २१४ सनरूपा सनरूपा २३७ २१४ १८ भाविभाव: भाविनाशः २३८ येन २१४ सत्यादिनां सत्त्वादीनां खद्योतमप्य खद्योतमण्य २१५ ८ तद्धि नियमो २३. ६ तदेव तदिति २१५ २३ समुद्र समुद्रमही २३९ १६ णेऽपि णोऽपि साध्यमपि साध्योऽपि २४० ३० यथा तावद् साध्यो २४१ सर्वात्मकत्वम् सर्वात्मकत्वम् सर्वात्मक रजवादितो यष्ट्यादितो २४२ स्वातन्म यस्य बीहेर अन्यादृग्यव अन्यादृग्यवभस्मान्याक २४५ प्यवादिवत्सर्वात्मकत्वम् २१७ २० पाचित पाचिता २४५ २८ ननु कि हमने २१० २११ २३० NRON2013 २११ परि २१४ तद्धि साध्यं 2010_04 Page #42 -------------------------------------------------------------------------- ________________ ३२ अशुद्धम् ३३ २८. ४ सर्व W8 २८९ स्वस्वरूप भावनया णप्रत्ययः कथन युगपद्दत्तिं प्रख्या वादिनां भ्युपगमतः अयोणे न्यनया संज्ञामात्रा नोपयोग शैलेशीकरणं तथोद्देशतो विविक्तया वर्तमा दाविर्भूत यवादि इत्युक्ता यवादि द्यतनेऽपि चणं चणं साशङ्क सुप्तवृश्या निश्चत भाग्यतेरेव २८९ १८ २९० द्वादशारनयचक्रम् शुदम् पृ० पं०] अशुद्धम् शुद्धम् पृ० पं० स्वस्वरूपा २४६ २५ तेऽपि तान्यपि भावना २४९ | प्रदर्शिता एवेति प्रदर्शितान्येवेति २७९ घजूप्रत्ययः २५० २९ | रूपत्वात् रूपः कलन २५० २९ | परिवर्तन परिवर्तेन कर्माकर्मत्वस्वाभाव्येन २८० ११ युगपदृत्तिप्रख्या २५० तदपाय तदुपाय २८१ १३ वादिनं २५१ १५ सर्व २८१ १५ भ्युपगतः २५२ ११ यथा तद्यथा २८२ ६ अयोगे २५५ २४ संज्ञाभेदात् संज्ञादिभेदात् २८२ १७ न्यनया त्वदीयया २५६ | प्रवर्तमान प्रदर्यमान २८५ ११ संज्ञामात्र २५६ भवनस्यैव भावस्यैव २४८ २० नोपयोगादि २५७ भवति भवति न केवलिसमुद्धातकरणं २५७ वस्तूनां बस्तूनां मूलं दलिक २८९ १६ तथोद्देशमानतो २५८ स्यायंश स्याप्यंश विविक्ताया २५८ ब्रीह्याद्यनुरादिवा ब्रीह्यादि वर्तना २५९ २७ भवनमेव व्रीहिबीजं तथा . २८९ दाविर्भूतो यवाङ्करकाल २६५ २ साधनञ्चैकं साधनमेकम् , २९० लवादि २६५ व्रीहिबीजं बीहिर्बीज इत्युक्ताः २६५ नादेर्घटादेः नाटादेः २९० लवादि २६६ एव विकल्पोऽत्र न एवाविकल्पोऽत्र २९० द्यतनेष्वपि २६७ घटवत् पटवत् २९० २२ चण २६७ एव विकल्पोऽनन एवाविकल्पोऽत्र २९० च ण २६७ पत्ततो पत्तयो . साशकं २६७ मेनेत्याह मेनेत्यत आह २९. सुप्तवृत्त्याना २६७ भेदश्चाभव भेदश्वाभावोऽभव २९१ १६ निश्चित २६ नास्ति अस्ति २९२ ३ भवतेरेव २६८ मुत्तरं वा मुत्तरं वा? २९२ अत्रेव २६९ ११ नास्ति अस्ति सरवातुल्यता २७१ १ काग्निव काग्नित्वव २९२ १३ गम्यं २७१ २२ २९२ प्रत्यक्षत एवं २७१ २३ / निधर्मा मित्वधा २९२ गम्यं २७२ १ नास्ति अस्ति २९२ प्रत्यक्षत एवं २७२ २ तत् साधयति साधयति २९३ तीक्ष्णोऽपि वेधस्वभावोऽपि २७३ ५ नादिः नाद्यादिः २९३ १२ तस्मान्नास्ति सा २७४ ११ काप्युत्पत्ति २७४ ३० कल्पना कल्पनाद्वा २९३ २१ निमित्ताभावे किमिति चेत्२७५ ३ | कल्पना कल्पनात् २९४१ तद्वक्तव्यं २७५ २९४ ९ चक्षुरा २७५ १३ एव एतद् २९४ विवदन्ते २७५ २९५ २७६ ३ निरुपाख्यत्वशो निरभिलाप्यत्वशो २९५ १८ (चित्रक इति) २७६ भावस्य भावस्य य २९५ १९ पुरुषस्यास्त्येव विद्यते विद्यत इति, २९६ २० खभावमात्रादेव २७७ ७ यथावा यदि २९६ मनादितः २७८ २५, यथा यदि २९६ २० २९१ २६७ अत्रैव २९२ सरवात्तुल्यता गम्यमेव प्रत्यक्षतोऽपि गम्यमेव प्रत्यक्षतोऽपि तीक्ष्णोऽपि तस्सानाति काप्युपपत्ति निमित्ताभावे तद्वक्तव्य चक्षुषा विवदन्ति " चित्रक इति पुरुषस्यास्त्यव स्वभावादेव मानादितः २७७ 2010_04 Page #43 -------------------------------------------------------------------------- ________________ उपोद्धातः इह जगति सर्वो हि लोको दुःखद्वेषी सुखाभिलाषी च स्वभावतो दरीदृश्यते । तच्च सुखं पौद्गलिक पारमार्थिकञ्चेति द्विप्रभेदम् , पोद्गलिकं सर्व दुःखानुषङ्गि क्लेशबहुलसाध्यमल्पकालञ्च, अत एव लौकिकोपायनिर्वयं तत्पुनरुपलभ्यापि दुःखदावानलज्वालाकलापकवलितत्वेन लौकिकोपायप्रवृत्तिपरावृत्ता निवृत्तिवृत्तयो जना आत्मनः पारमार्थिकमव्याबाधमनन्तकालं सुखमेव परमं पुरुषार्थ मन्वानास्तदधिगमाय तद्विरोधिदुःखप्रहाणाय च तदुपायमपायरहितं कामयमाना बहुशो यतमानाः समुपलभ्यन्ते ।। तेषामभिलषितपरिपूरणाय समर्थतरं साधनमुपदिश्यमानं लोकपावकपदाम्बुजस्य भगवतोऽहतो वचनामृतमेव परमं शरणमिति नास्ति विशयलेशो विवेचकशेमुषीणां मनीषिणाम् । तेषु साधनेषु सम्यग्दर्शनज्ञानचारित्राख्येषु तत्त्वार्थश्रद्धानलक्षणमाद्यमितरद्वयप्राप्तिहेतुत्वात् प्रधानं साधनम् , तच्च भगवदुदीरितजीवादितत्त्वाधिगमसम्पाद्यम् , तदधिगमोऽपि प्रमाणनयाभ्याम् , उक्तं हि 'प्रमाणनयैरधिगमः' (तत्त्वार्थ० अ०१ सूत्र ६) तत्र वस्तुनोऽनन्तधर्माsत्मकतया ग्राहकाणि मतिश्रुतावधिमनःपर्यवकेवलानि पञ्च प्रमाणानि, अनन्तधर्मात्मकवस्त्वेकदेशग्राहिणश्च नया अनन्ताः, वचनपथतुल्यसंख्यत्वानयानाम् , उक्तश्च 'जावइया वयणपहा तावइया चेव हुंति णयवाया। जावइया णयवाया तावइया चेव परसमया ॥' (सम्मति० कां० ३ गा० ४७) इति, तेषाश्च वस्तुनो धर्मधर्मिरूपतया तदाश्रयेण द्रव्यार्थपर्यायार्थभेदद्वयेन निश्चयव्यवहारविषयत्वेन निश्चयव्यवहारमेदद्वयेन वाच्यवाचकरूपतयाऽर्थशब्दमेदद्वयेन वा समासतो विभागो भगवता प्रदर्शितः । तथा तदुपष्टम्भसामान्यविशेषापेक्षयैव शुद्ध्यशुद्धिलक्षणविशेषाश्रयेण सङ्ग्रहव्यवहारनैगमर्जुसूत्रशब्दसमभिरूद्वैवम्भूतभेदेन सप्तधा वा विधिनियमतदुभयाश्रयप्रकारभेदेन द्वादशभङ्गतया द्वादशधा वा सङ्ग्रहो विहितः । एवं रूपेणैषां द्वादशधा सङ्ग्रहकर्तारः कलिकालसर्वज्ञैः श्रीमद्भिः सूरीश्वरैर्हेमचन्द्राचार्यैरनुमल्लादिनं तार्किका इति सुगीयमाननामधेयास्तार्किकगोष्ठीवरिष्ठाः श्रीमदाचार्यमल्लवादिसूरीश्वराः पूज्यपादाः येषां विशिष्टप्रतिभाप्रागल्भ्यं तदुपनिबद्धाभिनवप्रकाश्यमानद्वादशारनयचक्राख्यग्रन्थविलोकनत एव कुशाग्रधिषणैः सुस्पष्टमवगमिष्यत एवेति नात्र विशेषतो वक्तव्यमस्ति किञ्चित् । सोऽयं ग्रन्थोऽनेकदार्शनिकाभिमततत्त्वयाथार्थ्यविवेचनधाराधाराधरोऽतिगहनतर्कनिकरपरिबृंहितोऽनेकान्ततत्त्वप्रतिष्ठापनपटिष्ठोऽतिक्लिष्टतरः समुचितव्याख्यातारमन्तरेणानधिगम्यमानाशेषयथार्थाभिप्रायस्तार्किकप्रबन्धसन्दोहेषु मूर्धाभिषिक्ततामाबिभर्ति । अस्य चैका व्याख्या न्यायानर्हदागमश्चानुसृत्य विहितत्वात् न्यायागमानुसारिणीतियथार्थनामधेया सिंहसूरिगणिक्षमाश्रमणैर्विरचिताऽतिसंक्षिप्ता समुपलभ्यते तत्र तत्र भाण्डागारेषु, यासु प्रतिषु 'इति नियमभङ्गो नवमोऽरः श्रीमल्लवादिप्रणीतनयचक्रस्य टीकायां न्यायागमानुसारिण्यां सिंहसूरिगणिक्षमाश्रमणदृब्धायां समाप्तः' इति दृश्यते । यासु च ज्ञानविधुरलेखकलिखितप्रतिकृतिषु सर्वासु मूलग्रन्थोऽत्यन्तं दुरवगाहत्वेन साधुसमुदायेऽध्ययनाध्यापनपरम्परानुपातित्वाभावेन चास्मदीयदौर्भाग्यतो नाममात्रावशिष्टः केवलं व्याख्यारूप द्वा० न० उपो.१ _ 2010_04 Page #44 -------------------------------------------------------------------------- ________________ तोऽवतिष्ठते । याश्च संशोधनाभावतोऽतीवाशुद्धिमय्यो भाण्डागारेषु पुस्तकसंख्यामात्रपूरकतया वर्तन्ते । अस्मादेव हेतोरिदं मन्थरत्नमपूर्वमद्ययावन्न केनापि प्रकाशतामुपनीतम् । अत एव पञ्चालदेशात् प्रतिनिवृत्तेन मया संसेव्यमानचरणनलिनरस्मदीयैर्गुरुवर्यैः स्तम्भपुर्या (खम्भात) वैक्रमे १९७२ तमे वर्षे चातुर्मासमवस्थितैः श्रीमद्विजयकमलसूरीश्वरैः येनेदं ग्रन्थरत्नं महदशुद्धकलेवरतयोपलभ्यमानं सम्यक् संशोध्य प्रकाशतामुपनीयते तेनावश्यं जगति महती पुण्यश्लोकताऽधिगम्यत इत्यभिधायाहं तत्कर्मणि प्रयतितुं प्रेरितोऽपि विषयान्तरव्यासङ्गतस्तदानीं कार्येऽस्मिन् गुरुतरेऽत्यावश्यकेऽपि चेतःस्थिरीकत्तुं न पारयामि स्म । यदा च मुम्बापुर्यां (मुम्बई) वैक्रमयोः २००१-२००२ तमयोर्वर्षयोश्चतुर्मासार्था स्थितिरासीत्तदा मदन्तेवासिना मुनिश्रीविक्रमविजयेन भगवच्छान्तिनाथदेवालयभाण्डागारादागृह्य द्वादशारनयचक्रस्य हस्तलिखितां प्रतिमेकामतिविनयतोऽस्य समीकरणायाभ्यर्थितोऽनुस्मृतगुरुदेवप्रेरणो व्युत्तरद्विसहस्रतमे वर्षे वैक्रमे कार्तिकसितदशम्यां यथामति तत्समीकरणकर्मोपारभम् । एतस्य संशोधनकर्मणि साक्षिभूततयाऽऽगृहीताः प्रतयः(१) मुम्बापुर्या भगवच्छान्तिनाथदेवालयभाण्डागारादानीता सम्पूर्णा प्रतिः । (२) पत्तनस्थश्रीमद्विजयकमलसूरीश्वरज्ञानभाण्डागारात् समुपगताऽसम्पूर्णा स्फुटाक्षरा प्रतिः । (३) राजनगराधिष्ठितश्रीमद्विजयमेघसूरिभाण्डागारस्था पूज्यपादश्रीमद्विजयसिद्धिसूरीश्वराणां कृपया समधिगता स्पष्टाक्षरा सम्पूर्णा प्रतिः । (४) मरुदेशमध्यगतबेडाभिधग्रामस्थश्रीमतक्षमाभद्रसूरिभाण्डागारगता श्रेष्ठिपूनमचन्द्रद्वारेण समु पलब्धा संपूर्णा प्रतिः । प्रायः एताश्चतस्रोऽपि प्रतय एकयैव प्रत्याऽवतारिता इव समानाऽशुद्धिभाजः काश्चित् कचित परिस्खलितकतिपयपतयः समुपलभ्यन्ते । समवलोक्यताः प्रतयः पदे पदे अशुद्धिभूयिष्ठा मूलव्याख्याविवेक विधुरा अन्तरेण मूलस्य पृथक्करणं यथोपलम्भं संशोध्य प्रकाशितोऽयं ग्रन्थो नातीवोपकारक इति मन्वानस्ते पृथक्कर्तुमाकृतिसाजात्येनाक्षराणां वैपरीत्यसम्भवं प्रचलितप्रकरणादिकञ्च मीमांसमानः संशोधनायोदयुजि । यथा-'अत्र क्रमः, संशयहेतुनेत्येतच्च नाष्टकर्तृक, तेन किल भूतय इति, घटादिरभवनस्तस्याभवनस्य भेदस्यासत्त्वमेव, तदभावो भावाभावश्चाघटः' इत्यादिस्थलेषु 'अत्र ब्रूमः, संशयहेतुतेत्येतच्च न अदृष्टकर्तृक, तेन किल भूयत इति, घटादिरभवनस्तस्य भवनाद्भेदेऽसत्त्वमेव, तदभावोऽघटस्तस्य भावः, इत्येवं तथा 'किश्चिदन्यत्वं नामेति, वाच्यपि च दोषः, अथ तु तद्बुद्धयासन्नमेव ग्रहीष्यते सामान्यविशेषयोरिति, अनिवृत्तिकतरकायत्वादित्यादि, अनत्वान्नात्वानिति,' इत्यादिस्थलेषु 'किञ्चिदन्यत्स्वं नामेति, चाव्यापित्वदोषः, अथ तु तबुद्ध्यासन्नावेव ग्रहीष्येते सामान्यविशेषाविति, अनवधृतैकतरकार्यत्वादिल्यादि, अनडानानडानिति' इत्येवं संशोधितम् । एवं पुनः पुनर्विचारतः प्रथमपदप्रतीकाद्यन्तपदप्रतीकसमासपर्यायानुवृत्तिशेषपूरणादिदर्शनेन यथासम्भवं सहेतुकं मूलं पृथक् कृतम् । यथा, अपि च लौकिकव्यवहारोऽपीत्यादि यावयामोहोपनिबन्धनमिति,' 2010_04 Page #45 -------------------------------------------------------------------------- ________________ ३ अत्र 'अपि च ' तथा 'इति' इतिपदद्वयं मूलकृत एवेति मदीयाभिप्रायः, दोषान्तराभिधानायापिचेति पदस्यावश्यकत्वात्, ‘शेषशासनविसंवदनजनितास्य' मित्यग्रिमग्रन्थ सम्बन्धकतया इतिशब्दस्यावश्यकत्वाच्च द्य अत्रापि चेतिपदमितिपदञ्च विहाय विचार्यमाणे प्रथमान्तिमभागौ अनुष्टुभः पादद्वयवत् प्रतीयेते, यत एष श्लोकः प्रवचनसारोद्धारटीकायां यथा 'लौकिकव्यवहारोऽपि न यस्मिन्नवतिष्ठते । तत्र साधुत्वविज्ञानं व्यामोहोपनिबन्धनम् ।' इति दृश्यते परन्तु पूर्वमूलेनास्य सङ्गतिकरणायापि चेतिपदं टीकाकर्त्तुरेवेत्यभ्युपगमेऽपि यस्मिन्निति यच्छब्दस्य पूर्वोपस्थितपरामर्शित्वेन पूर्वं 'तद्व्यतिरिक्तशासनिवचनानी'ति पदेनान्यशासनिवचनानामेवोपस्थिततया तेषामेकवचनान्तेन यस्मिन्निति पदेन परामर्शे उपक्रमभङ्ग मूलकृता काप्यग्रे वक्तव्यविषये श्लोक - रूपतयाऽनुक्तत्वेन तद्वचनशैलीं एकवचनगर्भमूलस्य टीकाकृता बहुवचनगर्भपदनिकरैरभिप्रायव्यावर्णनेऽन्यतरशैथिल्यप्रसङ्गश्च विभाव्य मूलमंत्र गद्यात्मकमेवेति सम्भाव्य तथैव प्रकाशितम् । उपलभ्यमानश्लोकेन च मूलस्यास्य केनापि कारिकारूपेण सङ्ग्रहः कृतः स्यादित्यनुमीयते । यद्यपि मया संशोधितान्यक्षराणि पदानि वा कौंशमध्ये प्रक्षिप्य ग्रन्थस्य प्रकाशनमभिनवसंशोधकदृष्ट्या समुचितं तथापि प्रतिपतिप्रभूतकुण्डलना वाचकानां चक्षुस्तोदकारिणीति न तथा विहितमिति सज्जनैरत्र क्षन्तव्यम् । सर्वत्र व्याख्याप्रारम्भे कुण्डलीकृतानि प्रतीकानि वाचकसौकर्याय मयैव स्थापितानीति विज्ञेयम् । तदेवं संशोधनेन मूलस्य च विवेकेन विध्यरं विधिविध्यरञ्च समीकृत्य सहृदयानां विदुषामत्र कर्मण्यभिप्रायविशेषपरिज्ञानाय परिकल्प्य च तावन्मात्रस्यैकभागत्वं प्रकाशतामुपनीतोऽयं ग्रन्थः । मूलव्याख्ययोश्च यं तात्पर्य विशेषमवबुद्ध्य संशोधनं विभजनञ्च मयाऽऽदृतं स एव मच्छिष्यशिष्यस्य मुनिश्रीभास्करविजयस्य प्रार्थनया विषमपदविवेचनाभिधानेन व्याख्यानेन प्रकटीकृतः । एवमपि मयाऽऽरचितं संशोधनं पृथगुपन्यस्तञ्च मूलं याथातथ्येनैवमेवेति न प्रतिज्ञायतेऽपि तु सम्भाव्यते, यतो हि दुरूहमिदं मन्थरत्नम्, न ह्यत्र तत्तदर्शन - विषयान् कांश्चन ग्रन्थविशेषानादर्शतया तत्तत्सिद्धान्त विषयव्यावर्णने परिगृह्य विवेचनाऽऽरचिता मूलकृता, अपि तु तेषां प्रधानं सिद्धान्तं प्रमाणभूतं वचनञ्च केवलमुपन्यस्य तदुपर्यनुपमनिजप्रतिभाविलासेन नानाविधविकल्पसमुद्भावनतः सुविशालमपूर्वं प्रतिविधानमुपनिबद्धम् । अस्य प्रज्ञाविशेषविलसितः कोऽपीतोऽपि यदि समुचिततरं सप्रमाणं संशोधनं विवेचनश्च विधातुमुपक्रमेत तहदमपि मदीयं संस्करणं तस्यावलम्बीभूय भगवच्छासनसमुन्नत्यै प्रभु भविष्यतीत्येवं मे दृढा मतिः । समग्रमपि मूलं प्रसन्नश्रुतदेवता नुशासनानुसारेण 'विधिनियमभङ्गवृत्ती' त्यादि प्राचीनवृत्तस्य भाष्य· रूपम् । 'व्याप्येकस्यमनन्तमन्तवदपीत्यादि प्रथमं वृत्तं शासनस्तवरूपं मङ्गलात्मकं भाष्यकृत एव, तत्र व्यावर्णितं शासनस्यान्यमता साधारणगुणत्वं विरोधधर्मसम्भवानया दुष्प्रतिपादमित्याशङ्कनस्य तथाविधप्रतिपाद्यसद्भावसूचनया परिहरणव्याजेन भाष्यमुपक्रान्तम् । तदेवान्यमता साधारणगुणत्वं शासनस्य जैनशासनव्यतिरिक्तशासनानां द्रव्यार्थपर्यायार्थावलम्बिद्वादश भङ्ग समाहारैकरूपत्वविरहादनर्थकत्रच सामिवानृतत्वं जैनशासनस्य च तद्वैधर्म्याद्वादशभङ्गसमाहारैकरूपत्वात् सार्थकवचस इव सत्यत्वमिति प्रतिपादनेन सेत्स्यतीति ' विधिनियमभङ्गवृत्ती त्या दिगाथासूत्रेण स्वकीयभाष्यमूलभूतेनाद्यवृत्तं सङ्गमयता भाष्यकृता गाथासूत्रव्याख्यानमारभमाणेन पृथक् पृथक् विध्यादिद्वादशवृत्तयो विवेचिताः, 2010_04 Page #46 -------------------------------------------------------------------------- ________________ तद्यथा- विधिभङ्गाः उभयभङ्गाः नियमभङ्गाः (विधिमात्रधर्मिका भङ्गाः) (प्रधानेन विधिनियममिकाः) (नियममात्रधर्मिकाः) (१) विधिः (५) उभयम् (विधिश्च नियमश्च) (९) नियमः विधिविधिः उभयविधिः नियमविधिः (२) (विधेर्विधानम्) (६) (विधिनियमस्य विधिः) .(१०) (नियमस्य विधिः) विध्युभयम् उभयोभयम् नियमोभयम् (३) (विधेर्विधानं नियमनञ्च) (७) (विधिनियमस्य विधिनियमम् ) (११) (नियमस्य विधिनियमम् ,) विधिनियमः उभयनियमः नियमनियमः (४) (विधेर्नियमः) (८) (विधिनियमस्य नियमः) (१२) ( नियमस्य नियमः) तत्र पूर्वपूर्वभङ्गेषु परितोषाभावप्रदर्शनद्वारेणोत्तरोत्तरभङ्गारम्भणात् अन्तिमभङ्गस्याप्यन्ते परितोषाभाववर्णनाच्च द्वादशपरितोषाभावप्रदर्शनानि द्वादशारान्तराणीत्युच्यन्ते । ततश्चाराणां तुम्बप्रतिबद्धतयैव वृत्तित्ववद्विध्यादिभङ्गानामशेषभङ्गैकवाक्यतयैव वृत्तित्वं सत्यत्वञ्च नान्यथेति प्रतिपादितम् , एतेनान्यमतासाधारणगुणता व्यावर्णिता भवतीति द्वादशारनयचक्रशास्त्रार्थः समर्थितः सम्पद्यते । तत्राद्याः षडराः द्रव्यार्थावलम्बिनः शेषाश्च पर्यायार्थावलम्बिनः । तत्र प्रथमे विध्यरे-यथालोकग्राहमेव वस्तु, परीक्षकाभिमानिनां शास्त्रकाराणां मतेन खपरविषयतायां सामान्यविशेषयोरनुपपत्तेस्तयोरभावाल्लोकाभिप्रायस्यायत्नविवेकत्वादिति प्रतिपादनाय सामान्यवादिनि सांख्यमते विशेषवादिनि बौद्धमते तदुभयवादिनि वैशेषिकमते च सामान्यविशेषयोः स्वपरविषयतयाऽसम्भवः प्रतिपादितः, ततो लोकमाहं वस्तु सर्वथाऽन्तरङ्गभूतं न सामान्यविशेषावपेक्षते, तच्च कारणात्मकं वा कार्यात्मकं वा सामान्यात्म वा विशेषात्मं वा तदुभयरूपं वाऽन्यतरोपसर्जनप्रधानरूपं वाऽनुभयस्वरूपं वेति विचारो व्यर्थ एव, अत एव सिद्धे वस्तुनि तज्ज्ञापकशास्त्राणां निष्प्रयोजनत्वं कारणेऽपि कार्यसदसत्त्वानियमः कार्यानियमश्च । लोकप्रसिद्ध्युपेक्षया शास्त्रकारवचनप्रामाण्ये प्रत्यक्षादीनां मतत्रयेऽप्यप्रामाण्यञ्चोद्भावितम् । ततः प्रत्येकमताभिमतप्रत्यक्षलक्षणान्युपन्यस्य सुविस्तरेण निराकृतातिकल्पनात्मकत्वादिभिर्हेतुभिः । ततो लोकप्रमाणकोऽयमज्ञानवाद एवेत्यज्ञानवादस्य क्रियाभ्युपगमसहितस्य प्रतिपादनं कृतम्, ततश्चात्र भङ्गे पदार्थ वाक्यार्थश्चाभिधाय व्यवहारैकदेशत्वादस्य द्रव्यार्थत्वमाविष्कृत्यास्य नयस्य जिनवचनं निबन्धनं प्रदर्य प्रथमभङ्गः समापितः । द्वितीये विधिविध्यरे-अज्ञानसहितस्य क्रियाभ्युपगमवादस्य पूर्वोदितस्य सुष्टुनिराकरणाय 'अग्निहोत्रं जुहुयात् खर्गकाम' इत्येवं रूपस्य वैदिकक्रियावचनस्य प्रत्येकपदपदार्थविचारणाऽनेकधाऽऽरचिता, तत्प्रसङ्गतोऽसत्कार्यवादस्य चासत्सम्बन्धिविकल्पासङ्गतत्वप्रदर्शनद्वारेण प्रतिक्षेपो विहितः । ततो ज्ञानसहितक्रियाभ्युपगमवादमपि निराकृत्य अरान्तरं विधाय विधेरौत्सर्गिकविधित्वप्रदर्शनाय पुरुषवाद उपन्यस्तः, तत्र कार्यात्मानं कारणात्मानञ्च जगद्रूपं पुरुषमुपवर्ण्य तस्य कारणात्मकं प्रतिक्षिपता विधिविधिनयदर्शनाश्रयोऽपरो नियतिवाद उपस्थापितः । अत्रापि परापरादिव्यवहारासम्भवात् कालस्यैव भवनयोग्यत्वात् काल एव मुख्य कारणमिति कालवादं सर्वेषां खेनैव भावेन भवनात् स्वभाव एव प्रधान कारणमिति स्वभाववादञ्चोपन्यस्यात्र वादे खेतिविशेषणात् पुरुषादिवादानाञ्च सर्वेषामन्यदवस्त्विति खतोमिन्नान्यार्थाभ्युपगमेनैव सर्वैकत्वादिरूपताप्रतिपादनार्थ 2010_04 Page #47 -------------------------------------------------------------------------- ________________ मुद्यतानां वाभिमतपुरुषादिनिराकरणायैव तदीयनिरूपणस्य भावाच्च न द्रव्यार्थत्वमेतेषामिति भाव एव कारणमिति भाववादः प्ररूपितः । एषु वादेषु पदार्थ वाक्यार्थश्चोपवर्ण्य विधिविधिनयस्यास्य सङ्ग्रहैकदेशत्वाद्रव्यार्थत्वमित्याख्यायास्य जैनं निबन्धनमुदीर्य द्वितीयभङ्गः समापितः । तत्र तावद्वादशारनयचक्रभाष्यकर्ताऽयं तत्रभवान् श्रीमल्लवादिसूरिः कस्मिन् देशे कस्मिन् काले भुवनममुं मण्डयामासेति निर्णये नास्मदीयमभिमतमधुना किञ्चिदपि प्रकाश्यते । प्रभावकचरितानुसारेण तु गृहस्थावस्थायां मल्लनामा दुर्लभदेवीतनयः सभ्भवतो वल्लभीपुरवास्तव्य इल्यवगम्यते, तस्य सद्भावसमयस्तु 'श्रीवीरवत्सरादथ शताष्टके चतुरशीतिसंयुक्ते । जिग्ये स मल्लवादी बौद्धांस्तयन्तरांश्चापि ॥' इति विजयसिंहसूरिप्रबन्धगतेन गाथावृत्तेन श्रीवीरवत्सरात् (८८४) नवमशतकः विक्रमाच्च (४१४) पञ्चमशतकोऽवगम्यते । हरिभद्रसूरिमिक्रमसप्तमशतककालीनैः खकीये ग्रन्थे मल्लवादी स्मयते । तथा मदुद्धृतभाष्यानुसारेण मल्लवादिसूरिभिाकरणवाक्यपदीयकारिका भर्तृहरिविरचिता तत्सम्मतशब्दब्रह्मवादश्चोपन्यस्यते, भर्तृहरेश्च समयः ख्रिस्तीयसार्धत्रिशतात् सार्धचतुःशतवर्षमध्यगतः (370-440 A. D.) इति बहूनां समयपरिशोधकानां मतम् । तथा भाष्यकारो वसुबन्धुप्रत्यक्षलक्षणं वसुबन्धोर्नाम टीकाकृदभिप्रायेण तच्छिष्यस्य दिन्नस्य (दिनागस्य ) तल्लक्षणखण्डनप्रकारञ्चोपदर्शयति; दिङ्गागसमयस्तु खिस्तीयो द्वितीयस्तृतीयो वा शतक इति विश्वकोषकार आह, सतीशचन्द्रविद्याभूषणमहाशयस्तु पश्चमशतकान्तभाग इति वदति । -टीकाकारपरिचय:इति नियमभङ्गो नवमोऽरः श्रीमल्लवादिप्रणीतनयचक्रस्य टीकायां न्यायागमानुसारिण्यां सिंहसूरिगणिवादिक्षमाश्रमणदृब्धायां समाप्तः । इति प्रतौ तृतीयायां उल्लेखदर्शनान्न्यायागमानुसारिणीत्यभिधाना टीका नयचक्रस्य, तत्कर्ता च सिंहसूरिगणिरित्यवगम्यते, परन्तु इदमेव तस्य यथार्थ नामेति विश्वसितुं प्रमाणान्तरं नोपलभ्यते, तत्त्वार्थसूत्रटीकाप्रान्तभागे टीकाकर्तृभिः श्रीसिद्धसेनगणिभिरुपनिबद्धायाः प्रशस्त्यास्तृतीये वृत्ते 'तस्याभूत् परवादिनिर्जयपटुः सैंहीं दधच्छूरतां नाम्ना व्यज्यत सिंहसूर इति च ज्ञाताखिलार्थागमः । शिष्यः शिष्टजनप्रियः प्रियहितव्याहारचेष्टाश्रयाद्भव्यानां शरणं भवौघपतनक्लेशार्दितानां भुवि' इत्यत्र परवादिनिर्जयपटुः सैंही दधच्छूरतां नाम्ना व्यज्यत सिंहसूर इति च ज्ञाताखिलार्थागम इत्यंशेनावगम्यमानं न्यायागमवेत्तृत्वं वादित्वं सिंहसूर इत्यभिधानश्च न्यायागमानुसारिणीटीकाविधातुरस्य संजाघटीतीति व्याख्याकर्तुरस्य सिंहसूर इत्येवमभिधानं स्यादिति चिन्त्यते, तेनास्य समयो वैक्रमसप्तमशतकमध्ये स्यादिति सम्भाव्यते, तत्त्वार्थटीकाकृतः श्रीसिद्धसेनगणेः श्रीसिंहसूरप्रशिष्यस्य वैक्रमाष्टमशतकप्रारम्भे स्थितेस्तय॑माणत्वात् । मया पृथक्कृते मूलेऽन्योक्तितया गृहीतानि वचनानि-प्रथमारके ... यथोक्तं-आध्यात्मिकाः कार्यात्मका भेदाः शब्दस्पर्शरसरूपगन्धाः पञ्च त्रयाणां सुखदुःखमोहाना सन्निवेशमात्रम् , कस्मात् ? पञ्चानां पञ्चानामेककार्यभावात् , सुखानां शब्दस्पर्शरसरूपगन्धानां प्रसादलाघवाभिष्वङ्गोद्धर्षप्रीतयः कार्यम् , दुःखानां शोषतापभेदस्तम्भोद्वेगापद्वेगाः, मूढानां आवरणसदनापध्वंसनबैभत्स्यदैन्यगौरवाणीति, तथा कारणात्मकाः श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणवाग्यस्तपादमायूपस्थमनास्येकादश तैर्यग्योनमानुषदैवानि बाह्याश्च भेदाः सत्त्वरजस्तमसां कार्यसमन्वयदर्शनादिति । 2010_04 Page #48 -------------------------------------------------------------------------- ________________ द्रव्यश्च भव्ये (पाणिनि ५-३-१०४) इत्युक्तत्वात् । यथोक्तं 'सदिति यतो द्रव्यगुणकर्मसु द्रव्यगुणकर्मभ्योऽर्थान्तरं सा सत्ता' इति, (सदिति यतो द्रव्यगुणकर्मसु सा सत्ता, द्रव्यगुणकर्मभ्योऽर्थान्तरं सत्ता (वैशेषिकसू. अ. १ आ. २ सूत्र. ७-८ इति दृश्यतेऽद्यतनग्रन्थेषु ) यथोक्तं 'अर्थ इति द्रव्यगुणकर्मसु' (वैशे. अ. ८ आ. २ सू. ३) इति । आह च 'णिययवयणिज सच्चा सव्वणया परवियालणे मोहा । ते उण णदिट्ठसमओ विभजइ सच्चेव अलिए वा ॥' (सम्मति० का० १ गा० २८) चक्षुर्विज्ञानसमङ्गी नीलं विजानाति नोतु नीलमित्यभिधर्मागमोऽपि, प्रकरणपदेऽप्येनमेवार्थ भावनयाऽनया विशेषयत्यर्थेऽर्थसंज्ञी न त्वर्थे धर्मसंज्ञीति । (अत्रेदं बोध्यम् , अभिधर्मपिटकस्य बौद्धागमस्य तद्याख्यानभूतस्य प्रकरणपदाभिख्यग्रन्थान्तरस्याभि धर्मकोशस्य वसुबन्धुकृतस्य चानुपलम्मेनैतत्प्रकरणे मूलव्याख्याविवेकोऽस्माभिर्न सम्यगारचित इति ) एवमभिधर्मेऽप्युक्त 'धर्मो नामोच्यते नामकायः पदकायो व्यञ्जनकाय' इति । उक्तं हि वोऽभिधर्म एव 'सञ्चितालम्बनाः पञ्च विज्ञानकायाः' इति । भवतामभिधर्मपिटके यथोच्यते 'नीलं विजानाति नो तु नीलमिति । आगम एवोक्तं हि वः 'सङ्घाता एव सङ्घातान् स्पृशन्ति सावयवत्वात्' इति । यच्चाप्यभिहितमभिधर्मकोशे 'यत्तत्रानेकप्रकारभिन्न इत्यादि यावदनेकवर्णसंस्थानं पश्यतः' इति । संवृतिसल्लक्षणे ज्ञापकमाह-'यस्मिन् भिन्न' इति श्लोकः । (काशीविद्यापीठेन प्रकाशितेऽभिधर्मकोशे) 'भेदे यदि न तद्बुद्धिरित्यादिप्रथमादिपादभेदेन पूर्णा कारिका (कोश ६ कारिका ४) उपलभ्यते ) अभेदविषयज्ञानाभ्युपगमे च 'विजानाति न विज्ञान मित्यादि विरुध्येत । यदुक्तं वः सिद्धान्ते 'बुद्धिबोध्यं त्रयादन्यत् संस्कृतं क्षणिकञ्च तत्' इति । त्वमेवैतद्विकल्पद्वयं 'तदवस्थाः प्रत्येकसमुदिताः करणं परमाणव' इति ब्रुवाणश्चिन्तय । सर्वसर्वात्मकतायां 'श्रोत्रादिवृत्तिः प्रत्यक्षमिति ब्रुवतः (सांख्यस्य प्रत्यक्षलक्षणं भवेत् ) यदुक्तं लोकशास्त्रे 'बहिर्वस्तुस्वतत्त्वसाक्षात्प्रतिपतिः प्रत्यक्षमिति । नानात्वैकान्तवादेऽपि सामान्यविशेषयोः 'आत्मेन्द्रियमनोऽर्थसन्निकर्षाद्यन्निष्पद्यते तदन्यत्' वैशे० अ० ३ आ० १ सू० १८) आत्मा मनसा मन इन्द्रियेणेन्द्रियमर्थेनेति चतुष्टयत्रयद्वयसन्निकर्षादुत्पद्यमानं प्रत्यक्षमिति (प्रशस्तपादभाष्ये प्रत्यक्षप्रकरणे चतुष्टयत्रयद्वयसन्निकः प्रत्यक्षोदाहरणानि दृश्यन्ते) यथाचाऽऽहुः 'अस्त्यर्थः सर्वशब्दानां' ( वाक्यपदीये का० २ श्लो १२१) इति । 'लौकिकसम उपचारप्रायो विस्तृतार्थो व्यवहार' इति वचनात् ( तस्वार्थभा० अ. १ सू. ३५) निबन्धनश्चास्य 'आया भंते नाणे अन्नाणे गोयमा ! आया सिय नाणे सिय अन्नाणे नाणे पुण नियम आया' (भग० १२ श. ३-१०) इति । _ 2010_04 Page #49 -------------------------------------------------------------------------- ________________ द्वितीयारके अग्निहोत्रं जुहुयात् वर्गकामः (मैत्रा० ६ ३६)। वसन्ते ब्राह्मणो यजेत, ग्रीष्मे राजन्यः शरदि वा यजेत वैश्यः । होलाको प्राच्यै उदृषभयज्ञ उदीच्यैः, वायव्यं श्वेतमालभेत भूतिकामः, वायुर्वै क्षेपिष्ठा देवता वायुमेव खेन भागधेयेनोपधावति स एवैनं भूतिं गमयति । (तैत्ति० सं० कां० २ प्र. १ अ. १) समर्थः पदविधिः ( पाणि० २।१।११) दश दाडिमादिश्लोकवादिवत् (दश दाडिमानि षडपूपाः कुण्डमजाजिनं पललपिण्ड इत्यादिरूपेण वाक्यानि व्याकरणमहाभाष्ये दृश्यन्ते श्लोकस्तु न दृष्टः) __ 'यच्छब्द आह तन्नः प्रमाण' मितीष्टं भवताम् । (पा. म. भा. १-१-१) यूपं छिनत्ति, पालाशं अष्टास्रमित्यादीनि ( वेदवाक्यानि ) घृतेन जुहुयात् । शूर्पण जुहोति तेन ह्यन्नं क्रियते ( इमानि यदग्नये च प्रजापतये च सायं जुहोति (मै. सं. १-८-७) सर्वाणि वेदवाक्यानि ) आह च 'पुरुष एवेद'मित्यादि । ( पुरुषसूक्ते २) यथाच 'सुदीप्तात् पावकाद्विस्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूपाः' । (मुण्डकोपनिषत् २।११) आह च तदेजति तन्नजति तदूरे तद्वदन्तिके । तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः ॥' (ईशावास्योप०१-५) आह च 'प्राप्तव्यो नियतिबले' त्यादि ( सूत्रकृ० श्रु० १ अ० १ उ० २ टीकायां दृश्यते परन्तु कारिकेयं न टीकाकृत एव, प्राचीनस्य नियतिवादिनः कस्यचिद् भवेत् ) तस्मात् 'नाभाविभावो न च भाविनाशः' इति । तथा ह्याह 'उदकं पतितं सभावकं निर्भावकञ्च' । केसि णिमित्ता नियया भवंति केसिं च णं विप्पडिएति णाणं' यथा 'कालः पचति' इत्यादि ( आवश्यक० ४ अ० दृश्यते प्राचीनेयं कस्यापि कारिका) 'काल एव हि भूतानि कालः संहारसंभवौ । स्वपन्नपि स जागर्ति कालो हि दुरतिक्रमः' इति । अत्राह च 'कः कण्टकानां' इत्यादि, 'केनाञ्जितानि' इत्यादि ( कालवादिखभाववादिमते ) तथा चाहुः 'चित्रकः कटुकः पाके वीर्योष्णः कटुके रसे । तद्वदन्ती प्रभावात्तु विरेचयति सा नरम्' इति । (चरकसंहितायां सूत्रस्थाने अध्याये २६ श्लो० ६८ कटुकः कटुकः पाके वीर्योष्णश्चित्रको मत इति पूर्वार्धे विशेषो दृश्यते ) अन्वाह च 'यथा विशुद्धमाकाशं तिमिरोपप्लुतदृष्टेः केशोण्डुकमशकमक्षिकामयूरचन्द्रिकाऽलिमात्राभिरवयवैर्विततं तथेदमप्येकममृतं ब्रह्म निर्विकारमकलुषमपि सदविद्यया कलुषत्वमिवापन्नमभेदरूपमपि सद्भेदरूपमाभाति । यथैकमप्युदकमुत्पातेऽङ्गारराशिवत् प्रज्वलदुपलक्ष्यते तथाऽस्यानेकरूपता मिथ्या एवं प्रकृतित्वमनापनमेव विकारांस्तांस्तानेव खतः सृजत्युपसंहरति च, ऋतुधामेव निर्मले नभसि तन्नर्मल्याविनाशनेनैव शक्कार्मुकशतहदमहाधनस्तनितवर्षितकरकाधारावर्षादीनिति । 2010_04 Page #50 -------------------------------------------------------------------------- ________________ [एतदर्थप्रतिपादकाः श्लोकाः सूर्यनारायणकृतभावप्रदीपाख्यटीकायां उद्धरणरूपेणोदृङ्किता दृश्यन्ते, तथाहि। प्रकृतित्वमपि प्राप्तान विकारानाकरोति सः । ऋतुधामेव ग्रीष्मान्ते महतो मेघसंप्लवान् । तस्यैकमपि चैतन्यं बहुधा प्रविभज्यते । अङ्गाराङ्कितमुत्पाते वारिराशेरिवोदकम् ॥ यथा विशुद्धमाकाशं तिमिरोपप्लुतो जनः । संकीर्णमिव मात्राभिश्चित्राभिरभिमन्यते । तथेदममृतं ब्रह्म निर्विकारमविद्यया । कलुषत्वमिवापन्नं भेदरूपं विवर्तते ॥ (वाक्यप. ब्रह्मका. पृ. ९६) एवञ्च कृत्वाऽऽहुः सर्वधातवो भुवोऽर्थमभिदधती' ति । (महाभाष्ये) निबन्धनमस्य सोमिलबाह्मणप्रश्ने-'किं भवं ? एक्के भवं' इत्यादिके व्याकरणे 'सोमिला! एगे वि अहं, दुवे वि अहं, अक्खए वि अहं, अव्वए वि अहं, अवट्ठिते वि अहं, अणेगभूयभावभाविए वि अहं' (भग० श० १८ उ० १० सू ६४७) इत्यादि ॥ अत्र भङ्गद्वये उपन्यस्तानि सर्वाणि प्रमाणवचनानि चतुर्मासार्थस्थितमन्निवासप्रदेशेषु ग्रन्थानां भाण्डागाराभावात् संशोधनमात्रदृष्टेश्च ग्रन्थनामस्थाननिर्देशपूर्वकं नोपदर्शितानि । अवशिष्टा भङ्गा यथा यथा शुद्धिमुपगच्छेयुस्तथा तथा प्रकाशतामुपनेष्यन्ते । नयचक्रो ह्ययमतीवगम्भीरार्थो दुरूहश्चातः प्रतिभाशालिनामपि कचित् कचित् दुरवगाहता सम्भाव्यते, तस्मान्मदीयसंशोधनादिकर्मण्यप्यस्मिन् नूनं विषयस्य दुरूहत्वादालम्बनान्तराभावात् खमतिमान्धाच्च स्खलितानि भवेयुस्तथापि तानि नयब्रजपरिकर्मितमतिप्रवराः खयं संशोध्य श्रीमल्लवादिसूरिणामभिप्रायं विदित्वा यदि सन्तुष्टा भविष्यन्ति तदा खपरिश्रमं सफलं मंस्थे । येषाञ्च प्रेरणयाऽत्र दुष्करे कार्ये प्रवृत्तिरुपजाता येषां चासीमानुग्रहबलादेव यथाकथञ्चिदेतावन्मानं कार्य पूर्णतामुपयातं तेषां गुरुवराणां श्रीमद्विजयकमलसूरीश्वराणां महान्तमुपकारं स्मारं स्मारं परःशतैः प्रणामाञ्जलिभिरभिवादये तान् । __ तथा मुद्द्यमाणस्यास्य ग्रन्थरत्नस्याङ्कितप्रतिकृतिपत्रस्य (प्रुफ इति व्यवह्रियमाणस्य) संशोधनकर्मविदधता मदन्तेवासिना मुनिश्रीविक्रमविजयेन सेवा श्रीशासनस्य गुरूणाश्च महती अनुष्ठिता इति तं प्रभूतेनाशिषा संवर्धयामि । ___ एवं आहेतदर्शनाध्ययनार्थ मां चिरादन्तेवासित्ववृत्त्योपासमानेन मद्विनेयान् दर्शनान्तराण्यध्यापयता काश्यां समधिगतन्यायाचार्यपदवीकेन नारायणाचार्येणाग्विषयवास्तव्येन आदर्शभूताः प्रतीः वीक्ष्य पृथगुल्लेखनेन मुद्रणयोग्यादर्शविधानेन च (प्रेस कॉपीविधानेन) महती गुरुपर्युपासनाऽऽरचितेति तमपि सप्रेम स्वस्तिवचनैरनुशास्मि । इत्थं समीकृत्य मुद्रणया प्रकाशितस्यास्य ग्रन्थरत्नस्याध्येतृसौकर्यार्थ दुरूहाणां दार्शनिकविषयाणां च सुलभतया परिचयार्थ विषयसूचिपत्रमपि सङ्कलय्यात्र निवेशितम् । समासादितानामादर्शप्रतीनामशुद्धिप्राचुर्यात् बहुप्रयाससाध्येऽत्र यथेष्टसमयालाभात् भ्रमप्रमादादिदोषात् सीसकाक्षरसंयोजकदोषात् संयोजिताक्षरविलोकनेऽक्षिदोषाच्च जातानि स्खलितानि सुगुणैकवासनावासितान्तःकरणैर्मनीषिमतल्लिकैर्विधूयास्य ग्रन्थस्याध्ययनाध्यापने प्रयासोऽयं सफलयितव्य इत्यभ्यर्थयते विजयलब्धिसूरिः 2010_04 Page #51 -------------------------------------------------------------------------- ________________ ॥ ॐ अहम् ॥ श्रीमल्लवादिसूरिविरचितम् हादशारनयचक्रम् । न्यायागमानुसारिणीव्याख्यासमलङ्कृतम् । 2010_04 Page #52 -------------------------------------------------------------------------- ________________ 2010_04 Page #53 -------------------------------------------------------------------------- ________________ कर्कशतार्किकचकचक्रवर्त्तिश्रीमन्मल्लवादिवरिविरचितम द्वादशारनयचक्रम् | सिंहनन्दिगणिक्षमाश्रमणविरचितन्यायागमानुसारिणीव्याख्यासमलङ्कृतम ऍनमः जयति नयचक्रनिर्जितनिःशेपविपक्षचत्रविक्रान्तः । श्रीमल्लवादिसूरिर्जिनवचननभस्तलविवस्वान् ॥ १ ॥ तत्प्रणीतमहार्थयथार्थनयचक्राख्यशास्त्रविवरणमिदमनुव्याख्यास्यामः । स भगवानैदयुगीनोपपतिरुचिभव्यजनानुग्रहार्थमहत्प्रवचनानुसारि नयशक्रशास्त्र मारिरिप्सुर्मङ्गलार्थं शासनस्तत्र तद्वक्ष्यमाणव स्तूपसंहारार्थमाद्यं वृत्तमाह व्याप्येकस्थमनन्तमन्तवदपि न्यस्तं धियां पाटवे व्यामोहे तु जगत्प्रतान विसृतिव्यत्यासधीरास्पदम् । वाचां भागमतीत्य वाग्विनियतं गम्यं न गम्यं क्वचित् शेषन्यग्भवनेन शासनमलं जैनं जयत्यूर्जितम् ॥ १ ॥ व्याप्येकस्थमित्यादि, व्याप्नोति व्याप्तुं शीलमस्येति वा व्यापि, औणादिकस्ताच्छीलिको वा । किं व्याप्यं ? अविशेषितत्वात् सर्वं परमाण्वादिवस्तु, तत् कथं जैनेन शासनेन व्याप्यत इति चेद्र - 15 व्यार्थादेशात्, तद्यथा-- एकः परमाणुर्वर्णगन्धरसस्पर्शपरिणाभैः सप्रभेदैः स्वाभाविकैः पुरस्कृतैः पश्चात्कृतैश्च द्व्यणुकादिभिः सांयोगिकैर्महास्कन्धपर्यन्तैर्वैस्रसिकैः प्रायोगिकैश्च कार्मणशरीरादिभिरभिसम्बद्ध्यते । यथोक्तम् 'एगदवियम्मि जे अत्थपज्जवा वयणपज्जवा वा वि । तीयाणागयभूया तावइयं तं समुद्धर्त्तृकृतविषमपदविवेचनम् - सूरिः क्व मल्लवादी दिशां विजेता गुरुत्तमो वन्द्यः । काहं वालप्रज्ञः क्रीडामात्रं तत्कृतेः कुर्वे 11 2010_04 5 10 अथ निजहस्तगतमपि निमित्तान्तरेण प्रभ्रष्टुं प्रसन्नया सरस्वत्या सकलशास्त्रसारार्थसूचकं प्रदत्तं केवलमेकं वृत्तंश्रीमल्लवादिसूरिर्थ्यावर्णयति स्म तदप्यतिगम्भीरं विभाव्य विषमस्थल विषमतां परिहर्तुकामष्टीकाकारः अनु व्याख्यानमकरो - दिति सूचयत्यनुव्याख्यास्याम इति पदम् । साम्प्रतकालीना आगमप्रसिद्धमपि युक्त्या विज्ञातुमभिलषन्तीति तदर्थमस्य शास्त्रस्य प्रारम्भणमिति सूचयति ऐदंयुगीनेत्यादिना । परिणामो द्विविधः पुरस्कृतपश्चात्कृतभेदात्, पुरस्कृत परिणामः स्वाभाविको 25 वस्तुसहभावी, पश्चात्कृतस्तु क्रमभावी द्विविधो वैस्रसिकप्रायोगिकभेदात् व्यणुकादिमहास्कन्धपर्यन्तं सर्वे स्कन्धाः परमाणुसंयोगजाः वैस्रसिका उच्यन्ते, कार्मणशरीरादयो जीवप्रयोगजा प्रायोगिका उच्यन्ते सर्वेष्वेषु परिणामेषु स्वपर्यायेषु परमाणुलक्षणं द्रव्यमनुवर्त्तत इति द्रव्यार्थादेशः तदेतदाह-एक इत्यादिना । एगेति, एकस्मिन् द्रव्येऽर्थानां ग्राहकाः सङ्ग्रहव्यवहारर्जुसूत्राख्याः तद्ब्रात्या वाऽर्थाः, तथा वचनपर्यायाः शब्दसमभिरूढैवम्भूताः शब्दनयाः तद्भाया वा अर्थाः अतीतानागतवर्तमानरूपतया सर्वदा विवर्त्तन्ते विवृत्ताः विवर्त्तिष्यन्त इति पर्यायाणामानन्त्यात् कथञ्चित्तदभिन्नं वस्त्वपि तावत्प्रमाणं 30 भवति, अतः सर्व सर्वात्मकं कथचिदिति गाथार्थः । 20 Page #54 -------------------------------------------------------------------------- ________________ द्वादशारनयचक्रम् [विध्यरे हवइ दा' (सम्मति का० १ गा. ३१) तथा गतिस्थित्यवगाहवर्तनालक्षणैर्धर्माधर्माकाशकालेरापेक्षिकर्जीवानामपि स्वाभाविकपारभाविकैरुपयोगशरीरादिभिः, अतस्तस्य तस्य वस्तुनो द्रव्यार्थादिष्टस्य तेषु तेषु परिणामेष्वव्यावृत्तस्वरूपत्वात्तेषाश्च तथा तदभेदात् सर्वेषां द्रव्यपर्यायाणां परस्परतश्च सदवि. शेषाचादात्म्यमतस्तत्तद्वयाप्नोतीति व्यापीत्युच्यते, एवञ्च सति सम्मुग्धत्वाद्वस्तुनस्तद्विषययोरभिधान। प्रत्यययोर्व्यवहारनिश्चयफलयोरभावादिदोषाः स्युः, मा भूवन्निति पर्यायादेश आश्रीयते एकस्थमिति, प्रत्येकपरिसमाप्तेरसाधारणधर्माणां भावानामसङ्कीर्णरूपत्वेन स्ववृत्तिप्रतिलम्भात्, न हि कश्चित्कश्चिदपेक्ष्य भवितुमर्हति भाव इत्येकमेकमेव वस्तु, तदर्पणादेकस्थमिति चोच्यते शासनम्, तस्य तस्य पृथक् पृथगर्पणात्, खपररूपतः समप्रादेशवशाद्वयापीति, व्यापि चैकस्थश्चैकमेव तत् , एवमुत्तरेष्वपि । अनन्तमन्तवदपि, द्रव्यक्षेत्रफालभावादेशैरविशेषितत्वाद्विशेषितत्वाच्च । यथोक्तम्-'एयं दुवालसंगं 10 गणिपिडगं दवतो एगं पुरिसं पडुच्च सादियं सपज्जवसियं, अणेगे पुरिसे पडुच अणादियं अपज्जवसि खेत्ततो भरतेरवते पडुच सादि सपजवसि महाविदेहे पडुच्च अणादियं अपनवसि, कालओ उसप्पिणिअवसप्पिणीओ पडुच्च सादियं सपज्जवसियं णोउसप्पिणिअवसप्पिणीओ पडुछ अणादिअं " अपजवसिअं, भावओ णं जे जहा जिणपण्णत्ता भावा' (नन्दीसूत्रे सू० ४२) इत्यनाद्यपर्यवसितं सादिकं सपर्यवसितं च, अथवा नास्मिन्नन्तोऽस्तीत्यनन्तमन्तोऽस्तीत्यन्तवत्, कस्य ? अविशेषित16 त्वात्सर्वस्य, तद्यथोक्तम्-'इमाणं भंते ! रयणप्पभा पुढवी किं सासया असासया ! गोयमा ! सिया सासया सिया असासया, से केणटेणं भंते ! एवं वुच्चइ सिया सासया सिया असासयत्ति ? गोयमा ! दबट्टयाए सासया, वण्णपजवेहिं गंधपज्जवेहिं रसपजवेहिं फासपजवेहिं संठाणपज्जवेहिं असासया' (जीवाभिगमे ३।११७८) इत्यादि । न्यस्तं धियां पाटवे, न्यस्तं निक्षिप्तं धियामाभिनि बोधिकज्ञानभेदानां पटुतायां कर्त्तव्यायां कारणत्वेनेत्यर्थः, यथोक्तम् 'जत्थाभिनिबोहिअनाणं तस्थ 20 सुअनाणं, जत्थ सुअनाणं तत्थाभिनिबोहिअनाणं' (नन्दी० सू. २४) इति, श्रुतज्ञामसंस्कृतधियां अपेक्षाकारणभूतैर्धमादिभिरपि गत्यादिद्वारेण परमाणोरभिसम्बन्धं प्रदर्शयति तथा गतीत्यादिना, जीवैः सहापि उपयोगशरीरादिद्वारेणाभिसम्बन्धमाह जीवानामपीति,उपयोगो जीवखभावभूतः शरीरादयः परभावभूताः परमाणोः परिणा- मैर्यथाऽभेदस्तथापरेषामपीत्याह अतस्तस्येति. तथा द्रव्यपर्यायभूतानामनेकेषामपि वस्तूनां सदविशेषादभेदमाह-सर्वेषामिति । तन्मात्राभ्युपगमे दोषमादर्शयति एवञ्च सतीति, सदविशेषात् सर्वेषां तादात्म्ये सतीत्यर्थः, सत्यभिधाने व्यवहारः प्रवर्तते सति प्रत्यये च निश्चयो भवतीति व्यवहारनिश्चयो अभिधानप्रत्यययोः फले, वस्तुन एकरूपत्वे तयोरभावः स्यादित्यर्थः, आदिना च कार्यकारणप्रमाणप्रमेयादीनां ग्रहणम् । प्रत्येकेति, भावरूपा विशेषा हि खत एव सजातीयविजातीयविलक्षणा अत एव नेतरसाधारणाः स्वस्मिन्नेव परिसमाप्ताः खात्मनैवात्मलाभाः न परं किञ्चिद्वस्त्वपेक्षत इति भावः । तस्य तस्येति, यदा शासनं द्रव्यार्पणं करोति तदा केवलं द्रव्य एवाभिप्रायादेकस्मिन्नेव वर्त्तते तथा पर्यायार्पणं यदा करोति तदा तत्रैवाभिप्रायात् एकस्मिन्नेव तिष्ठतीत्येकस्थं शासनं खपररूपेण समग्रनयार्पणात्तु व्याप्नोति सर्वाणि वस्तूनीति व्याप्यपि भवतीति 30 भावः । साक्षादेव शासनस्यानन्तत्वमन्तवत्त्वञ्चाह द्रव्यक्षेत्रेत्यादि । वस्तूनां तथात्वप्रतिपादनद्वारेण शासनस्य तथात्वमा. .हाथवेति । जत्थ इति, यत्र पुरुषे आभिनिबोधिकं ज्ञानं तत्रैव श्रुतज्ञानमपि, तथा यत्र श्रुतज्ञानं तत्रैवाभिनिबोधिकशानम् , यद्यपि यत्राभिनिबोधिकज्ञानं तत्र श्रुतज्ञानमित्येवोक्ते यत्र श्रुतज्ञानं तत्राभिनिबोधिकज्ञानमित्यव्यभिचाराद्गम्यत एव, तथापि नियमाबोधात्तदवधारणार्थमुभयविधानम् । घटादीनां सर्वदा नित्यैकान्तखभावत्वे तदर्थ कुम्भकारादिचेष्टावैयर्थ्य, अप्राप्यरूपाभावात्, सदैकरूपत्वादेव चादानादिक्रिया न स्यात्, अनादेयैकखरूपत्वादन्यथा पूर्वखरूपपरित्यागादनित्य एवं 2010_04 Page #55 -------------------------------------------------------------------------- ________________ शासनस्तवः] न्यायागमानुसारिणीव्याख्यासमेतम् नित्य एवानित्य एवावक्तव्य एवेत्येवमायेकान्तवादग्राहेषु घटादिः कुम्भकारादिचेष्टाऽऽदानाद्यभावप्रसङ्गान्न नित्य एव चिकीर्षास्मरणप्रत्यभिज्ञानसंरक्षणाद्यभावप्रसङ्गानानित्य एव, स्वरूपानवधारणे वाग्व्यवहारोच्छित्तिप्रसङ्गादवक्तव्य इति वक्तव्यत्वावक्तव्यत्वयोः स्ववचनविरोधान्नावक्तव्य एवेत्येवमादिदोषप्रदर्शनेन स्यान्नित्यः स्यादनित्यः स्यादवक्तव्य इत्यनेकान्ताभ्युपगमाद्यथाप्रमाणं धर्मधर्मिव्यवस्थानात्तदोषपरिहारेण वस्तुस्वरूपोपपादनेन परमतनिषेधानुज्ञानाभ्यां प्रवादिनां परस्परविरोधनिरोधैक- । वाक्योपानयनान्मध्यस्थसाक्षिवत् प्रमाणीभूतम् , तेषामपि तत्त्वावबोधपाटवाधानसमर्थत्वात् । स्यान्मतं नन्वत एव स्थाणुपुरुषादिविषयसंशयविपर्ययवन्नित्यानित्याद्यनेकान्तविकल्पात्मकत्वाद्वयामोहहेतुरपि, कालनियतिस्वभावपुरुषदेवेश्वरयहच्छायेकान्तकारणविकल्पान्जगत्प्रतानविस्मृतिदर्शनादिति, अत्रीच्यते, व्यत्यासधीरास्पदत्वात् , एकपुरुषपितृपुत्रत्वादिवत् , जैनं हि शासनं जगत्प्रभेदैकान्तगतीळत्यस्य-व्यावर्स परस्परविरोधनिवारणेनानेकान्तात्मकत्वप्रतिष्ठानसमाधानकारणमेकान्तानेकवादसमाहा- 10 रात्मकैकप्रतिपत्तिकं परमतनिषेधानुमोदनाभ्यामेव न काल एव न नियतिरेव, एककारणवादिनां हि कारणसत्त्ववत् कार्यसत्त्वेऽनैकान्तिकत्वात् , कारणस्यापि कारणवत्त्वेऽनवस्थादोषादनेककारणत्वप्रसङ्गादनेककारणत्वस्य सिद्धेः, अनेककारणत्वेऽपि सदाद्यविशेषादनन्वयाभावादित्यादिदोषात्, कालोऽपि नियतिरपीत्याद्यनेकान्ते त्वदोषदर्शनाल्लौकिकवादसंवादि । यथोक्तम् 'कचिन्नियतिपक्षपातगुरु गम्यते ते वचः स्वभावनियताः प्रजाः समयतंत्रवृत्ताः कचित् । स्वयंकृतभुजः कचित् परकृतोपभोगाः पुनर्न 15 वा विशदवाददोषमलिनोऽस्यहो ! विस्मयः ॥' (सिद्धसेनद्वात्रिंशिका ३. श्लो० ८) इति । तदेवंविधं : शासनमूर्जितं, खातच्यात् परमतोपजीविवैलव्यरहितत्वात् परैराघातस्य सुसिद्धान्तताऽत्यागात् कल्पनान्तराश्रयणाभावादनाकुलत्वाच्च, जेतृत्वाद्वोर्जितमनन्तरोक्तहेतुभिर्जयति, परस्परानुवर्तिनयोत्साहबलसम्पदुपेतत्वाद्वा जयत्येव, उदितपुण्यनयोपेतचक्रवर्तिशासनवत् । तत्तु सर्वथा योगिनां गम्यं सर्वनयनपञ्चसंस्कृतधियामनन्तविषयप्रज्ञत्वात्तेषाम् , अस्मदादिभिरेकदेशमाहात्म्यदर्शनाच्छेषमाहात्म्यमनु- 20 मानेन गम्यते, न गम्यं कचिदिति, यथैकदेशागम्यत्वेनाभिभवनीयत्वेऽप्यन्यत्र गम्यताविषयः खण्ड्यते स्यादित्याशयेनोक्तं कुम्भकारादीति । अनित्यैकरूपत्वे च क्षणिकतया चिकीर्षादिकालेऽभावेन तदभावप्रसङ्ग इत्युक्तं चिकीर्षेति, घटादीनामवक्तव्यत्वैकान्ते तत्स्वरूपनिर्धारणासम्भवाद्धटपटादिरूपेण वाचां व्यवहारो न स्यात् , तथाऽवक्तव्य इत्यवक्तव्यशब्देनाभिधानादवक्तव्य इत्यनुक्ते वक्तव्यत्वप्राप्तेश्च खवचनविरोध इति मत्वाह-स्वरूपेति । स्थानिय इत्यनित्योपसर्जननित्यत्वप्रतिपादको भङ्गः, स्यादनित्य इति नित्यत्वोपसर्जनानित्यत्वप्रतिपादकोऽपरः द्वयोधर्मयोः प्राधान्येन 25 गुणभावेन च प्रतिपादने न किञ्चिद्वचः समर्थमित्यवाच्यताप्रतिपादकस्तृतीय इति । यथैकस्मिन्नेव पुरुषे पितृत्वं पुत्रत्वं चावि-: रोधेन व्यवस्थितं तथैकत्र नित्यत्वानित्यत्वादीनां निश्चितरूपतया प्रमाणतोऽवगाहनान्न व्यामोह इत्याशयेनोक्तमेकपुरुषेति । परमतेति, एकान्तत्वं निषिध्य तदुक्तकालनियत्याद्यनुमोदनत इति भावः । परमतेति, अन्यमतेषु परस्परविवादयोग्यविषयदर्शनतो दृश्यते विह्वलता तदत्र शासने नास्तीत्यर्थः । परैरिति, परैरभ्युपेतमपि यन्न सुसिद्धान्तत्वं जहाति तदिति, परदर्शने यः कश्चन समीचीनः सिद्धान्तो दृश्यते स न त्यज्यते, योग्यं वस्तु योग्यतयैवाभ्युपैति शासनमिदमिति 30 वाऽभिप्रायः। कल्पनेति, प्रागुक्तार्थसमीकरणार्थ कल्पनान्तराश्रयणमग्रे वक्ष्यमाणमत्र शासने नास्तीति भावः । यथैः. कदेशेति, यथैकदेशदर्शनादपरदेशोऽनुमीयते तथैकदेशादर्शनेन तस्य प्रतिक्षेप्यतया तन्निदर्शनेनान्येऽपि देशा गम्या अपि परदर्शनेषु निराक्रियमाणा दृश्यंते यथा मरुमरीचिकादौ जलभ्रान्तेरभिभवनीयतावत्सत्यजलज्ञानमपि खण्ड्यते विज्ञान _ 2010_04 Page #56 -------------------------------------------------------------------------- ________________ द्वादशारनयचक्रम् [विध्यरे वथा मा भूदिति न गम्यं कचित्, अथवा गमनीयं गम्य-प्रतिपादनीयं, न गम्यमप्रतिपादनीयं लोकप्रसिद्धव्यवहारानुपातिस्याद्वादपरिग्रहस्फुटपदार्थत्वात् , एकदेशगतेः शेषसुगमत्वात् । अयोग्यपुरुषापेक्षया वा न गमयितव्यं यथा स्थूलमतये न वाच्याः सूक्ष्मा अर्थाः स तानगृह्णानः व्याकुलितमना मिथ्यात्वं वा गच्छेदपरिणामात्' इति अथवा प्रागसमीक्ष्योक्तार्थसमीकरणा) कल्पनान्तरैनगमनीयं कचित्, यथा बौद्धैः सर्व क्षणिकमिति प्रतिज्ञाय स्मृत्यभिज्ञानबन्धमोक्षाभावदोषपरिहारार्थ सन्तानकल्पना, प्रधाननित्यतां प्रतिज्ञाय परिणामकल्पना व्यक्तात्मना कापिले, 'क्रियागुणवत्समवायिकारण मिति (वैशेषिकदर्शने अ. १ आ०१ सू० १५) सामान्यतो द्रव्यलक्षणं प्रतिज्ञायैकान्तनित्यानित्यवादवव्याप्तिपरिहारार्थमद्रव्यमनेकद्रव्यञ्च द्विविधं द्रव्यमिति, द्रव्यत्वञ्च सामान्यविशे. पाख्यं तत्तत्त्वमिति द्रव्यपर्यायनयद्वयाश्रयणेन पदार्थप्रणयनं काणभुजे, तथा द्रव्यगुणकर्माणि नानेति 10 प्रतिज्ञाय तदत्यन्तभेदे नीलोत्पलादिसद्व्यादिसामानाधिकरण्यविशेषणविशेष्यत्वादिव्यवहाराभावदोषभयाचत्सिद्ध्यर्थ 'सदिति यतो द्रव्यगुणकर्मसु सा सत्ता, द्रव्यगुणकर्मभ्योऽर्थान्तरं सत्ता (वैशे० अ०१ आ०२ सू०७१८) इत्याश्रितपदार्थव्याजेन द्रव्यार्थपर्यायार्थाश्रयणं सङ्करदोषपरिहारार्थश्च सामान्यस्यान्यविशेषस्य च परिकल्पनेति । वाचां भागमतीय वाग्विनियतमिति, प्रज्ञापनीयेष्वेव भावेष्वनन्तासंख्येयसंख्येयभागगुणहानिवृद्धिभ्यां क्षयोपशमविशेषापेक्षया मतिविशेषाभ्युपगमाञ्चतुर्दशपूर्वधरा16 णामपि परस्परतः षट्स्थानपतितत्वमद्यतनपुरुषेन्द्रियशक्त्युत्कर्षापकर्षवत् । उक्तञ्च 'जं चउदसपुत. धरा छहामगया परुप्परं होति । तेण उ अणंतभागो पण्णवणिजाण जं सुत्तं ॥ पण्णवणिज्जा भावा अणतभागो उ अमभिलप्पाणं । पण्णवाणिजाणं पुण अणंतभागो सुअणिबद्धो ॥ अक्खरलंभेण समा ऊणहिया होति मइविसेसेहिं । ते वि य मइविसेसे सुअणाणभंतरे जाण ॥' (विशेषा० गा० १४१-१४२-१४३) इति । शेषन्यग्भवनेनेत्यादि, परवादतिरस्कारेण जेष्यत्येव, तदवश्यं स्तुतिद्वारेण 20 वादिभिस्तथाऽत्र नेति भावः । परिस्फुटपदार्थानामप्रतिपादनीयत्वे हेतुमाह एकदेशगतेरिति । व्याकुलितमना इति, सम्यक्परिणतजिनवचना अपि विस्तरेण नयाख्यायमानये सूक्ष्माः सूक्ष्मतराश्च मेदास्तान् गृहीतुमशक्काः परिणतत्वादेव मिथ्यावागमनेऽपि व्याकलितमनसो भवेयरिति भावः, मिथ्यात्वं वेति. येऽतिपरिणता अतिव्याच्याऽपवाददृष्टयस्तबाऽपरिणता अपरिणतजिनवचनरहस्यास्ते एकनयप्रतिपादितं वस्तुमात्रमेव प्रमाणतया गृहन्तोऽपरनयप्रतिपादितमर्थ विरुद्ध ग्रहाना नयानां वा परस्परविरुद्धार्थतां मन्वाना मिथ्यात्वं गच्छेयुरिति भावः ॥ एकान्तनित्येति, एकान्तनित्येऽभ्युपगम्यमाने कार्याभावादेकान्तानिये च क्षणिकत्वेन क्रियाऽसंभवाद्रव्यलक्षणमव्याप्तं स्यादिति भावः । सङ्करेति, परस्परभेदसाधकस्य कस्यापि विशेषस्याभावादिति भावः । जं इति, चतुर्दशपूर्वधराः परस्परं हीनाधिक्येन षट्स्थानपतिता भवन्ति, हीनता चानन्तभागासंख्येयभागसंख्येयभागानन्तगुणासंख्येयगुणसंख्येयगुणैराधिक्यमप्येवम् , तस्याद्यञ्चतुर्दशपूर्वलक्षणं सूत्र तत्वज्ञापनीयानां भावानामनन्तभाग एव, सूत्रनिबद्धानां प्रज्ञापनीयभावतुल्यत्वे तद्वेदिनां षट्स्थानपतितत्वं न स्यात् । पणवाणिज्जा इति, वचनपर्यायत्वेन श्रुतज्ञानगोचरा भूभवनविमानादिभावाः सर्वेऽपि अर्थपर्यायत्वेनावचनगोचरापना 30 नामनन्ततम एव भागे वर्तन्ते, प्रज्ञापनीयपदार्थानान्त्वनन्तभाग एव चतुर्दशपूर्वलक्षणे श्रुते गणधरैः साक्षाद्रथितः ॥ अक्खरलंमेण इति, चतुर्दशपूर्वगतसूत्रलक्षणाक्षरलाभेन तुल्याः सर्वेऽपि चतुर्दशपूर्वविदः क्षयोपशमवैचित्र्यादक्षरलाभानुसारिभिरेन तेस्तैर्मम्बार्थविषयैर्बुद्धि विशेषैहीनाधिका भवन्ति, यैश्च ते हीनाधिकास्ते मतिविशेषाः श्रुतज्ञानान्तविन एव, 2010_04 Page #57 -------------------------------------------------------------------------- ________________ शासनप्रतिपाद्यम् ] न्यायागमानुसारिणीम्याक्यासमेतम् भवता तत्सामर्थ्याङ्गीकरणात्, नूनमेतत् प्रतिपादयिष्यति भवान् तदनुरोधेनैव कस्यचिदिति, किं तत् कस्यचित् प्रसादेन जयति ? विवदमानस्य गले पादं कृत्वा जयतीत्यभिप्रायः । यदेवंविधं तत्र किमाश्चर्य जयत्यूर्जितश्चेति, किंतर्हि ? एवंविधतैव तु प्रतिपादनीया, किमेवं प्रतिपाद्यमस्ति ? प्रतिपादितमेव तत्, यदेवंविधमिति, यद्योगिनामेव सर्वथा गम्यं न गम्यं कचिदप्यन्येषां वाचां भागमतीत्य वाग्वि- 6 नियतं व्याप्येकस्थमनन्तमन्तवदपि न्यस्तं धियां पाटवे व्यामोहे तु जगत्प्रतान विसृविव्यत्यास धीरास्पदं, जगत्प्रतानविसृतिव्यत्यासेन धीरमास्पदं - अचलं प्रतिष्ठानश्च यस्य तत्र किमाश्चर्य जयत्यूर्जितश्चेति, किं तर्हि ? एवंविधत्तैव तु प्रतिपादनीया, अन्यमता साधारणगुणता, सैव विरोधधर्मसम्भावनाभावादुष्प्रतिपादेत्यभिप्रायः । अत्राचार्य आह- किमेवं प्रतिपाद्यमस्ति ? प्रतिपादितमेव तत् । यस्मात् द्रव्यार्थ पर्यायार्थद्वित्वम्, द्रव्यार्थ पर्यायार्थेत्यादि, द्रव्येणार्थी द्रव्यार्थः, द्रव्यमर्थोऽस्येति वा, अथवा द्रव्यार्थिकः द्रव्यमेवार्थो यस्य सोऽयं स्वार्थिकोऽयं उन् प्रत्ययः, द्रव्यार्थिकः । एवं पर्यायार्थः पर्यायार्थिको वा, 'अर्थाच्चासन्निहिते' (पाणिनिसूत्रे ५।२।१३५ वार्त्तिकम् ) इति वचनादर्थिप्रत्यर्थिवदिनिरेव स्यादिति चेन्न, असन्निधानाभावात्तदर्थस्य । अथवा अस्तीत्यस्य मतिरित्यास्तिकः, द्रव्य आस्तिको द्रव्यास्तिकः, एवं पर्यायास्तिकः, तयोर्द्वयोर्भावो द्वित्वं न तदादेयमनन्ता हि नयविकल्पाः, वचनपथतुल्यसंख्यपरसमयतुल्यत्वान्नयानाम्, 'जावइया वयणपहा तावइआ चेव हुंति णयवाया । जावइआ णयवाया तावइआ चैव परसमया ॥' ( सम्म० कां ३ गा० ४७ ) तदुपष्टम्भविधिभेदपदार्थानामेकवाक्यविधिविधानादवबोधसमुद्रावयवीभूतं शासनं 2010_04 10 दुरवगाहमेवंविधमेव । न त्वाभिनिबोधिकान्तवर्त्तिन इति गाथार्थः ॥ तदिति, परवादतिरस्करणेत्यर्थः । प्रतिपादयिष्यतीति, विधिनियमभङ्गवृत्तीत्यादिकारिकायाम् । परवादतिरस्कारस्वशासनजययोरन्योन्याविनाभावान्न कस्यचिदनुग्रहेण जयोऽपि तु स्वसामर्थ्यासिद्धत्वादिति भावः । द्रव्येति, गुणपर्याययोर्भाजनं सदा खजात्यैकस्वरूपं यद्भवति न तु पर्यायवत्परावृत्तिं भजते तद्रव्यमुच्यते, यथा ज्ञानादिगुणपर्यायभाजनं जीवद्रव्यं रूपादिगुणपर्यायभाजनं पुद्गलद्रव्यं श्वेतरक्तत्वादिघटत्वादिगुणपर्यायभाजनं मद्रव्यं यथा वा तन्तवः पटापेक्षया द्रव्यं, किन्त्ववयवापेक्षया पर्यायाः, यतः पटविचाले पटावस्थाविचाले च तन्तूनां मेदो नास्ति, तन्त्व- 25 वयवावस्थायामन्वयत्वरूपो भेदोऽस्ति, तस्मात् पुद्गलस्कंधमध्ये द्रव्यपर्यायत्वमापेक्षिकं बोध्यम् । अत्र द्रव्यपदेनोतासामान्यं ग्राह्यं तिर्यक्सामान्यन्तु प्रतिव्यक्तिसदृशपरिणतिलक्षणं व्यञ्जनपर्याय एव, स्थूलाः कालान्तरस्थायिनः शब्दानां सङ्केतविषया व्यञ्जनपर्याया इति प्रावचनिकप्रसिद्धेः । पर्यायो द्विविधो व्यञ्जनपर्यायोऽर्थपर्यायश्चेति, यस्य त्रिकालस्पर्शनः पर्यायः स व्यञ्जनपर्यायः यथा घटादीनां मृदादिपर्यायो व्यञ्जनपर्यायः मृन्मयः, सुवर्णादिधातुमयो वा, घटः कालत्रयेऽपि मृदादिपर्यायत्वं व्यञ्जयति, सूक्ष्मवर्त्तमानकालवर्त्ती अर्थपर्यायः यथा घटादेस्तत्तत्क्षणवर्त्ती पर्यायः । जावइया इति, अनेकान्तात्मकवस्त्वेक 30 वेशस्यान्यनिरपेक्षस्यावधारणमपरिशुद्धो नयः, तन्मात्रार्थस्य वाचकानां शब्दानां यावन्तो मार्ग हेतवो नयास्तावन्त एव भवन्ति नयवायाः तत्प्रतिपादकाः शब्दाः, यावन्तो नयवादाखावन्त एव परसमया भवन्ति, खेच्छापरिकल्पितनिबन्धनत्वात् परसमयान परिमितिर्न विद्यत इत्यर्थः । 15 20 Page #58 -------------------------------------------------------------------------- ________________ द्वादशारनयचक्रम् [विध्यरे (तदिति) एवंविधविकल्पोपकृप्तनयजालोपष्टम्भविधिभेदपदार्थानामेकवाक्यविधिः, तस्य विधानादशेषज्ञानान्यवयवा अस्य सर्वनयजनितानि, अवबोधसमुद्र एवाभेदेनावयवीभूतो यस्मिंस्तदवबोधसमुद्रावयवीभूतं शासनं दुरवगाहं गम्भीराक्षोभ्यपदार्थरत्नाकरत्वसामान्यात् , एवंविधमेवेति, उक्तनय. तरङ्गभङ्गसङ्ग्रहप्रस्तारात्मकमविकलपदार्थावद्योतनादनेकादित्यसमूहवत् कृतप्रकाशं तमसोऽवकाशाभावात्सवितसहस्रवद्भास्वरत्वादनभिभवनीयम् ॥ .. तद्व्यतिरिक्तशासनिवचनानि प्रत्यक्षानुमानविनिश्चयपदार्थानां विपर्ययप्रणयनेन विसंवादीनि, विपर्ययप्रणयनञ्च रूपादय एव घटो घट एव रूपादयो रूपादयश्च घटश्च, न रूपादयो न घट इति वा, अश्रावणशब्दवादिवचनवदाशङ्कामपि सत्यत्वेन जनयितुमलम् । (तदिति) तद्व्यतिरिक्ताः शासनिनः कपिलव्यासकणादशौद्धोदनिमस्करिप्रभृतयः, तेषां वच10 नानि विसंवादीनि, प्रत्यक्षानुमानविनिश्चेयपदार्थाः रूपादयो घटादयोऽम्यादयश्च, तेषां विपर्ययेण प्रणयनं तैः कृतं तेन विपर्ययप्रणयनेन निरुक्तीकृतं विसंवादित्वम् । तत्कथं ? प्रत्यक्षविनिश्चेये तावद्युगपद्भाविषु प्रतिनियतेन्द्रियविषयेषु घटाद्युपादानग्रहणाभावात् न रूपादय एव, रूपाद्यन्यतमग्रहणद्वारमन्तरेण घटाद्यग्रहणात् , तदभावे तदभावाच न द्रव्यमानमेव । अयुगपद्भाविष्वपि पिण्डशिव कादिषु मृदग्रहणे पिण्डशिवकाद्यग्रहणान्मृदभावे पिण्डशिबकाद्यभावान्न पर्याया एव, मृदोऽपि शिव15 काद्यन्यतमावस्थाविशेषाग्रहणमन्तरेणाग्रहणात्तभावे तदभावाच न द्रव्यमेव । एतेनाम्यादिधूमादिलिङ्गलिङ्गिव्यवहारो व्याख्यातः अनुमानविनिश्चयेऽपि न विशेषा एव निर्मूलत्वात् , खपुष्पवत् । न सामान्यमेवाविशेषितत्वात् खपुष्पवत् । तस्मादेवं प्रत्यक्षानुमानविनिश्चेयपदार्थेषु सर्वलोकप्रसिद्धेषु विपर्ययप्रणयनमन्यशासनिनां रूपादय एव घट इत्यादि, रूपादयश्च घटश्चेति, रूपादिर्गुणो घटोऽवयवी एवंविधविकल्पोपलप्तनयजालेति, तत्पदार्थवर्णनं निजव्यावर्णिताभिप्रायानुरोधात् । विधिः सामान्यं द्रव्यं वा विशेषः पर्यायो वा एकवाक्यविधिविधानञ्चैकान्तताव्यवच्छेदेन परस्परसापेक्षतासमर्थनम्, अत एवेदं शासनं निखिलनयजनिताशेषज्ञानलक्षणावयवसमुदायात्मकमपि सापेक्षत्वलक्षणविशेषादवयवि च. वाच्यवाचकयोः कथञ्चिदमेदादिति भावः । रूपादय एव घट इति कपिलाभिप्रायेण, सत्त्वरजस्तमसां साम्यावस्था प्रकृतिरिति वर्णनेन गुणसमुदायस्यैव द्रव्यत्वात्, घट एव रूपादय इति व्यासाभिप्रायेण सन्मात्राभ्युपगमात्, रूपादयश्च घटश्चेति कणादाभिप्रायेण, सामान्यविशेषयोरभ्युपगमात्, न रूपादयो न घट इति शून्यवादिबौद्धविशेषाभिप्रायेण, रूपादयो घटादय इति प्रत्यक्षविनिश्चेयद्रव्यपर्यायलक्षण25 पदार्थापेक्षया. अग्न्यादयश्चेत्यनुमेयपदार्थापेक्षया निरुक्तीकृतमिति निर्वचनं कृतं व्यवस्थापितमित्यर्थः। घटाद्यपादानेति, धर्मिग्रहणाभावे कस्य रूपादयो धर्मा इति गृह्येत, साक्षाद्रूपादिना सन्निकर्षासम्भवादिति भावः । घटाद्यग्रहणादिति द्रव्यप्रत्यक्षे रूपस्य कारणत्वाभ्युपगमाद्रूपाग्रहणे कथं घटादिग्रहणमिति भावः। तदभावे-रूपाद्यभावे तदभावात्-घटायभावात् । द्रव्यसहभावपर्याययोरभावमुक्त्वा द्रव्यक्रमभाविपर्याययोः तमाहायुगपदिति, मूले अलमिति वारणार्थकम् 'अलं भूषणपर्याप्तिशक्तिवारणवाचक मिति कोशात् , असमर्थमित्यर्थः। तदेव व्याख्यानमाह-न विशेषा एवेति, केवलं विशेषो नानुमेयः, 30 निर्मूलत्वात् , तथाविधैकान्तविशेषाभावात् , अननुयायित्वेन प्रतिबन्धग्रहासम्भवाद्वा, प्रतिबन्धग्रहणं हि पक्षसपक्षादिवृत्ती स्यात्, विशेषश्च प्रतिव्यक्तिविश्रान्त इति कथं तन्निरूपितः प्रतिबन्धः साधने गृथेत, यदि च पक्षसपक्षवृत्तित्वमभ्युपगम्यते तर्हि स विशेषः सामान्यरूप एव स्यादनुवृत्तिरूपत्वादिति भावः । अविशेषितत्वादिति, विशेषविधुरस्य तस्यार्थक्रियाकारित्वविकलत्वेनावस्तुत्वात् , सामान्यस्य सिद्धत्वेन साध्यत्वासम्भवाचेति भावः । रूपादय इति, द्रव्यपर्याययोः सामान्य 2010_04 Page #59 -------------------------------------------------------------------------- ________________ नयधकार्थः] न्यायागमानुसारिणीव्याख्यासमेतम् त्यर्थः । अश्रावणशब्दवादिवचनवदिति, सर्वलोकप्रसिद्धेन्द्रियप्रत्यक्षविरोधिवचनोदाहरणादनुमानविरोधाद्यप्युदाहृतमेव । आशङ्कामपि सत्यत्वेन जनयितुमलमिति, निःसन्दिग्धमेवासत्यत्वं तेषामित्यर्थः ॥ . अपि च लौकिकव्यवहारोऽपि नित्यानित्यावक्तव्याद्यनेकान्तवस्तुविषय एव, तदपह्नवप्रवृत्तशेषशासनेषु साध्विदमिति विचारो व्यामोहोपनिबन्धनमिति शेषशासनविसंवदनजनितास्थं प्रमाणद्वयसंसिद्धिसम्पादितप्रत्ययं तत एव च प्रतिष्ठापितात्यन्तपरोक्षार्थश्रद्धानं शास- 5 नमूर्जितं जयतीति प्रत्याम्नायते ॥ अपि च लौकिकव्यवहारोपीत्यादि यावद्व्यामोहोपनिबन्धनमिति, सातिशयबुद्धिभिरपि परीक्षकैनिरतिशयलोकप्रसिद्ध्यनुवर्तिभिः परात्ममतविशेषप्रतिपत्तिनिराकरणतत्त्वप्रतिपादने कार्ये,इतरथा साक्षिविरहितव्यवहारवदनिश्चिताथैव परीक्षा स्यात् । लौकिकास्तु नित्यानित्यावक्तव्याद्यनेकान्तरूपमेव घटादिकमर्थमव्युत्पन्नमपि प्रतिपद्य व्यवहरन्तो दृश्यन्ते, तदपह्नवप्रवृत्तयश्चैकान्तवादा नित्य एवानित्य 10 एवावक्तव्य एव घट इत्यादयः । तत्र शेषशासनेषु साध्विदमिति विचारो व्यामोहस्यैव निबन्धनं हेतुरित्यर्थः, विचारानवकाशाद्विसंवादाच्च लोकप्रत्यक्षादिविनिश्वितेऽपि, किं पुनरतीन्द्रियार्थे । शेषशासनविसंवदनजनितास्थमिति, शेषशासनानां विसंवदनेन जनिता आस्थाऽस्मिन् जिनशासनेऽस्माकमिदं वरिष्ठमिति परपक्षदौःस्थित्यादेव स्वपक्षसिद्धिराविष्कृता, अथवा स्वपक्षसौस्थित्यामनुमानमप्यस्तीत्याहप्रमाणद्वयसंसिद्धीत्यादि, लौकिकपरीक्षकाणां प्रत्यक्षानुमानप्रामाण्यं प्रत्यविसंवादात् पूर्वन्यायेन स्थिता- 15 स्थितमृत्त्वपृथुबुध्नादिसंस्थानोपादानकारणाभ्यां द्वयेन द्वयस्य वा प्रत्यक्षेणानुमानेन च तद्विनिश्वेयपदार्थद्वयस्य संसिद्धिस्तया सम्पादितः प्रत्ययः प्रमाणं जैन्यां प्रक्रियायां तत एव च प्रतिष्ठापितमत्यन्तपरोक्षेऽप्यर्थे मेरूत्तरकुरुद्वीपसमुद्रविमानभवननरकप्रस्तारप्रमाणादौ श्रद्धानं यस्मिंस्तदिदमूर्जितं जयतीति प्रत्याम्नायतेऽन्यथा प्रामाण्याभावात् । यथोक्तम् 'प्रत्यक्षग्रहे सिद्ध्यति परोक्षग्रहः सिद्ध्येत्तदसिद्धौ सम्भावनाभाव एव प्रत्यक्षविसंवादित्वादुन्मत्तवाक्यवदिति ॥ _ अस्य चार्थस्य पूर्वमहोदधिसमुत्थितनयप्रभूततरङ्गागमप्रभ्रष्टश्लिष्टार्थकणिकामात्रस्य प्रतिपादकस्य नयचक्रस्य शास्त्रस्य संक्षिप्तार्थ गाथासूत्रम् विधिनियमभङ्गवृत्तिव्यतिरिक्तत्वादनर्थकवचोवत् । जैनादन्यच्छासनमनृतं भवतीति वैधर्म्यम् ॥ अस्य चार्थस्येत्यादि यावद्गाथासूत्रमित्यन्तेन शास्त्रारम्भसम्बन्धप्रयोजनाभिधानम्, पूर्वमहोद- 25 विशेषयोर्वाऽन्यतरोभयानुभयपक्षभेदेनोदाहरणचतुष्टयं प्रदर्शितम् । तेषामिति, द्रव्यपर्यायार्थयोरन्यतरैकान्तशास्त्रप्रबन्धः प्रस्तुतवस्तुविच्छेदपरमार्थत्वाद्विघटितार्थो दशदाडिमानि षडपूपा इत्यादिवाक्यवदतोऽसत्यत्वमेवेति भावः । एवञ्च वक्ष्यमाणविध्यादिसर्वभङ्गात्मकैकवृत्तिः सम्यग्दर्शनं प्रत्येकञ्च मिथ्यादर्शनमिति यावत्। परात्मेति, परीक्षकैः परमतप्रतिक्षेपनिजमतप्रतिपत्तिप्रकटनपुरस्सरं तत्त्वप्रतिपादनं कार्यम् , केवलं खमतप्रतिपादनेन परमतविभञ्जनेन वा न तत्त्वव्यवस्था सम्भविनीत्यभिप्रायः । नयचक्रस्येति, नयन्ति गमयन्ति पदार्थानिति नयाः-वस्तुनोऽनेकात्मकस्यान्यतमैकात्मकपरिग्रहात्मकास्तेषां चक्रं समूहो नय-30 चक्र नयसमूहः स्याद्वादरूपः, यतोऽस्मादेव सर्वनयानामुत्थानमतस्तेऽरसंस्थानीयाः, स्याद्वादश्चक्रम् , अस्याशेषनयाराणाचाहद्वचनं निबन्धनमतो जिनवचनमहासमुद्रस्य तरङ्गा नयाः, तुंबकरणञ्च सविकल्पद्वादशनयचकैकवाक्यानयनसाधनम् , एतद्वादशाप्यरनया ऐकपद्येनान्योऽन्यापेक्षवृत्तयः सत्यार्थाः, घटो हि विध्यादिद्वादशविधभवनसमूहात्मकः तेषामन्यतमाभावे न भवति परस्परापेक्षायामेव भवति, एवञ्चाशेषभङ्गैकवाक्यतायामेव प्रतिभङ्गमपि वृत्तिः, अन्यथात्ववृत्तिः यथाऽराणां तुंबप्रतिबद्धा वृत्तिः। द्वा० न० २ 20 2010_04 Page #60 -------------------------------------------------------------------------- ________________ द्वादशारजयचक्रम् [विध्यरे घिसमुस्विवनयप्रभूततरङ्गागमप्रभ्रष्टश्लिष्टार्यकणिकामात्रमिति सम्बन्धः, न स्वमनीषिकयोच्यते प्रमाणागमपरम्पराऽऽगतमेवेदमित्यर्थः, अन्यतीर्थकरप्रज्ञापनाभ्यतीतगोचरपदार्थसाधनं प्रयोजनं शिष्यानुग्रहमान्यवाकर्तुमशक्यत्वात् , नयचक्राख्यमारभ्यं शास्त्रं, तदन्तरेण तदसिद्धेः। शिष्यस्य प्रसङ्गविप्रसृतघियो मा भूत्यामोह इति संक्षिप्तार्थ गाथासूत्रमिदं विधिनियमेत्यादि । अन्यशासनानृतत्वप्रतिपादनसाधनमिदमर्थापत्त्या तु शुद्धपदोच्चारणवद्विधिनियमभङ्गवृत्तियुक्तत्वाज्जैनं वचः सत्यमिति गम्यते । तद्व्याचक्षाणः सूरिविधिनियमशब्दावलौकिकाविति परो मा मंस्तेति तत्पर्यायशब्दानुचारयतिविधिराचारः स्थितिः क्रमो न्याय इत्यादि, नियमो विशेषो व्याप्य इत्यादि, विधिराचार इत्यादि, विधीयत इति विधिर्भावसाधनो व्याहृतः कत्रों वा यो विदधाति स कर्चा द्रघ्यार्थः, को विदधाति ? पिण्डशिवकादिभावान्मृद्विदधाति, तया हि मृदा शिवकादयो विधी० यन्ते, लक्षणतस्त्वनपेक्षितव्यावृत्तिभेदार्थो द्रव्यार्थों विधिः, लोके दृष्टत्वात् । आ मर्यादया चारः भाचारा, आत्मरूपापरित्यागः पररूपानपेक्षः, एवं स्थित्यादिषु योज्यम् , पर्यायार्थस्तु नियमो निराधिक्वे, आधिक्येन यमनं नियमः परस्परप्रतिविविक्तभवनादिधर्मलक्षणः प्रतिक्षणनियतोऽवस्था विशेषः, युगपद्भाव्ययुगपद्भावी रूपादिः शिवकादिश्च यो यो भवति स स एवेति, पर्यायशब्दानां शेषाणामप्य यमों यथाक्षरं योज्यः। 15 तयोर्भङ्गाः विधिविधिविधिविध्युभयं विधिनियममुभयमुभयविधिरुभयोभयमुभयनियमो नियमो नियमविधिनियमोभयं नियमनियम इति, तयोर्भङ्गा विधिर्विधीत्यादि, तत्र विधिरनपेक्षितभेदानुगतिव्यावृत्तिव्यापारो यथा गौरिति, विधिविधिस्तु शुक्लादिभेदनियमवादिनं प्रत्यत्र भेदप्रतिपादनव्यापृतः कोऽयं शुक्लादिभेदो नाम गोत्वव्यतिरिक्त इति, विधिनियमोऽतिप्रसक्तस्य विशेषेऽवस्थापनम् , विधिप्रधानस्यैव तदंशेऽवस्थापनं यथा 20 अन्यशासनेत्यादि, अन्यशासबेष्वनृतत्वं जैनशासने सत्यत्वञ्च वृत्तिपदोपादानात् सिद्ध्यति, तद्रहणं हि अशेषभबॅकवाक्यतायामेव प्रतिभङ्गमपि वृत्तिरिति ख्यापनार्थम् , तथाहि स्याद्वादे खप्रतिबद्धसर्वन्यभवात्मिका एकैव वृत्तिः सत्या, रत्नावलीवत् , यथा प्रतिविशिष्टजातिवर्णछायादिगुणगणोपेतमणिगणसमूहात्मिकैकैव रत्नावलीत्युच्यते यथास्थानविन्यासरत्ना न प्रत्येक तथा विध्यादिनयाः, स्याद्वादघटकतया तु सत्याः, एवञ्च सर्वेषामेकान्तनयानामवृत्तिरेवासत्यत्वात्, स्याद्वादाप्रतिबद्धत्वाच्च, तथा च प्रयोगः जिनशासनमेकान्तसत्यमेव, सम्यक्सम्प्रसिद्धपनिबन्धनप्रतिष्ठितार्थत्वात्, समीचीना सम्प्रसिद्धिः 25 सम्यक्सप्रसिद्धिः सामान्यविशेषविकल्पान्योन्याजहद्वृत्त्या वस्तुतत्त्वनिष्पत्तिः प्रत्यक्षानुमानागमलोकप्रसिख्याद्यविरोधेन तस्या उपनिवन्धनेन प्रतिष्ठितोऽर्थो यस्य तद्भावादित्यर्थः । अयमेव भावार्थोऽर्थापत्त्या विधिनियमभनयुक्तत्वाज्जैनं वचः सत्यमिति वाक्यस्य। विधिरित्यादि. 'अणपन्वी पडिवाडी कमो य नाओ ठिईअ मजा या होड विहाणं च तहा विहीए एगछिया हुंति' ॥ इति विधिपर्यायशब्दाः। तत्रेति, सर्वसङ्ग्रहात्मको विधिनयोऽतो भेदात्मकानुगतिव्यावृत्तिव्यापार नापेक्षत इति भावः, तत्राथाश्चत्वारो विधिभजाः, विधिः, विधेविधिः, विधेर्विधिनियम, विधेर्नियम इति, मध्यमाश्चत्वार उभयभङ्गा 30विधिनियम, विधिनियमस्य विधिः, विधिनियमस्य विधिनियम, विधिनियमस्य नियम इति, पाश्चात्याश्चत्वारो नियमभङ्गाः, नियमः, नियमस्य विधिः, नियमस्य विधिनियम, नियमस्य नियम इति । एते द्वादश विधा भङ्गनया एकान्तरूपाः प्रस्तुतवस्तुविच्छेदपरमार्थत्वाद्विघटितार्थाः, विध्यादिवृत्त्येकात्मकत्वाच्च जैनं शासनं सत्यमिति बोध्यम् तत्र प्रस्तुतवस्तुविच्छेदपरमार्थत्वं समखनयचक्रशामेण भाव्यते, तथा च प्रत्येकं तेषां नयानां तत्प्रतिपादकशास्त्राणां वाऽनृतत्वे सिद्धेऽर्थापत्या परस्परसापेक्षतयैकवाक्यतापमास्तेनिनवचनभूतास्सत्या भवन्ति, अत्र पक्षे जिनवचनसत्यत्वेऽन्यशासनानृतत्वे विधिनियमभनवृत्तिव्यतिरि 2010_04 Page #61 -------------------------------------------------------------------------- ________________ विधिवृत्त्यारम्भः] न्यायागमानुसारिणीव्याख्यासमेतम् गां शुक्लामानयेति, तदुभयात्मको विधेर्विधिनियमौ, विधिनियमन्तु विधिश्च नियमच विधिनियम द्वन्द्वैकमावः, तुल्यकक्षौ विधिनियमावेव सहितौ द्वयात्मकं सर्वमिति । शेषा यथायोगमेतद्व्याख्यानुसारेण व्याख्येया भङ्गाः । सामान्येन तु कारणं विधिः कार्य नियमः उभयं विधिनियमं शेषास्तद्विकल्पा एक ॥ एवं भङ्गान् व्यवस्थाप्येदानी वृत्तिं व्याख्यातुकाम आह तेषां विधिनियमभङ्गानां वृत्ति नसत्यत्वसाधनवृत्तानुवृत्तिादशविकल्पविशेषणा, । अन्यथा प्रत्येक स्वरूपानवधारणादवृत्तित्वमेव वक्ष्यमाणवत् । तेषां विधिनियमभङ्गानां वृत्तिरिति, तस्यास्तु लक्षणं खविषयसम्पातनेन भावितार्थानामात्मीय आत्मीये विषयेऽवतार्य यया तदर्था भाव्यन्ते तथा हि तथा भवन्ति नान्यथेति, नित्य एवाकृतकत्वादाकाश्वत्, अनित्य एव कृतकत्वाद्धटवद्वेति, यथोक्तम्-'द्रव्यस्यानेकात्मनोऽन्यतमैकात्मावधारणमेकदेश. नयनान्नय' इति । प्रत्यक्षानुमानाभ्यां पूर्ववस्थितास्थितमृत्त्वपृथुबुध्नादिसंस्थानोपादानकारणाभ्यां वस्तुनो 10 वृत्ति तत्त्वमित्यत आह-जैनसत्यत्वसाधनवृत्तानुवृत्तिर्विवक्षितद्वादशविकल्पविशेषणेति, तत्समाहारैकरूपतया तद्व्याख्यानमित्यर्थः, अनेकसम्बन्धदेवदत्तपितृपुत्रत्वादिधर्मसमाहारैकरूपवस्तुतत्त्वव्याख्यानवत् । अन्यथेत्येकान्तावधारणे, प्रत्येकं स्वरूपानवधारणादवृत्तित्वमेव वक्ष्यमाणवदिति तदित्वमिद्मेव शास्त्रं वय॑तीति परस्परव्याहततत्त्वास्त्ववृत्तय एव ता इत्यर्थः, वृत्तितत्त्वविनिश्चिचीषायां साच विध्यादिप्रत्येकवृत्तिाख्यानसमधिगम्येति तद्व्याख्या कार्या किं कारणं ? तत्समुदायकार्यत्वात्तस्याः। 15 इममर्थ विस्तरेण व्याख्यातुकाम उद्दिशति तत्र विधिवृत्तिस्तावत् यथालोकग्राहमेव वस्तु, परीक्षकाभिमानिनां तु तीर्थ्यानां स्वपरविषयतायां सामान्यविशेषयोरनुपपत्तेर्लोकाभिप्रायोऽविवेकयत्नः शास्त्रेष्विति । तत्र विधिवृत्तिरित्यादि, तत्रैतास्वनन्तरोद्दिष्टासु विध्यादिवृत्तिषु विधिवृत्तिस्तावद्यथालोकप्राहमेव वस्तु, लोकस्य ग्राहः, ग्राहवद्राहः, यथा जलचरो ग्राहः प्राण्यन्तराण्यभ्यात्म आकर्षति तथा 20 लोकोऽपि स्वाभिप्रायसकाशं सर्वमाकर्षति, यो यो लोकमाहो यथालोकग्राहं, एवेत्यवधारणालोकाभिप्रायं नातिवर्त्तते वस्त्वित्यर्थः । परीक्षकाभिमानिनान्तु तीर्थ्यानां स्वपरविषयतायां सामान्यविशेषयोरनुपपत्तरसंस्ततो लोकाभिप्रायोऽविवेकयत्नः शास्त्रेष्विति, इति शब्दो हेत्वर्थे, यस्मादेतमर्थ प्रतिपादयिष्यामस्तस्माद्यथालोकग्राहमेव वस्तु ततो लोकाभिप्रायाद्विवेकयत्नानर्थक्यम् । कत्वार्थापत्तिभ्यां साधनद्वयं भवति, साधर्म्यवैधाभ्यां विधिनियमभङ्गवृत्त्यात्मकत्वमेकमेव वा साधनं निखिलैकान्तवादिदू-25 षणेऽनेकान्तवादिपक्षसाधने च प्रभवति, एकस्य साधनसाधर्म्यवैधर्म्यदृष्टान्ताभ्यामन्वयव्यतिरेकप्रदर्शनात्मकाभ्यां जैनशासमसत्यत्वान्यशासनानृतत्वलक्षणार्थद्वय प्रतिपादनात् , विध्यादिनियमानामेकभावे सर्वभावात् परस्परापेक्षत्वादेकाभावे सर्वाभावादतः परस्परापेक्षकैकभनवृत्तिरपि हेतुर्भवितुमर्हतीति द्वादशविकल्पविशेषणेत्युक्तम् , सर्वमिदं ग्रन्थान्ते प्रदर्शयिष्यते ॥ तदिस्थमिदमेवेति, घटादिवस्तु नित्यमेव, अनित्यमेव, एकान्तमित्यताया एकान्तानित्यताया आवेदकमेव सावं नान्वदिति परस्परविम्बतत्ववादा अकृत्तिरूपा एवेत्यर्थः । वृत्तितत्त्वविनिधिचीपासमिति, इशिखभालविधवेच्छामा 30 _ 2010_04 Page #62 -------------------------------------------------------------------------- ________________ द्वादशारनयचक्रम् [ विध्यरे तत्कथमिति चेदुच्यते सामान्यविशेषौ हि स्वविषयौ परविषयौ वा स्याताम् ? स्वस्यात्मनि वर्तेत ? परस्य वाऽऽत्मनि ? तत्राचं तावदेकस्य सर्वत्वात्सर्वस्य चैकत्वात् स्वविषयं घटस्याऽऽत्मनि वर्तते यद्येवं सामान्यविरोधः। B (सामान्येति) सामान्यविशेषौ हि स्वविषयौ परविषयौ वा स्याताम् ? सामान्य वस्तुनो घटा देरात्मनि वर्तेत ? परस्य वा पटादेरात्मनि घटाद्वयतिरिच्यमाने ? चतुर्वप्येषु विकल्पेषु सांख्यादीनां दोष इति मन्यमानो लौकिकः पक्षं ग्राहयति दुदूषयिषुः सोपपत्तिकं तत्रेति, तत्राद्यं सामान्य तावदेकस्य सर्वत्वाद्यदि स्वविषयं सर्वमेकं, एकञ्च सर्वम् , कस्मात् ? कारणस्य वैश्वरूप्यात् , यथाह-'सर्व सर्वात्मकम्', यद्येवं कस्मात् सर्वमेकत्र नोपलभ्यते सर्वत्र चैकमिति ? उच्यते, देशकालाऽऽकारनिमित्ता10 वबन्धात्तु न सर्वकालमात्माभिव्यक्तिस्तेषामिति मन्यामहे । जलभूम्योरप्येतत् पारिणामिकं रसादिवै। श्वरूप्यं स्थावरस्य जङ्गमतां गतस्य जङ्गमाभ्यवहृतवनस्पत्यादेजङ्गमशरीरपरिणामापन्नस्य, जङ्गमस्यापि स्थावरतां गतस्य स्थावराभ्यवहृतस्य तत्परिणतस्य, एवं स्थावरस्य स्थावरतां गतस्य जङ्गमस्य जङ्गमतां गतस्य । तस्मात् सर्व सर्वात्मकम् , तत एकस्य सर्वत्वात् सर्वस्य चैकत्वात् स्वविषयं सामान्यं घटस्मात्मनि वर्तत इति परमतं प्रदश्र्योत्तरमाह-यद्येवं सामान्यविरोध इति, सामान्यस्य विरोधः, सामा15 म्येन च विरोधः। तत्कथं ? उच्यते यदि सामान्यं तत आत्मा न भवति, अनेकार्थविषयत्वात्सामान्यस्य । यद्यात्मा ततोऽपि न सामान्यम् , एकत्वादात्मनः, सेनाहस्तिनोरिव । ... (यदीति) यदि सामान्यं तत आत्मा न भवत्यनेकार्थवृत्तित्वात्सामान्यस्य, कश्चिदर्थः केनचिदर्थेन 20 कैश्चिद्धमैः समानो भवतीति कृत्वाऽनेकार्थविषयं सामान्यं तस्मादनेकार्थविषयत्वात् सामान्यस्य वस्तुनः स्वमात्मा घटादेरेकरूपस्य न भवत्येकत्वादात्मनः, सामान्यस्य च निवृत्तेरात्मनश्चात्माभावात् कस्य सामान्यम् ? अथ मा भूदेष दोष इत्यात्मेष्यते ततोऽपि न सामान्यम् , एकत्वादात्मनः केन सामान्य तस्येत्यात्मनः सामान्येन विरोधः, समानभावो हि सामान्यम् , सेनाहस्तिनोरिवेति, हस्त्यश्वरथपदाति समूहः सेनेत्यनेकार्थापेक्षां दर्शयति, हस्तीति चैकार्थतां दर्शयति । 25 जातायामित्यर्थः, स्वविषयौ सामान्यविषयौ, परविषयौ-द्रव्यक्षेत्रकालभावविषयौ, सांख्यमते वस्तुमात्रस्य सर्वसर्वात्म कत्वात् घटादिवस्त्वेव सामान्यमिति । यद्वा सामान्यं किं खापेक्षयैव सामान्यं किंवाऽन्यापेक्षया, एवं विशेषोऽपि । एकस्य .. सर्वत्वादिति, प्रकृतिरेवैका घटपटादिनानाजगद्रूपेण परिणमते परिणामपरिणामिनोरभेदात् सर्वात्मिकेत्यर्थः । सर्वस्य चैकत्वादिति, घटपटादीनां सर्वेषां प्रकृती लयादेकात्मकत्वमिति भावः । आत्मनि वर्तत इति, अभेदेन वर्तत इत्यर्थः । वैश्वरूप्यादिति, विश्वरूपं नानारूपं तदेव वैश्वरूप्यं चतुर्वर्णादित्वात् खार्थिकः ध्यन् , कारणस्य सर्वात्मकत्वा. 30दित्यर्थः । स्थावरजङ्गमाभ्यवहृतस्यान्योऽन्यरसरुधिरादिरूपादिपरिणामापत्तिलक्षणवैश्वरूप्यदर्शनात् सर्वे सर्वात्मकमिति भावः, यदि सामान्यमिति, अयं भावः यदि घटाद्यात्मनि सामान्यमभेदेन वर्तेत तर्हि किं सामान्यमात्मस्वरूपतापन्न सद्वर्तते आत्मा वा सामान्यखरूपतापन्नः सन् इति, तत्रात्मा यदि सामान्यखरूपतापन्नः स्यात्तर्हि आत्मखरूपमेव न स्यात् , सामान्यरूपतयाऽनेकार्थविषयत्वेनैकरूपत्वक्षतेः। यदि च सामान्यमेवात्मखरूपतापन्नं भवति तर्हि सामान्यखरूपमेव न स्यात्, 2010_04 Page #63 -------------------------------------------------------------------------- ________________ आत्मसामान्याभेददूषणम् ] न्यायागमानुसारिणीव्याख्यासमेतम् तं परिहर्तुकामस्य परस्याभिप्रायमाह अथोच्येत स्यादेव विरोधो यद्यात्मनः सामान्यमिति भेदेन स्वत्वमभ्युपगम्येत, इहत्वात्मैव सामान्यम्, किं तत् ? घटादेः सत्त्वादिरात्मा, स हि तत्समुदायकार्यत्वात्सामान्यम्, यथोक्तम्- “आध्यात्मिकाः कार्यात्मका भेदाः शब्दस्पर्शरसरूपगन्धाः पञ्च त्रयाणां सुखदुःखमोहानां सन्निवेशमात्रम्, कस्मात् ? पञ्चानां पञ्चानामेककार्यभावात् । सुखानां शब्दस्पर्शर - छ सरूपगन्धानां प्रसादलाघवाभिष्वङ्गोद्धर्षप्रीतयः कार्यम्, दुःखानां शोषतापभेदस्तम्भोद्वेगापद्वेगाः, मूढानामावरणसादनापध्वंसनबैभत्स्यदैन्यगौरवाणीति । तथा कारणात्मकाः श्रोत्र - त्वक्चक्षुर्जिह्वाम्राणवाग्घस्तपादपायूपस्थमनांस्येकादशनारकतैर्यग्योनमानुष्यदैवानि बाह्याश्च भेदाः सत्त्वरजस्तमसां कार्यसमन्वयदर्शनादिति । एवं पृथिव्यादि गवादि घटादि । अधोच्येतेति, यद्यपि व्यतिरेकार्थषष्ठीप्रापितः स्वस्वाम्यादिभेदः तथाप्यदोषो व्यपदेशिवद्भा- 10 वात्, राहोः शिर इत्याद्यव्यतिरेकषष्ठीदर्शनादिति, किं तर्हि ? ब्रूमः ( इहेति ) ( घटादीति ) तस्मात् सत्वादिर्घटादेरात्मा स हि तत्समुदायकार्यत्वात् सामान्यम्, तस्मादात्मैव सामान्यमिति । कृप अत्र ब्रूमः, एवं सत्यात्मभेदः तत्कथमिति चेदुच्यते सुखं सुखश्च सुखादिसमुदयश्च सत्त्वं सुखं, रजोदुःखं, तमो - मोहस्तत्रयमैकात्म्यादेकमेवेति । एवं शेषावपि । १३ (अत्र ब्रूम इति) सुखाद्येकम सामान्यमितीष्टस्य सामान्यस्य भेदः, तत्कथमिति चेदुच्यते सुखं 15 सुख सुखादिसमुदयश्च सत्त्वं सुखम्, रजो-दु:खम्, तमो - मोहस्तत्रयमैकात्म्यादेकमेवेति, सुखस्य सुखत्वं तत्समुदायत्वञ्च प्राप्तम्, किं कारणम् ? तदात्मत्वात् यस्मात्सुखाद्यात्मकः समुदायः समुदायात्मकञ्च सुखम्, एवं शेषावपीति दुःखमोहावतिदिशति, एवं दुःखं दुःखञ्च दुःखादिसमुदयश्च, मोहो मोह मोहादिसमुदायश्च । ततः को दोष इति चेत् ततश्च त्रिगुणविपरिणामकारणकल्पनावैयर्थ्यम् । ( ततश्चेति ) समुदायैककार्याणां त्रयाणामेकत्वाभ्युपगमादेकः तत्साम्यावस्थाविशेषः, तस्माच्चा 2010_04 आत्मरूपतयैकत्वेनानेकविषयत्वक्षतेरिति । यदि चात्मा सामान्यमिति वस्तुद्वयमेव नास्ति, अन्यथाऽत्मनः सामान्यमात्मनि वा सामान्यमित्येवं पञ्चमीषष्ठीसप्तम्यादितो भेदेन निर्देशः स्यात् किन्तु यदेव सामान्यं स एवात्मा, य एवाऽऽत्मा तदेव सामान्यमित्युच्यत इति शङ्कामाह अथोच्येतेति, राहोः शिर इत्यादिवत् व्यपदेशिवद्भावेनाभेदे षष्ठ्याऽऽत्मनः सामान्यमिति निर्देशः, 25 यस्य ह्येक एव पुत्रस्तस्य यथा स एव ज्येष्ठ इति कनिष्ठ इति च व्यपदिश्यते तथाऽत्रापि खत्वं स्वामित्वञ्चैकस्यैवात्मन इत्यभेद लक्षणा स्वस्वामिभावसम्बन्धे षष्ठी बोध्या । सन्निवेशमात्रमिति, अयं सांख्याभिप्रायः, यज्जातिसमन्वितं यदुपलभ्यते तत्तन्मयकारणसम्भूतम् यथा घटशरावादयो भेदा मृज्जात्यन्विताः ते मृदात्मक कारणसम्भूताः सुखदुःखादिजातिसमन्वितं चेदं व्यक्तमुपलभ्यते प्रसादादिकार्योपलब्धेः, सुखमिति सत्त्वमेवोच्यते रजश्च दुःखं तमश्च मोहः, एषाञ्च महदादीनां प्रसादादिकार्यमुपलभ्यते तस्मात् सुखदुःखमोहानां त्रयाणामेते सन्निवेशविशेषा इत्यनुमीयन्ते तथा चैषां प्रसादादिकार्यतः 30 सुखाद्यन्वितत्वात्तदन्वयाच्च तन्मयप्रकृतिसम्भूतत्वं सिद्धमेवं च सत्त्वादेस्तेषामात्मत्वात्सामान्यमिति ॥ समुदायैककार्या णामिति, एवे कार्यभेदा यदि प्रधानस्वभावा एव कथमेषां तत्कार्यतया प्रवृत्तिः नहि तस्मादव्यतिरिक्तस्य तत्कारणत्वं कार्यत्वं वा युक्तं तयोर्भिन्नलक्षणत्वादन्यथाऽसंकीर्णव्यवस्थाभावात् प्रकृतिः कारणमेव महदादेः कार्यत्वं कारणत्वश्च षोडशको 20 Page #64 -------------------------------------------------------------------------- ________________ १४ द्वादशारनयचक्रम् वस्थाविशेषादप्रच्युतत्वात् कुतो गुणानां वैषम्यम्, वैषम्याभावे कुतः प्रकृतेर्महदहङ्कारतन्मात्रभूतेन्द्रियादिपूर्वोत्तरहेतुकार्य भावः । 15 अत्राशङ्का नित्यमेव त्र्यात्मकमिति चेत् ? तथापि सुतरां तथा एकत्वनित्यत्वात् प्रकाशप्रवृत्तिनि5 यमकार्यभेदाभावादनारम्भः, वैषम्यनिर्मूलता च, उभयस्य चाभावः । [ (नित्यमेवेति ) प्रधानावस्थायामपि त्रिगुणत्वान्नित्यं सर्वकालं ज्यात्मकं सत्त्वरजस्तम आत्मकभगुणवैषम्य विपरिणामकारणत्वादुपपद्यते सुखादिसमुदायात्मकत्वेऽपि, आत्मभेददोषश्च नास्तीति । एतदपि वाड्यात्रत्वादनुत्तरं ( इत्याह तथापीति ) एकत्वस्य नित्यत्वादेकत्वेन वा नित्यत्वात् सदैकत्वादित्यर्थः । प्रकाशप्रवृत्तिनियमकार्यभेदः सत्त्वरजस्तमसां योऽभ्युपगम्यते भवद्भिराचार्य पवनपाषाणवत् 10 तद्यथा-नाटकाचार्यः स्वहस्तोत्क्षेपणादिना प्रकाशात्मनाऽऽत्मनो नर्त्तिकायाश्च व्यवतिष्ठते, पचनः पर्ण - 'चालनादिना खपरप्रवर्त्तनेन व्यवतिष्ठते, नौस्तम्भनपाषाणकः स्वपरनियमने व्यवतिष्ठते तथा सस्वरजस्तमांसीत्येतन्नोपपद्यते सर्वकालमेकत्वनित्यत्वात्, भेदाभावादनारम्भः प्रधानावस्थायामिव गुणानां सर्वकालं कार्यानारम्भो निर्व्यापारत्वात् । वैषम्यनिर्मूलता च, आरम्भाभावात्, उभयस्य चाभावः कारणस्य कार्यस्य च, अथवा आत्मनः सामान्यस्य च, सुखादेः समुदायिनः तत्समुदायस्य च प्रधानस्म । किं कारणम् ?– - अन्यतराव्यवस्थानेऽन्यतरस्याव्यवस्थानात्, यथा च प्रधानावस्थायां सदा त्रिगुणैकत्वाद्विरुद्धधर्माविषयेते त्रित्वैकत्वाद्यात्मस्वतत्त्वातिक्रमेणाव्यतिरिक्तत्रिगुणैकरूपता चेष्यते एवमेव शब्दादौ, तन्मयत्वात्ततश्च सर्वस्यावस्थानाद्यदृच्छामात्रत्वान्न प्रधानमहदहङ्कारादिकारणकार्यनैयम्यम्, ततश्चाङ्गीकृतपुरुषार्थयत्लार्थहानिः प्रधानपुरुषसंयोगत्रित्यपरिज्ञानार्थ20 शास्त्रयत्नहानिरपि ॥ ( अन्यतरेति ) तत्कथं भाव्यत इति चेदुच्यते यथा च प्रधानावस्थायामित्यादि यावत्रित्यैकत्वाद्यात्मस्वतन्त्वातिक्रमेणेति, त्रित्वैकत्वादीत्यनुक्तपरामर्शः, यथा त्रित्वमेकत्वं च चिरुद्धौ धर्माविषयेते, एवमवयवा अवयवी च, अन्यदनन्यच्च, आत्मानात्मा च सर्वमसर्वश्चेत्यादि, आदिग्रहणात् स्थूलं सूक्ष्मवेत्यादि सामर्थ्यादापादनीयम्, एष दृष्टान्तः, साधर्म्यं सदा त्रिगुणैकत्वादिति, त्रित्वैकत्वाद्यात्म स्वतत्वा26 तिक्रमेणेति विरोधधर्मसम्बन्धः, अव्यतिरिक्तत्रिगुणैकरूपता चेष्यत इति प्रधानस्यैव दृष्टान्तस्य वर्णनम्, गणः कार्यमेवेति व्यवस्था न स्यात् । एवं सत्त्वरजस्तमसा भेदो न स्यादेकात्म्यात् सर्वमेव च विश्वं सदैकरूपमेव स्यादिति । प्रधानावस्थायामपीति, स्वभावतः त्रैगुण्यरूपेण प्रधानं नित्यं सत्वरजस्तमसां तूत्कटानुत्कटत्वविशेषात् कार्यवैचित्र्यं न पूर्वभावोत्पत्त्या कार्यकारणभाव इष्टो येन खरूपामेदे सति स न स्यात् किंतु सर्पकुंडलादिवत् परिणामपरिणामिभावः परिणामचैकवस्त्वधिष्ठानत्वादभेदेऽपि न विरुध्यत इति पूर्वपक्षाशयः, सदैकत्वादिति, प्रधानं हि नित्यं नित्यस्य च क्रमाक्रमा30 भ्यामर्थक्रियाविरोधान्न कार्यभेदः सिद्ध्यति, परिणामोऽपि पूर्वरूपस्यापरित्यागेऽवस्था सांकर्यात् परित्यागे च स्वभावहानिप्रसङ्गाच्च संभवति व्यवस्थितस्य च धर्मिणः धर्मान्तरनिवृत्त्या धर्मान्तरप्रादुर्भावलक्षणः परिणामोऽपि न सम्भवति धर्मभेदे धर्मगतंद स्वत्वेनापरिणतत्वप्रसङ्गात्, अभेदे च धर्मयोर्विनाशोत्पादवतोर्धर्मिस्वरूपवदेकत्वं धर्मखरूपवा भर्मिणोऽपि विनाशोत्पादयोः 2010_04 Page #65 -------------------------------------------------------------------------- ________________ परविषयताप्रतिक्षेपः ] न्यायागमानुसारिणीव्याख्यासमेतम् एवमेव शब्दादाविति दार्शन्तिकोपनयः, त्रिगुणाव्यतिरेकैकरूपत्वं विरोधधर्मसम्बन्धश्च शब्दतन्मात्रादिषु तत्कार्येष्वाकाशादिषु भूतेष्वेकगुणादिवृद्धेषु तद्विकारेषु च गवादिघटादिषु च श्रोत्रादिष्वेकादशस्विन्द्रियेषु च प्रधानधर्मा आपाद्याः । किं कारणं ? तन्मयत्वात्, सत्त्वादिगुणमयं हि तत्, ततश्च सर्वस्यावस्थानात् प्रधानावस्थायामिव न किञ्चित् सूत्रादि पटादि वा कस्यचित्कारणं कार्यं वा प्रमाणं प्रमेयं बेति नियमाभावात् सर्वत्र यादृच्छिकी प्रवृत्तिः प्रसक्ता, यदृच्छामात्रत्वान्न प्रधानमहदहङ्कारादिकारण- 5 कार्यनैयम्यम्, ततश्च यदृच्छामात्रत्वादङ्गीकृतपुरुषार्थयत्नार्थहानिः पुरुषश्चैतन्यस्वरूपः, तस्यार्थो द्विविधः, शब्दाद्युपलब्धिरादिः, गुणपुरुषान्तरोपलब्धिरन्तः, तत्कृत्वा तद्विनिवर्त्तत इति, तस्मै पुरुषार्थाय यत्नः प्रधानस्य, तस्य यत्नस्यार्थः प्रयोजनं तस्य हानि:, यादृच्छिकत्वात् तस्य च हानौ प्रधानपुरुषसंयोग त्रित्वपरिज्ञानार्थशास्त्रयनहानिरपि ॥ सामान्यविशेषयोश्च सम्बन्धित्वादाद्यन्तवत्पितापुत्रवद्धा सामान्याभ्युपगमे विशेषपक्षा - 10 पत्तिरपि ॥ सामान्यविशेषयोश्च सम्बन्धिस्वादित्यादि यावद्विशेषपश्चापचिरपीति, सामान्यं विशेष इत्येतौ परस्परसम्बन्धिनौ, आद्यन्तवत् पितापुत्रवद्वा, तत्र यदि सामान्यमभ्युपगम्यते विशेषापेशित्वात् सामान्यस्य विशेषोऽप्यभ्युपेयः पितृत्वाभ्युपगमे पुत्रत्वाभ्युपगमवत्, विशेषाभ्युपगमे च सामान्याभ्युपगमस्तद्वदेवेत्यतस्ते बलादेव विशेषपक्षापचिरपि नियमपक्षापत्तिरित्यर्थः अपिशब्दात् 15 प्रागुक्तदोषापत्तिः, एवं तावत् स्वविषयत्वे सामान्यस्य दोषा उक्ताः ॥ परविषयतायामपि - परविषयतायामप्यसमानावस्थानादसामान्यम्, लौकिकैर्द्रव्यादीनामनवधृतैकतरकार १५ णत्वात् । ( परविषयतायामिति) अमुख्यसामान्यानां सदृशानुप्रवृत्तिव्यावृत्तिलक्षणानां परेष्टानां पर- 20 विषयाणामसम्भवात् स्वेष्टसमानभवनलक्षणसामान्यसम्भवात् परकीयसामान्यमेवेत्युपसंहरिष्यते लौकिकस्तत् सिद्धं कृत्वा वावदाह - असमानावस्थानादसामान्यमिति । तत्पुनर्द्रव्यक्षेत्रकालभावविषयम्, ते हि प्रसंङ्गान्न कश्चित् परिणामीति परिणामवशादपि न कार्यकारणभाव इति भावः । आपाद्या इति, शब्दादयः त्रिगुणाव्यतिरेकैकरूननः सदा त्रियुणैकत्वात् तन्मयत्वाद्वा प्रधानवदिति प्रयोगः, शब्दाद्युपलब्धिरिति, पुरुषस्य शब्दरूपादिप्रदर्शनार्थं प्रकृतिपुरुषान्यताख्यापनखरूपकैवल्यार्थञ्च प्रधानस्य प्रवृत्तिरिति । प्रधानावस्थायामिवेति प्रधानावस्थायां सत्वादिगुणमयस्य 25 सर्वस्य सद्भावेऽपि यथा कार्यकारणभावादिर्नास्ति तथैव सृष्टिकालेऽपि सर्वेषां सद्भावात्कार्यकारणभावादिनियमाभावेन लोके परिदृश्यमानप्रवृत्तिनिवृत्योर्बच्छामात्रता स्वात् साध्यसाधनभावाभावादेव पुरुषार्थयनानर्थक्यश्चेति । सम्बन्धित्वादिति पर-स्परसाक्षात्यारिलर्थ:, यदि सामान्यमिति, सामान्यस्यैवाभ्युपगमे विशेषाभावे सर्वथैकत्वात् समानत्वमेवानुपपन्नं स्यादिति सामान्यं विशेयमपेक्षते विशेषोऽपि तदिति द्वयमपि परस्पराविनाभावि तेनैकपक्षाभ्युपगमेऽपरपक्षापत्ति दुर्वारैवेति भावः । अमुष्येति, खाश्वमनुतित्तिर्वा न मुख्यं सामान्यं समानेन भूयत इति सामान्यलक्षणादर्शनात् किन्तु द्रव्या- 30 दीनां यत्समानभवनं तदेव मुरूगं सामान्यम् । सांख्यमते सादृश्यस्य न्यायमतेऽनुवृत्तेबद्धमते व्यावृत्तेः सामान्यतेति भावः, परविषयतायामपीत्यत्र परत्वं प्रकाशयति तत्पुनरिति, एकतरेत्यसङ्गतं बहूनां निर्धारणे विहितप्रत्ययनिम्मित्तप्रकृत्वभावादि 2010_04 Page #66 -------------------------------------------------------------------------- ________________ १६ द्वादशारनयचक्रम् [विध्यरे द्रव्यादयः परे परिष्यमाणाः घटादेर्वस्तुनस्तदपि परसदपेक्ष्य समानमित्युच्यते नात्मानमेवेति परविषयम् , किं पुनः कारणं तदसामान्यमित्यत आह-अनवधृतैकतरकारणत्वादिति, नावध्रियते द्रव्यमेव क्षेत्रमेव काल एव भाव एव वा कारणमिति । एवं तकतमकारणत्वादिति वाच्यम्, न चात्र डतरडतमौ प्राप्नुतः, कस्मात् ? 'अन्यकिंयत्तदोर्निर्धारणे द्वयोरेकस्य डतरच्, वा बहूनां जातिपरिप्रश्ने 5 डतमजि'त्यत्र (पाणि० ५।३।९१-९२) एकशब्दस्यापठितत्वात् । एवं तातिशायिकस्तरप्प्रत्ययः, समानगुणेषु हि स्पर्धा भवति । गुणवचनाभावान्नेति चेत् कारणत्वगुणतोऽतिशयो भविष्यति, एवं तर्हि तमबस्त्विति चेहयोर्द्वयोः प्रकर्षविवक्षायां तरबित्यदोषः, अथवा 'एकाच्च प्राचा'मिति (पा० ५।३। ९४) जातिपरिप्रश्नेऽस्त्येव डतरजित्यदोषः। केनानवधृतैकतरकारणत्वं द्रव्यादीनामिति चेदुच्यते लौकिकैर्व्यवहारनयप्रधानः स चाहतनयैकदेश एव, न पुनर्यथा शास्त्रकाराः सामान्यमेव विशेष एव द्रव्या10 धन्यतम एव कारणं कार्य वेत्यवधारयन्ति । कथं पुनर्द्रव्यादिकारणताऽवधार्यते नयेनेति ? उच्यते द्रव्यं तावत् सर्वतंत्रसिद्धान्ते 'द्रव्यञ्च भव्ये (पा० ५।३।१०४) इत्युक्तत्वात् युगपदयुगपद्भेदभाविमृद्भवनपरमार्थरूपादिशिवकादिवृत्ति द्रव्यमपि भवनलक्षणं व्यापि। (द्रव्यं तावदिति) तच्च द्रव्यमपि भवनलक्षणं व्यापीत्यभिसम्भत्स्यते, अपिशब्दात् क्षेत्रमपि, 15 सर्वतंत्रसिद्धान्ते व्याकरणे द्रव्यं च भव्य इत्युक्तत्वाद्भवतीति भव्यं भवनयोग्यं वा द्रव्यं द्रवति द्रोष्यति दुद्रावेति दुः, द्रोर्विकारोऽवयवो वा द्रव्यं दुद्रु गतौ सदैव गत्यात्मकत्वाद्विपरिणामात्मकं हि तत् । ननु यथा गुणसन्द्रावो द्रव्यं 'क्रियावद्दुणवत्समवायिकारणमिति द्रव्यलक्षणमिति वा कथं भवतीति चेत्, भिद्यत इति भेदः भेदेन भवितुं शीला, तस्या धर्मो वा स तु भवतीति भेदभाविनी मृत् तस्या भवनं भेदभाविमृद्भवनं तदेव परमोऽर्थः, कोऽसौ ? रूपादयः शिवकादयश्च, ते पुनर्यथासंख्य 20 युगपदयुगपञ्च, भेदभाविमृद्भवनपरमार्थरूपादिशिवकादयः, समानाधिकरणसमासः पुनरपि तेषां वृत्तिरस्य तेषु वा वृत्तिरस्य तदिदं युगपदयुगपद्भेदभाविमृद्भवनपरमार्थरूपादिशिवकादिवृत्ति, किं तत् ? द्रव्यं व्याप्नोतीति व्यापि न क्वचिदपि न प्रवर्त्तते, यथा रूपादिशिवकादयो मृदो भवनमात्रं तथा युगपद्भूतं पृथिव्यादि परमार्थः । पृथिव्यप्तेजोवाय्वाकाशादि द्रव्यभवनमात्रम् , पृथिव्याश्चाश्मलोष्टादि, तथाऽपां हिमकरकादि तेजसोऽप्यर्चिरादि स्वभेदा इत्यादि। अयुगपद्भुतं ब्रीहिबीजाङ्कुरपत्रतालकाण्डपु25 रुपफलशूककणतुषादिपरमार्थ इति सर्व द्रव्यभवनमात्रमेकपुरुषपितृपुत्रत्वादिवत्तान् तान् भावान् द्रवति भजतीति द्रव्यम् । त्याशंकते एवमिति, आतिशायिकः प्रकर्षे विहित इत्यर्थः, प्रकर्षश्च गुणेन समानेन, तत्रैव स्पर्धायाः सम्भवेन प्रकर्षे प्रत्ययो भवति, न च शुक्लात् कृष्णे प्रत्ययः, तथा च द्रव्यक्षेत्रकालभावानां समानगुणत्वाभावात् कथं प्रत्यय इत्याशंकते गुणवच नाभावादिति, किमित्येतत्परिप्रश्नोऽनिर्माते स जातिपरिप्रश्नः युगपदयुगपदिति, युगपदयुगपद्भाविविशेषेषु परमार्थस"30 त्खनुगततया वर्तमानमपि द्रव्यादि भवनलक्षणं न व्यभिचरतीत्यर्थः। भवतीति भव्यमिति, 'दवए दुयए दोरवयवो .विगारो गुणाणसंदावो। दव्वं भव्वं भावस्स भूअभावं च ज जोग्गं' इत्युक्तत्वाद्गणा रूपरसादयस्तेषां संद्रवर्ण संदावः समुदायो घटादिरूपो द्रव्यम् । कथं भवतीति, गुणपर्यायभाजनस्यैकरूपत्वात्कथं द्रव्यं भवतीति शंकार्थः । द्रव्यं हि मृत् स कथं 2010_04 Page #67 --------------------------------------------------------------------------  Page #68 -------------------------------------------------------------------------- ________________ ૮ द्वादशारनयचक्रम् [ विभ्यरे सप्रभेदाः अथवा पृथिव्यादय एवास्तिकाया विद्यमानकायास्ते यत्र यत्र युगपद्वर्त्तन्ते स तत्र युगपद्वृत्तिः कालः । यत्र चादानधारणेत्यादि यावन्निर्वृत्तिवृत्तिध्वयुगपद्वृत्तिरिति, यथोक्तम् 'आदानीया - यो मासास्त्रयो मासास्तु धारणाः । पाचनीयास्त्रयो मासास्त्रयो मासा निसर्जनाः ॥' इति, ईशान्याः पूर्व उत्तरः पूर्वोत्तरं च वायवः, शेषाः शोषकाः, अत्रापि प्रतिप्रक्रियमादित्यसन्तापाऽऽपीत सलिलधार6 णपाचननिसर्जनवत्, धूमज्योतिरसलिलमरुत्संघातमेघा दानधारणपाचन निसर्जनवत्, विस्रसापरिणतपुद्रलविकाराभ्रत्वादिवद्वा पुद्गलाविनाभावादेववैक्रियादेरपि आदानाद्धारणं धारणात् पाचनं पाचनान्निसर्जनं निसृष्टस्य सलिलस्य कार्याणि भूमिद्रवीभाववनस्पत्यौषधिप्ररोह पुष्पफलप्राणिशरीराऽऽध्यायनादीनि ततोऽपि कार्यान्तराण्याहार बलवपुःस्थामादीनि, घटपटादीनि च, निर्वृत्तीत्यादि, निर्वृत्तयः कार्याणि तासां निर्वृत्तीनां वृत्तिष्वयुगपद्वृत्तिः काल एव, तदुपष्टम्भजन्यत्वात्तेषां भावानामिति । 10 इदानीं भाव उच्यते स तु पूर्वोक्तेषु द्रव्यादिषु भवनं भाव इत्युक्तत्वादुक्त एव तद्दर्शयन्नाह - द्रव्याद्यपि तु युगपदयुगपद्वृत्तिभावा एवेत्युक्तवदेव, तथाभवनात्तेषाम्, अन्यथा वन्ध्यादिपुत्रवदभावत्वापत्तेः, नेष्यते च तेषामभावत्वं भावत्वमेवैषाम् भावश्च भवनसम्बन्धी घटादिवत् । भावोऽपि सर्ववस्तुतत्त्वव्यापी । " द्रव्यापि त्वित्यादि, 'गुणपर्यायवद्द्रव्यं' ( तत्त्वा० अ. ५ सू० ३७ ) इत्युक्तम्, गुणा 15 रूपादयः शिवकादयः पर्यायास्ते युगपदयुगपद्भाविनस्त एव भावाः, क्षेत्रकालौ द्रव्यमेव भवनसामान्याद्भाव एव वा, तस्मान्न तानि युगपदयुगपद्भाविभावव्युदासेन भवितुमर्हन्ति कथचिदपीत्युक्तवदेवेत्यतिदिशति-तथाभवनात्तेषामिति, तदेव भवनं हेतुत्वेन व्यापारयति - अन्यथेति, भवनसामर्थ्याभावे द्रव्यादीनां वन्ध्यादिपुत्रवदभावत्वापत्तेः, न सन्ति द्रव्यादीनि भवनशून्यत्वाद्वन्ध्यापुत्रवत्, पचमीनिर्देशात्तद्वैधर्म्येण भवनहेतुभा वितेनाह - नेष्यते च द्रव्यादीनामभावत्वं भावत्वमेवैषाम् भावश्च 20 भवनसम्बन्धी घटवत, अतो द्रव्यादीनि भवनसम्बन्धीनि भवनं द्रव्यादीन् व्याप्नोतीत्यत आहभावोऽपि सर्ववस्तुतत्त्वव्यापीति । अत एतानि घटादिवस्त्वात्मसामान्यपक्षग्राहिणाऽपि त्वयाऽवश्यापेक्ष्याणि प्रत्यक्षादेव तथात्मत्वात् दृश्यते एव हि द्रव्याद्येकरूपभवनसामान्यता, उक्तविधिना, किमु पर विषयमुख्यसामान्यवादेन । " 26 लक्षणः कालः पर्यायद्रव्य मिष्यते, तत्कालपर्यायेष्वनादिकालीनद्रव्योपचारमनुसृत्य कालद्रव्यमुच्यते, अत एव पर्यायेण द्रव्यभेदात् कालद्रव्यस्यानन्त्यम् । स च वर्तनादिरूपः कालो वर्तितुर्द्रव्यादनर्थान्तरभूत एव वर्तते, क्षेत्रं तु द्रव्यस्याधारमात्रमेव न 'वनर्थान्तरं तेन द्रव्यस्यान्तरङ्गः कालः क्षेत्रन्तु बहिरङ्गम् । गुणा इति, द्रव्ये तावन्नियमाद्भावः पर्यायोऽस्ति तद्रहितस्य द्रव्यस्य कापि कदाचिदप्यभावात्, द्रव्यभावौ क्षेत्रकालाभ्यां विना न संभवतः, द्रव्यं हि नियमात् क्वचित्क्षेत्रे ऽवगाढमन्यतरस्थितिमदेव भवतीति क्षेत्रकालाभ्यां विना द्रव्यभावौ क्वापि न भवतः, क्षेत्रे तु त्रयाणां भजना, अलोकेऽभावात् द्रव्य क्षेत्रभावेषु 30 कालो भजनया भवति, समयक्षेत्राद्बहिस्तदभावात् । द्रव्यं पर्यायाणामाधारोऽपि क्षेत्रे आधेयं भवति, भावोऽप्याधेय आधारथ कालस्य क्षेत्रमाकाशमाधार एव कालस्त्वाधेय एव । व्यावर्णितरूपेण तु क्षेत्रकालौ द्रव्यत्वादाधारी भावत्वाच्चाधेयावपि । हेतुत्वेनेति व्यतिरेकमुखेनेत्यर्थः । पञ्चमीनिर्देशादिति, तथाभवनादिति पञ्चमीनिर्देशादिति भावः, भवनप्राधान्य 2010_04 Page #69 -------------------------------------------------------------------------- ________________ द्रव्यादेविशेषणैकता] न्यायागमानुसारिणीव्याख्यासमेतम् अत एतानीत्यादि यावदपेक्ष्याणीति, एतस्मात् प्रतिपादितोपपत्तिबलाव्यादीनि भावपर्य- . न्तानि भवनप्राधान्यप्रत्याख्येयानि तस्माद्धटादिवस्त्वात्मसामान्यपक्षग्राहिणाऽपि स्वविषयसामान्यवादिनेत्यर्थः, अपि शब्दाचाऽऽग्रहरक्तमनसाऽपि सता त्वयाऽवश्यापेक्ष्याणि सारमारसितव्यानीत्यर्थः, किं कारणं ? प्रत्यक्षादेव तथात्मत्वात् , दृश्यत एव हि द्रव्याघेकरूपभवनसामान्यता उक्तविधिना किमु परविषयमुख्यसामान्यवादेनेति । - द्रव्यादीनां परस्परभिन्नानां समानभवनान्मुख्यं सामान्यं लौकिकम् , न तु सादृश्यानुप्रवृत्तिव्यावृत्त्यादि मुख्यम् , सामान्यलक्षणस्यादृष्टत्वात् प्रत्यक्षत एव तथा तथा परविषयस्य सामान्यस्य भवनात् सर्वतंत्रसिद्धान्तेन निरुक्तत्वाच्च परेण समानेन भूयते समानभावः सामान्यं यद्भवन्ति सर्वभावाः स तेषां भाव इति । (द्रव्यादीनामिति) द्रव्यादीनां परस्परभिन्नानां समानभवनान्मुख्यं सामान्यं लौकिकं 10 विविधसामान्यवादिव्यवहारनयानुयायित्वात् , न तु यथा सांख्यादिषु सादृश्यान्यापोहतत्त्वादि प्रमाणविरुद्धं तदुपवर्णितं भवितुमर्हति मुख्यम् , सादृश्यानुवृत्तीनां लोके समानेन भूयत इति सामान्यलक्षणस्यादृष्टत्वात्, दृष्टत्वाचास्मदिष्टस्य लौकिकस्य सामान्यस्येत्यत आह प्रत्यक्षत एव तथा तथा परविषयस्य सामान्यस्य भवनादिति, तेन तेन प्रकारेण द्रव्यक्षेत्रकालभावापेक्षयुगपदयुगपद्धाविभावस्य रूपादिशिवकादिरूपस्य समानस्य भवनात् सर्वतंत्रसिद्धान्तेन व्याकरणेन लोकानुवृत्तिना निरुक्तित-15 स्वादिवादिनाप्याह परेण समानेन भूयत इति, समानो भवतीत्यर्थः, समानभावः सामान्यं यद्भवन्ति सर्वभावाः स तेषां भाव इति स्वार्थिको भावप्रत्ययः, स्वभावसम्बन्धार्था चात्र कर्तृलक्षणा षष्ठी तेषां भाव इति, यथा शिलापुत्रकस्य शरीरमिति । एवं सामान्य व्याख्यायेदानी तदर्थानुसारेणानुमानमाह तथा च ते सर्वस्यास्य जगतो द्रव्यदेशकालभावापेक्षया तेन तेन प्रकारेण विशेषण-20 कता, द्रव्यं क्षेत्रेण कालेन भावेन विशेष्यते द्रव्येण क्षेत्रमितरौ च, एवं तैस्तदभूत् परस्सरतश्च ते । तथा चेत्यादि यावद्विशेषणैकता, तथा चेत्येवं च कृत्वा प्रतिपादितपरस्परभेदस्य ते परस्पर प्रत्याख्येयानीति, भवनं प्रधानीकृत्य व्याख्येयानीत्यर्थः, समानभवनादिति, अनेकधर्मात्मकानां वस्तूनां मृन्मृदित्यभिमबुद्धिशब्दद्वयप्रवर्तकः समानपरिणामः सामान्यम् , तुल्यज्ञानपरिच्छेद्यवस्तुरूपस्यास्यैव सामान्यभावोपपत्तेः समानानां 25 भाषः सामान्यमिति यत् तत्समानस्तथा भूयते इत्यन्वर्थयोगात् , समानत्वं च भेदाविनाभाव्येव, तदभावे सर्वथैकत्वात् समानत्वानुपपत्तेरिति मुख्यत्वमेतस्य । यत एवासौ समानपरिणामोऽत एव न वृत्तिविकल्पप्रयुक्तदोषसम्भावना, तथाविधपरिणाममेदेऽपि प्रतिविशेष समानपरिणामसामर्थ्यादेव समानबुद्धिशब्दप्रवृत्तिः। सादृश्येति, सांख्यमते सादृश्यमेव सामान्य बौद्धमतेऽन्यापोहो वैशेषिकमते तत्त्वं तस्यासाधारणो धर्मः सामान्य बोध्यम् , सामान्यध्वेषु समानेन भूयत इति समानभवनलक्षणं सामान्यं न सम्भवति, एकान्तनित्यत्वादिति भावः, परेणेति, द्रव्यादिनेत्यर्थः समाना द्रव्यादयस्तेषां भवनं सामान्यं 30 द्रन्यादयो हि भवन्ति, अतो द्रव्यादीनां भाव एव सामान्यं भवनमपि द्रव्यादिखरूप एवेति कृत्वा खरूपलक्षणामेदो द्रव्यादिभव. नयोः सम्बन्धस्तदपेक्षया च षष्ठीति भावः। द्रव्यं क्षेत्रेणेति, द्रव्यस्य क्षेत्रकालभावाः विशेषणानि व्यावर्तकत्वात् तथैव क्षेत्र 2010_04 Page #70 -------------------------------------------------------------------------- ________________ २० द्वादशारनयचक्रम् [विण्यरे सम्बन्धैक्यापत्तौ च सर्वस्यास्य जगतो द्रव्यदेशकालभावापेक्षया तेन तेन प्रकारेण विशेषणैकता द्रव्यं क्षेत्रेण कालेन भावेन विशेष्यते द्रव्येण क्षेत्रमितरौ च । एवं तैस्तदभूत् परस्परतश्च ते। .. यथाङ्गुलिर्वक्रप्रगुणताद्ययुगपद्भाविभावैरूपादियुगपद्भाविभावैर्देशेन द्रव्यान्तरैश्च विशेप्यते तथैकमपि वस्तु न केनचिन्नाभिसम्बद्ध्यते तथा तथा विशेष्यते च तद्भेदत्वसम्बन्धत्वाभ्याम् । ... (यथेति) यथाङ्गुलिर्वक्रप्रगुणताद्ययुगपद्भाविभावै रूपादियुगपद्भाविभावैर्देशेन तद्रव्यान्तरैश्च विशेष्यते अङ्गुलिर्वका ऋज्वी प्रदेशेऽस्मिन्नाकाशस्य वर्त्तते प्रदेशिनी अधुनेत्यादि, तथैकमपि वस्तु घटपटादि न केनचिन्नाभिसम्बद्ध्यते तथा तथा विशेष्यते च तद्भेदत्वसम्बन्धत्वाभ्याम् । प्रयोगश्चात्र द्रव्यादिविशेषणेन सम्बन्धी घटः, वस्तुभेदत्वे सति तत्सम्बद्धत्वात् , विकचसुरभिशरनीलोत्पलषत् , विकचमुकुलितादि क्षेत्रविशेषणम् , सुरभिनीलादि सहक्रमभाविभावविशेषणम्, शरदिति कालविशेष: णम्, उत्पलमिति द्रव्यम् , तदपि तेषां विशेषणमेव, व्यवच्छेदकत्वात् । है एवमनेकत्वसामान्यमापाद्य प्राक् प्रतिज्ञातं परविषयतायामप्यसमानावस्थानादसामान्यं परेषामिति तदर्शयति तत्रान्यस्य कस्यचिदपोह्यस्य सदृशस्य तत्तत्त्वस्य वा समानस्याभावात् सामान्यानुपपत्तिः। 15 (तत्रेति) एवमापादितपरस्परविशिष्टैकत्वस्य जगतो घटैकत्वमात्रेऽर्थान्तराभावात् कुतोऽर्थान्त रापोहलक्षणं विद्वन्मन्याद्यतनबौद्धपरिक्षिप्तं सामान्यम् , कुतो वा समानं दृश्यत इति सदृशं सदृशभावः सादृश्यमिति सादृश्यलक्षणं सामान्यं सदृशस्य तस्याभावात् । कुतो वा तत्तत्त्वम् ? तस्य भावस्तत्त्वं तत्तत्त्वमस्य तत्तत्त्वं तत्तु भिन्ने भवति समानानेकार्थानुवृत्तिलक्षणं सत्त्वद्रव्यत्वगुणत्वकर्मत्वादि । __स्यान्मतं परस्परविशिष्टैकत्वादेव तत्समुदायः परविषयसामान्यमिति तदयुक्तम् , उदित20 दोषानुबद्धैकसर्वत्वात् स्वविषयसामान्यापत्तेर्वा । ., . (स्यान्मतमिति) स्यान्मतं परस्परविशिष्टैकत्वादेव तत्समुदायः परविषयसामान्यमिति एत. चायुक्तमित्यत आह-उदितेति, यदुक्तं प्राक् ‘स हि तत्समुदायकार्यत्वात् सामान्यमि'त्यत्र, 'एवं सत्यात्मभेदः सुखं सुखश्च सुखादिसमुदयश्च तदात्मत्वादेवं शेषावपी'त्यादि याव सामान्यविशेषयोश्च तत्सम्बन्धित्वादेकतराभ्युपगमे विशेषपक्षापत्तिरपी'ति, स्वविषयसामान्यापत्तेर्वेति, वाशब्दो विकल्पार्थः, कालभावानां द्रव्यमपि विशेषणं क्षेत्रकालभावा अमी द्रव्यस्य सम्बन्धिनो नान्यस्येति व्यावर्तकत्वात् , एवमिति क्षेत्रकालभावै. र्यथा द्रव्यस्य भवनं तथा क्षेत्रकालभाषा अपि परस्परं भवन्तीति भावः, यथालिरिति, अङ्गुलिर्द्रव्यं वक्रत्वमृजुत्वश्च भावः, प्रदेशेऽस्मिन्निति क्षेत्र प्रदेशिन्यधुनेति काल इति विशेषणत्वं द्रव्यस्य । अर्थान्तरापोहलक्षणमिति, बौद्धमते सामान्यस्यान्यापोहरूपतयाऽन्यस्यैवाभावे कुतस्तदपोहलक्षणं सामान्यं भवेत् , सांख्यमते सदृशवस्त्वन्तराभावे कुतस्तद्धर्मलक्षणं सादृश्य भवेन्नैयायिकमते च समानस्याभावेन तस्य भावरूपं सामान्य कुतो भवेत् जगतः परस्परविशिष्ट घटै कमात्रत्वात् ,समानानेकार्था30 नुवृत्तिलक्षणं सत्त्वद्रव्यत्वादि भिन्ने समानानेकार्थलक्षणे वस्तुनि सति भवतीत्यन्वयः, अनेकसमवेतलक्षणत्वात्सार तेति, प्रागुदितो यो दोषस्तेनानुबद्धमिदमेकसर्वत्वमित्यर्थः एतदेवाह-यदुक्तं प्रागिति, स्वविषयेति स्वविषयं यत्सामान्य तत्रोपन्यस्तानामापत्तीनामत्रापि प्रसङ्ग इति भावः। परस्परविशिष्टकरूपाणामनेकेषां समुदायस्य तथाविधैकैकापेक्षया सामान्यत्वे _ 2010_04 Page #71 -------------------------------------------------------------------------- ________________ प्रतिभिन्नार्थसिद्धि] न्यायागमानुसारिणीव्याख्यासमेतम् २१ खसामान्यपक्षाभिहितसर्वपूर्वोत्तरपक्षविकल्पप्रदर्शनार्थः, द्रव्यं द्रव्यश्च द्रव्यादिसमुदयश्चेत्यादिविकल्पजातं सर्वमिहापि भवता योज्यम् । तथा सहातसमवस्थानभेदाद्वा घटपटवदत्यन्तभेद एव सर्वार्थानाम् , तथाहि किं परमाण्वादीनां घटो भवति ? घटस्य वा कपालानि ? इति कः सम्बन्धः । . (तथेति) यदि सङ्ग्रहनयदर्शनेनोक्तमेकमिति सत्यमुक्तं तत्तु संघातेनावस्थितानां नोपपद्यते । दृष्टविरुद्धत्वादित्यभिप्रायः, ततः किमिति चेत्तथाहि एवश्च कृत्वा किं परमाण्बादीनां घटो भवति घटस्य वा कपालानीति, कः सम्बन्धो न कश्चिदित्यर्थः, घटस्य वा कपालानीति तद्विनाशजन्यस्याप्यसम्बन्धं दर्शयति, आदिग्रहणात् व्यणुकश्यणुकादीनां ग्रहणम् । . अन्यत्र संघातसमवस्थानभेदात् समवस्थानकृतएव तेषां सम्बन्धस्तथा च समानं भवन्ति ते, स्थान्मतमेवं व्याख्यातुस्तवैव मतेन परस्परविलक्षणानामर्थानां भेदादेवानवस्थानं प्राप्तम् , द्रव्यादि-10 भेदमिन्नानामन्योऽन्यनिरपेक्षाणां संघातसमवस्थानाभावात्, अत्रोच्यते... अनवस्थाने वा नित्यप्रवृत्तत्वात् सर्वार्थानां समयमपि तथा समवस्थानं नास्ति यथा समानता निरूप्येत । (अनवस्थाने वेति) परस्परनिरपेक्षोत्पादविनाशत्वादित्यर्थः, एवं सर्वैकभिन्नयोः सामान्याभाव उक्तः। . पक्षान्तरेऽपि वक्तकामो प्राहयति___अथान्तरेण रूपप्राप्तिं नोक्तिप्रत्ययौ दण्डिवदिति व्यक्तिभिन्नाऽर्थसिद्धिरिष्यते, .. अथान्तरेण रूपप्राप्तिमित्यादि यावसिद्धिरिष्यत इति, अन्तरेणैकरूपम्माप्ति भेदरूपप्राप्तिं वा नोक्तिप्रत्ययौ दण्डिवदिति, नागृहीतविशेषणा विशेष्ये बुद्धिरुत्पद्यते, विशेषप्रत्ययानामनाकस्मिकत्वाच दण्डनिमित्तदण्डिप्रत्ययाभिधानवत्, दण्डोऽस्यास्तीति दण्डीत्यत्र हि दण्डसंयोगनिमित्तौ 20. देवदत्ते दण्ड्युक्तिप्रत्ययो यथा दृष्टावेवं द्रव्यत्वघटत्वादिसामान्यविशेषसमवायनिमित्तौ द्रव्यघटापरस्परविशिष्टैकस्य द्रव्यत्वेन तस्य द्रव्यत्वं द्रव्यसमुदायत्वञ्च प्राप्तं तदात्मत्वादित्येवं योज्यमित्याशयेनाह-द्रव्यं द्रव्योति, नोपपद्यत इति, भिन्नभिन्नसंघातानां घटपटादीनां सङ्ग्राहकरूपाभावेन न तनयेनाप्यैक्यं, अत्यन्तमेदात्तेषां, सति हि सामान्य संघाताम्तर्गत एष स्यात्, न तु भिन्नसंघातता, तथा च परमाणूनां घटस्य विभिषसंघातत्वात् परस्पर सम्बन्धो न स्यादिति भावः । अन्यत्रेति, यत्र संघातेन समवस्थितानां मेदसत्र मा भूत्सम्बन्धः, यथा घटपटयोः, मिनसंघातत्वात् , यत्र तुसंधा-20 तमेदो नास्ति यथा परमाण्वादिघटयोः, घटकपालयोर्वा तत्र समवस्थानकृतः सम्बन्धोऽस्तीति तत्र सामान्यं सम्भवतीति पूर्वपक्षाशयः,संघातमेदस्थलेऽनवस्थानं त्वयाभ्युपगतं भवतीत्याशयेन समाधत्ते स्यान्मतमित्यादिना। नित्यप्रवृत्तत्वादिति, पदार्थानां निरन्तरमुत्पादविनाशव्यापारनिरतत्वात् स्थित्यभावः स्थितिस्वीकारे क्षणिकताभङ्गात् , स्थितेरभावे चेदमनेन समानस्मिति निरूपणासम्भवः, इदमिति निर्देशसमय एव तस्य विनाशात् , आधारस्यैवाभावेन समानता क स्थाप्येतेति भावः । सर्वैकभिन्नयोरिति,एकस्य सर्वात्मकत्वेऽपराभावात् सर्वेकरूपाणां नानात्वे परस्परसम्बन्धाभावादनषस्थानाच न समानभाव इति भावः180 एकरूपप्राप्ति-सामान्यरूपता, भेदरूपप्राप्तिं विशेषरूपता, नाग्रहीतेति. विशेषणग्रहमन्तरेणेत्यर्थः विशिष्टबुद्धी विशेषणज्ञानस्य कारणत्वाभ्युपगमादित्यर्थः। यथा दण्डिप्रत्ययो दण्डपुरुषसंयोगैर्विना नोपपद्यते नहि स दण्डपुरुषमात्रभावी भवितुमईति, सर्वदा तत्प्रत्ययप्रसङ्गात्, अतो दण्डपुरुषव्यतिरिक्तः कश्चन संयोगोऽर्थः सिख्यति तथा व्यक्तिभिन्ना सामान्यलक्षणार्थसिद्धिर. भ्युपगम्यत इति पूर्वपक्षाशयः। द्रव्यघटायुक्तिप्रत्ययाविति, तथा च प्रयोगः द्रव्यघटादिषु म्यघटायभिधानप्रशानवि 2010_04 Page #72 -------------------------------------------------------------------------- ________________ द्वादशारनयचक्रम् [विध्यरे युक्तिप्रत्ययौ स्याताम् , नान्यथा, व्यक्तिभिन्नाऽर्थसिद्धिरिष्यत इति, उक्तिप्रत्ययाभ्यां द्रव्यघटादिव्यक्तितो भिन्नस्य द्रव्यत्वघटत्वादेरर्थस्य सिद्धिरिष्यते, एवं गुणकर्मगवाश्वसंख्योत्क्षेपणादिव्यक्तिभिन्नतत्तत्वार्थसिद्धिरेषितव्या, भिन्नेष्वर्थेष्वभिन्नोक्तिप्रत्ययदर्शनादिति । अत्रोच्यते5. तन्न, अन्यतोऽपि तयोः सिद्धेः, तौ हि कस्मिंश्चिदेवाऽऽकारादिमात्रे, अन्यथाऽऽकाशादिषु विनाऽनुवृत्त्या कुतोऽभिधानप्रत्ययौ ? दृश्येते चात्रापि तौ, तस्मानास्ति सामान्यम् । तन्नेति, अपिशब्दान्नियमाभावेन लोकसिद्धं नामादिकमप्युक्तिप्रत्ययकारणमाह-कयोः सिद्धिः? उक्तिप्रत्यययोः, तन्नियमाभावं दर्शयति-तौ हि कस्मिंश्चिदेवाकारादिमात्रे, आदिग्रहणान्नाममात्रे, आकरणमाकारः, बुद्ध्या यो यथा परिगृह्यतेऽर्थः नाना वा निर्दिश्यते स एव तस्याकारः, स च ताव10 मात्रो न ततोऽधिको यथाऽऽकाशं डित्थ इति वा, अन्यथाऽऽकाशादिषु विनाऽनुवृत्त्याऽऽकाशकालदिशां त्वन्मतेऽप्येकत्वात् , कुतो भिन्नेष्वभिन्नाभिधानप्रत्ययौ ? कुतो वाऽऽकाशादीनि तत्तत्त्वानीति, दृश्येते चात्राप्युक्तिप्रत्ययौ तस्मानास्ति सामान्यम्, घटत्वादिसामान्योपचारात्तेष्वभिधानप्रत्ययाविति चेन्न मुख्यसामान्यासिद्धेः, साधाभावाच्चोपचाराभावात् , तत्त्वपरीक्षायामुपचारस्यावकाशाभावात् , मिथ्याभिधानप्रत्ययत्वप्रसङ्गादाकाशादिष्विति । 16 किश्चान्यत् सामयिकत्वाच्छब्दार्थप्रत्ययस्य तौ लोकवृद्धव्यवहारात्मको लोकवृद्धव्यवहारं दृष्ट्वा बालानामभिधानप्रत्ययौ भवतः, न तत्त्वानुवृत्तिव्यावृत्तिकृतौ, लोकस्य तत्तत्त्वाघज्ञानात्। __ (किश्चान्यदिति) समयाय प्रभवति समयः प्रयोजनमस्य समयभवो वा सामयिकः, यथोक्तम् 'सामयिकः शब्दादर्थप्रत्ययः' (वै० अ. ७ आ० २ सू० २०) इति, न सामान्यनिमित्त20 इति, तौ चाभिधानप्रत्ययौ लोकवृद्धव्यवहारात्मकौ, लोकवृद्धव्यवहारं दृष्ट्वा बालानामभिधानप्रत्ययो भवतः, शिक्षितविचित्रशास्त्रव्यवहाराणामप्यन्वयव्यतिरेकात्मकाद्वृद्धव्यवहारादेव, न तत्त्वानुवृत्तिव्यावृत्तिकृतौ, लोकस्य तत्तत्त्वाद्यज्ञानात्, न तत्तत्त्वात् तत्तत्त्वज्ञानं तेषाम् । स्थान्मतम्-'संज्ञाकर्म त्व शेषाः समयाकृतिपिण्डरूपादिव्यतिरिक्तनिमित्तनिबन्धनाः तथाविधाभिधानप्रत्ययत्वात् , दण्डनिमित्तदण्डिप्रत्ययाभिधानवदिति यन्निबन्धनावभिधानप्रत्ययौ तदेवसामान्य व्यक्तिभिन्नमिति, न च निर्निमित्तौ तो, आकस्मिकत्वापत्तेः, सदा भावस्याभावस्य 28 वा प्रसझात् । तावेतो प्रत्ययाभिधानी संकेताकारपिण्डादिभ्य एव भवतोऽन्यथा सामान्याभावेनाऽऽकाशादावभिधानप्रत्ययौ न भवेताम् , न चाकाशादौ घटत्वादिसामान्यस्य परम्परासम्बन्धेन सत्त्वादभिधानप्रत्ययौ भवतः, अवैलक्षण्यापत्तेः, न कविबयाणां बहूनामपि प्रत्ययानां वैलक्षण्यमस्ति, अन्यथा रूपरसादिप्रत्ययानामपि नानाविषयत्वं न स्यादित्याशयेनाह-अन्यतोऽपि तयोरित्यादि । बुद्ध्येति, बुद्धौ केवलं नीलाद्याकारस्यैव प्रतिभासात् नाम्ना च नीलादिवस्तुन एव प्रतीतेर्न ततो व्यतिरिक्त सामान्यमस्ति, अन्यथाऽऽकाशमिति डित्थ इति न प्रत्ययोक्ती स्याताम्, तत्र सामान्यस्य भवताऽनभ्युपगमादिति भावः। 30 सामायिक इति, समयः संकेतः, अस्माच्छब्दादयमों बोद्धव्य इत्याकारः, यः शब्दो यस्मिन्नर्थे संकेतितः स तमर्थ प्रतिपादयति, तथा च शब्दार्थयोः संकेत एव सम्बन्धः स एव समयस्तदधीनो न सामान्यायधीन इत्यर्थः । लोकवृद्धति, लोके यो वृद्धः तयवहारात्मकावित्यर्थः, यथा प्रयोजन घटमानयेत्युक्त प्रयोज्यस्य कम्घुग्रीवावन्तमर्थमानयतो ज्ञानं तावदनु नोति तटस्थो बालः, इयमस्य प्रवृत्तिर्ज्ञानजन्या प्रवृत्तित्वान्मत्प्रवृत्तिवदिति, तच्च ज्ञानमेतद्वाक्यजन्यमेतदनन्तरभावित्वात् , एतज्ज्ञानविषयोऽयं कम्बुप्रीवावानर्थो घटपदवाच्य इत्याद्यावापोद्वापक्रियया बालस्य घटपटादावर्थे प्रवृत्तिः । संक्षाकर्मति, ___ 2010_04 Page #73 -------------------------------------------------------------------------- ________________ समयप्रत्याख्यानम्] न्यायागमानुसारिणीव्याख्यासमेतम् स्मद्विशिष्टानां लिङ्गम् , प्रत्यक्षप्रवृत्तत्वात् संज्ञाकर्मणः' (दै० अ० २ आ० १ सू. १८-१९) इत्युक्तं शास्ने, तस्मान्मन्वादयोऽन्तरालप्रलय महाप्रलयेषु व्युच्छिन्नव्यवहाराणामपि शब्दार्थानां सम्बन्धं पश्यन्ति तस्माद्धटघटत्वसमवायसम्बन्धोऽपि सामयिकोऽस्यायं वाचक इति यथाऽयं पनस इति समयं प्रायते बाल इत्येतच्चायुक्तम् , अनवस्थाप्रसङ्गात् , येन शब्देन समयः क्रियते तस्यान्येन कार्य इत्यनुषक्तः, उत्तरस्यार्थाप्रतीतौ स्वसमयो न प्रकल्प्यते, तत्समयानपेक्षा स्वाभाविकी, यस्पार्थे वृत्तिः स नित्य इति च, शब्दार्थसम्बन्धपरिज्ञानप्रयोगव्यवहारपरम्पराया अव्यवच्छेदात् । यथाऽऽह पतञ्जलिः 'अथवा नेदमेव नित्यलक्षणं ध्रुवं कूटस्थमविचाल्यनपायोपजनविकार्यनुत्पत्त्यवृद्ध्यव्यययोगि यत्तन्नित्यमिति, तदपि नित्यं यस्मिंस्तत्त्वं न विहन्यते, किं पुनस्तत्त्वं ? तस्य भावस्तत्त्वम्, आकृतावपि तत्त्वं न विहन्यते' (पातञ्जलमहाभाष्ये अ० १ पा. १ आह्निक १ ख. २) समयप्रत्याख्यानवत् प्रतिपादनप्रत्याख्यानातिदेशो वृद्धव्यवहारादाकारादिमात्रे प्रतिपत्तेरित्यदोषाय, न शब्दादेवेति वक्ष्यमाणत्वात् । 10 तत्त्वसम्बन्धादृतेऽप्यभिधानप्रत्यययोः प्रवृत्तिं दर्शयन्नाह तथा ह्यन्तरेण तत्त्वं द्रव्यं समवायश्चाद्रव्ये आकाशादावनेकद्रव्ये आ अन्त्यावयवि. द्रव्यात् कुड्यलिखिते क्रीडनके चोक्तिप्रत्ययौ दृष्टौ, न भवेदेतत्तत्त्वमात्रेऽपि त्वाकारमात्रे । तथा ह्यन्तरेणेत्यादि, तत्त्वं द्रव्यं समवायश्चेति, द्रव्यञ्च द्विधा अद्रव्यमनेकद्रव्यश्च, अद्रव्ये त्वाकाशादौ तत्त्वाभावेऽप्युक्तिप्रत्ययबुद्धिः । अनेकद्रव्यमारब्धद्रव्यं तच्च समवाय्यसमवायि-15 कारणैरारभ्यते, समवायिकारणं घटस्य कपालानि, असमवायिकारणं तत्संयोगाः, आङिति च विध्युपायमर्यादासङ्ग्रहार्थः, को विधिः ? स्वतः स्वात्मनि च, क उपायः ? संयोगादिनिमित्तान्तरसहितानि, का मर्यादा ? आ अन्त्यावयविद्रव्याद्रव्याणि द्रव्यान्तरमारभन्ते विनाशोऽपि कारणविभागात कारणविनाशाद्वा, तत्र छिद्रपूर्ण घटे कारणविभागानुत्पन्ने संयोगाभावादारब्धद्रव्याभावेऽपि घटाभिसंज्ञा-नाम, कर्म-कार्य क्षित्यादि, तदुभयमस्मद्विशिष्टानामीश्वरमहर्षीणां सत्त्वे लिङ्गम् , कथमेतदित्यत आह-प्रत्यक्षप्रवृत्त- 20 त्वादिति, संज्ञाकर्मण इति समाहारद्वन्द्वादेकवद्भावः, यस्य हि खर्गापूर्वादयः प्रत्यक्षाः स एव तत्र खर्गापूर्वादिसंज्ञाः कमीष्टे, प्रत्यक्षे चैत्रमैत्रादिपिण्डे पित्रादेश्चैत्रमैत्रादिसंज्ञानिवेशनवदिति भावार्थः। अनवस्थेति,ते मन्वादयो येन शब्देन प्रकृतशब्दार्थयोस्संकेतं ग्राहयन्ति तच्छब्दस्यापि संकेतो प्राहयितव्यस्तैः तत्संकेतस्याप्यन्येन तस्याप्येवमन्येनेत्यनवस्था, तत्परिहारार्थ यस्य कस्यापि शब्दस्य समयानपेक्षा स्वाभाविकी नित्या वृत्तिरिष्यते तर्हि सर्वेषां शब्दाना तथैवास्तु किं समयेन, प्रलयस्य च निष्प्रमाणत्वेन शब्दार्थसम्बन्धपरिज्ञानप्रयोगव्यवहाराणां परम्पराया न व्यवच्छेद इति भावः । अथावयवसंस्थान-25 रूपाया जातिव्यझिकाया आकृतेर्यावश्यवहारकालं मध्ये मध्ये उत्पत्तौ नाशेऽपि प्रकारान्तरेण पतञ्जलिकृतनित्यत्वमाह,अथवेति, : नित्यत्वलक्षणे ध्रुवपदस्यैव व्याख्यानं कूटस्थमिति, रूपान्तरापत्तिर्विचालः यथा पयसो दध्यादिरूपता, अनेन परिणामानिस्यता परास्ता । उत्पतेः सत्तापर्यन्तत्वादनुत्पत्तीत्यनेन जन्मसत्तारूपौ भावविकारौ निरस्ती, अवृद्धीत्यनेन तृतीयो वृद्धिलक्षणः, उपजनेति चतुर्थः परिणामः, अनपायेति पंचमोऽपचयः एतद्रूपविकाररहितमिति तदर्थः, अव्ययेति षष्ठो विनाशः, इदश्च ब्रह्मविषयं नित्यत्वं यावश्यवहारमेकरूपस्थितपदार्थविषयञ्च, अयमेव न नित्यशब्दार्थः प्रवाहाविच्छेदेऽतादृश्यपि नित्यत्वव्यवहा- 30 रादित्यत आह तदपीति, यस्मिंस्तत्त्वमिति, यस्मिन् विहतेऽपि तद्वृत्तिधर्मो न विहन्यत इत्यर्थः, प्रवाहनित्यता चानेनोक्ता, तमाशेऽपि तद्धर्मो न नश्यति, आश्रयप्रवाहाविच्छेदादिति भाष्यटीका । जायतेऽस्ति वर्धते विपरिणमति अपक्षीयते नक्ष्यतीति षड् भावविकाराः। अन्तरेणेति, द्रव्यद्रव्यत्वसमवायमन्तरेणेत्यर्थः स्वतः खात्मनि चेति अंत्यावयविद्रव्यादधः, अन्त्यावयविद्रव्ये चेत्यर्थः । छिद्रपूर्ण इति, उत्पन्ने घटे छिद्रानन्तरं पुनः समीकृते कारणविभागात् पूर्वघटविनाशव्यतिरेकेण 2010_04 Page #74 -------------------------------------------------------------------------- ________________ बादशारनपचक्रम् [विन्दरे धोनप्रत्ययौ दृष्टौ, तथा कुड्यलिखिते समवाय्यसमवायिकारणाभावेन, शिशूनाञ्च क्रीडनकेऽलाबूपाषाणादौ सद्भावासद्भावस्थापनाकृते, न भवेदेतत्तत्त्वमात्रेऽपि त्वाकारमात्रे,-संस्थानमात्रे-सादृश्यमात्र इत्यर्थः। तौ च तत्र तत्त्वस्योपनिलयनात् कृताविति चेत्तत्र तत्त्वाभाव उक्तः, सत्यपि च तत्त्वेडस्मदिष्टाकारमात्रत उक्तिप्रत्ययौ चोक्तौ, अथाप्याभासमात्रे तत्त्वोपनिलयनमिष्यते त्वया ततः स्थाणुमृगतृष्णिकयोर्नरसलिलत्वप्रसङ्गः, तत्र तदभिधानप्रत्ययसद्भावात् , तत्तत्त्वोपनिलय. नाच्च, घटत्वोपनिलयनाद्धटवत् , अनुपनिपाते नरसलिलोक्तिप्रत्ययौ मा भूताम् , तौ च दृष्टौ कथमगृहीतविशेषणत्वान्नरत्वसलिलत्वानुपनिपातेन युक्तौ, तत्रोपचारलभ्यौ हि तौ, इह तु लोकनये विनोपचारेण लभ्यौ, कथमिति चेत् १ अनुपचरितकिश्चिद्भूताकारात्तु किश्चिदु१०क्तिप्रत्ययौ स्याताम् , आकारस्यासम्पूर्णस्य दृष्टत्वादेव, भवत्पक्षे पुनर्नहि तत्त्वं किञ्चिन्निलीनं किञ्चिच्चानिलीनमित्यस्तीति । ... (तौ चेति) अनुपनिपाते-नरत्वस्य स्थाणौ सलिलत्वस्य मृगतृष्णिकायाम् , तत्त्वस्य घटत्वस्य, स्याताम् भवितुमर्हतः (स्पष्टम्) ... एवं तावत् सामान्य विकल्पद्वये विचारितम् , विशेषोऽधुना विचार्यस्तत आह16. तथा विशेषोऽपि, तत्र यदि स्वविषयो विशेषविरोधः, यदि विशेषस्तत आत्मा न भवत्यन्यत्वाद्विशेषस्य, यदि घटादावात्मनि विशेषो वर्त्तते स्वविषयः तत आत्मनोऽन्यत्वाद्विशेषस्य रूपादेर्देशतो विशिष्यमाणस्य गुणतः प्रतिक्षणान्यान्योत्पत्ति विनंष्ट्रपुरुषादिषु कस्तदात्मा, अन्यथा घटादौ सामान्यापत्तेः तत्र चोक्का दोषाः। तथाविशेषोऽपीति, सोऽपि कल्पनाद्वयीं नातिवर्त्तते स्वविषयः परविषयो वेति, तत्र यदि 20 स्वविषयो विशेषविरोधः, विशेषस्य विरोधो विशेषाभावापत्तेः, विशेषेण विरोध आत्माभावापत्तेः । किं वाड्मात्रेण ? नेत्युच्यते, यदि विशेषस्तत आत्मा न भवति, अन्यत्वाद्विशेषस्य, विशेषेण विरोधस्तावत् , यदि घटादावात्मनि विशेषो वर्त्तते स्वविषयः सत आत्मनोऽन्यत्वाद्विशेषस्य-रूपादेर्देशतः परस्परतो विशिष्यमाणस्येति, तदर्शयति गुणत इति, गुणतः कालतो वा प्रतिक्षणान्यान्योत्पत्तिविनंष्ट पुरुषादिषु कस्तदात्मेत्यात्माभावस्तदभावे कस्य विशेषः, अन्यथेति, रूपादीनां समुदायैक्यापत्त्यभ्यु25.जाते घटे कारणविभागानंतर संयोगादिक्रमेणानुत्पन्न इत्यर्थः । अनारब्धद्रव्यं हि म घटोऽपि तु आरब्धद्रव्यमेव थटो रष्टः, ततो नासौ घटः परन्तु तत्र घटाभिधानप्रत्ययौ दृष्टौ तौ न भवेतामिति भावः । कुज्यलिखित इति । कुण्यलिखिते घटादावाकारस्य सद्भावात् सद्भावस्थापना, अलाबूपाषाणादावाकाराद्यभावादसद्भावस्थापना घटस्य, तत्र युक्तिप्रत्ययो घटत्वादिसा. मान्यव्यतिरेकेणैव दृष्टाविति न तयोनिमित्तं सामान्यमिति भावः । अनुपचरितेति, स्थाणुमृगतृष्णिकयो रसलिलत्वबुद्धिस्तद्विपर्ययबुद्धिः, विपर्ययस्य च तस्यालम्बनं संवृतखाकारौ समुपात्तनरसलिलाकारौ स्थाणुमृगतृष्णिकावेव, अतोऽनुपचरितकिवित्तदाकारत्वात्तत्र नरसलिलोक्तिप्रत्ययो भवतः, न चैवं तावविपरीतौ भवत इति वाच्यम्, असंपूर्ण स्याकारस्य दर्शनात्, मेवं भवन्मते सम्भवति नरत्वसलिलत्वादेः संवतत्वासंवृतत्वानजीकारादिति. आभासे तत्त्वोपनिलयनस्वीकारे स्थाणुमृगतणिकयोर्नरत्वसलित्वप्रसङ्गो दुर्वार इति भावः। अन्यत्वाद्विशेषस्येति आत्मन एकत्वात् , विशेषस्य च नानात्वात् कथं विशेष भास्मेति विरोध इति । मेदेन घटादेः खत्वाभ्युपगमे घटामावादेव विशेषाभावं दोषमभिधाय योऽसौ घटात्मा तदेव खं स 2010_04 Page #75 -------------------------------------------------------------------------- ________________ २५ _____10 धात्मभेददोषप्रसङ्गः] न्यायागमानुसारिणीदवाण्यासमेतम् पसमे विशेषपक्षत्यागः सामान्यपरिग्रहश्चापद्यते, तत्र चोक्ता दोषाः सुखं सुखञ्च सुखादिसमुदयश्चेत्यादयस्त एवात्र रूपं रूपश्च रूपादिसमुदयश्चेत्यादयः । मा भूदात्माभावदोषस्तस्मिंश्चात्माभावे विशेषाभावदोष इति पक्षान्तरं यदि गृह्णीयात् अथाऽऽत्मा स विशेषस्ततो विशेषो न भवत्येकत्वादात्मनः। (अथेति) अथाऽऽत्मा स विशेषः, आत्मा एक एव स एवानन्य इति ततो विशेषो न । भवत्येकत्वादात्मनः-घटादेर्वस्तुनः, एकत्वादात्मनस्तत्त्वादित्यर्थः, अन्यो हि विशेषः । एतद्दोषपरिहारार्थमथोच्येत परेण नैकत्वान्यत्वविरोधदोषौ, आत्मैव विशेष इत्यनपादानादिप्रतिज्ञानादित्यत्रोच्यते प्रथमविकल्प आयातो विशेषस्य विरोध इत्यास्मनोऽन्यथाभवनादनात्मत्वमिति घटरूपादिपूर्वोत्तराधामभावस्तथा चोभयाभावः । (नेति) नैकत्वान्यत्वविरोधदोषौ, आत्मनो विशेष इति सम्बन्धापादानयोः षष्ठीपञ्चमीनिर्देशे भेदेनात्मनि विशेष इत्यधिकरणसप्तम्या निर्देशे वा स्यातामेतौ दोपी, किं तर्हि ? आत्मैव विशेष इत्यनपादानादिप्रतिज्ञानान्नैकत्वान्यत्व विरोधदोषौ ममेति । अत्रोच्यते यद्यात्मापेक्ष एव विशेष इति तत् प्रति उच्चारणं 'प्रथमविकल्प आयातो विशेषस्य विरोध' इति, अत्राप्ययं दोषः, एक एवान्य इत्यास्मनोऽन्यथाभवनादनात्मत्वं रूपादिरूपेण, किं वाड्मात्रेण ? नेत्युपपत्तिमाह-अन्यथा भवनादिति, तन्नि- 15 दर्शयति घटरूपादिपूर्वोत्तराणामभाव इति, स कथं ? अन्यान्यरूपादय एव भवन्तीति घटाभावस्तदभावे कस्य विशेषः, घट एव वाऽन्यथा भवतीति रूपाद्यभावः, ततश्चोत्तरेषां शिवकादीनां पिण्डावस्थातः पूर्वेषां च मृत्त्वादीनामभावः । अथवा घटतोऽन्यत् पटत्वं रूपतोऽन्यच्छब्दादित्वं तेन प्रकारेणान्यथाभवनावटाभावो रूपाद्यभावश्च, तथाचोभयाभावः-आत्माभावो विशेषाभावश्च, अथवा रूपायभावप्रापितो घटात्माभावो घटात्माभावप्रापितो रूपाद्यभाव इति । एतदनिष्टतायान्तु परापेक्षपक्षापत्तिः, तथापि द्रव्यभेदः प्रसक्तः परापेक्षत्वाद्विशेषस्य । एतदनिष्ठतायान्तु परापेक्षपक्षापत्तिरिति, घटादेरात्मनोऽन्यथाभवनादनात्मत्वं तेन च विशेषस्यात्मनश्चाभाव इत्युक्तविरोधदोपानभ्युपगमे परापेक्षपक्षः, परविषयो विशेषो न स्वविषय इलामः स किं नामको दोष इति चेत् स्वपक्षपरित्यागनामक उपचर्यते । एवमभ्युपगम्यमानेऽप्य 20 एव च विशेष इति स्वविषयो विशेष उच्यत इत्यत्र पक्षे दोषमाह-अथात्मेति । स एवानन्य इति, यदि विशेषो घट एवं 25 तीयमस्य विशेष इति सम्बन्धित्वेन धीन स्यात् , अनन्यत्वात् , धीद्वयमभ्युपगम्येदमभिहितम् । इदमस्माद्भिन्न मिति वाऽस्यामाझेद इति वाऽस्मिन् भेद इति वा न निर्दिश्यते येन पूर्वोक्तदोषप्रसङ्गो भवेत् किन्तु भेदस्य खरूपत्वात् स्वरूपप्रतीति रेव भेदप्रतीतिः तेन धीद्वयाभावाचोक्तदोष इत्याशते नैकत्वेति, अत्र पक्षे विशेषस्य विरोध इत्युक्तदोषो दुरुद्धर इत्याहअबोच्यत इति, दोषान्तरमप्याह-अत्राप्ययं दोष इति, नीलघटयोरभेद आत्मनो घटस्यापि विशेषस्य नीलादेरिव प्रतिक्षणमस्मान्यत्वापत्तेरात्माभावापत्त्या घटरूपाद्योः पूर्वोत्तरयोः सम्बन्धाभावेन धर्मधर्मिभावानुपपत्त्या निर्धर्मकस्य चाप्रसिद्धेः ३० परस्पराभावेवोभयाभाव एव स्यादिति भावः। सजातीयक्षणपरम्पराश्रयेणाह-अन्यान्यरूपादय एवेति, विजातीयक्षमपरम्परापेक्षयाऽऽह-घटतोऽन्यदिति । खपक्षपरित्यागनामक इति, स्वस्य यः पक्षः स्वापेक्षो विशेष इति तत्परिलासखामा द्वा० न०४ 2010_04 Page #76 -------------------------------------------------------------------------- ________________ २६ द्वादशारमयचक्रम् [विध्यरे यमपरो दोषस्तथापि द्रव्यभेदः, द्रव्यस्य घटादेरात्मनः स्वपररूपाभ्यां द्विधाऽऽत्मावस्थानं प्रसक्तम् , परापेक्षत्वाद्विशेषस्य । स्यान्मतम् पटाद्यवृत्त्यात्मक एव घटः पटाद्यपेक्षत इति चेत् का हि वृत्तिसहायकाहते सिद्धवृत्तेः 5 पटाद्यपेक्षा, प्रयोजनाभावात् , तथाऽऽत्मैवास्य भिद्येत, सहायापेक्षवृत्तित्वात् , शिबिकोद्वाहाऽऽत्मवृत्तिवत् । (पटादीति) पटाद्यवृत्त्यात्मक एव घटः पटाद्यपेक्षते, तन्नेत्युच्यते का हि वृत्तिसहायकाइते सिद्धवृत्तेः पटाद्यपेक्षा, वृत्तेः सहायकं वृत्तिसहायकं, घटवृत्तेः सहायभावं पटस्य मुक्त्वा खत एव सिद्धवृत्तेः पूर्वमेव घटस्य काऽन्योत्तरकाला पटाद्यपेक्षा ? नास्येवेत्यर्थः, किं कारणं? प्रयोजनाभावात् 10 तथाऽऽत्मैवास्य भिघेत, तेन प्रकारेण तथा, घटस्वरूपमेव भिद्येत सहायापेक्षवृत्तित्वात्, शिबिको. द्वाहात्मवृत्तिवत् । अथ पार्थिवत्वादस्ति घटस्य पटाद्यपेक्षेत्याह समानजातित्वादपेक्ष्यते घटेन पटः, सा पार्थिवत्वम् , घटात्मत्वाच्च विशेषः पटादेरिति चेद्विजातीयात्तर्हि विशेषाभाव उदकादेः, द्रव्यत्वाद्यपेक्षा तत्रापीति चेद्विजातीयाभ्यां गुणक15 मभ्यामविशेषः, तत्रापि सत्तापेक्षेति चेद्विजातीयात्तीत्यन्तासतः सतः, जातेरिवाजातेः। समानजातिवादपेक्ष्यते घटेन पटः का समानजातिः ? 'पार्थिवत्वम् , विशेषः कथमितिचेद्धटात्मत्वाद्विशेषः पटादेरिति, अत्रोच्यते विजातीयात्तर्हि विशेषाभाव उदकादेः-यदि समानजात्यपेक्षया विशेष इध्यते, एवं तीसमानजातीयादुदकादेर्घटस्य विशेषाभावः प्राप्नोति, अनिष्ट चैतत् , द्रव्यत्वाद्यपेक्षा तत्रापीति चेत्-द्रव्यत्वसामान्यापेक्षया घटस्योदकादेविशेषो भविष्यतीति चेत् ? 20 विजातीयाभ्यां गुणकर्मभ्यामविशेषः, न हि विजातीययोर्गुणकर्मणोर्द्रव्यत्वापेक्षाऽस्ति ताभ्यामपि च घटस्य विशेष इध्यते, तत्रापि सत्तापेक्षेति चेद्विजातीयात्तीत्यन्तासतः सतः, अविशेष इति वर्त्तते, एवमपि खरविषाणादेरत्यन्तासतो विशेषाभावः स्यादपेक्ष्याभावात् , किमिव ? जातेरिवाजातेः पार्थिव परापेक्षपक्षापत्तरित्यर्थः । कण्ठतः परित्यागस्यानक्तत्वादपचर्यत इत्युक्तम् । अत एव द्विधाऽवस्थानप्रसङ्ग उच्यतेऽ। स्वपर. रूपाभ्यामिति, विशेषस्य स्खविषयत्वात् परविषयत्वाच्च स्वरूपतः पररूपतश्चावस्थानं प्रसक्तमित्यर्थः, उभयापेक्षत्वादेवञ्च 25 घटादेः खात्मनि परात्मनि च वृत्तित्वप्रसङ्ग इति भावः, परात्मनि पटादाववर्तमानोऽपि घटः पटादिकमपेक्षत इति शङ्कते पटाद्यवृत्त्यात्मक इति, अन्यसाकांक्षस्वभावरहितस्य घटस्य विशेषत्वेऽन्यसाकांक्षतापत्ती खभावठयाघातापत्तेरिति भावः। पटादाववर्तमानोऽपि घटः समानजातित्वादेव पटमपेक्षत इत्याशंकते समानजातित्वादिति, एवं तर्हि पार्थिवत्वं सामान्यमेव स्यान्न विशेष इत्यात्राह घटात्मत्वाच्चेति, ननु ययोः समानजातिरस्ति तयोर्विशेषो भवतु ययोस्तु नास्ति समानजातियथा घटोदकयोः तयोः कथं विशेष इत्याशंकते विजातीयातहीति, अत्यन्तासतः सत इति, केनापि रूपेणासतो गगनकु10सुमादेव्यादेः सतोऽविशेषप्रसङ्गोऽनुगामुकधर्माभावादित्यर्थः । विजातीयातहीति, विजातीयादुदकादेर्घटस्य विशिष्टस्वा सम्भवनोदकाविशेषो भवेदित्यर्थः । अत्यन्तासतः सत इति, खरविषाणादितो द्रव्यगुणकर्मणामविशेषः स्यात् सदसतोरनु गतजात्यभावेनापेक्ष्यसमानजात्यसत्वात् यथा पृथिवीत्वादिजाते लत्वादिजात्यन्तराद्रटादिव्यत्यन्तराच विशेषाभावस्तथाऽ _ 2010_04 Page #77 -------------------------------------------------------------------------- ________________ अविशेषप्रसजनम् ] । न्यायागमानुसारिणीव्याख्यासमेतम् त्वजातेश्च भवसिद्धान्तेनापगतजातेर्जात्यन्तरापेक्षा नास्ति तस्यां कथं जात्यन्तरादुदकादेर्वा व्यत्यन्त. राद्विशेषो भवत्यपेक्षाऽभावात् । कार्याद्वा कथमिति भावाभावयोरविशेषः, एवं सत्त्वमेवाभावस्य भाववदसत्त्वमेव वाऽभावस्याभाववत् तथापि चोभयाभावः। (कार्यावति) कार्याद्वा कथं विशेष इति वर्त्तते, कार्यं हि भवत्सिद्धान्ते प्रागविद्यमानं । समवाय्यसमवायिकारणसान्निध्ये पश्चादुत्पद्यते "क्रियागुणव्यपदेशाभावात् प्रागसत्" (वै. अ. ९ आ. १ सू. १) इति सिद्धान्ताभ्युपगमात् कारणावस्थायां कारणानां कार्यस्यासत्त्वादेवापेक्षा नास्तीति विशेषाभावः प्राप्तः, निष्पन्ने चोपरतव्यापारावस्थायां सिद्धत्वात् कार्यस्य कारणानां कारणत्वाभावात् कार्यकारणविळेषाभावः, इति शब्दो हेतूपसंहारार्थः, इत्युक्तहेतुपारम्पर्याद् भावाभावयोरविशेषः' यथा पूर्वोक्तविधिना सतः सदसदाद्यपेक्ष्याभावाद्विशेषाभावः एवमसतोऽपि तदपेक्ष्याभावादविशेषः, 10 असतो वा काऽपेक्षा, एवं-अनयोरविशिष्टत्वात् सत्त्वमेवाभावस्य भाववत् , असत्त्वमेव वाऽभावस्याभाववत् तथापि चोभयाभाव:-भावाभावयोरभावः सामान्यविशेषयोरात्मविशेषयोर्वा घटादेरिति । एवं तावद्धटादेः पार्थिवत्वाद्यपेक्षा न युक्ता । अभ्युपेत्यापि तदपेक्षाम् पार्थिवत्वादितुल्यत्वाच्च तद्वत्तदात्मत्वम् , पार्थिवत्वात्मघटत्ववद्वा, तत्तत्त्वेनापेक्ष्य-15 त्वादिति विवेकयत्नार्थहानिस्ततश्चाविशेषः। (पार्थिवत्वेति) पार्थिवत्वादितुल्यत्वाच्च तद्वत्तदात्मत्वं' कार्यस्य घटस्य कारणेन मृदा सह पार्थिवत्वधर्मेण तुल्यत्वात् , तद्वदिति, घटस्य घटभावेनासत्त्ववत्तदात्मत्वं मृत्त्वम् , पार्थिवत्वात्मघटत्ववद्वा किं कारणं ? तत्तत्त्वेनापेक्ष्यत्वात् तस्य भावस्तत्त्वं भवनं भावः तस्य तत्त्वं तत्तत्त्वं तत्तत्त्वे. नापेक्ष्यत्वात्, घटभवनवदनपेक्ष्यत्वे हि पार्थिवत्वं तस्मात् प्राप्तं तदात्मत्वं घटत्वं पार्थिवत्वस्य, घटा-30 त्मवद्धटत्वेनापेक्ष्यत्वात् इतिशब्दो हेत्वर्थे, अतस्तदात्मतामपेक्षमाणस्य विवेकयत्नार्थहानिः विशेषार्थापेक्षाप्रतिपादनयत्नहानिः। अविशेष इति, एवश्च कृत्वा स एवाविशेषः, आदिग्रहणाव्यत्वादितुल्यत्वात् सत्त्वतुल्यत्वादित्येवमेवाविशेष आपाद्यः । त्राप्यविशेष इति भावः । भवसिद्धान्तेनेति, अनवस्थाप्रसङ्गेन जातेर्जातिमत्त्वाखीकारादिति भावः । क्रियागुणेति, कार्योत्पत्तेः प्राग्घटपटादिकार्यमसत् , यदि तदानीमपि सदेव तदा क्रियावत्त्वेन गुणवत्त्वेन च व्यपदिश्येत यथोत्पने घटे 25 घटस्तिष्ठति चलति रूपवानयं दृश्यत इत्यादिप्रकारेण व्यपदिश्यते तथोत्पत्तेः प्रागपि न व्यपदेशः कस्याप्यस्ति तेन गम्यते तदानीमसन् घट इति तदर्थः। ततश्च कार्य कारणावस्थायां कारणानि नापेक्षते स्वयमेवासत्त्वात् कार्य च यदा सत् तदा खरूपस्य सिद्धत्वादेव न कारणान्यपेक्षते इत्याशयेनाह कारणावस्थायामिति । कारणानां कारणत्वाभावादिति, करोतीति हि कारणं पदाच कार्य नापेक्षते कारणं तदा कारणं न किञ्चित्करोतीति कारणत्वस्वरूपमेव नास्तीति भावः। एवञ्चापेक्षाऽसम्भवेन भावाभावयोरविशेषः प्रसज्येत, तथा च सति निरपेक्षत्वादुभयोर्नित्यं सत्त्वमसत्वं वा स्यादिति भावः 130 तत्तत्त्वेनेति, यद्यदात्मनाऽपेक्ष्यते तत्तदात्मेति व्याख्या घटस्य तत्त्वभूतेन घटत्वेनापेक्ष्यमाणं पार्थिवत्वद्रव्यत्वसत्त्वादि सर्व घटत्वात्म भवेदिति विशेष एव न कोऽप्यस्तीति विशेषापेक्षव न भवेदतस्तत्प्रतिपादनप्रयासो व्यर्थः, विशेषाभावादविशेषक्ष 2010_04 Page #78 -------------------------------------------------------------------------- ________________ २८ द्वादशारनयचक्रम् स्वाम्मत अयं विशेष एव न भवत्यापेक्षिकत्वात् सामान्यविशेषाणां द्रव्यत्वादीनामौपचारिकत्वच मुख्योऽन्त्य एव विशेष इत्यत्रोच्यते, अन्त्येऽपि तत्तद्रव्यादिप्रभेदगतिग्राह्यत्वात् । (अयं विशेष इति) अयं विशेष एव न भवत्यापेक्षिकत्वात्सामान्यविशेषाणां द्रव्यत्वादीना5 मौपचारिकत्वाच "द्रव्यत्वं गुणत्वं कर्मत्वञ्च सामान्यानि विशेषाश्च" (वै० अ० १ आ० २ सू. ५ ) इत्युक्तानि किं पुनर्गोत् घटत्वादीनीति, कस्तर्हि विशेषो मुख्यः ? अन्त्य एव सामान्यमपि मुख्यं भाव एवेत्यभिप्रायः, यस्मादणुष्वेका काशदेशातीत प्राप्तेष्वन्यत्वज्ञानाभिधानप्रभावविभावितोऽन्त्यो विशेषः, न ह्याकस्मिकावन्योक्तिप्रत्ययौ, तस्मादस्त्यसौ स एव च विशेषो मुख्यः यथोक्तं "अन्यन्त्रान्त्येभ्यो विशेषेभ्यः " ( बै० अ० १ आ. सू. ६ ) इति । तथा भावश्च मुख्यसामान्यं “ सदिति यतो द्रव्यगुणकर्मसु 10 सा सत्ता, द्रव्यगुणकर्मभ्योऽर्थान्तरं सत्ते" तिवचनात् द्रव्यत्वादीनामौपचारिकत्वात्तथात्मकतयोपपादितमित्यत्रोच्यते, अन्त्येऽपि तत्तद्रव्यादिप्रभेदगतिग्राह्यत्वात् अन्ते भवोऽन्त्यः, अन्त्येऽपि तस्मिन् विशेषे विशेषाभाव इत्यपिशब्दात् सम्बन्धः, को हेतुः ? तत्तद्रव्यादिप्रभेदगतिग्राह्यत्वात्, द्रव्यमादिर्येषां ते द्रव्यादयः- द्रव्यक्षेत्र कालभावा:, तेषां प्रभेदस्तत्प्रभेदः, तत्प्रभेदेन गतिः परिणामो वृत्तिर्विकल्पो यथा कायस्येयं गतिरिति दृष्टत्वात् तया गत्या ग्राह्यत्वं कस्य ? अन्त्यविशेषस्य, तस्मात्तत्तद्रव्यादिप्रभेद्गति15 ग्राह्यत्वान्नान्त्य विशेषः करूप्यः । 7 [ विध्यरे द्रव्यादिव्यतिरेकेण प्रत्यक्षानुमानाभ्यामग्राह्यत्वात् तत्सरूपेणैव ग्राह्यत्वाच्च, अन्यथा विषयनिरपेक्षत्वाद्योगिनामज्ञानप्रसङ्गो मिथ्याज्ञानप्रसङ्गो वेति स्थितं न स्वविषयों विशेषः । 2010_04 (द्रव्येति) द्रव्यादिव्यतिरेकेण प्रत्यक्षानुमानाभ्यामप्राह्यत्वात्तत्स्वरूपेणैव माद्यत्वाच्च,' तद्यथायोगी प्रत्यक्षेणैकं परमाणुं पश्यन् द्व्यणुकत्वात् प्रच्युतं पश्यत्यन्यं त्र्यणुकत्वात् प्रच्युतमपरं दूषणुकस20 मवेतमन्यं त्र्यणुकसमवेतच, द्रव्यतः स्वत एव च भिन्नानि तानि परमाण्वादिद्रव्याणि पश्यति, तत्र किमन्यविशेषेण ?, एवं क्षेत्रतः पूर्वभागस्थितमेकमपरमर्वाग्भागस्थितम्, कालतोऽपि किचित् प्रथमे समये स्थितमन्यं द्वितीये स्थितमागतं वा, युगपदागतयोरपि द्रव्यक्षेत्रकालभावकृतं नानात्वमस्त्येव, भावतः किञ्चित् कृष्णं शुक्लं किञ्चित्सुरभिमसुरभिं तिक्तं कटुकश्चेत्यादि, अथवा कृष्णमन्यं कृष्णतरं स्यादिति भावः । आपेक्षिकत्वादिति, एकस्य द्रव्यत्वादेः सामान्यविशेषत्वे न निरपेक्षे स्यातां निरपेक्षयोस्तयो विरुद्धत्वा25 देकत्रावृत्तेः, किन्तु पृथिवीत्वाद्यपेक्षया सामान्यत्वं सत्तापेक्षया तस्यैव विशेषत्वमित्यापेक्षिकं तथा च न मुख्यता तत्र तयोः किन्तूपचारेण सामान्यविशेषत्वे, वैशेषिकसूत्रे ऽप्येवमेवोक्तम्, मुख्यस्तु विशेषोऽन्त्य एव, नित्यद्रव्यवृत्तयो येऽभिहितास्तान् वर्जयित्वा सामान्यविशेषाभिधानमिति वैशेषिकैरुक्तत्वात्, तथा सामान्यमपि भाव एव सत्तायामेव, तस्या अनुवृतेरेव हेतुत्वात् सोsपि च विशेषस्तुल्यगुणक्रियेषु परमाणुषु विलक्षणोऽयं विलक्षणोऽयमित्युक्तिप्रत्ययानुमेयः यच्चानुवृत्तिप्रत्ययाभिधाननिमित्तं सा द्रव्यगुणकर्मवर्त्तिनी सत्तेति विशेषाभावो नापादयितुं शक्य इति न विवेकयत्नार्थहानिरिति पूर्वपक्षाभिप्रायः । विशेष इति, 30 अण्वादावित्यर्थः, यथा पृथिव्यादावापेक्षिकत्वादपचारिकत्वाच्च मुख्यो विशेषो नास्ति तथाऽन्त्येऽप्यण्वादौ तुल्यगुणक्रिय इत्यर्थः विलक्षणताऽण्वादेः कथं ग्राह्या तत्राह तप्तद्रव्यादीति, तत्तद्द्रव्यक्षेत्र कालभाव परिणामविशेषादेव वैलक्षण्यग्रहो नान्यविशेषादिति भावः । तथा च तदवस्था विवेकयनार्थहानिरिति । एतदेव संघटयति द्रव्यादिव्यतिरेकेणेत्यादिना, योगी तत्तद्रव्य क्षेत्र कालभावैर्भिनखरूपानेव परमाणून पश्यति न तु परमाण्वादिद्रव्यव्यतिरिक्तेन विशेषेण भिन्नान् परमाणून, अतस्ते स्वत एवं भिन्ना इत्याशयेन द्रव्यक्षेत्राद्यपेक्षया परमाण्वादेर्भेददर्शनं योगिनः प्रकाशयति तद्यथेति व्यणुकत्वात् प्रच्युतं Page #79 -------------------------------------------------------------------------- ________________ परापेक्षपक्षदूषणम्] न्यायागमानुसारिणीव्यास्यासमेतम् कृष्णतमं द्विगुणत्रिगुणसंख्येयासंख्येयानन्तगुणकृष्णादि वा, एवं शेषवर्णैर्गन्धरसखशैश्च सप्रभेदैर्दर्शनं वाच्यम् , अन्यथेति, परस्परविशिष्टद्रव्यादिविशेषाभावे विषयनिरपेक्षत्वाद्योगिनामज्ञानप्रसंगादयश्यं द्रव्यादयो विषयाः स्वत एव विशिष्टा एषितव्याः, न चेद्योगिनो मिथ्याज्ञानप्रसङ्गोऽन्यथास्थितस्यार्थस्यान्यथादर्शनात् । अन्त्यविशेषाणान परस्परविशेषोक्तिप्रत्ययप्रवृत्तौ निमित्तान्तर कल्प्यम्, स्वत एव विशिष्टत्वेऽन्त्यविशेषस्य कल्पना वा त्याज्या, परमाणूनामपि तद्वद्विशेषो निमित्तनिरपेक्षः । किं नेष्यते ? विशेषेष्वपि निमित्तान्तराणि चेदनवस्थाप्रसङ्गः, ततश्च विशेषोक्तिप्रत्ययानुपपत्तिरेखलं प्रसङ्गेन । स्थितं न स्वविषयो विशेष इति । परविषयविशेषपरीक्षावसरस्तत आह परविषयतायान्तु विशेषस्यानवस्थानादविशेषः । यथा च प्रागसमानावस्थानादसामान्यमिति प्रक्रम्य सामान्याभावः प्रतिपादितस्तथेहापि सद्विपर्ययेण तदेव प्रकरणं बोज्यम्, (परेति) परविषयतायान्तु विशेषस्यानवस्थानाद विशेषः, ननु प्रामप्युक्तं परापेक्षपक्षापत्तिति, सत्यम् , तत्रोपात्तपरित्यागादहृदयत्वापादानद्वारेण प्रसङ्गतोऽन्येऽपि दोषा उक्ता इह तु प्राधान्येनैवान्येन च प्रकारेण दोषाभिधानं क्रियते। अनवस्थानादविशेष इति साधयिष्यमाणमनवस्थान सिद्धं कृत्वाऽऽष्ट यथा च प्रागसमानावस्थानादसामान्य मिति प्रक्रम्य सामान्याभावः प्रतिपादितः तथेहापि तद्विपर्ययेण तदेव प्रकरणं योज्यम् किं कारणं ? अनवधृतैकतरकार्यत्वादित्यादि सर्व ताहगेव, यावदत एतानि 15 घटादिवस्त्वात्मविशेषपक्षग्राहिणाऽप्यवश्यापेक्ष्याणि प्रत्यक्षत एव तथा परेण विशिष्टत्वादात्मनः किमु परविषयमुख्य विशेषवादिना प्रत्यक्षत एवं तथा तथा परविषयस्य विशेषस्य भवनात् परेण विशिष्टेन भूयत इति, इहेति परविषयविशेषपक्षे । द्रव्यादिप्रत्यपेक्षया सर्वस्यास्य सम्बद्धत्वादेकैकस्य निरवशेषमिदं जगद्विशेषणमिति पूर्ववदेव स्यादेकघटसंहतनानावस्थगुणवत् । (द्रव्यादीति) द्रव्यादिप्रत्यपेक्षया सर्वस्यास्य सम्बद्धत्वादेकैकस्य निरवशेषमिदं जगद्विशेषणमिति पूर्ववदेव, द्रव्य द्रव्यान्तराणि क्षेत्रं कालं भावश्च प्रत्यपेक्षते स्वप्रभेदान् परप्रभेदांश्च, एवं क्षेत्रं कालो व्यणुकात् पृथग्भूतमित्यर्थः, स्कन्धात् प्रच्युतस्यापि परमाणुत्वादिति भावः, परस्परेति, द्रव्यादयो हि खत एव परस्परं विशिष्टाः, तथैव योगिज्ञानं यथार्थम् , अन्त्यविशेषकृतविशिष्टत्वाभ्युपगमे तु द्रव्यादेरतादृशस्वादविशिष्टद्रव्यशानमज्ञानमेष भत् खतो विशिष्टद्रव्यादेः परेणान्त्यविशेषेण विशिष्टताग्रहणे च मिथ्याज्ञानप्रसङ्गः, अज्ञानयसलादिति, उम्मत्तसेवामानत्वप्र-26 सो न तु संशयादिखरूषाज्ञानत्वप्रसङ्गः संशयादेविषयनिरपेक्षत्वाभावात् , मनु विषयमात्रनिरपेक्षम कस्याप्यज्ञामस्वात्रसिद्ध कथमयं प्रसङ्ग इत्याशंकायामाह मिथ्याज्ञानप्रसङ्ग इति । खतो भिन्नानां परमाण्वादीनां विशेषकृतमेदवत्तवा दर्शमादित्यर्थः मनु विशेषाधीनविशिष्टत्वमेव ध्यादेः खरूपं तथा च तस्य तथैव ज्ञानानाशामत्ताप्रसङ्गो मिथ्याज्ञानप्रसङ्गो बेलामायामाह, अन्त्यविशेषाणाञ्चेति, ननु विशेषेषु विलक्षणप्रत्ययः कथम् , यदि स्वतस्ताहि परमाण्वादेरपि तथाऽस्तु कि विशेषण, यदि विशेषान्तरात्तर्खनवस्थेति विशेषाभावात्स्वत एव विशिष्टमेषितव्यमिति भावः । उपात्तेति, गृहीतस्य खापेक्षविशेष- 30 तापक्षस्य परित्यागान्न सहृदयता वादिन इति प्रदर्शयता तत्रापि द्रव्यमेदादिदोष उद्भावित इत्यर्थः, तद्विपर्ययेणेति, पषा. पूर्वमसमानावस्थानादसामान्यमित्युक्तम् , अत्र तु असमानानवस्थानादविशेष इति वाच्यमिति सर्व ताहगेव अत एतानीति प्रन्धपर्यन्तं यथा पूर्वमुक्तं तवैवात्रापि योज्यं न तु विपर्ययेगेति । निरवशेषमिति, एकैकस्य वस्तुनोविकतं जगविशेषणमित्यर्थः, एकघटेति, एक एव घटाथा तथा समवस्थानादूपादिगुणभावं भजते यथैक एच पुरुषस्तथा तथा समवस्थामा 20 2010_04 Page #80 -------------------------------------------------------------------------- ________________ द्वादशारनयचक्रम् [विध्यरे भावश्चेति सर्व सर्वेण सम्बद्धं तस्मात् सर्वस्य सम्बद्धत्वात् पूर्ववत् सहक्रमवृत्तिरूपादिशिवकादिपथिव्यादिब्रीह्याधङ्करादिसमवस्थानाद्रव्याणां क्षेत्रतोऽपि तेषामेकगतिसमवस्थानात् कालतोऽप्यनेकप्रभेदोपवर्ण्यधर्मास्तिकायादिपृथिव्यादिपानीयादानधारणादिसमवस्थानात् , भावतोऽपि पूर्ववद्रव्यादिरूपादिशिवकादिभवनसमवस्थानात् स्यादेकघटसंहतनानावस्थगुणवदिति यथोक्तं "द्रव्यमेव हि तथावस्थानाद्रूपादिभावं लभते, एकपुरुषपितृपुत्रादिवत् , द्रव्यमेव हि घटाख्यं रूपं रसो गन्धः स्पर्शः संख्या संस्थानं शुक्छ नीलं तिक्त कटु सुरभि मृदु कर्कशं शुक्लतरं शुक्लतमं चेत्यादिविशेषणतां नातिवर्त्तते त एव ह्येते गुणाः पर्यायाश्च नानावस्थाः परस्परविशिष्टाः परस्परस्य द्रव्यस्य च विशेषणं द्रव्यमेव गुणाः पर्यायाश्च तथाऽन्येऽपि द्रव्यक्षेत्रकालभावाः सप्रभेदा इति । स्यादेतदेवं यद्येतद्वक्ष्यमाणदोषेण न व्याहन्येतेत्यत आह10 तत्र सर्वार्थानां नित्यप्रवृत्तत्वात् समयमपि नास्ति तेषां समवस्थानं यदाश्रयो विशेषोऽवस्थाप्येत आत्तवदिति समवस्थानाभावान्निराश्रयः खपुष्पवन्नास्ति विशेषः । (तत्रेति) तत्र सर्वार्थानां नित्यप्रवृत्तत्वात्समयमपीत्यादि यावद्यदाश्रयो विशेषोऽवस्थाप्येतेति, एवं परस्परविशेषणत्वेन सर्वेऽर्था नित्यं प्रवृत्ता एवेति समयमात्रमपि नास्ति तेषां समवस्थानं, समवस्थानाश्रयो हि विशेषोऽवस्थाप्येत तदभावात् कुतो विशेषः, आत्तवदिति, तत्कालावगृहीतक्षणोत्पन्नवि15 नष्टभाववदित्यर्थः, ततः किमिति चेत् ? समवस्थानाभावान्निराश्रयः खपुष्पवन्नास्ति विशेषः । स्यान्मतं सम्बन्धदेशो न दूष्यते, उपेक्ष्यत इत्यत्रोच्यते सम्बन्धदेशोपेक्षायामुपान्त्यत्यागोऽकस्मात् सामान्याभ्युपगमात् तुल्यत्वात् सामान्यस्य । (स्यान्मतमिति) स्यान्मतं सम्बन्धदेशो न दूष्यते, उपेक्ष्यत इति किमुक्तं भवति ? सम्बन्ध देशान् द्रव्यादीन् मुक्त्वा निराश्रयत्वाद्विशेषो मा भूत् सम्बन्धदेशस्थानान्तु घटपटादीनां किमिति वा 20 विशेषो न स्यात्तदाश्रयत्वाद्विशेषस्येत्यत्रोच्यते सम्बन्धदेशोपेक्षायामुपान्त्यत्यागोऽकस्मात्, एवं सत्यकस्मा देवोपान्त्यस्य विशेषस्य त्यागः सामान्याभ्युपगमात् कथं सामान्यमभ्युपगतमिति चेत् ? तुल्यत्वात् सम्बन्धदेशस्थानां द्रव्यक्षेत्रकालभावप्रत्यासत्तितुल्यक्षणत्वात् सामान्यस्य समानभावस्य । पितृत्वपुत्रत्वादिभावमुपगच्छति, एवञ्च द्रव्यक्षेत्रकालभावापेक्षया सर्व सर्वेण सम्बद्धमिति शुद्धानां रूपादीनां क्वचिदप्यभावान्न विशेषतासम्भव इति भावः। सर्वार्थानामिति, वस्तुमात्रस्य खत एव भेदाभेदात्मकतया वृत्तेर्यत् यतो व्यावत्तेत तथावि25 धस्य पदार्थस्यैवाभावात् पराप्रसिद्ध्या परापेक्ष विशेषोऽपि खपुष्पवनास्ति निरूपकाधारलक्षणाश्रयाभावादिति भावः। तत्का लेति, तत्कालेऽवग्रहविषयीभूतक्षणमात्रस्थायिनि पदार्थे न कस्यचित्यवस्था शक्यते कर्तुम् , व्यवस्थानिरूपकस्याधारस्य च विनष्टत्वादिति । अतो विशेषस्याश्रयाभावानिराश्रयस्य गगनकुसुमवद्वस्तुत्वासम्भवेन विशेषाभावप्रसङ्ग इति भावः । सम्बन्ध देशः आश्रयभूतो देशो विशेषस्य न दूष्यते न निराक्रियते येन निराश्रयत्वाद्विशेषाभावः प्रसज्येत उपेक्ष्यते गजनिमीलिका. विषयः क्रियते गौणीक्रियत इति भावः। तथा च सति विशेषाणां द्रव्यादिना समानत्वात् सामान्यतापत्तिरित्युत्तरयति सम्ब. 30न्धदेशोपेक्षायामिति । सम्बन्धदेशानिति, घटपटरूपादयः सर्वे द्रव्यक्षेत्रादिनाऽवश्यं विशिष्यन्तां नाम, अन्यथः निराश्रयत्वापत्तिः स्यात् तेच घटपटादयः परस्पर विषिष्टा एवेति तेषां विशेषो भवत्येव, घटपटादेराश्रयस्य सत्त्वादिति भावा उपान्त्यत्याग रति, यदि समानकालीनेषु घटपटादिषु विशेषो व्यवस्थाप्यते तर्हि घटपटादिष्वनेकेषु समानस्य द्रव्यक्षेत्रकालादेः सम्बन्धस्य स्वीकारातू सामान्यमभ्युपगतं भवेत् । तथा चैकमेव वस्तु सर्वस्मात्सम्बद्धमिति समवस्थानाभावाद्विशेषो 2010_04 Page #81 -------------------------------------------------------------------------- ________________ वाय्वाद रूपादिता] न्यायागमानुसारिणीव्याख्यासमैतम् अत्राह रूपादिभेदसम्बन्ध एव विशेष उच्यते, तन्न, अन्यासम्बन्धेऽरूपादित्वात्तेषाम् , सर्वे सर्वत्र सर्वदा सर्वथा द्रव्यक्षेत्रकालभावाविभागसम्बद्धरसा एव हि रूपादयः, शुद्धानां वचिदप्यभावात् । (रूपादीति) रूपादिभेदसम्बन्ध एव विशेष इति, रूपरसगन्धस्पर्शसंख्यासंस्थानादीनां सप्रभे-B दानां सम्बन्ध एव विशेष उच्यते त एव हि परस्परतो विशिष्यमाणा विशेषाख्या इति, अत्रोच्यते तन्त्र, अन्यासम्बन्धेऽरूपादित्वात् , अन्यैर्द्रव्यादिभिरसम्बन्धः तेषामरूपादित्वात् , अन्यैर्द्रव्यादिभिरसम्बन्धे तेषामरूपादित्वं प्रसज्यते यस्मात् सर्वे सर्वत्र सर्वदा सर्वथा द्रव्यक्षेत्रकालभावाविभागसम्बद्धरसी एव हि रूपादयः, किं कारणं ? शुद्धानां कचिदप्यभावात् , प्रागुक्तद्रव्यादिसम्बन्धाभावे रूपादिखरूपाभावात् तत्सम्बद्धानामेव दृष्टत्वात् , सप्रभेदद्रव्यादिसम्बन्धाभावे रूपादयो न सन्त्येवेत्यरूपादित्वं 10 तेषां प्रसक्तम् । इतर आह लोके दृष्टो ननु च वायौ शुद्ध एव स्पर्शः, उच्यते तत्रापि हि क्षेत्रादिद्रव्यस्य रूपादयो न गृह्यन्ते, अनभिव्यक्तिसौक्ष्म्यात् , वैधम्र्येण द्रव्यादिवत् , चक्षुरादीन्द्रियग्राह्यपरिणत्यभावाद्धेत्वनुमेयताभावात् , 15 (लोक इति) लोके दृष्टो ननु च वायौ शुद्ध एव स्पर्शः स्यादरूपादित्वं यदि द्रव्यक्षेत्रकालरूपरसादिभिरसम्बन्धे रूपाद्यभाव एवेत्ययमेकान्तः स्यात्, स्याचानुमानं यदि दृष्टेन न बाध्यते, दृष्टश्च वायुः स्पर्शमात्र एव, न हि दृष्टाद्गरिष्ठं प्रमाणमस्तीति, अत्रोच्यते तत्रापि हि क्षेत्रादिद्रव्यस्य रूपादयो न गृह्यन्ते, अनभिव्यक्तिसौक्ष्म्यात् , वैधयेण द्रव्यादिवत् यथा द्रव्यादयो गृह्यन्ते प्रत्यक्षेण न तथा वायौ रूपरसगन्धादयोऽनभिव्यक्तिसौम्याद्गृह्यन्ते, किं कारणं? चक्षुरादीन्द्रियप्रायपरिणत्य- 20 भावात् , हेत्वनुमेयताभावात् , यथोक्तं सङ्ग्रहान्तरे "मूर्तिः कथं न वायोराख्यायेत च कथं न रूप्येषः । तद्व्यक्तिग्रहणं प्रति न शक्नुयादिन्द्रियं किञ्चिदि"ति, गन्धवन्तस्तोयाग्निवायवः, मूतिमत्त्वात् पृथिवीवत्, एवं रसवन्तावग्निवायू मूर्त्तत्वाद्भूम्यम्बुवत् , रूपवान् वायुर्मूर्त्तत्वादग्निभूमिजलवत् , रूपरसगन्धस्पर्शवन्ति वाय्वग्निजलानि, मूर्तत्वात् पृथिवीवत् । नास्त्येवेति तात्पर्यम् । नन्वेकमनेकेन सम्बद्धं भवतु, अनेके च रूपादयः परस्परं कुतो न विशिष्टा_इति त एव विशेषा उच्यन्त 25 इत्याशयेनाह रूपादिमेदसम्बन्ध एव विशेष इति, द्रव्याद्यसम्बद्धरूपादीनामभावेन शुद्धरूपादीनां विशेषत्वासम्भव इत्याह अन्यासम्बन्धेऽरूपादित्वादिति । तथा चानुमानं रूपादयो न सन्ति द्रव्याद्यसम्बद्धत्वाद्गगनकुसुमवदिति । शुद्धानां क्वचिदप्यमावादिति, द्रव्यसम्बन्धव्यतिरेकेण परस्परभिन्नानां रूपादीनामभावादित्यर्थः । तस्मात् सर्वे सर्वदा सर्वत्र सर्वथा द्रव्यक्षेत्रकालभावेरपृथग्भावेन सम्बद्धा एवेति सिद्धम् , अत्र दृष्टविरोधमाह लोके दृष्ट इति, यद्यपि वायो स्पर्श एव प्रत्यक्षतो गृह्यते न रूपादयः, एतावता न तत्र रूपादय इति न वक्तुं शक्यम् , सतोऽप्यनुपलब्धेः, अभिव्यक्त्यभावात् सूक्ष्मत्वात् 30 तद्रूपादौ चक्षुरादीन्द्रियग्राह्यपरिणत्यभावाद्वा, अनुमानात्तु ते तत्र सन्त्येवेत्याशयेनाह तत्रापि हीत्यादि, अनभिव्यकिसौक्षम्यादिति, अनभिव्यक्तेः सौम्यादा, अथवाऽनभिव्यक्तियोग्यसूक्ष्मतापरिणामादित्यर्थः, वातायनरेणुस्पर्शरसगन्धादितिसाधर्म्यदृष्टान्तस्याने वाच्यतया प्रथममत्र वैधदृष्टान्तमाह वैधयण द्रव्यादिवदिति तटयति यथेति हेत्वनुमेय. ताभावादिति, हेतुविशेषेण वाय्वादौ रूपादीनामनुमेयत्वादित्यर्थः, अनुमानचानुपदमेवोच्यते । मूर्तिः कथं नेति पूर्वार्धः 2010_04 Page #82 -------------------------------------------------------------------------- ________________ द्वादशारणयमक्रम् [विभ्यरे इहापि च साधर्म्य दृष्टान्त उच्यतेवातायनरेणुस्पर्शरसगन्धादिवन्न गृह्यन्ते । (वातायनेति) वातायनरेणुस्पर्शरसगन्धादिवन्न गृह्यन्त इति, तेषां हि रविकररोहयोतव्यक्तानां रूपमेव ग्राह्यम् । . अथोच्येत यद्येककालसहावस्थानादर्थानां विशेषो भविष्यति, अवतिष्ठते हि किञ्चित्कचित्कालम् , यथा पूर्वापरस्थितघटपटाविति, एवमपि तथाभूतसामान्याभ्युपगमादविशेषत्यमेव । (अथेति) अथोच्येत परेण यदि सम्बन्धदेशसमवस्थानादर्थानां विशेषो न भवति, एककालसहावस्थातादर्थानां विशेषो भविष्यति, यस्मादवतिष्ठते हि किश्चित् कञ्चित् कालम् , यथा पूर्वापरखिलधापकाविति, ननु विशेषकारणमत्र वक्तुं प्राप्तमिदन्तु सामान्यकारणमेवाशकितमिति, अत्रोच्यते 10 सामान्यद्वारेण विशेषः सिस्थतीति तदसिद्धिद्वारेण विशेषासिद्धिरिति सर्वत्र प्राह्यम् । अत्राध्याचार्य उत्तरमाह-एवमपि तथाभूतसामान्याभ्युपगमादविशेषत्वमेव, पराभ्युपगम एवोत्तरत्वमाषचते, एककालावस्थानेनैककालसामान्याभ्युपगमात् , देशसम्बन्धसामान्याभ्युपगमवदुपान्त्यत्यागोऽकस्मात्तुल्यत्वादिलविशेषत्वमेव । विश्वाम्यंत___प्रागुक्तविधिना सर्वसामानाधिकरण्याच्च विशेषस्वतत्त्वस्यैकविकारेऽपि सर्वस्याशेषस्यापि, अन्यथा त्वविकारो जायेत तन्मात्रेऽन्यत्वाद्गन्धोनाधिकभाववत् , तस्मानास्त्येवामवस्थानामितश्रया खपुष्पवद्विशेषः। (प्रागिति) प्रागुक्तविधिना सर्वसामानाधिकरण्याच विशेषस्वतत्त्वस्य परस्परापेक्षत्वाद्वि. शिष्यमाणस्वादावानां परस्परतः सर्व जगदेकाधिकरणम्, तत्रैकविकारेऽपि सर्वस्याशेषस्याप्यशेषस्य 20 तकपेक्षस्वात् , अभ्यथा त्वविकारो जायेत कुतः ? तन्मात्रेऽन्यत्वात् , को दृष्टान्तः ? गन्धोनाधिकभाव वदिति, यथा भ्वम्भसोरयथासंख्येन, गन्धोनस्याम्भसो गन्धाधिकायाश्च भुवः, न ह्यूनाधिकभावेन विकारोवृष्टः, गन्धहीना आपस्तदधिका भूरिति, तस्मान्नास्त्येवानवस्थानानिराश्रयः खपुष्पवद्विशेष इति । शङ्कापरः, उत्तरार्धः समाधानपरः, वातायनेति जालगततपनमरीचि प्रकाशितरेणौ रूपमात्रमुपलभ्यते न तु स्पर्शरसगन्धा दयो विद्यमाना अपि न ह्यनुपलम्भमात्रेणाभावः सिद्ध्यति किन्त योग्यत्वेऽभिव्यक्तत्वे च सत्यनुपलम्सेनैव स चात्र 25 तथा चकक्षेत्रादिरूपद्रव्यसम्बद्धानां रूपाद्यर्थानां न विशेषतासम्भवः शुद्धानां क्वचिदप्यदर्शनादिति निर्गलितार्थः । एवमेक कालसम्बद्धानामर्थानामप्यविशिष्टत्वमादर्शयति अथोच्येतेति. परस्पर विशेषणत्वेन सर्वार्थानां नित्यप्रवृत्तत्वात् समयमात्रमपि कस्यापि स्थित्यभावेन कथमेकस्मिन् काले सहावस्थानमर्थानाम. यदाश्रयो विशेषोऽवस्थाप्येतेत्याशङ्कायामाह-यस्मादिति, यथेति, एकस्मिन् काले पूर्वापरदेशावच्छेदेन विद्यमानी घटपवित्यर्थः । एककालस्थानां प्रत्यासत्तेस्तुल्यत्वेन सामा न्याभ्युपगमादकस्मादेव विशेषत्याग आपन्न इत्याशयेनाचार्य आहेत्यभिप्रायं सूचयति अत्रापीति । प्रागुक्तति, विशेषा 30 हि सर्वविशिष्ट एव न त्वविशिष्टः सामान्यरूपतापत्तः, येभ्यो विशिष्टः स ते विशेषणभूताः विशेषणत्वञ्च सामानाधिकरप्य विना न सम्भवति, न हि घटेऽवर्तमानो नीलो विशेषणं भवितुमर्हति. तथा च स्वातिरिकसर्वसामानाधिकरण्यं तस्य प्राप्तम्, तथा चैकविकारे सर्व विकारापत्तिरिति भावः । सर्वस्याशेषस्यापीति, विकारः स्यादिति शेषः, तत्र हेतुमाह-अशेषस्य तरपेक्षत्कादिति, तदतिरिक्तस्य सर्वस्य तदपेक्षत्वात्तस्य विकारे तेषामपि विकारः स्यात् तन्मात्रेऽन्यत्वादिति यथा 2010_04 Page #83 -------------------------------------------------------------------------- ________________ तदुझ्यासत्तिभङ्गः] न्यायागमानुसारिणीव्याख्यासमेतम् ३३ अथ तु तद्बुद्ध्यासन्नमेव ग्रहीष्यते सामान्यविशेषयोरित्येवं तर्हि द्रव्यगुणकर्मणां न सामान्यं नापि विशेषः, तेषां परस्पराऽऽसत्त्यभावात् , तया द्रव्यस्य गुणस्य कर्मणो वाऽऽसत्तिर्गृह्येत, तत्रैव च सामान्यविशेषौ स्याताम् न गुणकर्मणोः, तद्बुद्ध्यासन्नता हि द्रव्यस्य द्रव्यस्य, न द्रव्यस्य गुणस्य च, न द्रव्यस्य कर्मणाञ्च, न गुणस्य कर्मणश्चेति सामान्यभावो विशेषाभावश्च। (अथेति) अथेत्यधिकारान्तरे, तुर्विशेषणे, प्राक्तनादेशकालाऽऽसत्त्यधिकाराबुद्ध्यासत्त्यधिकार विशिनष्टि, तद्बुद्ध्यासन्नः स इति बुद्धिः, योऽसौ प्रथमो घटः स एव द्वितीय इति बुद्धिः, का सा? तत्त्वानुवृत्तिबुद्धिः व्यावृत्तिबुद्धिरपि, तद्बुद्ध्यासत्त्या द्रव्यत्वबुद्धौ प्रसक्तायां नापो न सिकता न शिवकादिः किन्तु घट एवेति, यथोक्तम् "अनुवृत्तिप्रत्ययकारणं सामान्यम् , व्यावृत्तिबुद्धिहेतुर्विशेष" इति, अत्र ब्रूमः, एवं तर्हि द्रव्यगुणकर्मणां न सामान्यं नापि विशेषः, किं कारणं ? तेषां परस्पराऽऽसत्त्यभावात् तया तद्बुद्ध्या द्रव्यस्य गुणस्य कर्मणो वाऽऽसत्तिर्गृह्येत, किं द्रव्यबुद्ध्या गुणो गृह्यते कर्म वा? द्रव्यबुद्ध्या हि 10 तद्रव्यमेव तदासन्नत्वाद्रव्यमिति गृह्येत, तत्रैव च सामान्यविशेषौ स्यातां न गुणकर्मणोः, कस्मात् ? यस्मात्तबुद्ध्यासन्नता द्रव्यस्य द्रव्यस्य च, न द्रव्यस्य गुणस्य च, तथा न द्रव्यस्य कर्मणाश्च, न गुणस्य कर्मणश्चेति सामान्याभावो विशेषाभावश्च, तद्बुद्ध्यासत्त्यभावात् , एवञ्च कृत्वा तयोः सत्त्वं सामान्य मा भूत् तस्मात् सदिति त्रयाणामविशेष इत्ययुक्तम् , तथाऽनित्यं द्रव्यवत्कार्य कारणं सामान्यविशेषवदिति च सामान्यं द्रव्यगुणकर्मणां मा भूत् , उक्तश्च वः शास्त्रे "सदनित्यं द्रव्यवत्कार्य कारणं सामान्यविशेषवदिति 15 द्रव्यगुणकर्मणामविशेषः" (वैशे० अ० १, आ० १, सू० ८) इति, एवं तीनानात्वं द्रव्यगुणकर्मणां प्राप्तमिति चोदिते विशेष उच्यते नाविशेष एव, आरम्भानारम्भभेदात् "द्रव्याणि द्रव्यान्तरमारभन्ते गुणाश्च गुणान्तरम्, कर्म कर्मसाध्यं न विद्यते" (वै० अ० १, आ० १, सू० १०-११) इति, किञ्चान्यल्लक्षणभेदात् क्रियागुणवत्समवायिकारणमिति द्रव्यलक्षणम् , द्रव्याश्रय्यगुणवान् गुण इति गुणलक्षणं संयोगविभागेष्वनपेक्षकारणमिति कर्मलक्षणम् , तथा विरोधाविरोधभेदात् कार्याविरोधि 20 द्रव्यं कारणाविरोधि च, उभयथा विरोधी गुणः, कार्यविरोधि कर्मेत्येवमादिद्रव्यगुणकर्मनानात्वहेतुकलापश्च विशेषाभावादनर्थकमापद्यते । एवं तावद्रव्यस्य सामान्यविशेषौ स्यातां न गुणकर्मणोः । पृथिवीजलयोर्द्रव्यत्वाविशेषेऽपि गन्धाधिकत्वगन्धहीनत्वाभ्यामेव विशेषो न तु परस्परं विकार्यविकारिभावस्तथा विकारानभ्युपगमे तत्त्वान्तरत्वप्रसङ्ग इति भावः । द्रव्यत्वबुद्धौ प्रसक्तायामिति, घटसलिलादौ द्रव्यानुवृत्तिप्रत्ययेन सामान्यरूपतायां प्राप्तायां व्यावृत्तिबुझ्या नापो न सिकता न शिवकादिः किन्तु घट एवेति विशिष्यते, एवञ्चानुवृत्तिप्रत्ययेन सामान्यताप्राप्ती 25 व्यावृत्तिबुद्धिर्यत्र भवेत्तत्रैव विशेष इत्यभिप्राय इति प्रतिभाति । द्रव्यगुणकर्मणां सामान्यविशेषाभावं समर्थयति तहज्येति. दन्यबुद्ध्यासन्नताया द्रव्य एव सम्भवेन तत्रैव सामान्यविशेषौ भवत इत्याह द्रव्यबुद्ध्या हीति, सदनित्यमिति, द्रव्यगुणकर्मणां सदाकारप्रत्ययव्यपदेशविषयत्वं ध्वंसप्रतियोगित्वं प्रागभावप्रतियोगित्वं समवायिकारणत्वं सामान्यविशेषवत्त्वं चाविशिष्टो धर्मः साधर्म्यमित्यर्थ इति सूत्रार्थः, एवं तर्हि द्रव्यगुणकर्मणामभेदः प्राप्त इत्याशङ्कायामारम्भानारम्भलक्षणविशेषमाहेत्याभिप्रायेणाह एवं तहीति, द्रव्याणीति द्रव्यं स्वसजातीयद्रव्यारम्भकमित्यर्थः, गुणाश्चेति गुणाः खसजातीयगुणारम्भका इत्यर्थः, 30 कर्मेति,कर्मसाध्ये कर्मणि प्रमाणं नास्तीत्यर्थः। संयोगविभागेष्विति, संयोगविभागेषु स्वोत्पत्त्यनन्तरोत्पत्तिकभावभूतानपेक्षं कर्मेत्यर्थः, इत्येवं लक्षणभेदेनापि तेषां भेदः, तथा विरोधाविरोधभेदात् यथा द्रव्यं न खकारणं कार्य वा हन्ति, गुणाश्च कार्यवध्याः यथाऽऽद्यशब्दादयः कारणवध्याश्च यथाऽन्त्यशब्दादयः, उपान्त्येन शब्देनान्त्यस्य नाशात्, कर्म तु खकार्येणोत्तरसंयोगेन हन्यत इत्येवमादयो नानात्वसाधकास्ते सामान्याभावे विशेषाभावादनर्थका इत्याह द्रव्यगुणकर्मनानात्वेति, द्वा० न०५ 2010_04 . Page #84 -------------------------------------------------------------------------- ________________ द्वादशारनयचक्रम् [विध्यरे इतर आह यथा द्रव्ययोः प्रत्यासत्तिद्रव्यत्वाभिसम्बन्धात्तथा सत्त्वाभिसम्बन्धाद्रव्यगुणकर्मणां भविष्यति यथोक्तं 'सदिति यतो द्रव्यगुणकर्मसु द्रव्यगुणकर्मभ्योऽर्थान्तरं सा सत्तेति, अत्र श्रूमः, द्रव्ययोरपि नोपपद्यते, तथाऽऽसत्तिः सिकतानां वज्रस्य च न भूम्यम्भसोः, तेनैव हेतुक्रमेण तथाऽऽसत्तिः पिण्डघटयोन मृत्सिकतानामेवं परतः परतो यावत्तुल्यजातिगुणक्रियघोरण्वादेरेव स्याताम् , न तु तयोरप्यन्यत्वप्रत्ययप्रभावोल्लिङ्गितान्त्यविशेषयोस्तत्समवायेनापक्षिप्तप्रत्यासत्त्योस्तस्मात् सामान्याभावाद्विशेषाभावः सर्वत्रैवोभयाभावः। (यथेति) यथा द्रव्ययोः प्रत्यासत्तिर्द्रव्यत्वाभिसम्बन्धात्तथा सत्त्वाभिसम्बन्धाद्रव्यगुणकर्मणां भविष्यति यथोक्तम् “सदिति यतो द्रव्यगुणकर्मसु द्रव्यगुणकर्मभ्योऽर्थान्तरं सा सत्ते"ति, अत्र ब्रूमः 10 द्रव्ययोरपि त्वदनुकम्पाद्रवीकृतचेतसा मया त्वयि चित्तानुवृत्त्योक्तं, तत्राप्याशां मा कृथास्तदपि नोपपद्यते बुनासन्नीकृतसामान्यविशेषवादिनो भवतः, सामान्याभावे विशेषाभावात् , तथाऽऽसत्तिः सिकतानां वस्य च-पार्थिवत्वसामान्यानुविद्धत्वादश्मसिकतालोष्ठवज्रादीनां तेषां सामान्यविशेषौ स्यातां न भूम्यम्भसोरन्यतरस्य पार्थिवत्वाभावात् , तेनैव हेतुक्रमेण तथाऽऽसत्तिः पिण्डघटयोर्न मृत्सिकतामाम् , एवं परतः परतो यावत्तुल्यजातिगुणक्रिययोरण्वादेरेव स्याताम् , सामान्यविशेषाविति वर्तते, त18 बाऽऽसत्तिर्घटकपालयोन पिण्डकपालयोरेवं कपालशकलयोः न घटशकलयोः शकलशर्करयोन घटशर्करयोः पांशुशर्करयोर्न शकलशर्करयोः पांशुधूल्योर्न धूलिशर्करयोः धूलित्रुट्योन पांशुत्रुट्योः, त्रुटिपरमाण्वोर्न धूलिपरमाण्वोः , अथवा घटस्य च घटस्य च, न घटस्य कपालस्य चेत्यादि, द्वयोरप्यण्वोः पार्थिव शुक्लपतिसमवायिनोरण्वोः, नाऽऽप्यपार्थिवादिनीलशुक्लगतिस्थितिजातिगुणक्रिययोः। न तयोरपीत्यादि यावदपक्षिप्तप्रत्यासत्योरिति, तुल्यजातिगुणक्रियासमवायिनोरन्यत्वप्रत्ययप्रभावोल्लिङ्गितान्त्यविशेषयोः तत्स20 मवायेनापक्षिप्ताऽपहृता प्रत्यासत्तिस्तयोरपीति कृत्वा कुतस्तद्बुद्ध्यासत्तिप्रहरणम् , तस्मात्सामान्याभा वाद्विशेषाभावः, सर्वत्रैवोभयाभाव इति द्रव्यगुणकर्मणां न सामान्यं नापि विशेष इत्यतःप्रभृति बावदण्वोरित्येतदवधि मध्याभिहितोपपत्तिबलाद्यथोपपादितं सामान्यविशेषाभावं स्मारयति । अत्राऽऽह सा द्विधा प्रत्यासत्तिः, अर्थसम्बन्धादनसम्बन्धात् , तत्रानर्थलक्षणा सद्रव्यपृथिवीम26 बटादितत्त्वानुवृत्तिबुद्धिग्रहणा यथोक्ता, अर्थलक्षणा तु द्रव्यगुणकर्मसम्बन्धात्मिका यथोकं 'अर्थ इति द्रव्यगुणकर्मसु' (दै० अ०८ आ० २ सू० ३) इति । (सेति) सा द्विधा प्रत्यासत्तिरर्थसम्बन्धादनर्थसम्बन्धात् , तत्रानर्थलक्षणा सद्रव्यपृथिवीमृद्धटादितत्त्वानुवृत्तिबुद्धिग्रहणा यथोक्ता, सामान्यविशेषसमवायानामर्थत्वाभावात् , अर्थलक्षणा तु द्रव्ययोरपीति, यत्पूर्व मया द्रव्यस्य द्रव्यत्वसामान्यसम्भव उक्तः स त्वय्यनुकम्पयैव, न वस्त्वनुरोधेन यथा हि द्रव्यगुण30 कर्मसु म तदुख्खासत्तिस्तथा पृथिवीजलादौ द्रव्यत्वमपि न सिध्यति तदुड्या हि पृथिव्यां जले तेजआदौ वाऽऽसत्तिह्येत मतु पृथिवीजलादाविति तत्रैव सामान्यविशेषौ स्याताम् , अनयैव रीत्या पृथिवीत्वमपि न सिध्यति तबुख्या पिण्डघटयोरे. वाऽऽसतिगृथेत नतु मृरिसकतादीनाम, एवमेव घटत्वादिजातेरप्यासिद्धिर्बोध्या, एवं तुल्यजातिगुणक्रिययोरपि परमाण्वोः सामान्य म सादन्त्यविशेषवलेन तयोरन्यत्वसिमा तनुज्यासमत्वासम्भवादिति प्रघट्टकार्थः । अर्थसम्बन्धादिति, ___JainEducation International 2010_04 Page #85 -------------------------------------------------------------------------- ________________ अर्थाश्लेषासत्तिभङ्गः] न्यायागमानुसारिणीव्याख्यासमेतम् द्रव्यगुणकर्मसम्बन्धात्मिका, तेषामर्थसंज्ञितत्वात् , यथोक्तं 'अर्थ इति द्रव्यगुणकर्मसु । तत्र क्रियाबदित्यादि द्रव्यलक्षणम् , तद्भेदलक्षणञ्च रूपरसगन्धस्पर्शवती पृथिवी, रूपरसस्पर्शवत्य आपो द्रवाः स्निग्धाश्च, तेजो रूपस्पर्शवत्, वायुः स्पर्शवान्, यत्र रूपादिचातुर्गुण्यं सा पृथिवी गन्धहीना द्रवनेहाधिकाश्चापः, द्रवस्नेहरसगन्धहीनं तेजः । रूपहीनो वायुः, द्रव्याश्रय्यादिलक्षणो गुणा, श्रोत्रग्रहणोऽर्थः शब्दः, चक्षुर्ग्रहणो योऽर्थः स रूपमित्याद्यर्थलक्षणनियतया प्रत्यासत्त्या सामान्यविशेषौ । स्थातामिति । अत्रोच्यते-- तन्न, अर्थाऽऽश्लेषलक्षणायान्त्वासत्तौ पृथिवीघटरूपादीनामेव स्यात्सामान्यविशेषता, नेतरसामान्यविशेषयोः, इष्यते च तयोरपि सादृश्यानुवृत्तिलक्षणसामान्यविशेषता । (तन्नेति) अर्थाश्लेषलक्षणायान्त्वासत्तौ पृथिवीघटरूपादीनामेव स्यात् सामान्यविशेषता 10 लक्षणोद्देशनिर्देशकृतैवेत्यर्थः, नेतरसामान्यविशेषयोः सामान्यविशेषतेति वर्त्तते, सत्त्वद्रव्यत्वपृथिवीत्वगुणत्वरूपत्वाद्यनुवृत्तिव्यावृत्तिबुद्धिलक्षणयोर्न स्यादिष्यते च तयोरपि वैशेषिकैर्गुणसमुदायद्रव्यवादिभिश्च सादृश्यानुवृत्तिलक्षणसामान्यविशेषता, कोऽभिप्रायः, अर्थाश्लेषलक्षणासत्तिकृतसामान्यविशेषाभ्युपगमे तत्त्वानुवृत्तिबुद्धिग्रहणौ न स्याताम् , तत्त्वानुवृत्तिनिवृत्तिकृतयोर्वाऽभ्युपगमेऽर्थाश्लेषकृतप्रत्यासत्त्योरभाव इति विरोधान्न प्रकल्पत इत्ययमभिप्रायः । किश्चान्यत्तथापि स्वविषयसामान्यविशेषापत्तिः, सा चोक्तदोषा । (तथापीति) अर्थाश्लेषलक्षणासत्तौ सत्यामपि स्वविषयमेव सामान्यं स्वविषय एव विशेष इत्युक्तौ प्रागुक्तौ विकल्पावापन्नौ, सा चोक्तदोषा-सापि च स्वविषयसामान्यविशेषापत्तिरुक्तदोषव, यदि स्वविषयं सामान्यविरोधः, यदि सामान्यं तत आत्मा न भवत्यनेकार्थत्वात्सामान्यस्य, अथात्मा 20 ततो न सामान्यमेकत्वादात्मनः, अथात्मैव सामान्यं रूपादिर्घटादेरात्मा तत्समुदायकार्यत्वात् , एवं 15 द्रव्यगुणकर्माण्यर्थशब्दवाच्यानि, सामान्यविशेषसमवाया अर्थशब्दानभिधेया इति वैशेषिके सूत्र उक्ताः, तत्र घटत्वपृथिवीत्वध्यत्वादयोऽनर्थसामान्यानि द्रव्यस्य क्रियागुणवत्त्वं पृथिव्या रूपरसगन्धस्पर्शवत्त्वमित्येवमादीन्यर्थसामान्यानीति तत्तत्सम्बन्धेन ते ते सामान्यविशेषाख्यां लभन्त इति । अर्थसम्बन्धप्रयुक्तसामान्यविशेषाङ्गीकारे द्रव्यगुणकर्मखेव त्रिपशब्देनोद्दिष्टेषु च सामान्यविशेषो भवेतां नेतरसामान्यविशेषयोः सामान्यविशेषौ स्यातामित्याशयेनाहााग्लेषलक्षणाया-25 न्विति । इष्यते चेति, सामान्यविशेषयोरपि सामान्यविशेषता वीक्रियत इत्यर्थः, द्रव्यत्वादेः सत्तापेक्षया विशेषत्वात्, पृथिवीत्वाद्यपेक्षया सामान्यत्वाच । लक्षणोद्देशनिर्देशकृतेति, लक्षितानां द्रव्यादीनां विमागेन प्राप्ता सामान्यविशेषतेत्यर्थः यथा द्रव्यं क्रियावत्त्वादिना लक्षणेन निर्दिश्य तद्भेदाः पृथिव्यादय उपवर्ण्यन्ते, यस्य विभागस्तत्सामान्यं ये विभागाते विशेषा इति, एवञ्च सामान्यविशेषयोः विभाज्यविभाजकभावाभावेन तयोः सामान्यविशेषता न स्यादिति भावः । अर्थानर्थयोर्विरोधादोश्लेषलक्षणासत्तिकृतसामान्यविशेषौ यत्र न तत्र तत्त्वानुवृत्तिव्यावृत्तिबुद्धि ग्राह्यो भवेताम् यत्र चैतौ न तत्रार्थाश्लेषलक्षणा-30 सत्तिकृतसामान्यविशेषावित्यभिप्रायमाह कोऽभिप्राय इति । अर्थसम्बन्धप्रयुक्तसामान्यविशेषाङ्गीकारे च द्रव्यगुणकर्माव्येव सामान्य विशेषौ द्रव्यगुणकर्मणामेवेति सामान्य विशेषश्च खविषय एवेत्यापन्नम् तत्र चोक्ता दोषा इत्याशयेनाहाऽर्थातशेषलक्षणेति । यद्यर्थाश्लेषलक्षणासत्तिकृतसामान्यविशेषौ न मयाऽभ्युपगम्येते येन खविषयपक्षपातिदोषानुषको भवेत् किन्तु _ 2010_04 Page #86 -------------------------------------------------------------------------- ________________ ३६ द्वादशारनयचक्रम् [विध्यरे सत्यात्मभेदः, रूपं रूपश्च रूपादिसमुदयश्चेत्यादि, तथा विशेषोऽपि यदि स्वविषयो विशेषविरोधः, यदि विशेषस्तत आत्मा न भवत्यन्यत्वाद्विशेषस्य गुणतः कालसो वा, अन्यथा घटादौ सामान्यापत्तेः, अथात्मा ततो विशेषो न भवति, एकत्वादात्मनः । अथोच्येत नैकत्वान्यत्वविरोधदोषौ, आत्मैव विशेष इत्यनपादानादिप्रतिज्ञानात् , यद्यात्मापेक्ष एव विशेषस्तक एवान्य इत्यात्मनोऽन्यथाभवनादनात्मत्वमित्यादिपूर्वोक्तदोषसम्बन्धिनी स्वविषयसामान्यविशेषापत्तिः । अत्राह संसर्गवादी यद्यात्मैव सामान्यमात्मैव विशेष इति ब्रूयां सांख्यबौद्धवत्परे ते दोषा ममापि, न पुनर्ममैवं पक्षः, मम तु सामान्यविशेषौ द्रव्यगुणकर्मभ्योऽत्यन्तभिन्नौ नागृहीतविशेषणा विशेष्ये बुद्धिरस्तीति सत्त्वाभिसम्बन्धात्सत् , द्रव्यत्वाभिसम्बन्धाव्यमित्यादिसामान्यविशेषवादिनः कथं स्वविषयसामान्यविशेषपक्षदोषा इति, अत्रापि परविषयसामान्यविशेषवादिप्रत्याख्यानात् का गतिरित्यलं प्रसङ्गेन । तस्मादेतदोषापेतं सर्वथान्तरङ्गं वस्तु प्रतिपत्तव्यम् , न बहिरङ्ग सत्त्वद्रव्यत्वादि, स्वमूर्तिस्थत्वात् प्रधानत्वाव्यवस्थितत्वाच्च घटादिभवनस्य । . (तस्मादिति) तस्मादित्युक्तदोषोपसंहारार्थः, एतदोषापेतं सर्वथान्तरङ्ग वस्त्विति प्रतिपत्तव्यं घटादीत्यभिसम्बन्धः, सर्वेण प्रकारेण सर्वथा, यां गतागतिं गत्वा सामान्यमेव विशेष एवेत्येवमादिना विचार्य विचारान्तरङ्गं वस्तु घटस्य केनचित् प्रतिविशिष्टेनाकारेणोदकाद्याहरणधारणादिसमर्थन भवनं 18 समानेन चार्थान्तरैस्तदेवाश्रयणीयम् , न बहिरङ्ग सत्वद्रव्यत्वादि स्वपरविषयसामान्यविशेषवादिपरि कल्पितम् , यथोक्तम् "अन्तरङ्गबहिरङ्गयोरन्तरङ्गो विधिबलवान्”, य एष प्रेक्षापूर्वकारी पुरुषः स प्रातरुत्थाय प्रत्यङ्गवर्तीनि स्वानि कार्याणि कुरुते ततः सम्बन्धिनां ततः सुहृदां ततः शेषाणामिति, तदन्तरङ्गत्वं कुतः ? स्वमूर्तिस्थत्वात् स्वा मूर्तिीवाद्यात्मिका तत्रस्थत्वाजलाद्याहरणसमर्थस्य भवनस्य, प्रधानत्वाञ्च तदेव ग्राह्यम् , कुतः प्रधानं ? तदर्थत्वात्सामान्यविशेषयोः, कन्यार्थवस्त्रालङ्कारवत्। घटार्थों 20 हि सामान्यविशेषकल्पनाव्यापारः, ब्रीहिकणार्थपललादिवदप्रधानत्वात् सामान्यविशेषयोस्त्याज्यता । व्यवस्थितत्वाञ्च तदेव घटभवनं ग्राह्यम्, व्यवस्थितत्वश्चात्मन्यवस्थितत्वात् । न तु यथा तौ सद्रव्यादिषु सञ्चारिणौ, घटभवनस्योदकाद्याहरणसत्तात्मनः पुनः क सञ्चरणम् , अनपेक्षत्वाच्च, न हि तस्यानुवृत्त्यपेक्षा घटान्तरेषु, यदि स्यात्ततोऽनुवर्तेत स तेष्वपि, न पुनरपेक्षाऽस्ति तस्य स्वसामर्थ्येनैव सिद्धत्वात् , ततश्च सर्वसामान्यांश एव स 25 स्यात् , तद्यथा पूर्वाह्नापरायोरेक एव घट इति । तत्त्वानुवृत्तिव्यावृत्तिबुद्धिग्राह्यावेवेति नैयायिको ब्रूयात्तदापि दोषमादर्शयति अत्राह संसर्गवादीति,नागृहीतेति, विशेषणं प्रथममगृहीत्वा विशेष्ये बुद्धिनोंदेति ततश्चादौ सत्त्वद्रव्यत्वादीनां बुद्धिस्ततश्च सदादौ विशेष्येऽत आह सत्त्वाभिसम्बग्धात् सदिति । सामान्यविशेषयोः परविषयतापक्षे ये दोषास्तेऽत्र दुर्वारा इत्याहात्रापीति । सर्वथाऽन्तरङ्गमिति, सजातीयविजातीयव्यावृत्तं खलक्षणमेव वस्त्विति बौद्धमतम् । प्रत्यङ्गवर्तीनीति, प्रत्यासन्नवाची प्रत्यङ्गशब्दः अङ्गशब्देन ७० प्रत्यासत्तिर्लक्ष्यते, अङ्गानां प्रत्यासन्नत्वात् , अङ्गमङ्गं प्रति प्रत्यङ्गमित्यव्ययीभावः। यान्यस्य प्रत्यासन्नशरीरवतीनि कार्याणि तानि तावत्करोति, ततः सुहृदाम् , सौहार्दस्यासत्तिहेतुत्वात् , ततः सम्बन्धिनाम् , अवश्यकर्त्तव्यत्वात् ततः शेषाणाम् , सामान्यजनानां सति प्रयोजन इति भावः । घटार्थी हीति, अयं घट एव नान्य इति निर्णेतुं हि सामान्यविशेषकल्पना, घटादिश्च म परार्थ कल्पित इति स प्रधानम् , यच प्रधानं तदेव वस्तु नान्यदिति भावः, आत्मन्यवस्थितत्वादिति, परानपेक्षख _ 2010_04 Page #87 -------------------------------------------------------------------------- ________________ ३७ अन्तरङ्गवस्तुस्थापनम् ] न्यायागमानुसारिणीव्याख्यासमेतम् (नेति) न तु यथा तौ सञ्चारिणौ-सामान्यविशेषावव्यवस्थितौ परापेक्षत्वादव्यवस्थितत्वाचावस्तु वन्ध्यापुत्रवत्, क पुनः सञ्चारिणौ ? सद्रव्यादिषु, सद्व्यपृथिवीमृद्धटत्वाभिसम्बन्धादस्ति द्रव्यं पार्थिवो मार्तिको घट इति घटे सम्प्रत्यय इति, उक्तं ह्याचार्यण 'घटभवनस्योदकाद्याहरणसक्तात्मनः पुनः क सञ्चरणम् ? अनपेक्षत्वाच्च' तदेव वस्त्वित्यभिसम्बध्यते प्रत्येकं सर्वत्र, तद्धि घटभवनं न घट इति वा पट इति वा घटपटादिद्रव्यान्तरमपेक्षते, यथाऽनुवृत्तिव्यावृत्तिसामान्यवादिमते च तदर्थ घट्पटाद्यर्थान्तरापेक्षा, व्यावृत्तिविशेषवादिमते च तदर्थं घटपटादिद्रव्यान्तरापेक्षा, लौकिकाsनुवृत्तिव्यावृत्तिव्यवहारनयवादिमते तु सन्निहितस्वाधीनवृत्तित्वाद्धटात्मभवनस्य न तदपेक्षाऽस्तीति तद्दर्शयति-न हि तस्यानुवृत्त्यपेक्षा घटान्तरेषु, अर्थापत्त्या न व्यावृत्त्यपेक्षा पटादिद्रव्यान्तरेषु, यदि स्यादपेक्षा ततोऽनुवर्तेत स-घटस्तेष्वपि-घटान्तरेष्वपि न पुनरपेक्षाऽस्ति तस्य स्वसामर्थ्य नैव सिद्धत्वात् , तस्य-घटात्मनः, यद्यपेक्षेत घटो घटान्तराणि घटान्तरेष्वप्यनुवर्तेत, ततश्च सर्वसामान्यांश 10 एव स स्याद्भूटान्तरमपि घटात्मैव स्यात्तत्तत्त्वानुवृत्तेर्घटात्मवदिति दोषः स्यात्, देशभिन्नेष्वपि घटेषु कालाभिन्नघटवत् , तन्निदर्शयति-पूर्वाहापराहयोरेक एव घट इति । नापि घटस्तत्त्वानुवृत्तिमपेक्षते घटात्मन्यसिद्धे तत्त्वानुवृत्त्यसिद्धेस्तत एव च न पटादिव्यावृत्तिमपेक्षते तदायत्तत्वादित्यत आह तत्सन्निवेशस्वरूपापेक्षत्वाच्च तस्यास्तस्य तु तदपेक्षा व्यर्था, घटोऽपि घटत्वापेक्षात्मला- 15 भस्तत्त्वानुवृत्तिरपि घटात्मलाभापेक्षेति चेन्न, इतरेतराश्रयदोषापादनात् । (तदिति) तत्सन्निवेशस्वरूपापेक्षत्वाञ्च तस्यास्तस्य तु तदपेक्षा व्यर्था घटावयवसन्निवेशखरूपमपेक्षते घटान्तरानुवृत्तिः पटादिव्यावृत्तिरपीति युक्ताऽनुवृत्तेर्घटापेक्षा व्यावृत्तेरपि पटादेः, घटस्य पुनरनुवृत्तिव्यावृत्त्यपेक्षा व्यर्था, स्वत एव सिद्धत्वात् , स्यान्मतं घटोऽपि घटत्वापेक्षात्मलाभः, तत्त्वानुवृत्तिरपि घटात्मलाभापेक्षेति, एतच्चायुक्तमितरेतराश्रयदोषापादनात्, घटघटत्वानुवर्तनयोरितरेतरा-20 श्रयत्वदोषमापादयत्येषा कल्पना, इतरेतराश्रयाणि च कार्याणि न प्रकल्पन्ते तद्यथा नौ वि बद्धा नेतरतारणायेति, उक्तं सामान्यं नापेक्षत इति । तथा विशेषेऽप्यस्य नापेक्षा, अन्यथा स एव न स्यादुक्तवत् । तथा विशेषेऽप्यस्य नापेक्षेति, यथा सामान्यापेक्षा नास्ति घटात्मलाभस्य तथा विशेषेऽपीति प्रोक्तहेतुविधिनाऽतिदिशति, तथा च योजितमस्माभिरर्थतः, ग्रन्थतो योजनापि तथाहि स एव न स्या- 25 खरूपावस्थानादित्यर्थः । सामान्य विशेषौ च सजातीयविजातीयापेक्षावतोऽनेकापेक्षत्वात्सञ्चारिणावित्याशयेनाह न त्विति । अस्य घटस्याभिमतानेकघटान्तरसम्बद्धवभावत्वे तस्य घटान्तरेषु यद्यनुवृत्तिः स्यात्तदाऽसौ तेषामेकदेशः स्यात्तेषाञ्चैकात्म्य स्यादविभक्तरूपतयाऽस्यावस्थितत्वात् , अन्यथैकदेशत्वं न भवेत् खस्मिन् घटानुवृत्तेरिव घटान्तरेष्वपि घटानुवृत्तौ तेऽप्येत टात्मान एव भवेयुरित्याशयेनाह यद्यपेक्षेतेति । जातेः संस्थानव्यङ्गयत्वात् संस्थानस्य चावयवसन्निवेशविशेषरूपत्वात्तदपेक्षयाऽनुवृत्तिः सती, व्यावृत्तिरपि भेदस्वरूपा प्रतियोगिनमपेक्षत एवेति तस्या अपि तदपेक्षा युक्ता घटस्तु न किमप्यपेक्षते 30 व्यवस्थितत्वादित्याशयेनोच्यते घटावयवेति । घटोऽपि घटत्वापेक्षात्मलाभ इति, घटत्वयोगादेव घटस्वरूपत्वात्तस्य तदपेक्षेत्यर्थः, घटात्मलाभमपेक्षत इति लब्धखरूपेषु सञ्चरिष्णुतयेति भावः । स एव न स्यादिति यस्य सर्वस्माद्विशिष्टत्वं 2010_04 Page #88 -------------------------------------------------------------------------- ________________ ३८ द्वादशारनयचक्रम् [विण्यरे दुक्तवदिति, न हि तस्य व्यावृत्त्यपेक्षा पटादिषु, यदि स्थात् , स तेभ्यो व्यावर्तेत, ततश्च सर्वविशिष्टत्वात् स एव न स्याद्धटोऽपि, घटपटयोरिव, तत्सन्निवेशस्वरूपापेक्षत्वाच्च तस्यास्तस्य तु तदपेक्षा व्यर्था, इतरेतराश्रयदोषापादनादिति सर्वमतिदेश्यम् । किश्चान्यत यथालोकप्रसिद्धं पूर्वत्वाच्च घटात्मभवनस्य, अनपेक्षितपूर्वापरप्रभेदत्वात् , प्रकृतिरिति वाऽन्यदिति वा पूर्वापरप्रभेदाः, वर्तमानत्वाच्च तन्न प्रलयभाक् । (यथेति) पूर्वत्वाच्च घटात्मभवनस्य सामान्यविशेषाभ्यां हि घटभवनं पूर्व तत्कथमिति चेत् ? यथालोकप्रसिद्धं, लोके प्रसिद्ध लोकप्रसिद्धं, यथैव लोकप्रसिद्ध तथा घटभवनम् , आकारादिमात्रमेव च घट इति लोके प्रसिद्धं तदेव पूर्वम् , अनपेक्षितपूर्वापरप्रभेदत्वात् , के पुनः पूर्वापरप्र10 भेदाः ? घटादारभ्य यावत्प्रकृति ते पूर्वप्रभेदाः सांख्यानाम् , सदिति वा वैशेषिकाणामपरप्रभेदाः यावदन्त्यविशेषकृतमन्यदिति सांख्यवैशेषिकाभ्यां कल्पितम् , अत आह-प्रकृतिरिति वा अन्यदिति वा, बौद्धन वा क्षणिकत्वादत्यन्तमन्यदिति । वर्तमानत्वाच्च, वर्ततेरस्त्यर्थत्वात् , 'अस्तिभवतिविद्यतिपद्यतिवर्त्ततयः सन्निपातषष्ठाः सत्तार्थाः' इति वचनात् , अत एव नित्यं जलाहरणादिव्यवहारसन्निपाति सततमतीतानागतकालयोरपि घटपटयोरवस्थानान्न प्रलयभागिति, नाम्भस्तरङ्गवत् स्वात्मप्रवेशं न 16 प्रदीपज्वालानलवदत्यन्तविनाशं द्विविधमपि प्रलयं लभते, द्रव्यस्य पर्यायान्तरेण पर्यायस्यापि द्रव्या विनाभावादेव सत्त्वात् , एकान्तासदुत्पत्तिविनाशवादयोरहेतुदृष्टान्तत्वात् , एकान्तनित्यवादेन धर्माविर्भावतिरोभावाभावात् । तद्धि तेन रूपेण सर्वकालं सद्धर्तते सत्तार्थत्वात् , वर्त्तत इति भाव इति योऽसौ भावः, तदन्तरङ्गं प्रधानमनपेक्षं पूर्व वर्तमानञ्च-वस्त्विति येऽन्येऽन्यत्कल्पयन्ति कारणमेव कार्यमेव 20 सामान्यमेव विशेष एव तदुभयमेवान्यतरोपसर्जनप्रधानमेव नैव वास्त्युभयमिति किमेतेन । (तद्धीति) तद्धि तेन रूपेण सर्वकालं सद्वर्त्तते सत्तार्थत्वादिति, तदेव व्याचष्टे वर्तत इति भाव इति, वृत्तिभवनयोः प्रागुक्तं पर्यायशब्दत्वं दर्शयति योऽसाविति, प्रत्यात्मनि य एवं व्याख्यातो भावः सोऽसौ, तदेव वस्तु नान्यदिति प्रतिपत्तव्यमिति निगमयति-तदन्तरङ्गं प्रधानमनपेक्षं पूर्व वर्त्तमानश्च तद्वस्तु, इतिशब्दः परिसमाप्त्यर्थोऽवधारणार्थो वा, इयानेव पर्याप्तोऽर्थो नातोऽधिको न्यूनो 25 वक्तव्यं तस्यापि सर्वान्तःपातितया ततोऽपि विशिष्टत्वप्राप्तौ सर्वशून्यतैव स्यादिति भावः । अथ घटो व्यावृत्त्यपेक्षात्मलाभः व्यावृत्तिरपि घटात्मलाभापेक्षेति शङ्कायामाहेतरेतराश्रयेति । प्रकृतित एव सर्वेषामारम्भात् प्रकृतेर्घटावस्थापर्यन्तं ये परिणामाः सर्वे ते घटस्य पूर्वप्रभेदाः सांख्यमतेन, सद्भतात् परमाणोव्यस्यारम्भात् तदारभ्य घटोत्पादपर्यन्तं कार्यभेदा घटस्य पूर्वप्रभेदा वैशेषिकमतेनेत्याह सांख्यानामिति । सन्निपातषष्टा इति. सन्निपातोऽपि सत्तावाचीति भावः । सत्ता च कालत्रयवर्तिनीति सद्रूपेण घटपटादयः सर्वे सर्वदा सन्तीति तच्छ्रन्यकालाप्रसिख्याऽम्भसि तरङ्गाणीव प्रकृतौ महदादिविकार30 जातानि सर्वाणि कदाचिल्लयं यान्तीत्येवंरूपः सांख्याभिमतः प्रदीपज्वालालक्षणानल इव वणुकादिकार्यजातानि निरन्वयविनाशं लभन्त इत्येवंरूपो नैयायिकाभिप्रेतो वा प्रलयो निर्मूल एवेति भावः। तत्र हेतुमाह द्रव्यस्येति । अहेतुदृष्टान्तत्वादिति निरन्वयोत्पत्तिविनाशसाधकस्य कस्यचिदपि हेतोदृष्टान्तस्य वाऽभावादित्यर्थः । इतिशब्दस्य परिसमाप्त्यर्थत्वे इयानेव पयोप्तोऽर्थ 2010_04 Page #89 -------------------------------------------------------------------------- ________________ वादोच्छेदभङ्गः ] न्यायागमानुसारिणीव्याख्यासमेतम् वा, येऽन्येऽन्यत् कल्पयन्ति कारणमेव कार्यमेव सामान्यमेव विशेष एव तदुभयमेवान्यतरोपसर्जप्रधानमेव नैव वाऽस्त्युभयमिति किमेतेन । यदि कारणं यदि कार्य ततः को दोषः, दृश्यते हि कारणमपि कार्यमपि, यथा परमाणुः कारणं द्व्यणुकादेर्मृत्पिण्डशिवकादीनां कार्यमपि सद्भेदजत्वात्, एवं द्र्यकत्र्यणुकादीनामपि कारणकार्यभावः संघात भेदाभ्याम् । सामान्यं द्रव्यक्षेत्रकालभावानां खपरभवनसामान्यानतिवृत्तेः, स्वपरविशिष्टभवनात्मकत्वाद्विशेषः, एवमुभयमन्यतरोपसर्जनप्रधानश्च सद्दक्रमस्वातंत्र्यपारतंत्र्यविवक्षावशात् न चास्त्युभयम्, एकान्तरूपस्य परस्पराप्रतिबद्धस्यासिद्धेरसिद्ध्यादिशून्यतानुभवनात् । स एव व्यवहारनयाश्रयालौकिको ब्रूते को हि वादानामन्तं कर्तुं शक्नुयात्, अभियुक्तबुद्ध्युत्कर्षपरम्पराया अदृष्टद्रष्टृत्वात्, आह च 'णिययवयणिज्जसच्चा सबणया परवियालणे मोहा । ते पुण अदिट्ठसमया विभजइ 10 सच्चैव अवि' इति ( सम्म० का० १, गा० २८ ) को हि वादानामिति, एकान्तवादानामन्तं कर्त्तुं शक्नुयात्-उच्छेदं शक्नुयात् कर्त्तुमिति, किं कारणं ? न हि सांख्याभिहिताः सत्कारणे कार्य 'असदकरणादुपादानग्रहणात्सर्वसम्भवाभावात् । शक्तस्य शक्यकरणात् कारणभावाच्च सत्कार्यम् ' ( सांख्यका० ९ ) इत्येवमादयो हेतवः, न वा वैशेषिकोक्ताः क्रियागुणव्यपदेशाभावादसदित्यादयः, क्षणिका घटादयः प्रत्ययायत्तजन्मत्वादित्यादयो 15 वा बौद्धोक्ताः परस्परेणोच्छेत्तुं शक्यन्ते, अभियुक्तबुद्ध्युत्कर्षपरम्पराया अदृष्टद्रष्टृत्वात् । एतस्मिन्नर्थे ज्ञापकमाह-आह चेति, नाहमेव स्वमनीषिकया ब्रवीमि किं तर्हि ? अन्येऽप्येवं ब्रुवते “णिययवय णिज्जसच्चा सणया परवियालणे मोहा । ते पुण अदिट्ठसमया विभजइ सच्चेव अलिएव ॥" ( सम्म० स्वविषयसत्यत्वादेवाविचाल्या इति तच्चालने मोघा:, तेषामनेकान्तस्थिति स्वतत्त्वानवबोधात् सत्यमेवासत्यमेवेत्यदृष्टसमयस्तान् विभजत इत्याचार्यसिद्धसेनाः । तथाऽन्येऽपि “यत्नेनानुमितोऽप्यर्थः कुत्र - 20 ० ) 1 ३९ इति नतोऽधिको न्यूमो वेत्यर्थस्त्ववधारणार्थत्व इत्याशयेनोक्तमियानेवेति । तद्भेदजत्वादिति, मृत्पिण्डशिन कादीनां भेदेन जातत्वादित्यर्थः, घटकपालकपालि कारार्करिकापांसुधूल्यादिक्रमेण परमाणोर्जातत्वात् यद्वा मृत्पिण्डादिलक्षणस्कन्धात् पृथ भावे सति परमाणोस्तद्भेदजत्वादिति भावः । खपरेति, खेन रूपेण भवनलक्षणं सामान्यं पररूपेण भवनलक्षणं वा सामान्य दध्यादयो नातिवर्तन्ते द्रव्यादीनां सजातीयरूपेण विजातीयरूपेण या भवनादिति भावः तथाच भवनसामान्यापेक्षया कारणभूतं कार्यभूतमपि परमाण्वादिद्रव्यं सामान्यं द्व्यणुकयणु कादिलक्षणविशिष्टभवनापेक्षया च विशेषोऽपि, कार्यकारणयोः सामा न्यविशेषयोश्च सहस्वातंत्र्यविवक्षायामुभयरूपं क्रमेण पारतंत्र्यविवक्षायां कार्योपसर्जन कारणरूपं कारणोपसर्जन कार्य कार्यैकखरूपस्य कारणैकरूपस्य कस्यचिदभावान्न किंचिद्वस्तु किंतु शून्यमेवेति भावः । असत्करणादित्यादि, मदवाब क्रियते, पटाद्यर्थं प्रतिनियतमेव तन्त्वादिरुपादीयते, सर्वस्मात्तृणादेः स्वर्णरजतादि कार्यं नोत्पद्यते, शक्ता अपि हेतमः शक्यक्रियमेव कार्यं कुर्वन्ति, कारणमस्तीति च कार्योत्पत्तेः पूर्वमपि कारणे कार्य सदित्यर्थः । प्रत्ययायत्तजन्मत्ना विवि, वर्तमान क्षणवृतिपदार्थस्यैव प्रतीतिविषयता नातीतानागत कालवृत्तिनः, अतीतादेः प्रत्ययाविषयत्वादिति प्रत्ययतः कि वस्तु सिद्धयतीति भावः । अथवा स्कन्धपश्चकस्य समुदयो हेतूपनिबन्धात् प्रत्ययोपनिबंधाच्च, बीजादङ्करः असद पत्रास्काण्डं काण्डान्नालं नालाद्गर्भे गर्भाच्छुकः शुकात् पुष्पं पुष्पात् फलमिति हेतूपनिबंधात् । न ह्यत्र बीजादी क निर्वर्त्तयामीत्यभिसंधिः। प्रत्ययोपनिबन्धस्त्वयम् यः पृथिव्यादिधातुसमवायः तत्र पृथिवी बीजस्य सन्धारणमा भेद तेजोधातुः परिपाचनं बायुधातुरभिनिर्हरणं करोति इत्येवं प्रत्ययायतजन्माऽङ्कुरादिरिति बोध्यम् । नेति 2010_04 Page #90 -------------------------------------------------------------------------- ________________ ४० द्वादशारनयचक्रम् [विध्यरे लैरनुमातृभिः । अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते” (वाचस्पतिमिश्राः) अनुमानान्तरबाध्यत्वेऽनवस्थितानुमानत्वाल्लोकप्रसिद्धिरेव प्रमाणमित्यर्थः । को ह्येतद्वेद किं वाऽनेन ज्ञातेन । (क इति) को ह्येतद्वेदेत्यशक्यप्राप्तिं दर्शयति किं वाऽनेन ज्ञातेनेति प्रयोजनाभावश्च, यस्मात् प्रतिज्ञाहेतुदृष्टान्तोपनयनिगमनानां जिज्ञासासंशयशक्यप्राप्तिप्रयोजनपूर्वाणां संशयव्युदासः फलमन्ते भविष्यतीति दशावयववादिनां मतं तथा च व्यवहारप्रसिद्धिः। तस्मात्त्यज्यतामद्यतनाव्याप्त्यतिप्रसगागमकाक्षरदरिद्रकुसृतिकाररचितन्यायलक्षणानीति । तथा च कारणे कार्यसदसत्त्वानियमः, कारणे सत्येव भावाभावाभ्याम् , असति च कारणे कार्यस्य, सेवाद्युद्योगफलानियमात् । 10 (तथा चेति) तथा च कारणे कार्यसदसत्त्वानियमः, एवश्च कृत्वाऽनेन न्यायेन यथा का रणमेव न कार्य कार्यमेव न कारणं सामान्यमेव न विशेषो विशेष एव न सामान्यमुभयमन्यतरोपसर्जनमुभयाभावो वेत्ययं नियमो नास्त्युक्तविधिना, तथा कारणे कार्यस्य सत्त्वमेवासत्त्वमेवेत्ययमपि नियमो नास्ति, कथं ? यदि कार्य सत्ततः कारणमेवेति नास्ति, कार्यस्यापि सत्त्वात् , कथं ? क्रियानिमित्तकत्वात् कारणत्वकार्यत्वयोः, कार्याभावे कारणाभावः कारणाभावे कार्याभाव इति । तथा 15 यदि कारणं सत्ततः कार्यमेवेति न भवति कारणस्यापि सत्त्वात्, एवं सामान्यविशेषोभयान्यतरोपस र्जनोभयाभावेष्वपि भावनीयम् । तत्र तावत्कारणे कार्य सदेवासदेव सदसदेवेति ये ब्रुवते तेषां यो नियमाभाव उक्तस्सोऽन्यतरोपसर्जनोभयाभावयोरप्युक्त एव भवतीत्यभिप्रायः। तत्र कारणे कार्य सदेवासदेवेत्यनियमः, को हेतुः ? कारणे सत्येव भावाभावाभ्यामिति यथासंख्यं हेतू । सत्येवभावाद सत् कारणे कार्य मित्यनियमः, सत्येवाभावात् सदेवेत्यनियमः, असति च कारणे कार्यस्य, सदसत्वा20 नियम इति वर्त्तते, कुतः ? सेवाद्युद्योगफलानियमात् , दृष्टो हि लोके कृषीवलवणिग्राजपुरुषशिल्प्यादीनां कृषिवाणिज्यसेवाशिल्पादिषूद्युक्तानां फलानियमः सत्स्वसत्सु च । खतंत्रतर्काविषये न सांख्यादिवत् साधर्म्यवैधर्म्यमात्रेण तर्कः प्रवर्तनीयो येन प्रधानादिसिद्धिर्भवेत् , शुष्कतर्को हि न संभवत्यप्रतिष्ठानात्, न च महापुरुषपरिगृहीतत्वेन कस्यचित्तकस्य प्रतिष्ठा, महापुरुषाणामेव तार्किकाणां मिथो विप्रतिपत्तरिति कारिकोपन्यासं विधातुर्वाचस्पति मिश्रस्याशयः। जिज्ञासेति, अप्रतीयमानेऽर्थे प्रत्ययार्थस्य हानोपादानोपेक्षालक्षणस्य प्रथ25 र्तिका जिज्ञासा, तजनकः संशयः, शक्यप्राप्तिः प्रमाणानां ज्ञानजननसामर्थ्यम् , प्रयोजनं तत्त्वावधारणम्, संशयव्युदासः प्रतिपक्षोपवर्णनम्, तर्को वेति गौतमभाष्ये । अत्र तु संशयव्युदासः संशयापगमो विवक्षित इति ज्ञायते स च विचारानन्तरं भवति ततश्च निश्चितार्थत्वाद्यवहारः प्रवर्तत इति भावः । एवञ्च यतः संशयव्युदासलक्षणं फलमन्ते भवति ततो नेदानीं वस्तूनामनिर्णीतानां लक्षणप्रणयनं समुचितमित्यशक्यप्राप्तिः प्रयोजनाभावश्चेति बोध्यम् । यदि कार्य सदिति, अयं ग्रंथः कारणमेव न कार्यमित्यस्य निराकरणपरः । हेतुमाह क्रियानिमित्तकत्वात् कारणस्वकार्य्यत्वयोरिति, क्रियापेक्षत्वादित्यर्थः क्रिया80 प्रयोजकत्वं कारणत्वं क्रियाविषयत्वं च कार्यत्वं, तत्र चैकस्य सत्त्वेऽपरस्य सत्त्वमवश्यंभावि, अन्यथा तत्स्वरूपमेव न स्यादेव मेकस्याभावेऽपरमपि न स्यात् , क्रियाया आश्रयः स्यान्निरूपको मा भूत् , निरूपकः स्यादाश्रयो मा भूदित्यवं वक्तुमयुक्तत्वादिति कारणमेव कायेमेवेति यथा न नियमस्तथा कारणे कार्यस्य सदसत्त्वयोरप्यनियमः कारणे सत्येव भावाभावाभ्यामिति भावः । कृषीवलेति, कृषीवलः कृषि वणिग्वाणिज्यं राजपुरुषः सेवां शिल्पी च शिल्पं करोति तत्र यदि कृष्यादौ कार्य सदेव तहि सदा सर्वेषां कृष्यादि फलाव्यभिचारि भवेन चैवमित्यनियमः, यद्यसदेव फलं तर्हि कस्यापि कदापि फलं न भवेदेव 2010_04 Page #91 -------------------------------------------------------------------------- ________________ ४१ कार्यसदसत्त्वे] न्यायागमानुसारिणीव्याख्यासमेतम् यथा वा वातककर्कोटकपुष्पं फलकारणं सत्कार्य पुष्पत्वादामपुष्पवदित्यनुमानप्रसअपि च दृष्टमसत्कार्यम् , अव्यक्तमिति चेन्न व्यक्तिकार्यस्याव्यक्तकार्यत्वादसत्त्वतुल्यत्वात् । __ (यथा वेति) असत्कार्य पुष्पफलमस्मिन्नित्यसत्कार्यं तस्याफलत्वदर्शनादृष्टविरुद्धमनुमानमतोऽसत्कार्य तदिति । अव्यक्तमिति चेत्-स्यान्मतमव्यक्तानि वातककर्कोटकवचुलजपाकुसुमादीनां फलानि कार्याणीत्येतचायुक्तं व्यक्तिकार्यस्याव्यक्तकार्यत्वादसत्वतुल्यत्वात्-व्यक्तिः कार्यमस्येति व्यक्तिकार्य, किं तत् ! कार्य, सस्य कार्यस्य अव्यक्तकार्यत्वादसत्त्वेन तुल्यं तद्भावोऽसत्त्वतुल्यत्वं तस्मादसवतुल्यत्वान्नाव्यक्तं कार्यमस्तीति । अथवा व्यक्तिश्च तत्कार्यश्च, तद्व्यक्तिरेव कार्य वा तत् , अव्यक्तं कार्यमव्यक्त कार्य, तस्याव्यक्तकार्यत्वादसत्त्वतुल्यत्वं तस्मादसत्तत्, वातककर्कोटकादिपुष्पफलं नाव्यक्तं कार्यमिति । स्थान्मतम् करोतीति कारणं तस्मात्स्वकार्यस्याकरणादकारणत्वमेवेति चेन्न, बीजादीनामपि ह्यका-10 रणव क्वचिदकरणादिति कारणमप्यकारणमेवास्तु, अनिष्टश्चैतत् , लोके पुनरुत्पद्यते कार्यम् , सदसत्त्वानियमासु करणे वीजादौ कारणतायामेव सत्यां करणाकरणे । करोतीति कारणं यथोक्तं "ष्ठिवसिव्योयुट्परयोर्दीर्घत्वं वष्टि भागुरिः। करोतेः कर्तभावेच सौनागाः सम्प्रचक्षते ॥' तस्मात् स्वकार्यस्याकरणादकारणत्वमेवेति, एतदपि नोपपद्यते यस्माद्वीजादीनामप्यकारणतैव क्वचिदकारणादिति प्राप्तम्, इतिशब्दो हेत्वर्थे, यस्मात्तेषामपि बीजानां त्रिवर्षपरिपो-15 पितानामङ्कुराधुत्पादनशतवमावः, आदिग्रहणाम्मृदादि घटायुत्पादने, ततः को दोषः ? कारणमध्यकारणमेवास्तु, कार्यकारणाव्यभिचाराभावात् , एवञ्च सति कृषीवलादीनां सकदृष्टबीजारादिकार्यकारणमाषव्यभिचाराणां तदर्थाप्रवृत्तेः पुनरनारम्भात् करणाभावे कारणाभाव एव स्यात्, अनिष्ठश्वैतत् लोके पुनरुत्पद्यते कार्यम् , सदसत्त्वानियमात्तुकरणे बीजादौ कारणतायामेव सत्या करणाकरणे सन्निहिते तन्त्वादौ कारणे कार्यस्य पटादेश्च कादाचित्कयोः करणाकरणयोर्दर्शनात् । 20 स्यान्मतम् कारणे कार्यस्य सदसत्त्वयोरनियमात् करणाकरणयोरनियमे किमर्थ पुनः करोतीति नवनियत्राप्यनियम इति भावः । कारणे कार्य सदेवेति नियमे व्यभिचारमाह यथा वेति, पातकः कर्कोटकच फलरहि तपुष्पवन्मूलिकाविशेषौ । नन्वत्रापि फलमस्त्येव परन्तु नाभिव्यक्तमित्याशङ्कतेऽव्यक्तमिति चेदिति, फलं हि व्यकभूतं कार्य तत्कथमव्यकं भवेत् , अतोऽसत्त्वान्नाव्यक्तं कार्य भवितुमर्हतीत्याह-व्यक्तकार्यत्वादिति, ननु तर्हि बातकादिपुष्पाणि 25 कारणमेव न भवन्ति खकार्याकरणात् , यद्धि कार्य न करोति सत्कथं कारणं भवेत् , क्रियानिमित्तकत्वात् कार्यकारणभावस्थेत्याशकते करोतीति, सत्रानिष्टप्रसङ्गमुपदर्शयति बीजादीनामिति, अनियमपक्षे न कोऽपि दोष इत्याह सदसत्त्वेति । करोतीति कारणमिति, कर्तरि ल्युदप्रत्यये गुणे सौनागमतेन दीर्घत्वं बोध्यम् । कारणतायामेव सत्यामिति, कारणत्वमादधदपि वीजादि अङ्करे करोत्यपि न करोत्यपीति भावः । सदसवानियमात्त्विति, बीजमात्रस्य कारणत्वेऽपि कानिचिदेव बीजानि येषु कार्य वर्तते तपनि कार्य कुर्वन्ति कानिधिच बीजानि येषु कार्य न वर्तते तानि कार्य न कुर्वन्ती-30 त्यर्थः । अकुर्वतामपि बीजादीनां कारणत्वे करोतीति कारणमिति व्युत्पत्तिः कथं संजाघटीति येन तान्यपि कारणानीत्युच्यन्ते इस्यत्राह कारणे कार्यस्येत्यादि । बीजादीनामविदितां करोतीति वेदनां जनयितुमेव करोतीति कारणत्वमात्रं विधीयते न करोत्येव न करोयेव वेति नियम्यते विदितस्यैव नियमनातू सदा सर्वदा करोतीत्यविधानात् केवलं कारणत्वमात्रविधा द्वा० न०६ 2010_04 Page #92 -------------------------------------------------------------------------- ________________ द्वादशचक्रम् [ विध्यरे कारणमिति शब्दव्युत्पत्तिराश्रीयते, उच्यते, अविदितवेदनार्थविधिपरतया वाक्यप्रवृत्तेस्तस्यामवस्थायामनुपजनितविषयत्वादपवादस्पर्शस्य, तदा हि करोतीति कारणमिति कारणत्वविधानमात्रं क्रियते, देशकालादिविशेषाविशेषणादसति स्वविषये कमर्थमपवादः स्पृशेत् ? किं करोत्येव, न, करोत्यपि क्वचित् कदाचित् इति । तदा स मन्यते वक्ता, इदं तावत् 5 प्रतिष्ठां यातु करोतीति कारणमिति, प्रतिष्ठिते चास्मिंस्तत उत्तरकालं सिद्धे सति कारणत्वे कार्यसत्त्वासत्त्वयोस्तेन विशेषणप्रकारेण करोत्येव न करोत्येवेति विकलादेशवशान्नियमोपपत्तेर्विशेषणमाश्रीयते यथा नीलोत्पलं भवतीति । ( कारण इति ) अज्ञातज्ञापनमविदितवेदनमर्थोऽस्य विधेरित्यविदितवेदनार्थो विधिस्तत्परतथा वाक्यप्रवृत्तेः । को दृष्टान्तः ? नीलोत्पलम्, यथा हि नीलोत्पलं भवतीति तद्भवनमात्रं विधीयते 10 नीलमेवोत्पलमेवेति वा नियमविशेषानाश्रयणात् तथा करोतीति कारणमिति क्रियाभवनमात्रं विधीयते करोत्येव न वेत्यनाश्रित्य विशेषनियमम्, यथा वा नीलं तिलकम्बलादिविशेषानपेक्षं उत्पलमपि रक्ततादिविशेषानपेक्षं परस्परविशिष्टमुभयमुच्यते तथा करोतीति कारणमिति कारणमात्रं देशकालादिकार्य प्रतिबन्धाप्रतिबन्धनिरपेक्षमुच्यते, अथवा शबलोत्पलत्वे सत्यपि तस्य धर्मभेदानपेक्षं नीलोत्पलमित्युच्यते तथा कारणभावाभावभेदधर्मनिरपेक्षं क्रियामात्रं करोतीति कारणमित्युच्यते । 15 કર 20 तथा न्यग्रोधफलं यथा प्रागुक्तसदसत्त्वानियमात्तु कारणे कार्यस्य कारणतायामेव करणाकरणे तथा कार्यकरणाकरणानियमात्तु कारणस्य कार्यस्य कार्यत्वानियमः । ( तथेति ) तथा - तेन प्रकारेण तथा वटन्यग्रोधोदुम्बरादिफलानां फलत्वात् पुष्पकार्यत्वानुमानप्रसङ्गे फलमसत्कारणं दृष्टमिति पूर्ववव्यभिचारः, आम्रपुष्पफले सत्कार्यकारणे दृष्टे इत्यत्रापि कदाचित्कयोरेव कार्यकारणयोर्दर्शनात् । कार्यकारण सदसत्करणाकरणानियममेव दर्शयति · इतश्च कार्यकारणसदसत्त्वानियमः सर्वसर्वात्मकत्वसर्वकारणत्वात्, अतः सेवादिक्रियाकलापो यथार्थप्राप्तेः कारणं तथा क्लेशप्राप्तेरपि । नन्वत एव क्लेशोऽपि भवतीति चेदेवं सतीप्सितेन तावद्भवितव्यं, ईप्सितञ्च फलमर्थप्राप्तिर्न क्लेशः सेवकस्य, सन्निहिततच्छक्त्यभीहितत्वात् । 25 नात् कदापि कुत्राप्यकरणलक्षणापवादस्य विधानकालेऽनुपस्थितेर्न तदाऽपवादस्पर्श इत्याशयेनाहाविदितेत्यादिना । अस्मिन् देशे काले वा करोतीति कारणमिति देशकालादिविशेषाविशेषणात् अपवादस्य च देशकालादिनियतत्वाद ज्ञात ज्ञापनकालेऽपवादविषयदेशादिविशिष्टताया अभावेन नापवादस्पर्शस्तदेत्याह देशकालादीति । यस्मिन् बीजादौ कार्यमस्ति तत्करोत्येव, यत्र च बीजादौ तन्नास्ति तन्न करोत्येवेति ततो नियम्यत इत्याह प्रतिष्ठित इति, यथा वेत्यादि, यथा नीलोत्पलं भवतीत्यत्र किं नीलं ? न तिलं न वा कम्बलं किन्तूत्पलमिति व्यावर्त्तकतया तिलादीननपेक्षमाणं नीलं तथा न रक्तं 30 श्वेतं वोत्पलं किन्तु नीलमिति व्यावर्तकतया रक्ततादिविशेषानपेक्षमुत्पलञ्चोच्यत इति भावः । इदच वस्तुतो नीलोत्पलाभि । प्रायेण । चित्रोत्पले यदा नीलोत्पलमित्युच्यते रक्ततादिधर्मानपेक्षया तदापि घटयति-अथवेति तदेवं कारणे सत्येव कार्यस्य भावोऽभावश्च समर्थितः, इदानीमसति च कारणे कार्यस्य सदसत्त्वानियमं प्रदर्शयितुं दृष्टान्तमाह तथा न्यग्रोधफलमिति, 2010_04 Page #93 -------------------------------------------------------------------------- ________________ देशाधवबन्धकता] न्यायागमानुसारिणीव्याख्यासमेतम् ४३ (इतश्चेति) इतश्च कार्यकारणसदसत्त्वानियमः सर्वसर्वात्मकत्वसर्वकारणत्वात्, स्थावरजङ्गमाभ्यवहृतानन्यरसरुधिरादिरूपादिपरिणामापत्तिवैश्वरूप्यदर्शनात् सर्व सर्वात्मकं तत एव सर्व सर्वस्य कारणं कार्यश्चेति कृत्वा सेवादिक्रियाकलापो यथाऽर्थप्राप्तेः कारणं तथा केशप्राप्तेरपि प्रकृत्यैव कारणं तदपि च फलमर्थक्लेशप्राप्त्यादि अनियतमुभयत्र व्यभिचारात् । इतर आह-नन्वत एव क्लेशोऽपि कार्यसत्त्वादेव भवतीति नियतं कारणे कार्यमित्यापन्नं वेदितव्यम् । चेन्मन्यसे एवं सतीप्सितेन ताव- B द्भवितव्यम् , किं तदीप्सितं फलं ? अर्थप्राप्तिन क्लेशः सेवकस्य, किं कारणं? सन्निहिततच्छत्तयभीहितत्वात् सन्निहिता सा शक्तिरस्य सोऽयं सेवकः सन्निहिततच्छक्तिरीप्सितार्थप्राप्तिशक्तिः, सन्निहिता सा शक्तिरस्या सा सन्निहिततच्छक्तिस्तयाऽभीहितत्वाञ्चेष्टितत्वादिति वृत्तिवृत्तिमतोरनन्यत्वात् सेवासेवकयोर्यथेष्टं विप्रहसम्बन्धौ, युक्तं हि ताभ्यामीप्सितार्थप्राप्तियुक्ताभ्यां भवितुं नानीप्सितक्लेशभाग्भ्याम् । को दृष्टान्तः ? 10 सर्वशास्त्रज्ञान्यतरव्याख्यानवत् तन्न, देशकालाकारनिमित्तावबद्धत्वान्नेष्टमेव फलमवाप्यते सेवकेनेव प्रसन्ननृपादपि, ज्ञाव्याख्यानवत् । (सर्वति) सर्वशास्त्रज्ञान्यतरव्याख्यानवत्-यथा सर्वशास्त्रज्ञः पुरुषो व्याकरणाद्यन्यतममच्छास्त्रमीप्सितमेव व्याचष्टे तथैतदिति । अत्र ब्रूमः-तन्न देशकालाकारनिमित्तावबद्धत्वान्नेष्टमेव फलमवाप्यते सेवकेनेव प्रसन्ननृपादपि, स्वनगरभाण्डागाराविक्षेत्रप्रतिबन्धात्, प्रभातादिकालप्रतिबन्धात् 16 प्रसाददानाभिमुख्याकारावबन्धात् द्वितीयकर्मण्यताप्रदर्शनादिनिमित्तावबन्धात्, शास्त्रज्ञदृष्टान्तस्यापि तादृग्विधावबन्धसद्भावे सत्यव्याख्यानादनियम एव फलस्येत्यत आह-ज्ञाव्याख्यानवत् , सर्वशास्त्रज्ञोऽप्येभिरेवावबन्धैरीप्सितं न व्याचष्टे इति । लौकिको ब्रवीति अथ देशादयः किमवबन्धकाः ? ततस्तेषामकारणत्वादसर्वत्वम् , ततोऽतंत्रत्वादप्रति- 20 बन्धकत्वम् , अथाऽऽचक्षीथा देशादयः कारणमिति ततः सर्वकारणत्वात्सर्वात्मकत्वात् किमिति सर्व न भवति, समुदितकारणत्वात् । . कारणे पुष्पलक्षणेऽसति कार्यस्य फलस्यात्र दृष्टान्ते भावो बोध्यः, यथा कारणतयाऽभिमतं बीजादि कारणमकारणमपि, कादाचित्कयोः कार्यभावाभावयोर्दर्शनात् तथा कारणस्य कार्यकरणाकरणानियमात्तत्कार्यत्वेनाभिमतमपि कार्यमकार्यमपि भवतीवि कार्यत्वानियमो विज्ञेय इत्याह यथेत्यादि मूलेन यथा कारणस्य कार्यनिरूपितकर्तृत्वाकर्तृत्वानियमस्तथा कार्यस्यापि कारणनिरूपि- 25 तजन्यत्वाजन्गत्वानियम इति भावः । स्थावरादिभिरभ्यवहृतानामेव रसरुधिरादिनानात्मकतादर्शनादित्याह-स्थावरेति। . प्रकृत्यैव-खभावेनैव । अनियतमिति, कस्यापि सेवादितः केवलं क्लेशप्राप्तिरेव भवति न त्वर्थप्राप्तिः, कस्यचित्तु केवलमर्थप्राप्तिने तु क्लेशप्राप्तिरित्युभयत्र व्यभिचार इति भावः । ननु यदि कारणे सेवादी क्लेशप्राप्तिरपि नियता तर्हि सापीप्सिता भवेत्, न तथा दृश्यत इत्याह-एवं सतीति, सन्निहितेति, सन्निहितया ईप्सितार्थप्राप्तिशक्त्यैव प्रयुक्तस्य पुरुषस्य सेवादी प्रवृत्तरिति प्रथमव्युत्पत्त्यर्थः, सेवकस्य सन्निहितेप्सितार्थप्राप्तिशक्तया सेवयैव प्रवृत्तः, सेवा सन्निहितमदीप्सितार्थप्रापणशक्ति-30 मतीति विज्ञायैव सेवकस्य तत्र प्रवृत्तरिति द्वितीयव्युत्पत्त्यर्थः। प्रसन्ननृपसेवापि देशकालादिप्रतिबन्धकवशान्नेप्सितार्थस्यापि प्रसवसमर्थेत्याशयेनाह देशकालेत्यादि । तथाचानिष्टमपि फलं सेनादिक्रियायाः स्यादित्यनियतं फलमुभयत्र व्यभिचारादिति भावः, अथ देशादयः किमेकान्तेनावबन्धकाः, उतैकान्तेन कारणभूता वेति विकल्पं मनसि निधायाऽऽयं दूषयति-अथेति। 2010_04 Page #94 -------------------------------------------------------------------------- ________________ द्वादशारनयचक्रम् [विध्यरे अथ देशादयः किमिति, विकल्पद्ववान्यापातेन निरोत्स्थाम्येतदित्यभिप्रायः । ये देशादयोऽवषन्धकाभिमतास्ते ययेकान्ततयेष्टास्ततस्तेषामकारणत्वादसर्वत्वम् , कारणभावाद्धि सर्व सर्वात्मकं स्यात्तदभावादसर्वत्वं देशादीनां प्राप्तमसर्वत्वाच तेषामतत्रत्वं तेषु कस्यचित्तद्धीनवृत्तित्वाभायात् , ततोऽतत्रत्वादप्रतिबन्धकत्वमपि । अथाऽऽचक्षीथास्ते देशादयः कारणमिति, ततः कारण सर्वकारणत्वात्सर्वात्मकत्वात् किमिति सर्वं न भवति, भवत्येवेत्यर्थः, कस्मात् ? समुदितकारणत्वात् , समुदितकारणत्वं सर्वकारणत्वात् सर्वात्मकत्वाच, अत्र प्रयोगः, सर्व सर्वत्र स्वात् समुदितकारणत्वात्, संयुक्ततन्तुपटवत्, यथा तन्तूनां परस्परसंयोगे सति नियमात् पटो भवति, स्वकारणसन्निधानात्, एवं सर्वकारणत्वसर्वात्मकत्वसद्भावे को देशादिप्रतिबन्धो नामान्य इति किमिति सर्व न भवतीति । अथवा सर्व न भवतीत्यादि स एव लौकिक आशङ्कते अथ मतं भवतः सर्व न भवति, अनभिव्यक्तत्वाद्देशादेः कारणस्य, प्रधानसाम्यावस्थानवत् । (अथेति,) अथ मतं भवतः सांख्यस्य सर्व न भवति शरीरक्लेशसुखार्थानर्थप्राप्त्यादि कुतः। अनभिव्यक्तस्वात् , 'अल्लू व्यक्तिम्रक्षणकान्तिगतिषु' म्रक्षितमभिव्यक्तं स्फुटीकृतम् , अनभिव्यक्तमस्फुटम् , अनभिव्यक्तत्वाद्देशादेः कारणस्य सर्व न भवति, को दृष्टान्तः १ प्रधानसाम्यावस्थानवत्, 15 यथा प्रधानं सत्त्वरजस्तमत्रिगुणसाम्यावस्थानेनानभिव्यक्तत्वात् सर्वकारणमपि सत् सर्वभावान्न प्रक रोति घटपटादीन् , अथ च प्रकरणात् प्रकृतिः प्रधीयन्ते भावास्तत इति प्रधानमित्यादिमिर्नामभिरु च्यते, तस्य चानभिव्यक्तत्वं तत्साम्यावस्थानान्मन्येथाः, तथा देशादिकारणं साम्यावस्थानादनभिव्यक्तं , प्रधानवत् सर्व कार्य न कुरुते, लोकप्रसिद्धमप्यत्रोदाहरणं मयूराण्डकरसगतप्रीवादिवत्, यथा मयू राण्डकरसावस्थायामेव मेचकवर्णप्रीवाद्यवयवानभिव्यक्तिः तत्साम्यावस्थानादतः सर्व न भवति मयू20 राडकरसान्मयूराण्डावस्थायामेव तदीवादि तदिति । अत्रोच्यते मैवं मंस्थाः, ननु च त्वयाप्येतदादिष्टं सर्व देशादेरिति, तस्मात्सर्वात्मकत्वं सर्वात्मकत्वाच वैषम्यावस्थैवेति लौकिकप्रकृतित्वमेव प्रकृतेः, सर्वात्मकत्वाद्देशादिवत् साम्यावस्थैव वा देशादेरपि प्रकृतिवत् । 25 यद्यपि सांख्यमते प्रकृतेर्महदादिसृष्टौ देशादयो व कारणं तथापि न सर्व फलं भवति, भयोग्यदेशकालाकारनिमित्तादिना ईप्सितफलप्रतिबन्धो जायतेऽतो देशादीनामवबन्धकत्वं विज्ञेयम् । एतदिति, अवबन्धकत्वं कारणत्वं वेत्यर्थः । एकान्ततयेति, अवबन्धकत्वेनेति शेषः । कारणभूतानामेव सर्वात्मकत्वमित्याह कारणभावाद्धीति । सर्वात्मक्त्वे हि तेषां सर्वे तदधीवृत्तयो भवन्तीति सर्वनिरूपिततंत्रता तेषां स्यात्तच्च नास्तीत्याह-असर्वत्वाञ्चेति । एकान्ततया कारणत्वे दोषमाह- अयेति । देशादीनां सर्वकारणत्वेऽपि साम्यावस्थायां प्रधानवदनभिव्यक्तत्वात् सर्व न भवतीत्याशङ्कते-अथ मतमिति। 30 यथा प्रधानमिति, शुक्रं सत्त्वं प्रकाशात्मकत्वात्, रजो लोहितं रचनात्मकत्वात् , तमः कृष्णमावरणात्मकत्वात्तेषां त्रवाणे गुणानामविपमावस्थानेन प्रधानमनभिव्यक्तमस्फुटमतो न सर्वभावान प्रकरोति गुणवैषम्य एव प्रकरणादिति भावः। मयूराण्डकेति, या हेमन्तनिधिररात्रिषु निदाघहिक्सेषु च सदा सर्वत्र सतोरेष हिमातफ्योः ऋषिकदाचित् कस्यचिदुदेको बम _ 2010_04 Page #95 -------------------------------------------------------------------------- ________________ साम्यतावैयर्थ्यम् ] न्यायागमानुसारिणीव्याख्यासमेतम् मैवं मंस्थाः ननु चेत्यादि, नन्वित्यनुज्ञापने, त्वयाऽप्येतदादिष्टं सर्व देशादेरिति, तस्माद्देशादेः सर्वत्वात्सर्वात्मकत्वासर्वात्मकत्वाच्च वैषम्यावस्थैव, इतिशब्दो हेत्वर्थे, यस्माल्लौकिकप्रकृतित्वमेव प्रकृतेरिष्टत्वाभिमतायाः, कथं ? यथाहि लौकिकी प्रकृतिर्देशादिविषमावस्थैव सती सर्वकारणात्मिका कार्यात्मिका विषमा समा च व्यक्ता चाव्यक्ता च तथा सांख्यपरिकल्पितप्रकृतिरपि स्यात्, किं कारणं? सर्वात्मकत्वाद्देशादिवन्मयूराण्डकरसवा वैषम्यावस्थैवेत्यर्थः। साम्यावस्थैव वा देशादेरपि सर्वात्म-5 कत्वात् प्रकृतिवदिति । एते अपि च कल्पने नोपपन्ने, अप्रयोजनत्वात् , निवृत्तानिवृत्तार्थक्रियौदासीन्यवत् । (एते इति) एते अपि च कल्पने नोपपन्ने देशादीनामनभिव्यक्तिः प्रकृतेः साम्यावस्थानमिति, कस्मात् ? अप्रयोजनत्वात् , न हि देशादीनामनभिव्यक्तौ प्रयोजनमस्ति पुरुषविमोक्षणहेतोयंकरूपतया प्रवर्त्तमानानां तथा पुरुषार्थसिद्धेरनिर्वृत्तौ, अनिर्वृत्तौदनस्य पचिक्रियायामौदासीन्यवत् , 10 नापि निर्वर्तितार्थायाः प्रकृतेः पुनरात्मानमुपसंहृत्य साम्यावस्थाने किश्चित् प्रयोजनमस्ति सिद्धौदनस्यौदनार्थपाचनादिप्रवृत्तिवत् । अथवा प्रकृतेरेवानभिव्यक्तिसाम्यावस्थाने न युक्ते अप्रयोजनत्वात् , अप्रयोजनत्वं निर्वृत्तानिर्वृत्तार्थत्वात् , यदि निर्वृत्तार्था सिद्धौदनरन्धनवदयुक्तं साम्यावस्थानम् , अनिर्वचार्था चेत् प्रधानस्यासिद्धौदनस्यौदासीन्यवदयुक्तं साम्यावस्थानम् । तथाऽनभिव्यक्तिः, किं कारणं ? प्रकाशनार्थ प्रवृत्तयो व्यक्तिवैषम्याभ्यां तदर्थसिद्धेस्ताभ्यामृतेवाऽसिद्धेः, अनभिव्यक्तिसाम्यावस्थान- 15 योरपि प्रवृत्तिविशेषत्वात् , द्विधाऽप्यप्रयोजनवादयुक्तमिति । अथवा प्रयोजनानभिव्यक्तिः निर्वृत्तार्थत्वात् , देशादिरूपेण प्रकाशितात्मवृत्तिः किमर्थं नाभिव्यज्यते ? किमर्थं सर्वं पुरुषार्थमकृत्वा साम्येनावतिष्ठते ? सांख्यैश्च द्विविधपुरुषार्थसिद्धयै प्रकृतिप्रवृत्तिरिष्टा नाकस्मिकी यदृच्छावादिमतवत्, न वेश्वरस्वभावादिकरणवादिमतवद्वा कारणान्तरम् , यथासंख्यश्चात्र दृष्टान्तद्वयं दर्शयति-निर्वृत्तानिवृत्तार्थक्रियौदासीन्यवदिति, पचनापचनवदोदनस्येत्यर्थः । वा मयूराण्डकरसे सतामेवावयवानां तथोद्रेकोमाङ्गित्वेनैव वस्तुप्रवृत्तरतो मण्डूकरसावस्थायां तेषामनभिव्यक्तिरेवमेव देशादिकारणमप्यङ्गाङ्गिभावेन प्रवृत्तः सर्व कार्य न कुरुत इति भावः । अङ्गाङ्गिभावेऽपि सकृत्सर्वेषामनुत्पादोऽपेक्षणीयविरहप्रयुक्त एव वक्तव्यः स च न सम्भवति देशादेः सर्वात्मकत्वाभ्युपगमादतो वैषम्यावस्था दुर्वारेत्यत आह-सर्व देशादेरिति, प्रकृत्यवस्था हि सत्त्वरजस्तमसां गुणप्रधानभावमुत्सृज्य साम्येन स्वरूपमात्रेणावस्थानम् , तदाऽनपेक्षस्वरूपाणां तेषामङ्गाङ्गिभावानुपपत्तेस्तथा च सर्वकालं साम्यावस्थैवस्यादन्यथा स्वरूपप्रच्युतिप्रसङ्गादेवं देशादिरपि स्यादित्याशयेनाह-साम्यावस्थैव वेति 125 ननु प्रकृत्यवस्थाया न कूटस्थानित्यता, किन्तु परिणामिनित्यतैव, यस्मिन् विक्रियमाणेऽपि यत्तत्वं न विहन्यते तदपि नित्यमिति खीकारात्, तथा च साम्यावस्थायामपि वैषम्योपगमयोग्यगुणानामवस्थानान सर्वदा साम्यावस्थेत्याशङ्कायामाह-पते अपिच कस्पने इति । पुरुषार्थसिद्धिमकृत्वा विनिवृत्तौ प्रयोजनाभावमाह न हीति, पुरुषविमोक्षणहेतोरिति, प्रधानप्रवृत्तेहि प्रयोजनं निखिलपुरुषापवर्गः, प्रलयोपस्थितिदशायां सर्वेषामनपवर्गात् कथमनिर्वृत्तार्थ प्रधानं साम्येनावस्थातुं यतेत, अनिपचप्रयोजनत्वादिति भावः। यदि तु तदा सर्वपुरुषापवर्गो निवृत्तस्तर्हि प्रयोजनान्तराभावात् पुनः साम्यावस्थाने प्रवृत्ति-30 स्वस्थ न स्यादित्याह-नापीति। द्विविधेति, पुरुषस्य भोगार्थमपवर्गार्थञ्च प्रवृत्तिः प्रकृतेः, न हि तस्याः स्वाभाविकीप्रवृत्तिः तथा सत्यनपेक्षत्वात् कदाचिन्महदाद्याकारेण परिणमते कदाचिन्नेति न स्यादिति भावः । यथा संस्कृतं क्षेत्रमधिष्ठाय तत्सम्पर्कपशाद्वीजमकरादिक्रमेण महान्तं वृक्षमारभते तथेश्वरादिकमधिष्ठाय सर्वव्यापिनी प्रकृतिस्तत्सम्पर्कवशान्महदादिक्रमेण 2010_04 Page #96 -------------------------------------------------------------------------- ________________ द्वादशारनयचक्रम् [विध्यरे स्यान्मतम् तस्याः प्रकृतेरनभिव्यक्तिसाम्यावस्थाने कालनियतियदृच्छास्वभावेश्वराद्यन्यतमकारणवशादित्येतच्चायुक्तम् , प्रकृतिकारणत्यागेन हि अभ्युपेतविरोधः, कारणान्तरस्य वा तथा प्रणेतुरापत्तिः । आत्मान्तरत्वप्रकाशनमयं हि प्रधानस्य धर्मः। 5 (तस्या इति) तस्याः प्रकृतेरव्यक्तिसाम्यावस्थाने कालनियतियदृच्छास्वभावेश्वराद्यन्यतमकारणवशादित्येतच्चायुक्तम् , प्रकृति कारणत्यागेनाभ्युपेतविरोधदोषसम्बन्धिनी यस्मात्, कारणान्तरस्य वा तथाप्रणेतुरापत्तिः, कारणादन्यत् कारणान्तरं प्रकृतेरन्यत् कारणं, यत् प्रकृति तथा प्रणयति, तदस्ति स्वभावनियतिकालयदृच्छेश्वरादीनामन्यतममित्यापन्नमनिष्टश्चैतत् । कारणान्तरनिरपेक्षस्य कारणस्य स्वकार्याकरणश्च युक्तिविरुद्धमित्यत आह-आत्मान्तरत्वप्रकाशनमयं हीत्यादि यावत्प्रधानस्य धर्म इति, 10 आत्मनोऽन्य आत्मा आत्मान्तरं तस्य भाव आत्मान्तरत्वं परस्परविभिन्नमहदहंकाराद्यवस्थान्तरत्वं तस्य प्रकाशनं, हि शब्दो यस्मादर्थे, यस्मादनभिव्यक्तेः साम्यावस्थानस्य च प्रतिपक्षोऽवस्थान्तरप्रकार, त्वेनात्मप्रकाशनमयं प्रकृतेर्धर्मः । स्यान्मतम् उपायानभिज्ञत्वात् कारणान्तरं साचिव्यगुणोपेतमपेक्षत इति, तन्न ज्ञानार्थत्वात् 15 स्वतंत्रत्वादप्रतिहतगतत्वाच्च तस्य । (उपायेति) उपायानभिज्ञत्वात्कारणान्तरं साचिव्यगुणोपेतमपेक्षत इत्येतञ्चायुक्तं ज्ञानार्थत्वात्, उक्तश्च "धर्मज्ञानवैराग्यैश्वर्याणि बुद्धिधर्मः, अधर्माज्ञानावैराग्यानैश्वर्याणि च" इति, तेषामष्टानां समुक्तिबध्नात्येकेन मोचयतीति, तस्य प्रधानस्य ज्ञानार्थस्य परिणत्यवस्थात्मकस्यायुक्ता सचिवापेक्षा । स्यान्मतं परतंत्रत्वात् सहायान्तरमपेक्षते, तच्च न, स्वतंत्रत्वात् , स्यान्मतं क्वचित् प्रधानं कारणं 20 कचिदन्यत् , अव्याप्तत्वाल्लौकिककालादिकारणवदित्येतच्चायुक्तम् , अप्रतिहतसर्वगतत्वात्तस्य । अथ वाऽऽत्मान्तरत्वप्रकाशनमिति, आत्मा पुरुषः, आत्मनोऽन्य आत्माऽऽत्मान्तरं तस्य भाव आत्मान्तरत्वं पुरुषाद्भिन्नं त्रिगुणस्वभावं स्वमात्मानं प्रधानं पुरुषाय प्रकाशयति । पुरुषाद्वाऽन्यः पुरुष आत्मान्तरं तस्य भाव आत्मान्तरत्वं पुरुषान्तरत्वं तस्मै पुरुषाय प्रकाशय्यात्मस्वरूपं पुरुषान्तराणां प्रकाशयति । परिणमन्ती विशेषान्तं प्रपञ्चमारभते निवर्तते चेत्याशङ्कते तस्याः प्रकृतेरिति । प्रकृतिरेव सर्वकार्याणां कत्रीति खसिद्धान्त25 त्यागः कालादिकारणत्वे भवेत्तथा च तत्सिद्धान्तप्रणेतुः सांख्यस्यार्थान्तरत्वं दोषः स्याद्विवक्षितकारणादन्यकारणसिद्धेरि साह कारणान्तरेति । आत्मनोऽन्य आत्मा आत्मान्तरमिति । आत्मपदेन प्रधानखरूपं प्राचं तद्भिन्नखरूपं महदहकाराद्यवस्थान्तराणि तत्प्रकाशनं प्रकृतेर्धर्मः, अनभिव्यक्ततास्वरूपं साम्यावस्थानञ्च परित्यज्य महदहङ्काराद्यवस्थान्तरतया खात्मप्रकाशनं प्रकृतेधर्म इत्यर्थः, तेन रूपेण तया सर्वदाऽवस्थातव्यम् , खस्य तथा प्रणेत्रन्तरानपेक्षत्वादिति भावः। प्रकृतिने . कार्यजननानुकलं साचिभ्यगुणयतं सहकारिणमपेक्षते. स्वस्य तथाविधोपायज्ञानवैधुर्यादित्याशयेनाहोपायानभिशत्वादिति । 30 ज्ञानार्थमेव प्रवर्त्तमानायास्तस्या नोपायज्ञापेक्षेति भावनाह ज्ञानार्थत्वादिति । पुरुषस्य प्रकृत्यन्यतापरिज्ञापनं प्रकृतेर्धर्म इत्यभिप्रायेणाह आत्मा पुरुष इति, भात्मशब्दोऽत्र खरूपपरः । आत्मशब्दस्य पुरुषवाचित्वमभ्युपेत्य व्याचष्टे पुरुषाद्वति । एकस्य पुरुषस्य चैतन्यखरूपमाध्यस्थ्यादिधर्मः परात् पुरुषाद्भिपता प्रतिपाद्य पुनः पुरुषान्तराणामपरपुरुषान्तरत्वप्रति _ 2010_04 Page #97 -------------------------------------------------------------------------- ________________ नित्यप्रवृत्त्यापादनम् ] न्यायागमानुसारिणीव्याख्यासमेतम् ४७ पुरुषान्तरत्वं वा चैतन्यस्वरूपमाध्यस्थ्य शुद्धकेवलत्वैः परस्परभिन्नैः पुरुषान्तरस्यैः पुरुषान्तरेषु प्रकाशितेष्वप्यन्येषां पुरुषाणां यत्पुरुषान्तरत्वं तैरेव चैतन्यादिभिर्युक्तं प्रकाशयति प्रकृतेर्वा स्वयमचेतनायाः, अचैतन्यस्वरूपस्य प्रकाशनमयं हि धर्मस्तस्य ज्ञानार्थस्य स्वतंत्रस्याप्रतिहतसर्वगतस्य प्रधानस्य । एवं तस्य स्वभावधर्मं समर्थ्येदानीमनभिव्यक्तिसाम्यावस्थानप्रतिपक्षभूतं नित्यप्रवृत्तत्वं प्रधानस्यानुमिमीते अतस्तेन नित्यप्रवृत्तेनैव भवितव्यम्, सामान्यतस्तत्स्वभावत्वात्, यथाऽग्निर्दहन प्रकाशनप्रवृत्तः । (अत इति) अतस्तेन नित्यप्रवृत्तेनैव भवितव्यमिति प्रतिज्ञा, अत इत्यनन्तरोक्तधर्मत्वात् प्रधानस्य, तद्धर्मत्वमिदानीं हेतुत्वेन व्यापारयितुमाह- सामान्यतस्तत्स्वभावत्वात् स स्वभावो यस्य तत्तत्स्वभावं प्रधानं पूर्वोक्तहेतुभिर्विशेषितमतस्तन्नित्यप्रवृत्तं भवितुमर्हति इह यद्यत्स्वभावं तत्तेनैव स्वभावेन 10 नित्यप्रवृत्तं दृष्टम्, यथाऽग्निर्दहनप्रकाशनप्रवृत्तः, यत् पुनर्नित्यप्रवृत्तं न भवति न तत्तत्स्वभावम् यथा न किचित्तादृगिति । दहनादितत्स्वभावस्याग्नेस्तथा प्रवृत्त्यदर्शनात् साध्यवैकल्यं दृष्टान्तदोष इति तन्निदर्शयन्नाह--- ननु भस्मच्छन्नोऽग्निरपि न दहति, अत्रोच्यते, अथ कथं जीवति, स्थितेर्जीवितपर्यायत्वात्, स्थितिप्रकाशदहनात्मकस्याग्नेः प्रत्यक्षानुमानविषयस्य सतस्तथाऽग्रहणेऽस्तित्वे प्रमा- 15 णान्तराभावात् कथं ज्ञायतेऽग्निरिति, अप्रकाशयन् वा द्रव्यान्तरं तावत्कोशकादि स्वाश्रयमात्रं तत्परिमाणं तावत्, यथा गृहमदीपकः पुलिकामात्रमपि । " ( नन्विति) ननु भस्मच्छन्नोऽग्निरपि न दहति न प्रकाशयतीति, दहनप्रकाशयोरभेदात्, अत्रोच्यते अथ कथं जीवतीति जीवनममेश्चेतनत्वात्, चैतन्यमाहारलाभालाभयोः पुष्टिग्लान्यादिदर्शनान्मनुष्यवत्, सचेतनत्वं दहने जीवति, स्थितेर्जीवितपर्यायत्वात्, अचेतनत्वमभ्युपगम्यापि स्थिति - 20 प्रकाशनदहनात्मकस्याग्नेः प्रत्यक्षानुमानविषयस्य सतस्तथा प्रत्यक्षानुमानाभ्यामग्रहणेऽस्तित्वे प्रमाणान्तरासिद्धेः कथं ज्ञायतेऽग्निरित्यदहनप्रकाशमानः, अप्रकाशयन् वा द्रव्यान्तरं लावत्कोशकादिवाश्रयमात्रं, तत्परिमाणं तावत्-स्वपरिमाणमात्रमपि, स्वाश्रयद्रव्यं कोशकाद्य प्रकाशयन् कथमग्निरित्युच्यते कोशक 6 पादनमचेतनत्वेन खस्माद्भिन्नत्वप्रतिपादनं वा प्रकाशात्मनस्सर्वव्यापिनस्स्वतंत्रस्य प्रधानस्य धर्म इति भावः । अत इति, आत्मान्तरत्वप्रकाशनस्य प्रकृतिधर्मत्वादित्यर्थः, तेन प्रधानेन, प्रधानं नित्यप्रवृत्तिमत्, सामाम्यतः आत्मान्तरत्वप्रकाशनस्वभाव- 25 स्वात्, दहनप्रकाशनप्रवृत्ताग्निवदित्यनुमानस्वरूपं बोध्यम् । दृष्टान्तेऽग्नौ भस्मनाऽऽच्छादिते साध्याभावं नित्यप्रवृत्त्यभावमाशङ्कते नन्विति, अथ यदि सोऽग्निर्न दहति तर्हि कथमसौ जीवन्नस्तीत्युच्यत इति पर्यनुयुज्यते अथेति, योग्यानुपलब्धेरभावसाधकत्वादाह प्रत्यक्षेति । तथा स्थिति प्रकाशदहनात्मकतया । प्रकाशात्मकताविचारे प्रस्तुते न दहतीत्याशङ्कनमयुक्तमित्यालोच्योक्तं न प्रकाशयतीति, कथं दहनस्य प्रकाशनार्थतेत्यन्नाह - दहन प्रकाशनयोरिति, अङ्गारादौ प्रकाशपरिणाम आत्मसम्बन्धप्रसूतः शरीरस्थत्वात् खद्योतदेह परिणामवत्, सचेतनं तेजः यथायोग्याहारोपादानानुपादानाभ्यां वृद्धिहानिविशेषवत्वात् 30 पुरुषाङ्गवदिति अग्नेर्जीवत्वसिद्धेः कथं भस्मच्छन्नो यद्यभिर्न तर्हि जीवति न प्रकाशयतीत्यभिमानेनाहाथ कथं जीवतीति, तस्याजीवत्वाभ्युपगमेऽपि प्रकाशस्वभावविरहेऽनग्नित्वमेव स्यादित्याहाचेतनत्वमिति, ततोऽपि सन्निहितं प्रकाश्यमाह स्वाश्रयमात्रमिति, ततोऽपि सन्निहितं स्वगतं प्रकाश्यं धर्ममाह तत्परिमाणमिति, अल्पाहपात्यभिप्रायेण बोध्यम् । एवश्व 2010_04 Page #98 -------------------------------------------------------------------------- ________________ 5 ફેટ द्वादशारनयचक्रम् [वियरे इत्युच्यते, अत्र पुलिकादृष्टान्तो गृहप्रदीपकः, गृहे प्रज्वालितः प्रदीपको गृहप्रदीपकः, यथा गृहप्रदीपकः पुलिकामात्रमपि यदि न प्रकाशयति प्रकाशात्मकः सन्न प्रदीप इति ज्ञायतेऽग्निरिति वा, वैधर्म्यतो वा गृहप्रदीप गृहं प्रकाशयन्नस्ति, यदि न तथाऽग्निः स्वमाश्रयं प्रकाशयति प्रकाशात्मकः संतो नास्तीति गम्यते । किञ्चान्यत्, भस्मच्छन्नाग्निसाधर्म्याभावोऽपि च प्रधानस्य, छादनाभावादित्यत आहछादनाभावोऽपि च प्रधान इति निरावरणाग्निदहनप्रकाशनवत्तत्स्वभावत्वान्नित्यप्रवृत्तेनैव भवितव्यमिति तदवस्था नित्यप्रवृत्तता, ततश्चानभिव्यक्तिसाम्यावस्थानानुपपत्तिः । छानाभावोऽपि च प्रधान इति, अग्नेर्भस्मवत् प्रकृतेरावरणाभावाद्भस्मच्छन्नामितुल्यं न भवति प्रधानमतो विशिष्य ब्रूमो निरावरणाग्निदहनप्रकाश नव तत्स्वभावत्वान्नित्यप्रवृत्तेनैव भवितव्यमिति 10 तदवस्था नित्यप्रवृत्तता ततश्चानभिव्यक्तिसाम्यावस्थानानुपपत्तिः । स्यान्मतं यद्यपि प्रधानं महदादिभावेनात्मान्तरत्वप्रकाशनार्थ पुरुषस्य प्रवर्त्तते तथापि केषाचित्पुरुषाणां कृते प्रयोजनेऽन्येषामकृते कालक्रमेण व्यक्त्यव्यक्तिसाम्यवैषम्यावस्थाः प्रतिपद्यते सा चास्य प्रवृत्तिः स्वभावान्नियतेः कालाद्यदृच्छादेव, तदपि नोपपद्यते कालादिकारणान्तरनिरपेक्षस्य तस्य निरवशेषपुरुषविषये स्वान्यत्वज्ञापने कृते कृतकृत्य15 त्वात् किं साम्यावस्थानेन ? अकृतेऽप्यकृतकृत्यत्वात् किं प्रतिनिवृत्त्या प्रयोजनमसिद्धौदनसूपकारनिवृत्तिवदिति तदवस्थमप्रयोजनत्वम् । कालादिकारणान्तरनिरपेक्षस्यादि, प्रधानं हि नियतिकालस्वभावेश्वरयदृच्छाद्यन्यतमानपेक्षं कारणं जगतोऽभ्युपगतं भवता, न तु यथा लोकनये क्वचित्कालोऽपि नियतिरपीत्यादि, स्वतंत्रत्वाच्च तस्य प्रकृतिपुरुषयोः स्वरूपभेदपरिज्ञापनस्य स्वार्थस्यानुरूप श्रोत्राद्येकादशेन्द्रियग्रामस्य शब्दबु20 द्ध्यादिविकल्पग्रामस्य वचनादानविहरणानन्दोत्सर्गकर्मशब्दाद्यर्थग्रामस्य च निर्वर्त्तने स्वतंत्रत्वान्न कार णान्तरापेक्षाsस्ति, सर्वपुरुषार्थप्रवृत्तत्वाच्च कृतार्थस्याकृतार्थस्य च यथासंख्यं साम्यावस्थानस्य निवृत्तेश्च भस्मच्छज्ञो नाग्निः, अप्रकाशकत्वात् गृहप्रदीपकवदिति प्रयोगे साधर्म्यदृष्टान्तत्वमभ्युपेत्य सङ्गमयति यथागृहप्रदीपक इति वैधर्म्यदृष्टान्ताभिप्रायेणाह वैधर्म्येति । प्रकृतेरावरणमपि न सम्भवति, अनुपलब्धेरित्याह छादनाभावोऽपि चेति । भस्म यथायोग्यत्वे सत्युपलभ्यते न तथा प्रकृतेः किञ्चिदावरणमुपलभ्यत इति नित्यप्रवृत्तत्वतादवस्थ्यमिति भावः । आवरण25 रहितोऽभिर्यथा दहति प्रकाशयति च तत्स्वभावत्वात्तथा नित्यप्रवृत्तया प्रकृत्या भवितभ्यं तत्स्वभावत्वादित्याह-निरावरणेति । पुरुषविमोक्ष निमित्ता हि प्रकृतेः प्रवृत्तिः, तद्विमोक्षणञ्च पुरुषो यदा पृथग्भूतामेनां मन्यते तदेयमायासहेतुरेव ममेति बिजानन् तत्कृतमनुपभुञ्जानः स्वरूपनिष्ठ एवावतिष्ठते, प्रकृतिरपि दृष्टाऽहमनेन, पृथव्यामेष मन्यते इति न तदभिमुखीभवितुमुत्सहते, न चोत्पन्न तत्वज्ञाने भोगानुकूल महदादिकार्यारम्भविमुखत्वात्तस्याश्चैकस्वादेकस्मिंस्तत्त्वविदि मुक्ते सर्वे मुक्ताः स्युरितिवाच्यम्, तत्त्वविदमेव पुमांसं प्रति तस्या औदासीन्यात्, अन्यसाधारणत्वेन तत्कार्यानपायादिति व्यस्यव्यक्ति साम्यवैषम्या90 वस्थास्तस्याः सम्भवन्ति, तस्या इयं प्रवृत्तिः स्वभावाद्यन्यतरस्मादित्याशयेनाह - स्यान्मतमिति । नित्यैकान्तस्वरूप स्थापेक्षजीयान्तराभावेन कालविशेषपुरुष विशेषाद्यनपेक्षतयैकपुरुषस्यापि स्वान्यत्वज्ञापने कृते तस्य सर्वसाधारणतया पुनः सर्थ साम्यावस्थानालम्बनं निरर्थकं, यदि नैकस्याप्यन्यत्वज्ञापनं कृतमित्युच्यते तर्हि तथापि साम्यावस्थानं न युक्तमकृतकृत्यत्वादि • स्याशयेनाह - कालादीति, प्रकृतिपुरुषयोः स्वरूपमेदपरिज्ञापनं प्रकृतिर्न साक्षात्कर्तुमीष्टे किन्तु महदहंकारादिक्रमेण परिणमम 2010_04 Page #99 -------------------------------------------------------------------------- ________________ ४९ कार्यानियमः] न्यायागमानुसारिणीव्याख्यासमेतम् प्रयोजनाभाव इत्यत आह-निरवशेषपुरुषविषये स्वान्यत्वज्ञापने कृतकृत्यत्वात् किं साम्यावस्थानेन ? अकृतेऽप्यकृतकृत्यत्वात् किं प्रतिनिवृत्त्या प्रयोजनमसिद्धौदनसूपकारनिवृत्तिवदिति तदवस्थमप्रयोजनत्वम् । अत्र चोद्यं प्रागुक्तानभिव्यक्तिसाम्यावस्थाने चायुक्ते, अप्रयोजनत्वान्निवृत्तानिर्वृत्तार्थक्रियौदासीन्यवदित्यतः पुनरुक्तमिति, अत्र ब्रूमः, कारणान्तरापेक्षाप्रतिषेधपरत्वादस्य, प्रवृत्तिनिवृत्त्योः प्रधानस्याप्रयोजनत्वमात्रप्रतिपादनपरत्वात्तस्येत्यदोषः । अव्यक्तिसाम्यावस्थानानुपपत्तेश्च किमिति सततसमवस्थितसमनुप्रवृत्ति प्रत्यक्षकारणनानाभेदाभिव्यक्तिस्वभावमेवेदं जगदिति नाभ्युपगम्यते, किमित्यदृष्टं कारणान्तरं परिकल्प्यते ? अव्यक्तिसाम्यावस्थानानुपपत्तेश्चेति, अप्रयोजनत्वादिभिरनभिव्यक्तिसाम्यावस्थाने अनुपपन्ने, ततश्चाव्यक्तिसाम्यावस्थानानुपपत्तेः किमिति-किं कारणं जगदेवं स्वभावमिति नाभ्युपगम्यत इत्यभिसम्बन्धः, सततसमवस्थितसमनुप्रवृत्तीति, सततं सर्वकालं समवस्थिता नित्यानुपरता10 समनुप्रवृत्तिः कारणकार्यप्रवृत्त्यात्मिका, प्रकर्षण वृत्तिर्यस्य तदिदं जगत् सततसमवस्थितसमनुप्रवृत्ति, प्रत्यक्षकारणनानाभेदाभिव्यक्तिस्वभावमिति, प्रत्यक्षाणि च तानि कारणानि च प्रत्यक्षकारणानि मृत्पिण्डदण्डचक्रोदकसूत्रकुलालादीनि घटादीनां कार्याणां तानि नानाजातीयानि तन्तुतुरीवेमकुविन्दादीनि पटादीनामित्येवं प्रकाराणि तेषां भेदाः प्रत्यक्षकारणनानाभेदास्तैस्तेषां वाऽभिव्यक्तिर्घटपटादिकार्यरूपेण सैव स्वभावो यस्य तदिदं प्रत्यक्षकारणनानाभेदाभिव्यक्तिस्वभावं, किं तत् ? जगत्, एवेत्यवधारणे, 15 किमवधार्यते ? प्रत्यक्षदृष्टशुक्रशोणिताहारादिकारणमेवेत्यवधार्यते, किमतो निरस्तं ? अव्यक्ताद्यदृष्टकारणान्तरम् , तस्मादृष्टकारणनानाभेदाभिव्यक्तिस्वभावमेवेदं जगत् किमिति नाभ्युपगम्यते ? किमित्यदृष्टं कारणान्तरं परिकल्प्यत इति । एवं तावत्कारणे कार्यसदसत्त्वानियम उक्तः कार्यानियमोऽपि च, तथानुगम्यमानदृष्टान्ताभावात् , किन्तु मृत्पिण्डशिवकस्थासकोसकुशूलघटकपालशर्करिकापांशुवातायनरेणूनामेव 20 लोके दृष्टत्वात् , पुनरुपचयप्राप्तानन्त्यस्कन्धस्य वातायनरेणुपांशुमृत्पिण्डादेश्चक्रकक्रमेण कारणकार्यानियमदर्शनादित्यनियतादि सदसद्भूतकारणाध्यासाविमुक्त्यनिर्मूलत्वं कार्यभूतस्य जगतः। . (एवमिति) एवं तावत्कारणे कार्यसदसत्त्वानियम उक्तः कार्यानियमोऽपि च कार्यमेव सद्भूतकालादिविशेषकारणमेवेत्यनियमः प्रधानादिशास्त्रकारपरिकल्पितकारणपूर्वकमेवेति वा, किं कारणं ? 25 द्वारेत्याशयेनाह-प्रकृतिपुरुषयोरिति । असिद्धौदने ति, यथौदनकाम ओदनाय पाके प्रवृत्त ओदनसिद्धिव्यतिरेकेण यदि निवर्त्तते सा निवृत्तिर्निष्प्रयोजना तथाऽकृतकृत्यायाः प्रकृतेर्निवृत्तिरपीति भावः । 'एते अपि च कल्पने नोपपन्ने' इति ग्रन्थेनास्य पौनरुक्त्यं वारयति-अत्र चोद्यमित्यादिना। एवं स्वभावमिति, अनवरतं कारणकार्यरूपेण जगत्प्रवर्त्तते, कारणमपि प्रत्यक्षसिद्धमेव घटादेम॒त्पिण्डदण्डचक्रादि, नाप्रत्यक्ष किञ्चिदिति किं नाभ्युपगम्यत इति भावः । एवञ्च सर्वसर्वात्मकत्वसर्व वं सर्वस्य कारणं कार्यश्चेति कत्वा न कार्यकारणसटसत्त्वानियम इति तात्पर्यम् । कार्यानियमोऽपिचेति. कार्य- 30 स्यापि न नियमः, इदं कार्यमेव, तस्य सदेव कारणमसदेव वा, आदि कारणं कालादिरेवेति वा प्रधानमेवेति वा न नियमस्तथाविधत्वसाधकदृष्टान्ताभावात् किन्त्वस्ति कारणं किञ्चिन्न तु निर्मूलं कारणाभावे कार्याभावादित्येव नियम इत्यभिप्रायः। द्वा० न. ७ 2010_04 Page #100 -------------------------------------------------------------------------- ________________ ५० द्वादशारनयचक्रम् [विचरे तथानुगम्यमानदृष्टान्ताभावात् , किन्तर्हि ? एतावान्नियमः कारणाध्यासाविमुक्त्यनिर्मूलत्वं कार्यस्पेति, तथानुगम्यमानदृष्टार्थत्वात् , मृत्पिण्डशिवकेत्यादि पांशुमृत्पिण्डादेरित्यन्तस्य दण्डकस्योपनियतादि सदसद्भूतकारणाध्यासाविमुक्त्यनिर्मूलत्वमिति वक्ष्यमाणसम्बन्धात् कार्यमेव सदेवासदेव वा कारण कालादि वाऽऽदिकारणमित्यस्य वाऽनियमप्रदर्शनार्थमुदाहरणमाह-मृत्पिण्डशिवकेत्यादि यावत्पांशु5 मृत्पिण्डादेरिति, एषां मृत्पिण्डाद्यवस्थाविशेषाणां वातायनरेगुपर्यन्तानामेव लोके दृष्टत्वात्, पुनरुपचयात् प्राप्तमानन्त्यं येषां स्कन्धानां ते पुनरुपचयप्राप्तानन्त्यस्कन्धाः, वातायनरेणुभ्यः प्रभृति पुनरुपचयक्रमेण पांशुमृत्पिण्डशिवकस्थासकोसकुशूलघटकपालशर्करिकापांशुवातायनरेणव इति चक्रकक्रमेण कारणकार्यानियमो दृष्टः, उत्क्रमेणापि च भेदसंघाताभ्यां कार्यकारणसदसत्त्वानियमो दृष्टः पिण्डमुपमृद्य शिवककरणात् , शिवकञ्चोपमृद्य पिण्डकरणात् स्थासकादीनामन्यतममवस्थाविशेषमु10 पमृद्यापि पिण्डादिकरणात् क्रियाक्रियाफलक्रमेण च कदाचित्कारणकार्यानियमदर्शनादित्यनियतादि, इत्थमनियत आदिरस्येत्यनियतादि जगदिति सम्बध्यते तदेवानियतादि सदसद्भूतकारणकार्य सदसद्भूतं कारणं तस्याध्यासः तेन वा कारणेनाध्यासोऽधिष्ठानं तेन कारणाध्यासेनाविमुक्तिरत्यागः कारणसामान्याविनाभावः, न त्वत्यन्तनिर्मूलोत्पत्तिविनाशलक्षणकार्यत्वं खपुष्पवत् , तथैव लोके दृष्टत्वात् , तयाऽविमुक्त्याऽनिर्मूलत्वं कार्यभूतस्य जगतः। 15 अतोऽवगम्यतां न किञ्चिदन्यत्र फलं तच्छास्त्रेण क्रियते, तस्मादिदं जगल्लोकप्रसिद्धमेवानियतानुपरतव्यापारदृष्टकारणकार्यप्रबन्धमिति वृथैवमादौ शास्त्रारम्भः । (अत इति) अतः प्रोक्तहेतोः दृष्टकार्यकारणसदसत्त्वानियमात् परपरिकल्पितप्रधानाधहष्टैककारणानुपपत्तेः कालादिविशेषकारणैक्यानुमानाभावात् कारणसामान्यमात्रानुमानाचावगम्यतां न किञ्चिदन्यत्र फलं तच्छास्त्रेण क्रियते, निरर्थकानि शास्त्राणीत्यर्थः । किं तत् ? यल्लोकव्यवहारफलादति20 रिच्य वर्तते यदपेक्ष्य शास्त्राणि सार्थकानि स्युः, तस्मादवगम्यतामिदं जगल्लोकप्रसिद्धमेवानियतानुपरतव्यापारदृष्टकारणकार्यप्रवन्धमिति, न तु यथान्यैः कल्पितमुपरतव्यापारं सत् प्रधानमतीन्द्रियं पुनरिन्द्रियग्राह्यत्वादिभावेन जगत् सृजति पुनरात्मानं संहृत्योपरतव्यापार तिष्ठति, न चात्यन्त्यासत्कार्य तथानुगम्यमानदृष्टार्थत्वादिति, कारणसद्भावे कार्यसद्भावस्तदभावे तदभाव इत्येतावानेवानुगमो दृश्यते न तु सद्भूतकारण सत्वे कार्यसत्त्वमित्येवं दृश्यत इति भावः। रेणुपर्यन्तानामेव लोके दृष्टत्वादिति, न तु तस्यापि कारणं परमाणुप्रकृतिकाले25 श्वरादिकं शास्त्रकारपरिकल्पितं युक्तमिति भावः । वातायनरेणुपर्यन्तं विभागे जाते ततो जगतः पर्यवसानमेवेत्याशङ्काव्युदासाय कार्यकारणप्रवाहानादितामाह-पुनरुपचयादिति । यथा चक्रस्य न वाप्यादिर्न वाऽन्तो दृश्यत एवं जगतोऽपीति भावः । कारणकार्यानियम इति, पांश्वादेः कार्यमपि वातायनरेवादि पश्विादेः कारणमपीत्यनियमो दृष्ट इत्यर्थः । वातायनरेग्नावे। पांश्वादिरेव भवतीत्यपि न नियम इत्याह-उत्क्रमेणापि चेति । तदेव, जगदेव, अनियतादि-इवमेवास्यादिभूतं कारणमिति नियमरहितं सद्भुतस्यासद्भुतस्य वा कारणस्य कार्यम् । एवञ्च प्रकृत्यादितो जगदुत्पादप्रतिपादकानां सांख्यादिशात्राणां न 30 किमपि प्रयोजनमिति तदारम्भो वृथेत्याशयेनाह-अतोऽवगम्यतामिति । अनियतेत्यादि, सत्कारणत्वेनासत्कारणत्वेन वाऽनियतमित्यर्थः, अनुपरतव्यापारेत्यनेनादिता जगत उक्ता, दृष्टेत्यदृष्टकारणव्युदासः, एवमादी-जगत्कारणत्वप्रतिपादने प्रागुक्तं हेतुत्रयं स्मारयति दृष्टकार्येत्यादिना. अदृष्टैककारणानुपपत्तिश्च तथाविधानुगम्यमानदृष्टान्ताभावात् , काल एव कारणमीश्वर एव वेत्यादिकारणैकतासाधकप्रमाणाभावात् कारणमात्रसाधकानुमानसद्भावाचेत्यर्थः। शास्त्रारम्भो वृथा, शास्त्रस्यैव , _ 2010_04 Page #101 -------------------------------------------------------------------------- ________________ शालवैयर्थ्यम् ] न्यायागमानुसारिणीव्याख्यासमेतम् भणोत्पन्नविनष्टमसम्बद्धमूलं वैतदिति । इतिशब्दो हेत्वर्थः को हेतुः ? शास्त्रनैरर्थक्यम् , कस्मिन् साध्ये १ शास्त्रारम्भवृथाभावे, अत आह-वृथैवमादौ शास्त्रारम्भः । क तर्हि शास्त्रमर्थवत्स्यादिति चेत् ? अतीन्द्रिये पुरुषार्थसाध्यसाधनसम्बन्धे, कोऽसावित्यत आह अत्र तु शास्त्रमर्थवत्स्यात् , इदं काम इदं कुर्यादित्याद्यप्राप्ते क्रियाक्रियाफलसम्बन्धे, अर्यो हि ससाधनायाः फलादिसम्बद्धायाः क्रियाया एवोपदेशश्चित्रादिवत् , न तु लौकिक एवं गृह्यमाणेऽर्थे विचार इदमेवं न चैवं वेति सार्थकः । (अनेति) इदंशब्देन सर्वनाम्ना सामान्यवादिनां सर्वाः क्रियाः फलेच्छाप्रेरितास्तत्साधनाः सूचयति, अग्निहोत्रं जुहुयात् स्वर्गकामः पशुकामो यजेत पुत्रकामो यजेतान्नाद्यकामो यजेतेत्याद्याः, क्रियाकियाफलसम्बन्धस्मातीन्द्रियत्वादप्राप्ते शास्त्रमर्थवत् , प्रत्यक्षादिप्रमाणैरनधिगम्य इत्यर्थः । अर्यो हीत्यादि, मर्शदनपेतोऽर्थ्य:, हिशब्दो यस्मादथै, यस्मात् क्रियाया एवोपदेशोऽर्थ्यः साधनायाः फलादिसम्ब- 10 खाया:, चित्रादिवत्, आदिग्रहणाच्चित्रपुस्तकाष्ठकर्मादिवत् , यथावयवस्थानविन्यासवर्णसंयोगप्रविभागविषयविनियोगाद्यपदेश एवोपयोगात् सार्थको न कुड्यवर्णचित्रकारादिवरूपोपदेशस्तन तदनुपयोगात्, तथा नित्यक्षणिकवादितत्त्ववर्णनं घटपटादेखिगुणकारणपूर्वकत्वादिवर्णनं जगतः सततप्रवृत्तिक्षणिकानुपाख्यत्वादिवर्णनं वा । स्यान्मतं प्रधानक्षणभङ्गादिवादारम्भोऽप्रत्यक्षविषयत्वात्सार्थकः, क्रियाक्रियाफलसम्बन्धोपदेशवदित्येतदपि नोपपद्यते, यस्मान्न तु लौकिक एव गृह्यमाणेऽर्थे इदमेवमेवेति नैवं 15 वेति सार्थकः, विचार इत्यभिसम्बन्धः, प्रसिद्धार्थविषयस्य विचारस निरर्थकत्वादिदोषदुष्टत्वात् । नेति प्रतिषेधे, तुर्विशेषणे, लोके भयो लौकिका, देशकालपुरुषक्रियाविशेषाद्यपेक्षरूपादिमदर्थे कार्यकारअसिण्डादिपवाद्याकारादिके प्रत्यक्षत एव गृह्यमाण इदं सर्व सत्त्वरजस्तमःसंज्ञत्रिगुणात्मकमेव, न चैतदेवं क्षणभङ्गजन्मात्मकमित्यादिविचारः किं सम्बन्धः ? किम्फल: ? को वाऽत्र पुरुषार्थसाधतपरिज्ञानोपयोगः ? इति विमृश्यतां भवद्भिरेव । स्यान्मतं लोकदर्शनमप्रमाणमव्युत्पन्नलोकप्रत्य-30 वादित्यनुमानमाह-को हेतुरिति । ननु भवतु लोकप्रसिद्धेऽर्थे शास्त्रारम्भवृथाभावः, उपदेशमन्तरेण लोकत एव तत्सिद्धेः, अशते एक मात्र स्थावत्यात्, किन्स्वदृष्टेऽर्थे न शास्त्रारम्भवृथाभाव इति तत्र सोऽर्थवत्स्यादित्याशङ्कते व तीति, अतीन्द्रियभूतस्य पुरुषार्थस्स किमायाश्च यः साध्यसाधनभावरूपः सम्बन्धस्तस्य प्रत्यक्षादिप्रमाणैरगम्यत्वात्तदुपदेशपरत्व एव शास्त्रस्यार्थवत्त्वमित्यभिप्रायेणाह-अतीन्द्रिय इति। साध्यसाधनभावप्रतिपादकोपदेशवाक्यमाहाग्निहोत्रमिति । यद्यपि जगद्वैचि. च्यान्पश्चानुपपत्तिलक्षणार्थापत्त्याऽपि किञ्चिददृष्टं सिद्ध्यति तथाप्येतस्मात् कर्मण इदं फलं भवतीति विशेष निर्धा रयितुं न शमशास्त्रन्तु विशेष साधयत्सामान्यालीढमेव साधयतीति सामान्य सिद्धावपि नापत्तिः कारणं प्रवृत्त्यनङ्गत्वात् , नहि विशेषखनं बिना प्रवृत्तिरित्याशयेन क्रियायाः ससाधनायाः फलादिसम्बद्धाया इति विशेषणमुपात्तम् । नित्येति, सामान्यकादिमतेन, क्षणिकेति विशेषवादिमतेन, त्रिगुणेति जगतः सृष्टिप्रलयवादिमतेन, सततप्रवृत्तीति तदनादितावादिमतेन निरूपाख्यत्वेति शन्यवादिमतेन । प्रधानादिपूर्वकजगद्वादारम्भोऽपि क्रियाक्रियाफलसम्बन्धोपदेशवदप्राप्तविषय एवेत्याशङ्कते स्पास्मतमिति । प्रतिज्ञाया लोकविरुद्धतामाहन विति । लोकतो हि देशकालाद्यपेक्षं रूपादिमदर्थजातं सिद्धं तद्वैपरीत्येन 30 प्रधानाविपूर्वकत्वकल्पनाऽनुपयोगिनीत्याह-देशकालेति । मृगतृष्णिकादिप्रत्यक्षं यथा विषयं व्यभिचरति तथा लोकदर्शनमपि व्यभिचरतीति शास्त्रोपदेशः सफल इत्याशंकते स्यान्मतमिति। अव्युत्पन्नः शास्त्रसंस्कारासंस्कृतो यो लोको बालवनितादयस्वत्प्रत्यक्षस्याहं स्थूलः कश इत्यादेर्व्यभिचारादहमर्थे स्थूलत्वाद्यर्थाभावेऽपि भावादित्यर्थः । प्रत्यक्षस्य जात्याऽनुमानादिना 2010_04 Page #102 -------------------------------------------------------------------------- ________________ ५२ द्वादशारनयचक्रम् [विध्यरे क्षव्यभिचारात् मृगतृष्णिकादिष्विवेति, अत्रोच्यते तथासति प्रत्यक्षस्याप्रमाणीकरणं प्रमाणज्येष्ठस्य, ___माऽवमंस्थाः मृगतृष्णिकादिप्रत्यक्षज्ञानव्यभिचारात् सर्व प्रत्यक्षं व्यभिचरतीति, किं तर्हि ? अनुपहतेन्द्रियमनःप्रत्यक्षं यत्तन्न व्यभिचरतीति गृह्यताम् , तथा च प्रत्यक्षेण लोके घटादिर्यथा व्यवस्थितस्तथा गृह्यत एव स्वस्थेन्द्रियमानसैस्तत्रार्थे पुनर्वचनमिदमेवं नैवं वेति । प्रत्यक्षप्रसिद्धर्बाधकमापद्यते यदि तद्वचनं प्रमाणं स्यात् , न पुनस्तत्प्रमाणं तया प्रसिद्ध्या स्वयमेव बाध्यमानत्वात् । अनुवादादिभावाभावे यः सिद्धे सत्यारम्भो नियमार्थः स इति परिभाषाया लोके दृष्टत्वात् । नैवं यथेदं लोकेन गृह्यत इति, किन्तु तथा तथा भवतीति वचनम् । (माऽवमंस्था इति) यथा येन प्रकारेण येन स्वरूपेण, प्रसिद्धार्थं वचनं नियमादनुवा10 दाद्वाऽन्यत्र प्रमाणं स्यादित्यतो ज्ञापकमाह-अनुवादादिभावाभावे यः सिद्धे सत्यारम्भो नियमार्थः स इति परिभाषाया लोके दृष्टत्वात् । लोकव्यवहारानुवादिव्याकरणादिशास्त्रमपि लोक एवेति कृत्वा, कीदृक् पुनस्तद्वचनमित्यत आह-नैवं यथेदं लोकेन गृह्यत इति, इतिशब्दः प्रदर्शने, इदं तद्वचनं प्रसिद्धर्बाधकाभिमतमिति प्रदर्यते, कथं नेति प्रतिषेधः ? येन प्रकारेण यथा, यथा मृत्पिण्डदण्ड चक्रसूत्रोदककुलालपरिस्पंदनिवृत्तो घटः पृथुबुध्नादिस्वरूप उदकाद्याहरणसमर्थ इति लोकेन चक्षुरादि16 भिडते नायमेवं स्वभावः । किं तर्हि ? यथाऽहं ब्रुवे-सर्व, सर्वात्मकत्वात्, पटकटरथादिरूपोऽपि गुणकर्मसामान्यविशेषसमवायाश्रयः परमाण्वाद्यस्मदत्यन्तपरोक्षपार्थिवद्रव्यारब्धस्तद्व्यतिरिक्तोऽवयवी रथाङ्गादिवबुद्ध्या विभज्यमानो विभज्यमानो न परमाणुषु न रूपादिषु न बुद्धिमात्रे वा तिष्ठति निरुपाख्यत्वादिति वा तथा तथा भवतीति शास्त्रविद्वचनं मा भूदनर्थकमिति प्रसिद्धर्बाधकमापद्यत इति न्याय्यमुच्यते, यथोक्तम्-"प्रमाणानि प्रवर्तन्ते विषये सर्ववादिनाम् । संज्ञाभिप्रायभेदात्तु विवदन्ते 20 तपखिन" इति । तस्मादप्रमाणं प्रत्यक्षविरुद्धत्वाच्छास्त्रकारवचनम् । . शास्त्रकारवचनप्रामाण्ये वा प्रत्यक्षाप्रामाण्यम् , तत्र सर्वविपर्ययापत्तिस्तर्कतः, तद्यथा अलोमा हरिणश्चतुष्पात्त्वे सत्युत्प्लुत्य गमनात् , मण्डूकवत् , मण्डूकोऽपि लोमशस्तस्मादेव हेतोहरिणवत् । यूका पक्षिणी पदवत्त्वात् , भ्रमरवत् , भ्रमरोऽपक्षः पदवत्त्वात् यूकावत् , तथा पृथिव्यवसुधा, पदार्थत्वादाकाशवदित्यसाधारणधर्मसम्बन्धेनापि, रूपरसगन्धस्पर्शधर्म 25 धादिग्राहकविधयाऽपेक्षणीयत्वेनासजातविरोधित्वेन शीघ्रप्रतिपत्तिजनकत्वेन च प्रमाणेषु ज्येष्ठत्वात्तस्याप्रमाणीकरण न न्याय्यमित्याशयेनोत्तरयति तथा सतीति । भ्रमादिविलक्षणत्वेनानिश्चितस्य प्रत्यक्षस्य न्यूनबलतया विषयव्यभिचारेऽपि तद्विलक्षणतया निश्चितं प्रत्यक्षं न विषयं व्यभिचरति, तथाविधेन प्रत्यक्षेण दृष्ट कारणकार्यत्वेन जगतो ग्रहणात्तत्रार्थेऽदृष्टकारणोपदेशपरं शास्त्रं प्रत्यक्षप्रसिद्धिबाधितमेवेत्याशयेनाह-अनुपहतेति । अनुवादादीति, प्रत्यक्षप्रसिद्धेऽप्यर्थे शास्त्रकृद्वचनारम्भस्यानुवादादित्वासम्भवे नियमार्थत्वं व्याकरणे परिभाषितं तथैव प्रत्यक्षसिद्धेऽपि दृष्ट कारणकार्यभावे पुनर्नवमिति शास्त्रारम्भो 30 नियमरूपेण बाधको भवतीति मत्वा शास्त्रारम्भोऽपि न सम्यक्, प्रमाणज्येष्ठेन प्रत्यक्षेण बाध्यमानत्वादित्यभिप्राय इति प्रतिभाति । तत्रेति, प्रत्यक्षेऽप्रामाण्ये सतीत्यर्थः, सर्वेषां पदार्थानां प्रत्यक्षतः परिदृश्यमानस्वरूपाणां विपरीतखरूपताऽनुमानतआपादयितुं शक्यत इति भावः । तदेव विपर्ययस्वरूपत्वमनुमिनोति-अलोमेत्यादिना, चतुष्पात्त्वे सत्युत्त्य गमनादित्यादयो हेतवः साधारणधर्मरूपाः । असाधारणधर्म हेतुकृत्य वैपरीत्यमाह-तथेति, तत एव-पदार्थत्वादेव, तद्वत्-आकाशवदिति 2010_04 Page #103 -------------------------------------------------------------------------- ________________ शास्त्रवैयर्थ्यम् ] न्यायागमानुसारिणीव्याख्यासमेतम् ५३ सम्बन्धिनी न भवति तत एव तद्वत् , तथा बौद्धमतेऽपि पृथिवी न भूः, महाभूतत्वाद्रूपवत्त्वाच्च जलवत् , न कर्कशधारणधर्मा तत एव तद्वत् , एवं शेषपदार्थभेदेष्वपि । - (शास्त्रेति) शास्त्रकारवचनप्रामाण्ये वा प्रत्यक्षाप्रामाण्यम् , एवं सति को दोषः ? तत्र प्रत्यक्षाप्रमाणीकरणे सर्वविपर्ययापत्तिस्तर्कतः सर्वभावानां प्रत्यक्षप्रमाणसिद्धानां विपर्यय आपादयितुं शक्यते । एवं शेषपदार्थभेदेष्वपीति, जलानलानिलेषु व्योमनीन्द्रियादिष्वात्मादिषु यथाप्रक्रियं यथा- 5 सम्भवञ्च स्वरूपनिराकरणम् , असाधारणधर्मनिराकरणे च पदार्थत्वमहाभूतत्वरूपवत्त्वादिहेतुकानि साधनानि योज्यानि । महदहङ्कारतन्मात्रेन्द्रियशब्दादिष्वात्मनि च द्रव्यगुणकर्मसामान्यविशेषसमवायेषु सप्रभेदेषु नामरूपयोः संज्ञाविज्ञानवेदनासंस्कारेषु क्षित्युदकज्वलनपवनेषु चक्षुरादिषु रूपादिषु च दृष्टान्तभेदात् ते ते धर्मा निराकार्याः । 10 दृष्टान्तभेदादिति, भूमेराकाशदृष्टान्तवदाकाशस्य भूम्यादिदृष्टान्तेन तथा जलादेरपि पर. स्परतस्ते ते धर्मा निराकार्या इतरमितरस्य दृष्टान्तं कृत्वेति । तार्किक आह शास्त्रनिरूपणविपरीतमप्रमाणं न हरिणस्वरूपादि, निरपवादत्वात् , न, सर्वस्यैवापोदितत्वात् , देशकालकृतविशेषकान्तिनः प्रतिप्रदेशं प्रतिसमयश्च सर्व विशिष्टमेव न 15 समानं किञ्चिदतो यावदणुशो रूपादिशो विज्ञानमात्रशो निरुपाख्यत्वशश्च भेदात्कुतो हरिणः कुतस्तस्य लोमाद्यवतिष्ठते ? शास्त्रनिरूपणविपरीतमप्रमाणमित्यादि, शास्त्रेण निरूपणं शास्त्रे निरूपणं वा शास्त्रनिरूपणं सन्दिग्धविपर्यस्ताव्युत्पन्नबुद्ध्यनुग्रहार्थं, किं निरूपयन्ति शास्त्रेण वस्तु अनुग्राह्येभ्यः शिष्येभ्यः ? प्रकृतिपुरुषावेव क्षणभङ्गो विज्ञानमात्रमेव द्रव्यगुणादि वेति, शास्त्रस्यापवादत्वाच्छास्त्रेणापोदिताद्वि- 20 परीते वस्तुन्यनुमानं प्रमाणं शास्त्रस्य संदेहाद्यपवादत्वात् , न हरिणादिस्वभावाद्यप्रमाणं तत्र शास्त्रस्य मोह एव व्यापार इति तन्निरपवादं हरिणस्वरूपादि, तस्य निरपवादत्वात् , तत्तु लोकेन यथा गृहीतं नैयायिकादिमतेनोक्तम् , महदहङ्कारेति, सांख्याभिप्रायेण, द्रव्यगुणेति वैशेषिकाभिप्रायेण, नामरूपयोरिति वेदान्त्यभिप्रायेण, नामरूपे व्याकरवाणीति श्रुतेरविद्यया नामरूपव्याकरणमभीष्टं तेषां न तु वास्तवमिति। संज्ञाविज्ञानेति बौद्धाभिप्रायेण, क्षित्यदकेति लोकायतमताश्रयेणोक्तमिति। यस्य निरूपणं शास्त्रेण कृतं तद्विपरीतावेदकमेव प्रत्यक्षादि न प्रमाणम् , हरिणखरूपादि 25 तु शास्त्रेण न निरूपितमिति तत्र प्रत्यक्ष एवं प्रमाणं निरपवादत्वादित्याशङ्कते-शास्त्रनिरूपणेति । शास्त्रेण सर्वमेवापोदितमिति प्रतिपादयति-सर्वस्यैवेति । प्रथमं विशेषैकान्तवादिबौद्धभेदाश्रयेणाह-देशकालेति । सन्दिग्धेति, चतुष्प्रकारः पुरुषः, अज्ञः सन्दिग्धो विपर्यस्तो निश्चितमतिश्च, तत्र निश्चितमतयः शास्त्रकाराः तत्तच्छास्त्रेणाज्ञस्य ज्ञानमुपजनयंति, संशयानस्य संशयमुपनन्ति, विपर्यस्यतो विपर्यासं व्युदस्यन्तीति। तत्र सांख्याः प्रकृतिपुरुषावेव तत्त्वमिति, बौद्धाः क्षणभङ्ग इति, विज्ञानवादिनो विज्ञानमात्रमेवेति वैशेषिकादयो द्रव्यगुणादि वेति निरूपयन्ति, शास्त्रस्य प्रबलप्रमाणत्वेन तत्प्रतिपादितप्रकारव्यतिरेकेणैव प्रत्य- 30 क्षानुमानयोः प्रवृत्तिरित्याह-शास्त्रस्येति, हरिणादिवरूपे तु न शास्त्रस्य प्रवृत्तिः किन्तु प्रत्यक्षादेरेव, यत्र प्रत्यक्षादिप्रमाण. प्रतिपन्नेऽपि वस्तुनि मोहादितः संशयादि समुत्पद्यते तत्रापि शास्त्रं मोहमुदस्यदुपकरोतीस्याह न हरिणादीति, शास्त्रे 2010_04 Page #104 -------------------------------------------------------------------------- ________________ ५४ द्वादशारनयचक्रम् [ विष् तथैव । आदिप्रहणान्मण्डूकस्वरूपादि तत्प्रमाणमेव निरपवादस्वादमेरिवौष्ण्यमित्यत्रोच्यते, न सर्वस्यैवापोदितत्वाम्, यथा हि शास्त्रं घटादिवस्तुपरपरिकल्पनापवादप्रवृत्तं तथा हरिणादिस्वरूपं प्रत्यक्षत लोकप्रसिद्धमप्यपवदति, निरङ्कुशत्वात्, तत्कथमिति चेत् ? देशकालकृतविशेषैकान्लिन इत्यादि । अथवा शास्त्रनिरूपणविपरीतमप्रमाणं निरपवादत्वादिति शास्त्रनिरूपणं पृथिवीत्वात्वादि प्रकृतिD पुरुषादि वा तस्य वा विपरीतं तर्कतः प्रतिपाद्यमानमप्रमाणं प्रत्यक्षतर्कयोर विषयार्थत्वाच्छाखम नापोद्यते शास्त्रम्, न केनापि, हरिणस्वरूपादि विपरीतमप्रमाणमिति वर्त्तते, कस्य ? प्रत्यक्षप्रसिद्धेः । कस्मात् ? सापवादत्वात्, तद्धि हरिणालोमत्वादि प्रत्यक्षप्रसिद्धेन लोमशत्वादिना निराक्रियमाणत्वादप्रमाणमेवेति, लौकिक आह- सर्वस्यैवापोदितत्वादिति, शास्त्रेष्वपि हि हरिणस्वरूपादि प्रत्यक्षसिद्धमपद्यत एव, कथं ? निरपवादत्वाच्छास्त्राणाम्, वरं हरिणादिस्वरूपविपरीत प्रतिपादनं तर्कतस्त10 न्मात्रापवादत्वात्, तार्किकैस्तु शास्त्रेण सर्वमपोद्यते प्रत्यक्षतो लोकप्रसिद्धं कारणं कार्यन, तत्कथमिति चेत् ? देशकालकृतविशेषैकान्तिनः - देशकृतः कालकृतश्च विशेषो देशकालकृतविशेषः, स एवैकान्तः, सोऽस्यास्त्यसौ देशकालकृतविशेषैकान्ती तस्य वादिनः प्रतिप्रदेशं प्रतिसमयञ्च सर्व विशिष्टमेव न समानं किञ्चिदतो यावदणुशो रूपादिशो विज्ञानमात्रशो निरुपाख्यत्वशश्च भेदात् कुतो हरिणः कुतस्तस्य लोमाद्यवतिष्ठते, अतः सर्वमपोदितम्, किं वा नापोदितं किं वात्र प्रत्यक्षमनुमानश्चेति । 15 तथा सर्वसर्वात्मकान् मण्डूकोऽपि लोमश एव, स्थावरस्य जङ्गमताङ्गतस्य, स्थावरस्य स्थावरतां, जङ्गमस्य स्थावरसां जङ्गमस्य जङ्गमतां गतस्येति वचनात् । (तथेति ) ननु तेन वादिना सर्वं समर्थितं नापोदितमिति चेत् सर्वस्य सर्वात्मकत्वे सर्वैक्यात् किं तत्सर्वमित्यपोदितमेव, भिन्नार्थसमूहवाचित्वात् सर्वशब्दस्य । अर्थानर्थविषयसामान्यविशेषनानात्वैकान्तेऽतदात्मकत्वात् कुतोऽण्डहरिणमण्डूककार20 कार्यधरणिसंयोगगुणोत्प्लवनकर्मभवन व्यावृत्तितथासमवायाः, सर्वथा तत्त्ववृत्तिव्यतीतत्वात् खपुष्पवत्, अन्यथा बालकुमारवत् । (अति) अर्थानर्थविषय सामान्यविशेषनानात्वैकान्ते - अर्थविषयं सामान्यमर्थविषयश्च विशेष, तद्यथा - द्रव्यस्य पृथिव्यादेरर्थविषयं सामान्यं रूपरसगन्धस्पर्शवती पृथिवी यत्रैतञ्चातुर्गुण्यं सा पूथिवी, रूपरसस्पर्शद्र वस्नेहवत्य आपः, एवं यत्र रूपस्पर्शी तत्तेजः, यत्र स्पर्श एव स वायुरिति 25 सामान्यं, विशेषः पुनरितरेतरधर्मव्यावृत्तिभिरितरत्र चतुःपश्चयेकगुणत्वं यथासंख्यम्, तेषामेवानर्थ सर्वमेष प्रमाणसिद्धमध्यपनुदति प्रबलत्वादित्याशयेनोत्तरयति न सर्वस्यैवेति । अत्र कल्पे शास्त्रस्यापवादरूपतया बलवत्वमङ्गीकृत्य विचारः कृतः, अथवेति कल्पे शास्त्रं निरपवादं तर्कः सापवाद इति मत्त्वा प्रत्यक्षादिविरुद्धं निरूप्यमाणं तर्केणाप्रमाणमतो हरिणालोमत्वादि तर्केण प्रतिपाद्यते चेत्तदापि तत्प्रत्यक्षादिविरुद्धमेवेत्युच्यते, अत्रोत्तरञ्च तथैव शास्त्रेण सर्वमेवापोदितमिति प्रत्यक्षादिविरुद्धत्वादप्रमाणमेवेति विभावनीयम् । अर्थविषयं सामान्यमिति, द्रव्यगुणकर्माणि वैशेषिकशास्त्र अर्थशब्देनो30 च्यन्ते नेतरे सामान्यविशेषसमवायाः, पृथिवीद्रव्यमात्रे रूपादिचतुर्गुणसद्भावात् पृथिवीमात्रस्य रूपादिचातुर्गुण्यमर्थरूपं साम न्यमुच्यते, तदेव चातुर्गुण्यं जलादिव्यावर्तनादर्थलक्षणो विशेषः, एवं जलादावपि भाव्यम्, अनर्थसामान्यन्तु पृथिवीत्वं निखि लवृत्तित्वात्सामान्यं जलादिव्यावर्त्तनाद्विशेष इति भावः । एतेषां द्रव्यादीनां षण्णां परस्परमत्यन्तभेवे सम्बन्धासम्भवेनात्तदा 2010_04 Page #105 -------------------------------------------------------------------------- ________________ शास्त्रवैयर्थ्यम् ] न्यायागमानुसारिणीव्याख्यासमेतम् सामान्यं पृथिवीत्वं तत्सम्बन्धलभ्यत्वात् पृथिवीबुद्ध्यभिधानयोः, एवमप्तेजोवायुत्वानि सामान्यानि, विशेषा इतरेतरेभ्यस्त एव स्वसामान्यभेदा विशेषाः, एतानि द्रव्याणि गुणाः कर्म सामान्यानि विशेषातत्समवायलक्षणश्च सम्बन्ध इत्येते पदार्थाः, तेषां नानात्वं स्वतत्त्वं प्रयोजनलक्षणाभिधानभेदादिति ये वदन्ति तेषां तन्नानात्वैकान्तेऽतदात्मकत्वात् कुतोऽण्डहरिणमण्डूककारणकार्यधरणिसंयोगगुणोप्लवनकर्मभवनव्यावृत्तितथासमवायाः, अण्डग्रहणेन हरिणमण्डूकसमवायिकारणद्रव्यग्रहणं परमतेन । हरिणमण्डूकग्रहणेन च सम्बद्धाणुव्यणुकाद्यारम्भनिर्वृत्तावयविद्रव्यं कार्यं गृह्यते, तस्य हरिणमण्डूकादिद्रव्यस्य धरण्यां संयोगो गुणः, उत्प्लवनं कर्म भवनं भावः सत्ता व्यावृत्तिरपि भवनविलक्षणो विशेषः तेषां तथा समवायः सम्बन्ध इति षडप्येते पदार्था वक्ष्यमाणखपुष्पदृष्टान्तान्न सन्ति, का तर्हि भावना? नास्ति परपरिकल्पितं द्रव्यं गुणकर्मसामान्यविशेषानात्मकत्वात् खपुष्पवत्, असामान्यविशेषानात्मकत्वात् खपुष्पवत् । न पृथिवी पृथिवीतिव्यपदेश्या पृथिवीत्वादत्यन्तमन्यत्वाजलवत्, पृथिवीत्वं 10 न पृथिवीत्वव्यपदेश्यं पृथिव्या अत्यन्तमन्यत्वात् , जलत्ववत्, न सन्ति गुणकर्मसामान्यविशेषसमवायाः, अद्रव्यात्मकत्वात् खपुष्पवत् , एवमेकैकमपीतरानात्मकत्वात् खपुष्पवन्नास्ति, इतरस्वरूपवद्वा न स्वात्मस्वरूपमिति शेषपदार्थदृष्टान्तभेदादायोज्यमिति । द्रव्यश्च भव्य इति वचनात् भवतीति भव्यं द्रव्यं भवनं च भावः भवनादन्यत्वाद्रव्यादयो न सन्त्येव वन्ध्यापुत्रवत्, भवनमपि द्रव्यादन्यत्वानास्त्येव वन्ध्यापुत्रवत्, न भवति वा द्रव्यं भवनस्वरूपानापत्तेः वन्ध्यापुत्रवत् , एवं भवनमपि द्रव्य-15 स्वरूपानापत्तेस्तद्वत् , एवं गुणादयोऽपि व्यावृत्तिः समवायश्चेति, अथवा क्रियागुणव्यपदेशाभावादसदेव कार्यमिति ज्ञायत इति तन्नोपपद्यते निर्मूलत्वात् खपुष्पवत् , एवमगुणत्वाद्गुणादन्यदसामान्यत्वात् सामान्यादन्यदविशेषत्वाद्विशेषादन्यदकारणत्वात् कारणादन्यदकार्यत्वात् कार्यादन्यन्नास्ति, एतेभ्यो हेतुभ्यः कुतोऽण्डहरिणमण्डूककारणकार्यधरणिसंयोगगुणोत्प्लवनकर्मभवनव्यावृत्तितथासमवायाः, न सन्तीत्यर्थः। तदुपसंहृत्योच्यते सर्वथा तत्त्ववृत्तिव्यतीतत्वात् , तस्य भावस्तत्त्वं, तत्त्वस्य 20 वृत्तिस्तत्तत्त्वेन तत्स्वरूपान्यस्वरूपेण च वृत्तिर्यथा द्रव्यमेव वर्तते तथा तथा रूपरसादिगुणाः स्थितिगत्यादिक्रियाः भवनव्यावृत्तिसम्बन्धिन्यः, एकपुरुषपितृपुत्रत्वादिधर्मसम्बन्धिवदिति तां वृत्तिं सर्वथा व्यतीतत्वात् , द्रव्यगुणादिषट्पदार्थानां सबिकल्पानामसत्त्वं खपुष्पवदित्यन्ते दृष्टान्त उपदिष्टः त्मकत्वाद्गुणवत्त्वादिद्रव्यलक्षणासम्भवेन गगनकुसुमसमतैवेत्याशयेनाहासदात्मकत्वादिति, यो हि खस्मिन् तत्त्वस्य वृत्ति नाभ्युपैति स कथं वस्तुखरूपतामुपागच्छेत् , वृत्तिश्च कथञ्चिदमेदात्मा न तु सर्वथा भेदलक्षणा, अतोऽतदात्मकत्वादेते ज्यादयो 25 न सन्स्येव, तत्तदृत्तावपि तद्रूपतानापत्तेरिति । अण्डग्रहणेनेति, हरिणमण्डूकादीनां समवायिकारणीभूतं यद्व्यं तदह्यते न्यायमतेन, अवयवग्रहणमिति भावः, हरिणमण्डकग्रहणेन चेति, परमाणुव्यणुकाद्यवयवद्रव्यारब्धस्यावयविनो ग्रहण. मित्यर्थः । क्रियागुणेति, कार्योत्पत्तेः प्राक् कार्य घटपटाद्यसत् , तत्कालीनस्वजनकाभावप्रतियोगीत्यर्थः, प्रागभावप्रतियोगी तदानीं घठ इत्यर्थः, तत्र हेतुः क्रियागुणव्यपदेशाभावादिति, तदानीं कियावत्त्वेन गुणवत्त्वेन घटादेरुत्पनघटादेरिव व्यपदेशाभावादित्यर्थः, अत्यन्तासतः खपुष्पादेरिव कारणव्यापाराजनयितुमशक्यत्वेन नेदं वर्णनं सम्यगित्याह-निर्मूलत्वादिति, 30 असन्तासत्त्वादित्यर्थः। तथा च द्रव्यादिपदार्थषट्वस्य गगनकुसुमायमानतया कुतोऽण्डहरिणमण्डूकादय इति भावः । द्रव्यगुणादिषट्पदार्थानां वस्तुतस्वरहितत्वेन गगनकुसुमवदसत्त्वमाह-सर्वथेति, वस्तुनस्तत्त्वं हि भवनव्यावृत्तिसम्बन्धित्वं त. पेण तदन्यरूपेण च वृत्तित्वमेतच द्रव्यगुणादीनामविशिष्टं तव्यतीततायास्तेषामगीकारादसत्त्वमेवेति भावः। यदसन भवति _ 2010_04 Page #106 -------------------------------------------------------------------------- ________________ ५६ द्वादशारनयचक्रम् [विध्यरे सर्वत्र द्रष्टव्यस्तथा च योजितः । अन्यथेति, वैध\ण बालकुमारवत् , यदस्ति तत्तदतत्स्वरूपतत्त्ववृत्तिव्यतीतं न भवति यथा बाल एव कुमारः कुमार एव च बालोऽन्यौ च ताववस्थाभेदात् , बालत्वमूलं कुमारत्वं कुमारत्वान्यच्च बालत्वमिति तदतत्त्वरूपा तत्त्ववृत्तिः, तां व्यतीत्य न स बालः कुमारो वेति स च संस्तत्त्ववृत्तिव्यतीतो न भवतीति । 5 हरिणादिस्वरूपवितथोक्तौ प्रसिद्धिविरुद्धप्रतिज्ञत्वादेवातथात्वमिति चेन्न, उक्तवत्तुल्यत्वात् । (हरिणादीति) चेदित्याशङ्कायाम् , स्यादाशङ्का हरिणस्वरूपं लोमशत्वं तस्य वितथोक्तिरलोमा हरिण इति, तस्यां वितथोक्तौ प्रसिद्धिविरुद्धा प्रतिज्ञा यस्य सः प्रसिद्धिविरुद्धप्रतिज्ञः, तद्भावः प्रसिद्धिविरुद्धप्रतिज्ञत्वं तस्मादेवातथात्वमिति, अत्रोच्यते नोक्तवत्तुल्यत्वादिति, नेति प्रतिषेधे, नैतदुपप10 द्यते, किंवत् ? उक्तवत् , उक्तेन तुल्यमुक्तवत् , यथोक्तं शास्त्रनिरूपणविपरीतमप्रमाणं निरपवादत्वादिति तेनैतदपि तुल्यं हरिणादिस्वरूपवितथोक्तौ प्रसिद्धिविरुद्धप्रतिज्ञत्वादेवातथात्वमिति. अत्रापि उत्तरस्यापि तुल्यत्वात्, कथमिति चेत् ? न सर्वस्यैवापोदितत्वादित्यादि सर्वं तदेव यावत्खपुष्पवदन्यथा बालकुमारवदिति । किञ्च15_ लोकस्य चाप्रामाणीकृतत्वात्तथा कुतः प्रसिद्धिविरोधः कथं वा तत्प्रसिद्धिः । एवं वचनेऽभ्युपगमविरोधात् । (लोकस्येति) ननु भवतामेकान्तवादिना लोकमप्रमाणीकृत्य लोकप्रसिद्धिविरुद्धप्रतिज्ञत्वदोषापादनमभ्युगमविरोधाय कल्पते, तस्मादयुक्तमेवं वक्तमिति । __ स्यान्मतं प्रतिज्ञादोषद्वारेण स्वरूपादिविपरीतप्रतिपादनाप्रामाण्यं न शक्यते वक्तुं मदभ्युपेतवि20 रोधात् , हेतुदोषद्वारेण तु शक्नोमीत्यत आह लोमशालोमैक्ये सपक्षासपक्षावृत्तिवृत्त्योरतर्क इति चेन्न दृष्टान्तस्य प्रत्यक्षप्रसिद्धिविषयत्वादसिद्धेलॊकस्याप्रमाणीकृतत्वात् कुतस्तर्कातर्कत्वविचारः। न तत्सर्वथा तत्त्ववृत्तिव्यतीतं बालकुमारवदिति व्यतिरेकदृष्टान्तं संघटयति वैधयेणेति योऽसौ वालः स एव कुमार इत्यवस्थावतोऽभेदः बालत्वकुमारत्वे अवस्थे तदतद्रूपे ते चाविरोधेन तत्र वर्तेत इति तत्त्ववृत्तिव्यतीतो न भवति बालकुमारः 25 सत्त्वादिति भावः । अलोमा हरिण इत्यनुमानस्य प्रसिद्धिविरुद्धप्रतिज्ञत्वं शङ्कते स्यादाशङ्केति, अतथात्वमिति, हरिणस्य नालोमत्वमित्यर्थः । भवतामियमाशङ्का शास्त्रनिरूपणविपरीतेत्यादिपूवाशङ्का सदृशीति तत्रोक्तोत्तरमेवात्रापि मन्यतामित्याह उक्तवदिति अनुमाननिरूपितार्थविपरीतप्रतिपादकप्रत्यक्षस्याप्रमाणत्वं शास्त्रेण च सर्वस्यैव निराकृतत्वात्, सर्वथा तत्त्ववृत्तिव्यतीतत्वात् कुतो हरिणादि तल्लोमादि वा येन प्रत्यक्षप्रसिद्धिर्वाधिका भवेदिति भावः। अभ्युपगमविरोधायेति, लोकोऽ प्रमाणमित्यभ्युपगमः हरिणादेर्लोमशत्वं लोके प्रसिद्धमतो निर्लोमा हरिण इति प्रतिज्ञा लोकविरुद्धेति प्रतिपादनं निजाभ्युपगमे30 नैव विरुद्धमिति भावः । प्रतिज्ञाया हरिणखरूपविपरीतसाधिकाया निर्लोमा हरिण इत्येवंरूपायाः प्रतिज्ञाविरोधिदोषापादनद्वारेण करणासम्भवेऽपि तत्साधकहेतोर्विरोधादिदोषप्रतिपादनेन निराकरणं कत्तुं शक्यत इत्यभिप्रायेण वादी प्राह स्यान्मतमिति । सपक्षासपक्षावृत्तिवृत्त्योरिति, सपक्षेऽवृत्तेरसपक्षे वृत्तेश्चेति, सपक्षासपक्षयोवृत्तेरिति, सपक्षासपक्षयोरवृत्तेरिति 2010_04 Page #107 -------------------------------------------------------------------------- ________________ लोकविरोधे दोषदानम् ] न्यायागमानुसारिणीव्याख्यासमेतम् (लोमशेति) लोमशालोमैक्ये सपक्षासपक्षावृत्तिवृत्त्योरतर्फ इति चेत्, चतुष्पात्त्वे सत्युप्लुत्य गमनाद्धरिणो निर्लोमा लोमशो मण्डूक इत्युभयोरुभयधर्मापत्तौ लोमशालोनोरक्ये सत्ययं हेतुर्धर्मपरिकल्पनकृताद्भेदाद्धरिणोऽलोमत्वे साध्ये सपक्षे निर्लोमन्यवृत्तेरसपक्षे च लोमशे वृत्तेविरुद्धो हेतुश्चतुःपात्त्वे सत्युत्प्लुत्य गमनादित्यापद्यते, सपक्षासपक्षवृत्तित्वात्साधारणानैकान्तिको वा, लोमशालोमैक्ये पक्षाभेदाद्धर्माभेदे च सपक्षासपक्षाभावादसाधारणानैकान्तिको वा तस्मादेषोऽतर्कः, अतर्कत्वाचास्य । हरिणादिस्वरूपविपरीतप्रतिपादनमप्रमाणम् , चेदित्याशङ्कायां, एवञ्चेन्मन्यसे तन्न, दृष्टान्तस्य प्रत्यक्षप्रसिद्धिविषयत्वात् , दृष्टान्तो हि लोके प्रत्यक्षप्रमाणप्रसिद्धो घटपटादिरर्थः, तद्विषयश्च साध्यसाधनसमन्वयव्यतिरेकविभावनम् , सर्वानुमानस्य सर्वावयवानाञ्च तद्वलेन साध्यसिद्धौ सामर्थ्यसिद्धेः । यथोक्तम् "दृष्टान्तबलाद्ध्यवयवसिद्धिस्तदाश्रयत्वात् सर्वावयवानां तेन दृष्टान्तस्वतत्त्वमवध्रियते प्रत्यक्षत्वाच्च तस्य तद्वस्तुप्रतिपत्तेरशेषं तत्सिद्धान्तदर्शनमवभोत्स्यते प्रत्यक्षमाहे च सिद्ध्यति परोक्षग्राहः 10 सिद्ध्येत्तदसिद्धौ संभावनाभाव एवे"ति । ततस्तस्य दृष्टान्तस्यासिद्धिलॊकस्याप्रमाणीकृतत्वात् , प्रत्यक्षस्य च दृष्टान्तस्याभावे कुतो दार्टान्तिकसाध्यसाधनसमन्वयव्यतिरेका इति प्रत्यक्षनिराकरणे तर्कासिद्धिरेव । कुतस्तर्कातर्कत्वविचार इति, तदवस्थो हरिणादिस्वरूपविपरीतापत्तिदोषः । किश्चान्यत् इहैव भवान् यं दोषमापादयति स तव, अप्रमाणीकृतत्वाल्लोकस्य, सपक्षासपक्षवृत्त्य-15 वृत्त्योरसत्त्वापत्तेः। इहैवेत्यादि यावदसत्त्वापत्तेरिति, तथा च हरिणादिस्वरूपनिराकरणे भवान् यं यं दोषमापादयति स स तवैव, अत्र च वीप्सार्थो द्रष्टव्यः, तव-तवैवैकान्तवादिनः, एवकारोऽवधारणे, यथाऽस्मिन् साधने मम दोषो नास्ति तवैवेति, त्वदभ्युपगमानुरूप्येणोपपादितम् । तथा नात्रैव, किं तर्हि ? सर्वत्रान्यत्रापि पक्षहेतुदृष्टान्तेषु दोषस्तवैव न ममेत्यर्थः, अप्रमाणीकृतत्वाल्लोकस्य प्रत्यक्षस्य चेति 20 वर्त्तते, कारणान्तरोपन्यासोऽप्येषोऽभिधीयते सपक्षासपक्षवृत्त्यवृत्त्योरसत्त्वापत्तेः यदिष्टं भवतामन्वयव्यतिरेकाभ्यामर्थानुमानं तौ च सपक्षासपक्षयोवृत्त्यवृत्ती तद्बलेन साध्यसिद्धिस्तयोरेव वाऽसत्त्वमापद्यते, ततस्तयोः सपक्षासपक्षवृत्त्यवृत्त्योर्यथासंख्यमसत्त्वापत्तेस्तवैवाविशेषैकान्तवादिनस्तदुभयानेकत्वैकान्तवादिनो वेति हेतूदेशमात्रमेतत् । विवक्षितत्वात् विरोधसाधारणासाधारणानैकान्तिकदोषत्रयलाभः । सपक्षे निर्लोमनि घटादौ हेतोरवृत्तेरसपक्षे सलोमनि 25 मण्डूकादौ वृत्तर्विरुद्धो हेतुः, कथं विपक्षो मण्डूकादिः निर्लोमत्वादित्यत्रोक्तमुभयोरुभयधर्मापत्ताविति, धर्मपरिकल्पनकृतभेदखीकारे सपक्षे मण्डूकादौ विपक्षे सलोमनि शृगालादौ वृत्तर्व्यभिचारो हेतोरित्याह-सपक्षासपक्षेति, लोमशालोमोरक्येन धर्मयोभैदानङ्गीकारे सपक्षविपक्षयोरभावेन पक्षमात्रवृत्तित्वाद्धेतोरसाधारणानैकान्तिकत्वमित्याह-पक्षाभेदादिति, दृष्टान्तस्य प्रत्यक्षत्वात्तद्बलेन हेत्वाद्यवयवानां साध्यसाधनसामर्थ्यात् प्रत्यक्षाप्रामाण्ये दृष्टान्तासिया तर्कस्य सदसद्विचारो न भवितुमर्हतीत्याशयेन निराकरोति दृष्टान्तस्येति । यं दोषमापादयति स तवेत्यत्र वीप्सार्थो विवक्षित इत्याह- 30 अत्र चेति । इहैवेत्यत्रस्थैवकारस्य भिन्नक्रमत्वादाह तव तवैवेति । हरिणादिखरूपनिराकरणायोपन्यस्ते अन्यत्र वा हेतौ ये ये दोषा भवतोद्भाव्यन्ते ते ते दोषाः तवैव स्युन मम ।भवता लोकस्य प्रत्यक्षस्य चाप्रमाणीकरणात्, व्याप्त्यसिद्धेश्व, भ्याप्तिर्हि . अन्वयव्यतिरेकाभ्याम् , अन्वयश्च सपक्षवृत्तिता व्यतिरेकश्चासपक्षावृत्तिता, एतयोः सामान्यवादिनो विशेषवादिनो वा भवतोsसत्त्वं स्मादित्याशयेनाह-यथास्मिन्नित्यादि । सामान्यैकान्तवादे सपक्षासपक्षवृत्त्यवृत्त्योरसत्त्वमाह-तत्र तावदिति । तत्रा: द्वा० न०८ 2010_04 Page #108 -------------------------------------------------------------------------- ________________ द्वादशारनयचक्रम् [विध्यरे तदिदानी प्रत्येकं विधीयते तत्र तावदविशेषकान्ते कुतोऽन्यपक्षोऽसपक्षो व्यावृत्तिर्वा, अन्यस्याभावादविशेषात् , तद्वत्समानस्याभावात् । (तत्रेति) अविशेषः सामान्यमविशेष एवेत्येकान्तः सर्वं सर्वात्मकमिति, तस्मिन्नविशेषकान्ते 5 तव ग्राहे कुतोऽन्यपक्षः, अन्यस्य पक्षोऽन्यपक्षः, प्रतिवादिनोऽन्यस्याऽभावात् , तत्रापि चान्येनाविशेषात् सर्वसर्वात्मकत्वाविशेषात् । अथवाऽन्यस्य वचनस्याभावात् , त्वद्वचनात्मकत्वादेव सर्ववचनानाम् , त्वदन्यवचनत्वविशेषाभावादेव वा, अथवा किं नः परवादिवचनयोरभावाद्युपगमनिष्टरवचनाभ्याम् , अन्यश्चासौ पक्षश्चेत्यन्यपक्षोऽर्थोऽस्तु, न, कुतः ? त्वत्पक्षात्सर्वैकात्मत्वादर्थादविशेषैकान्तात् । एवं नित्यः शब्दोऽकृतकत्वादिति वादिनोऽनित्यशब्दपक्षवक्तृवचनवाच्यानामभावः तद्वत्तदनि10 त्यधर्मसामान्येन समानस्य घटादेरभावान्नित्यैकान्तवादिनोऽसपक्षाभावस्तदभावाद्यावृत्त्यभावः । वाशब्दात कुतस्तत्पक्षः सपक्षः तद्वृत्तिा, सर्वसर्वात्मकत्वाभेदादेव । स्यान्मतम् माविर्भावतिरोभावयोरभूत्वा भावाद्भूत्वा चाभावादनित्यत्वकृतकत्वे स्त एवेति चेन्न तत्त्व एव तथाभिव्यक्तः। 10 (आविर्भावेति) आविर्भावतिरोभावयोरभूत्वा भावाद्धृत्वा चाभावादनित्यत्वकृतकत्वे स्त एवाविशेषवादिनोऽपीयेतच्चायुक्तम् , कुतः १ तत्त्व एव तथाऽभिव्यक्तः, तत्त्वमेकत्वं तस्मिंस्तत्त्व एव तथा तेन प्रकारेण तथाऽभिव्यक्तेः, किमुक्तं भवति ? मृद एवाभिन्नाया अन्तर्सनाविर्भावतिरोभावमात्रत्वादङ्गुलिवक्रप्रगुणावस्थयोरिवावस्थाविशेषाभिव्यक्तेः किमन्या मृत्स्ना मृत्पिण्डशिवकघटाद्यवस्थासु, तस्मात्तत्त्व एव तथाऽभिव्यक्तेः कुतोऽन्यपक्षोऽसपक्षो व्यावृत्तिस्तत्पक्षः सपक्षस्तत्सत्त्वश्चेति साधू20 च्यते तवैवाविशेषकान्तवादिनः सपक्षासपक्षवृत्त्यवृत्त्योहरिणादिस्वरूपविपरीतापादनसाधनेष्वेवासस्वापत्तिरिति । सपक्षावृत्तित्वं न सम्भवतीति प्रथयति कुतोऽन्यपक्ष इति, अन्यस्य प्रतिवादिनः यः पक्षस्सोऽन्यपक्षः, सर्वसर्वात्मकैकत्वेनान्यस्य कस्याप्यभावात्कुतोऽन्यपक्षलक्षणोऽसपक्षः, कुतो वा त्वद्वचनान्यस्य प्रतिवादिपक्षद्योतकवचनस्य सम्भवः । तदभावादेव च कुतः तलावृत्तिलक्षणासपक्षासत्त्वमिति, इदश्च वादिनोऽन्यस्य यः पक्षः-तद्वचनवाच्यः सोऽसपक्ष इति मत्वा । तत्र 26 प्रतिवादिनस्तद्वचनस्य चाभावात्कुतस्तद्वाच्यतालक्षणासपक्षसम्भव इति भावः । त्वत्पक्षादन्यस्य पक्षस्याप्यभावः, त्वत्पक्षात् सर्वसर्वात्मकादर्थात् परस्य विशेषस्यैकान्तेनाभावादित्याह-अन्यश्चासाविति । दृष्टान्तेन पूर्वोदितमेव प्रदर्शयति-एवमिति, भन्यस्येतिपक्षीयार्थद्वये निदर्शनमिदम्, समानस्येति, अनित्यत्वधर्मेण समानस्य घटादेरित्यर्थः, इदमन्यश्चासावितिपक्षे निदर्शनम् । मूले वा शब्देनाभिप्रेतं सपक्षवृत्तित्वासम्भवं प्रकटयति-वाशब्दादिति । ननु धर्मिणो नित्यत्वेऽपि धर्मा णामाविर्भावतिरोभावाभ्युपगमेनानित्यत्वकृतकत्वयोः सत्त्वादसपक्षावृत्तित्वं सम्भवतीत्याशंकते-आविर्भावेति, अभूत्वा भाव30 लक्षणाविर्भावः कृतकत्वं भूत्वा चाभावलक्षणतिरोभावोऽनित्यत्वमिति योज्यम् । मृदेवाभेदेन मृत्पिण्डशिवकादिलक्षणाविर्भा बतिरोभावभावं भजते नतु मृदादिधर्मिव्यतिरेकेण मृत्पिण्डशिवकादयो धर्मा अवस्थारूपा इति कुतो भेदेन कृतकत्वानित्यस्वसम्भव इत्याह-तत्त्व एवेति । तथा च तव न क्वचिदपि साधने सपक्षासपक्षवृत्त्यवृत्त्योः सिद्धिरिति भावः । अथ विशे __ 2010_04 Page #109 -------------------------------------------------------------------------- ________________ तत्पक्षाचनुपपत्तिः] न्यायागमानुसारिणीव्याख्यासमेतम् तथा विशेषकान्ते कुतस्तत्पक्षः सपक्षस्तत्सत्त्वं वा, देशतः परमाणुशो रूपादिशो विज्ञानमात्रशोऽनुपाख्यत्वशश्च भेदात् , कालतोऽत्यन्तपरमनिरुद्धक्षणादूर्खमनवस्थानाच्च कुतस्तत्पक्षः, धर्मधर्मिणोर्विशेषणविशेष्ययोश्चासम्भवात् कुतः सपक्षः, ? सत्त्वं वा तत्र तदभावात् , तथाऽस्थितेः। (विशेषकान्त इति) अत्रापि तस्य पक्षो वक्तुर्वचनस्य वा स एव वा पक्ष इत्यर्थः, एवञ्चानित्यः शब्द इति धर्मधर्मिणोविशेषणविशेष्ययोश्चासम्भवात् कुतः सपक्षोऽर्थान्तरसम्बद्धसामान्याभावात् , साध्याभावसामान्याभ्युपगमे सपक्षासपक्षाविशेषप्रसङ्गात् कुतः सत्त्वम् ? तत्र तदभावात्कृतकत्वादिसविकल्पधर्मान्तराभावात् परस्परविलक्षणनिर्व्यापारधर्ममात्रत्वात् सर्वधर्माणां निरुपाख्यत्वशून्यत्वपरमार्थत्वाच्च प्रतिवादिपक्षव्यावृत्त्यभावः, वाशब्दात् पूर्ववच्च, उपसंहृत्य तदर्थावबोधनो 10 हेतुरुच्यते 'तथाऽस्थितेः' तेन प्रकारेण तथा, क्षणिकनिर्व्यापारशून्यत्वप्रकारेणास्थितेः कस्यचिदर्थस्येति विशेषैकान्तेऽपि सर्वत्र सपक्षवृत्त्याद्यसत्त्वापत्तिरित्थमिति । तथातदुभयानेकत्वैकान्ते नोभयमिति साध्यसाधनधर्मधर्मिण एव कुतः? तथाऽपूर्वत्वात् । (तदुभयेति) सामान्यविशेषौ तदुभयमनेकं-भिन्नं परस्परत इत्येतस्मिन्नप्येकान्ते साध्यसाधन- 15 धर्मधर्मिण एव कुतः ? साध्यस्य तावदनित्यत्वस्याभावो धर्ममात्रस्य निर्मूलत्वात् , खपुष्पवत् , तथा साधनस्यापि कृतकत्वस्य, कृतमित्यनुकम्पितं कुत्सितमज्ञातं वा कृतकं, निर्मूलत्वं पुनर्द्रव्यादत्यन्तभिमत्वादिति धर्मयोरभावः, धर्मिणोरपि शब्दघटयोरगुणाकर्मत्वादिभ्यो हेतुभ्यः पूर्वोक्तवदभाव एव, तत्सङ्ग्रहहेतुरप्युच्यते-तथाऽपूर्वत्वात् , अपूर्वत्वममूलत्वं द्रव्यगुणादीनां परस्परतोऽत्यन्तमन्यत्वात् , एवं तावत्सपक्षासपक्षवृत्त्यवृत्तिविपरीतत्वात्तवैवातर्कत्वदोषो दृष्टान्तबलात्तर्कसिद्धरित्यविशेषविशेषोभ-20 यानेकत्वैकान्तवादेषूक्ता दोषाः । किश्चान्यत् दृष्टान्तस्य प्रत्यक्षत्वाद् दृष्टान्ताभ्युपगमात् प्रत्यक्षप्रमाणीकरणमापन्नं तस्माच्च लोकत्वं दृष्टान्तसंवादित्वप्रतिपादनार्थत्वाच्छास्त्रार्थस्य, ततश्च प्रतिज्ञातव्याघातः। पैकान्तवादे तयोरसिद्धिमाह विशेषकान्त इति । तत्पक्ष इति, तस्य पक्षस्तत्पक्ष इति तत्पुरुषसमासः तत्पदेन वक्ता वचनं 25 वा गृह्यते, स चासी पक्षश्चेति कर्मधारयो वा । एवति , नानावयवरूपदेशवृत्त्येकस्य देशिनोऽवय विनो विरुद्धधर्माध्यासेनाभावात् परमाणुरेव, सोऽपि न नानाकालवृत्तिः, तद्वाहकप्रमाणाभावात् , वर्तमानस्यैव प्रत्यक्षादिना ग्रहणात् किन्तु क्षणिक एव, तत्रापि स रूपमेव तश्यतिरिक्तरूपिणोऽनुपलम्भात् , तथापि तज्ज्ञानाकारमेव ग्राह्यग्राहकभावानुपपत्तेः, विज्ञानमपि नास्ति विषयाभावे तदसम्भवादतः शून्यमेवेत्येवं विशेषकान्तवादिसिद्धान्ते चेत्यर्थः क्षणमात्रस्थायिनो न धर्मधर्मिभावो विशेषणविशेध्यभावो वा सम्भवति, अनेकक्षणसाध्यत्वात्तस्य, त्वन्मते चानेकक्षणवृत्ति न किश्चिद्वास्तविकमस्ति, भतः कुतस्तादृशधर्मसाध्य-30 तस्पक्षादय इति भावः । विशेष्यविशेषणभावाद्यनुपपत्तिः कथमित्यत्राह-तथाऽस्थितेरिति, अर्थानां क्षणिकत्वादिरूपेण विशेष्यविशेषणभावादिसम्भवकालं यावत् स्थित्यभावादिति भावः। क्षणिकनिर्व्यापारशून्यत्वेति बौद्धमतत्रयाभिप्रायेण । न्यायमतेनानुपपत्तिमाह-तदुभयेति । धर्ममात्रस्येति, धर्म्यनात्मकधर्मस्येत्यर्थः । निगमयति-एवं तावदिति । वादत्रयेऽप्युकदोषादित्यर्थः । दृष्टान्तस्येति, दृष्टान्तः प्रत्यक्षविषयोऽर्थः, स्मृतिविषयस्य प्रत्यक्षतः पुनरुपदर्शनात , पूर्वानुभूतं अर्थ स्मरति _ 2010_04 Page #110 -------------------------------------------------------------------------- ________________ ६० [ विध्यरे (दृष्टान्तस्येति ) दृष्टान्तस्य प्रत्यक्षत्वादनुमानत्वाद्धेतोरुपनयस्योपमानत्वादागमत्वात् प्रतिज्ञाया दृष्टान्ताभ्युपगमात् प्रत्यक्षप्रमाणीकरणमापन्नं तस्माच्च लोकत्वं दृष्टान्तसंवादित्वप्रतिपादनार्थत्वाच्छास्त्रार्थस्य, तार्किकाणां तर्कैरुपतिष्ठतां व्याख्यार्थ, यथोक्तम् "लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः” इति ( गौतमसू० अ० १ आ. १ सू. २५) यथालोको दृष्टान्तस्तद्विरुद्धं 5 यदभिधीयते तद्दृष्टान्तविरुद्धमिति । ततः को दोष इति चेत् प्रतिज्ञातव्याघातः, किं प्रतिज्ञातं ? शास्त्रनिरूपणविपरीतमप्रमाणं न हरिणस्वरूपादि, निरपवादत्वादिति, तद्व्याहन्यते शास्त्रप्रमाणीकरणे, प्रत्यक्ष लाल्लोकस्य प्रवृत्तत्वात् । द्वादशारनयचक्रम् शास्त्रत्वादेवा लोकत्वमिति चेन्न, लोकाश्रयत्वात्तेषां शास्त्राणाम् । (शास्त्रत्वादेवेति ) स्यान्मतं ननूक्तं "शास्त्रकाराः स्वदृष्टार्थप्रतिपादन कुशलाः बुद्धिसंवाद10 नाथं दृष्टान्तप्राणैस्तर्कैः शास्त्रार्थान् प्रतिपादयन्ति, न पुनः शास्त्रार्था लोकैः प्रत्यक्षीकर्तुं शक्यास्तत एव तदर्थवाचीनि शास्त्राण्यलोकः" इति, तच्च न, लोकाश्रयत्वात्तेषां शास्त्राणाम् । 15 तानि हि शास्त्राणि सामान्यविशेषकारणकार्य मात्राणां सामान्यमात्रस्याग्नेः कारणमात्रस्य स्पर्शशौक्ल्यादेर्दृष्टस्य विशेषमात्रस्यार्चिष्षु नवनवोत्पादविनाशरूपस्य दृष्टस्य सर्वत्राध्यारोपेण प्रणीतानि । ( तानीति ) तानि हि शास्त्राणि यस्मादर्थे हिशब्दः यस्मात्तानि सामान्य विशेषकारणकार्यमात्राणां सामान्यमात्रस्य यदमेः कारणमात्रस्य स्पर्शशौक्लषादेर्दृष्टस्य विशेषमात्रस्य चार्चिष्षु नवनवोत्पादविनाशरूपस्य दृष्टस्य सर्वत्राध्यारोपेण प्रणीतानि । क्षीरस्यैव स्नेहादिसामान्यस्य कारणाख्यस्य संस्थानमात्रं दृष्ट्वा दध्याद्यवस्थामन्तरेण तस्य सामान्यस्य स्थित्यभावमपश्यद्भिर्यथेदं संस्थानमात्रं न कार्य न विशेषस्तथाऽन्येऽपि घटपटादयोऽर्थास्ते गुणप्रधानसंस्थानमात्रमिति सर्वत्राध्यारोप्य तदर्थानि 20 शास्त्राणि प्रणीतानि कारणमेव सामान्यमेव सर्वत्रेत्येतस्यार्थस्य प्रतिपादनप्रसङ्गेन । तथाऽर्चिषां प्रतिक्षणोत्पत्तिविनाशपार्थक्यानि दृष्ट्वा रूपरसस्पर्शगन्धमूर्त्यादिसामान्यावस्थानमन्तरेण तदसम्भवमपश्यद्भिर्यथेदं विशेषमात्रं न सामान्यं न कारणं तथाऽन्येऽपि महीमहीघ्रसरित्समुद्रद्वीपगगनतारानक्षत्रगाय भावा इति सर्वत्राध्यारोप्य तदर्थानि शास्त्राणि तत्प्रतिपादनप्रसङ्गवचनरचनाविभङ्गतरङ्गापारतोयसमुद्रीभूतानि प्रणीतानि । 25 स्मृतश्च विषयमुदाहरणत्वेनादत्ते, तेन पूर्वानुभवप्रसिद्धमनुविधीयमानं प्रत्यक्षसदृशत्वात् प्रत्यक्षमिति । हेतुः साध्यानुमिति - साधकतमत्वादनुमानम्, उपनय उपमानं तथेत्युपसंहारात् आगमाधिगतार्थस्य प्रतिपाद्यत्वात् प्रतिज्ञाऽऽगम इति बोध्यम् । लौकिकपरीक्षकाणामिति, लोकसाम्यमनतीता लौकिका नैसर्गिकं वैनयिकं वा बुद्ध्यतिशयमप्राप्ताः, तद्विपरीताः परीक्षकाः, तर्केण प्रमाणैरर्थं परीक्षितुमर्हन्ति, अप्राप्तशास्त्रपरिशीलनादिजन्यबुद्धिप्रकर्षो लौकिकः, परीक्षकः शास्त्रपरिशीलनप्राप्तबुद्धिप्रकर्षः, यथा यमर्थं लौकिका बुध्यन्ते तथा परीक्षका अपि सोऽर्थो दृष्टान्तः । एतादृशं दृष्टान्तमभ्युपेत्य तद्विरुद्धाभिधानं 30 दृष्टान्तविरुद्धमुच्यते तथा च प्रतिज्ञाहानिः स्यात्, शास्त्रनिरूपणविपरीतमप्रमाणमिति हि प्रतिज्ञा निरपवादत्वादिति हेतु:, तथा च शास्त्रं प्रमाणीकृतं तच्च लोकविरुद्धमभिदधातीति दृष्टान्तविरोध इति भावः । बुद्धिसंवादनार्थमिति, प्रयोज्य'प्रयोजकभावव्यवस्थितसाध्यसाधनधर्माधिकरणत्वे साध्यव्यावृत्ति पूर्वकसाधनधर्मव्यावृत्तत्वे वा तुल्यरूपा बुद्धिर्बुद्धिसंवादनम् । तच्च दृष्टान्तमूलतर्कानुगृहीतं ततोऽलौकिकधर्मप्रतिपत्तेस्तथा चादृष्टार्थ प्रतिपादकत्वाच्छास्त्रस्य न लोकत्वमिति भावः । स्पर्शशौक्यादेष्ठस्येति, सामान्यवादिशास्त्राणि हि स्पर्शशुक्लादिविशेषाणां कारणभूतमेकं सामान्यं दृष्ट्वा तदेव मुख्यं स्थिर 2010_04 Page #111 -------------------------------------------------------------------------- ________________ '10 प्रतिशायनुपपत्तिः] न्यायागमानुसारिणीव्याख्यासमेतम् अन्यत्र दृष्टस्याध्यारोपाद्धटतत्त्ववदलौकिकत्वमिति चेन्न तथा व्यामोहस्य मृगतृष्णिकावदलौकिकत्वात् , मृगतृष्णिकावदेव तस्याप्रामाण्यप्रसंगात् । (अन्यत्रेति) स्यान्मतं लौकिकमितीन्द्रियग्राह्यमुच्यते घटरूपादिवत् यदन घटे घटतत्त्वं विकुक्ष्याद्याकारविशेषस्तदन्यत्र घटान्तरेऽध्यारोप्यते, तच्च नास्त्यध्यारोपादेव, लोकसंवादात्तु प्रतिपादनार्थोऽध्यारोपः, एवं शास्त्राणामप्यध्यारोपादेवालौकिकत्वमिति नास्ति प्रतिज्ञातव्याघातदोषो यं भवान् । मन्यते लोकत्वापत्तेरिति, अत्र ब्रूमः न, तथा व्यामोहस्य मृगतृष्णिकावदलौकिकत्वात् , तेन प्रकारेण तथा, तथा-सत्यं भवति तदलौकिकमविशुद्धत्वान्मृगतृष्णिकादिज्ञानवत् , विशुद्धलोकस्य न पुनः सम्पद्यते, मृगतृष्णिकावदेव तस्य च व्यामोहस्याप्रामाण्यप्रसङ्गात् , ऊपरप्रदेशे ग्रीष्मोष्मसन्तप्तचक्षुषो रविकिरणाः पतिताः प्रत्युत्पतन्तो दूराव्यामोहहेतवस्तोयवदाभासन्ते तस्माच्छास्त्रविज्ञानस्य मृगतृष्णिकाविज्ञानवदप्रामाण्यप्रसङ्गादसमञ्जसोद्बाहम् । किश्चान्यत्तथा च तत्र प्रतिज्ञादीनामप्यनुपपत्तिः यदि यथा लोकेन गृह्यते न तथा वस्तु । (तथाचेति) न केवलं शास्त्रविज्ञानाप्रामाण्यमेव, किं तर्हि ? तेन प्रकारेण तथा, तथा च एवं कृत्वा तत्र सति तस्मिन्नलौकिके मृगतृष्णिकावत् प्रतिज्ञादीनामप्यवयवानामनुपपत्तिः, कथं ? यदि यथा लोकेन गृह्यते न तथा वस्तु, यदीति पराभ्युपगमं दर्शयति यथा प्रतिपादनकौशलेन प्रतिपादनबु- 15 द्धिसंवादमात्रत्वेन दृष्टान्तमुपादाय यथाहं युक्त्योपपादयामि शास्त्रेण च तथा तद्वस्तु, न तु यथा लोकेन गृह्यते तथेति भवतोऽभिप्रायः । तत्र प्रतिज्ञा तावद्यथोक्ता गृह्यमाणाऽविशेषादेन तथा स्यात् । ततश्चांशे प्रत्यक्षविरोधः स्ववचनविरोधोऽभ्युपगमविरोधः, स्वोक्तविपर्ययरूपाभ्युपगमात् । (तत्रेति) अविशेषकान्तवादे तावत् सर्वस्य सर्वात्मकत्वान्नित्यः शब्द इति प्रतिज्ञा यथा 20 श्रोत्रेण गृह्यते न तथा भवितुमर्हति, किं कारणं ? नेत्रादिग्राह्यरूपाद्यात्मिकापि सेति कृत्वा, एवं विशे-- पैकान्तवादेऽप्यनित्यः शब्द इति प्रतिज्ञा अकारनिकारादिवर्णविज्ञानानां देशकालकृतात्यन्तनानात्वक्षत्वादिति मत्वा सर्वत्रापि सामान्यरूपतामध्यारोप्य सर्व सामान्यात्मकमिति व्यवस्थापयितुं प्रणीतानि, विशेषवादिशास्त्राण्यपि प्रदीपज्वालाया क्षणिकत्वमुद्वीक्ष्यान्यत्रापि तदारोप्य सर्व क्षणिकमिति प्रतिपादयितुमारचितानि, एवं संस्थानादिमात्रप्रतिपादकान्यपीति लोकाश्रयत्वं तेषामिति भावः। अन्यत्र दृष्टस्यान्यत्रारोपात् शास्त्रप्रवृत्तरारोपस्य च लौकिकागम्यत्वेनालौकिकत्वान्न 25 लोकाश्रयत्वं शास्त्रस्येत्याशङ्कते-अन्यत्रेति । अन्यत्र तद्धर्मस्याभावे किमर्थमारोप्यते इत्यत्राह-लोकसंवादादिति। शास्त्रजन्यं ज्ञानं मृगतृष्णिकाज्ञानवदारोपविषयत्वेन व्यामोहजनकत्वादलौकिकत्वेऽपि न तद्विशुद्धयुद्धेः सम्भवति, तथा घ मृगतृष्णिकाविज्ञानवदेव व्यामोहभूतं शास्त्रविज्ञानमपि न प्रमाणं भवेदित्याशयेनोत्तरयति अत्र ब्रूम इति । प्रतिज्ञादीनामिति, पक्षनिर्देशादीनामपि मृगतृष्णकावदसद्विषयत्वादिति भावः । लौकिकपरीक्षकबुद्धिसाम्याश्रयं दृष्टान्तमुपादायापि यथेदं लोकेन गृह्यते न तथा वस्त्विति लौकिकप्रतारणाकौशल्यं वादिन आविष्करोति यथा प्रतिपादनकौशलेनेति । 30 प्रतिज्ञादीनामनुपपत्तिं सामान्यविशेषोभयवादाश्रयेण दर्शयति तत्रेति । नेत्रादीति, शब्दस्य रूपाद्यात्मकत्वेन कथं श्रोत्र-:. ग्राह्यता ग्राह्यत्वे वा केवलं शब्दात्मनैव ग्रहणादविशेषानापत्तिरिति भावः। अनित्यः शब्द इति प्रतिज्ञा हि अकारोत्तरनकारोत्तरेकारोत्तरत्वादिरूपेण गृह्यते तन्न सम्भवति विशेषकान्तवादे परस्परापेक्षाभावेन समुदायभावानापत्तेरित्याहअनित्यः शब्द इतीति । उभयानेकत्वैकान्तवादे त्वकारादीनामेवानुपपत्तिः, अत्वाकारादीनां जातिव्यक्तीनां भेदाजाति 2010_04 Page #112 -------------------------------------------------------------------------- ________________ द्वादशारनयचक्रम् [विध्यरे णिकत्वशून्यत्वनिरुपाख्यत्वात् परस्परापेक्षाभावे सर्वभावाभावे च यथा गृह्यते न तथा स्यात् , एवमुभयानकत्वैकान्ते पूर्ववदन्यतरग्राह्यस्येतरपक्षनिरपेक्षस्याभावात् । ततश्चांशे प्रत्यक्षविरोधः, ततश्चेति तस्मादेव हेतोलोंके गृह्यमाणस्य विपरीतत्वादविशेषैकान्ते तावत् प्रत्यक्षविरोधः, अंशे भागे तस्यैव वस्तुनः, अविशेषैकान्तवादिपरिकल्पितस्य प्रत्यक्षोपलभ्यस्य विशेषत्वात् प्रत्यक्षविरोधः, अंशे स्ववचन5 विरोधस्तत्काले प्रतिपादकशब्दविशेषत्वेष्टेः, अंशेऽभ्युपगमविरोधः, स्वशास्त्रे सर्वत्र प्रसिद्धेन पूर्वकालाभ्युपगतेन सर्वात्मकत्वेनाधुनातनधर्मर्मिविशेषस्य विरोधात् , स्वोक्तविपर्ययरूपाभ्युपगमादित्यन्ते कारणमुक्तम् , प्रत्यक्षस्ववचनाभ्युपगमानामनभ्युपगमाविशेषात् । एवं विशेषकान्ते श्रोत्रेन्द्रियग्राह्यस्य शब्दस्य वावन्मात्रकालावस्थानपूर्वोत्तरवर्णसम्बन्धतद्बुद्ध्यवस्थानसोपाख्यत्वप्रत्यक्षत्वात् प्रत्यक्षविरोधः, तथैव च तस्योपपत्तेः स्ववचनेनानित्यशब्दप्रतिज्ञा विरुद्ध्यते, अत एव चाभ्युपगमेन विरोधः, पूर्ववत्स एव 10 हेतुरत्रापि । तथोभयानेकत्वैकान्ते प्रागभिहितसाधनान्येवात्र व्यापार्याणि, अद्रव्यत्वान्नानित्यत्वं न वा शब्दोऽस्तीत्यादिस्वरूपाभावः । 'अचाक्षुषप्रत्यक्षगुणस्य सतोऽपवर्गः कर्मभिः साधय सतो लिङ्गाभावात् कार्यत्वात् कारणतो विकारात्' (वैशे० अ. २, आ. २) इत्यादिशास्त्रविहितहेतुव्याख्यानार्थ तत्प्रतिपादनकाले तत्प्रयोगात् प्रत्यक्षीकरणाचानित्यत्वशब्दत्वाधभावात् प्रत्यक्षविरोधः, स्ववचनस्य तत्कालस्य तथावस्थानाभ्युपगमात् स्ववचनविरोधः, पूर्वाभ्युपगमेन चेदानींतनस्य विरोधादभ्युपगम15 विरोधः, पूर्ववत् स्वोक्तविपर्ययरूपाभ्युपगमादिति सर्वत्र हेतुरिति । अथ तथाऽभ्युपगम्यते न तर्हि लोकगृहीतमन्यथेत्यापन्नम् , लोकत्वाच्च प्रतिज्ञातव्याघातस्तदवस्था। (अथेति) अथ तथा, अथैते दोषा मा भूवन वितथत्वाश्रया इति तथैवेत्यभ्युपगम्यते परैस्ततो न तर्हि लोकगृहीतमन्यथेत्यापन्नम् , लोकत्वाच्च प्रतिज्ञातव्याघातस्तदवस्थ इति । 20 किश्चित्तथा किश्चिदन्यथा, उन्मत्तप्रतिपत्तिवदिति चेदेवं तर्हि साक्षाल्लोकपक्षापत्त्याऽ. भ्युपगमविरोधः, किञ्चिद्रहणात्तथाग्रहणादन्यथाग्रहणाच्च । व्यक्त्योश्च निर्मूलत्वेनाभावादित्याह-एवमभयेति । अंशे-भागे इति, वस्त्वेकदेशशब्दादावित्यर्थः, तस्य विशेषत्वात्तत्प्र. त्यक्षेण सर्वसर्वात्मकत्वविरोध इति भावः। स्ववचनं सर्वं सर्वात्मकमिति तेन सह नित्यः शब्द इति प्रयोगकाले नित्यत्वधर्मवत्तयाऽभिमतस्य विशेषत्वेन प्रतिपादनाद्विरोधः, एवमेवाभ्युपगमविरोधोऽपीत्याह-तत्काल इति । प्रत्यक्षेति, प्रत्यक्षखव25 बनाभ्युपगमानां प्रयोगकालेऽनभ्युपगमस्य दोषत्रयेऽप्यविशिष्टत्वादिति भावः । श्रोत्रेन्द्रियग्राह्यस्येति, अनित्यः शब्द इति श्रोत्रेन्द्रियग्राह्यप्रतिज्ञायामकारादिवर्णज्ञानानां तावत्कालावस्थानस्य पूर्वोत्तरवर्णसम्बन्धस्य तदुखवस्थानस्य सोपाख्यत्वस्य च प्रत्यक्षत्वात् क्षणिकत्वासम्बन्धशून्यत्वनिरुपाख्यत्ववर्णनस्य प्रत्यक्षविरुद्धत्वादिति भावः अत्रापीति, विशेषकान्तवादे दोषत्रयेऽपि खोक्तविपर्ययरूपाभ्युपगम एव हेतुरित्यर्थः । अचाक्षुषेति, चक्षुभिन्नबहिरिन्द्रियजन्यप्रत्यक्षविषयस्यात एव गुणस्य शब्दस्याऽऽशुनाशः कर्मभिः साधयेमानं न तावता कर्मत्वं तस्य, उच्चारणादूर्ध्वं तस्य सत्त्वे लिजाभावानित्यवैधात् कारणत उत्प30तेस्तीवमन्दादिभावेन विकारदर्शनाच्चारविनाशितेति प्रतिपादनार्थ तदाऽनित्यः शब्द इति प्रयोगात्. तावन्तं कालं तत्प्रत्यक्षीकरणाच, धर्मधर्मिणोरभावेन तत्प्रत्यक्षविरोध इति भावः । अथ तथेति, यदि यथा लोकेन गृह्यते वस्तु तत्तथैवेत्यभ्युपगमे शास्त्रनिरूपणविपरीतमप्रमाणमिति प्रतिज्ञातव्याघात एवेति भावः । तथा-लोकवत् , अन्यथा-शानिरूपणवत् । साक्षादिति, एवं सति लोकाभ्युपगमात् सर्वसर्वात्मकत्वाभ्युपगमो ब्याहन्यत इत्यर्थः, तत्कथमित्यत्राह-किश्चिदिति। 2010_04 Page #113 -------------------------------------------------------------------------- ________________ पदसम्बन्धिदोषाः] न्यायागमानुसारिणीव्याख्यासमेतम् (किञ्चिदिति) स्यान्मतं किञ्चिल्लोकेन गृहीतं तथैव भवति प्रतिज्ञादि, किश्चिदन्यथा घटादि, लोकस्यापरीक्षकत्वात् , परीक्षकाश्च पदवाक्यप्रमाणविदः, दृष्टान्त उन्मत्तप्रतिपत्तिः, यथोन्मत्तोऽपरीक्षकः पदवाक्यप्रमाणानभिज्ञः किञ्चित्तथा प्रतिपद्यते किञ्चिदन्यथा, तत्प्रतिपत्तिश्चाप्रमाणम्, सदसतोरविशेषाद्यदृच्छोपलब्धेश्च तद्वल्लोकप्रतिपत्तिरपीति, अत्रोच्यते, एवं तर्हि साक्षाल्लोकपक्षापत्त्याऽभ्युपगमविरोधः, साक्षादिति प्रत्यक्षत एव लोकपक्षापत्तिः, किञ्चिद्रहणात्तथाग्रहणादन्यथाग्रहणाच, किश्चि.6 त्त्वादेव न सर्व सर्वात्मकं सर्वासर्वत्वसिद्धिश्च विभागनिर्देशात् किञ्चिदिति । एवं तेन प्रकारेण तथेति स चान्यश्च तयोश्च कश्चिद्धर्मः प्रकारव्यपदेशभागेषितव्यः, तेषु त्रिष्वपि सिद्धेषु यस्मात्तथेति घटते । एवमन्यथेत्यपि, अयमन्यस्मादन्यः, अन्यश्चास्मादन्य इति सर्वासर्वत्वसिद्धेर्लोकपक्षापत्तिः । एवं विशेषैकान्ते देशकालकृतात्यन्तभेदनिरुपाख्यत्वशून्यत्वेषु किं तत् स्यात् किञ्चिदिति विभज्यान्यस्मादवस्थितादनपस्थितमसहाऽन्यदिति चोद्येत विलक्षणमिति, एवं तथाऽन्यथेति च न घटते । एवमुभयानकत्वैकान्ते 10 पूर्ववव्यादीनामितरेतरानात्मकत्वात् सामान्यविशेषयोः कार्यकारणयोर्वा निर्मूलत्वादिभ्यो वा हेतुभ्योऽसत्त्वाद्वस्तुनः किश्चित्तथाऽन्यथेत्यनुपपत्तेर्लोकपक्षापत्तिः, तया च सह सर्वसर्वात्मकत्वादिशामाभ्युपगमो विरुद्ध्यते । एवं तावत् प्रतिज्ञा दृष्टा, प्रतिज्ञावद्धतुदृष्टान्तावपि दृष्टावेव, तदसाध्यत्वात् । उन्मत्त इति च दृष्टान्तो लौकिकस्तमभ्युपगम्य लोकः प्रमाणीकृत एव, तन्निराचिकीपव एवोन्मत्ततराः। 15 _(उन्मत्तेति) उन्मत्त इति दृष्टान्तो लोकपक्षपाताहते न सिद्ध्यति, उत्कृष्टो माद उन्माद इति मदान्तरापेक्षो विमदत्वापेक्षो वा निर्देशः, स च लौकिक एव तमभ्युपगम्य-तस्माल्लोकाभ्युपगमाल्लोकः प्रमाणीकृत एव किञ्चिद किश्चित्तथाऽन्यथेत्यादिपरस्परविलक्षणः, तन्निराचिकीर्षव एवोन्मत्ततरा इति, एवं तावद्वाक्यविषयो दोषः। इदानीमेकपदविषय उच्यतेभेदवदभेदपदार्थोपादानाच्च न तथेति पुनर्नवोऽभ्युपगमविरोधः। (भेदवदिति) भेदवदभेदपदार्थोपादानाच न तथेति, भेदोऽस्यास्तीति भेदवान् , नास्य भेद इत्यभेदः, भेदवांश्चाभेदश्च स एवेति भेदवदभेदः, कोऽसौ ? पदार्थः, वृक्ष इत्यादिः, स्वार्थद्रव्यलिङ्ग विभागनिर्देशादिति, किश्चित्तथा किश्चिदन्यथेति विभागेन निर्देशादित्यर्थः । एवमिति, किञ्चित्तथा किश्चिदन्यथेत्यत्र किश्चिच्छन्दसायाशब्दोऽन्यथाशब्दश्च गृहीतः, तत्र किञ्चिद्रहणात्सर्वासर्वत्वसिद्धिः अयं तथा-यथा लोकेन गृह्यते, अत्रायं पदार्य: 25 लोकप्रायविषयीभूतपदार्थः, तथाशब्दगम्यः, उभयोः प्रकारः कश्चिद्धर्म इत्येवं वस्तुत्रयसिद्धौ तथेति वक्तुं शक्यते, सर्वसर्वात्मकैकत्वे तन्न स्यात् तथेत्यभ्युपगम्यते भवता, एवञ्च सर्वासर्वत्वसिद्धिरिति भानः। अन्यभाग्रहणमपि तथेत्याहैवमन्यथेत्यपीति । विशेषकान्तवादे वस्तुनां क्षणिकत्वादितः क्षणद्वयेऽसत्त्वेन विभज्येदं तथा, इदमन्ययेत्यवस्थितादन्यस्य क्षणिकत्वादिविधानासंभवः, एवमिदं तथा यथा लोकेन गृह्यते किञ्चित्तथा किञ्चिदन्यथेत्यपि न घटते इत्याशयेनाह-विशेषैकान्त इति । तथेत्यस्याभ्युपगमे तु लोकपक्षापत्तिः तयाच सह शास्त्राभ्युपगमविरोध इत्याह लोकपक्षापत्तिरिति । 30 मादस्योत्कृष्टता चान्यमदापेक्षया मदशून्यतापेक्षया वेत्याह-उत्कृष्ट इति । सर्वज्ञापेक्षया परीक्षकापेक्षया चोत्कृष्टमदवत्त्वालौकिक उन्मत्त एवेत्याह-स चेति । एवं प्रतिज्ञादिवाक्यापेक्षया ये दोषास्ते विचारिता इत्याह-एवं तावदिति । खार्थद्रव्यलिङ्ग संख्याकारकाधनेकात्मकैकस्य वृक्षादेर्वस्तुनो वृक्षादिपदवाच्यतामभ्युपेत्य पुनर्न तथेत्यभ्युपगमोऽपि पदविषये दोष इति पदविषयदोषाभिधानाय प्रतिजानीते इत्याशयं मूलकृत आविष्करोति, इदानी मिति । पदार्थ इति, पदवाच्यो भेदवदमेदोऽर्थ 20 2010_04 Page #114 -------------------------------------------------------------------------- ________________ द्वादशारनयचक्रम् [विध्यरे संख्याकर्मादिकारकरूपः । यदुक्तं क्रमयोगपद्यचिन्तायाम् "स्वार्थमभिधाय शब्दो निरपेक्षो द्रव्यमाह समवेतम्। समवेतस्य च वचने लिङ्गं संख्यां विभक्तिश्च ॥ अभिधाय तान् विशेषानपेक्षमाणस्तु कृत्स्नमात्मानम् । प्रियकुत्सनादिषु पुनः प्रवर्त्ततेऽसौ विभक्त्यन्तः॥" (महाभाष्ये अ० ५ पा० ३ सू. ७४) इति व्याकरणे सर्वतंत्रसिद्धान्ते । तत्र स्वार्थ इति जातिराकार उच्यते स्व एवार्थः स्वार्थ इति, । सोऽन्यापेक्षत्वादन्येन विना न स्यादतो द्रव्यादिसिद्धेर्मेदवान् पदार्थः, तेषामेव च स्वार्थादीनामन्योऽन्यानात्मकत्वे खपुष्पवदभावः स्यात्, देशकालाद्यभेदोपलब्धेश्चाभेदसिद्धेरभिन्नः पदार्थः, तस्माद्भेदवदभेदपदार्थ उपात्तः पदं प्रयुञ्जानेन शास्त्रविदा स्वार्थमात्रवादिनाऽपि, तथा द्रव्ये लिङ्गे संख्यायां कारके कुत्सादौ पदार्थ च योज्यम् , क्रमेण युगपद्वा वाच्यं तमभ्युपगम्याविशेषवादिनो विशेषवादिम उभयानेकत्ववादिनो वा न तथेति तमेव पुनर्बुवते, नवोऽभ्युपगमविरोधः, नव इति न शास्त्राभ्युप10 गमेन, किं तर्हि ? तत्कालाभ्युपगमेनेत्यर्थः । स च सर्वत्राभ्युपगमविरोध इति । __ अथ प्रतिज्ञैवाभ्युपगमस्ततो लोकाप्रामाण्यात्, न, अविशेषादिष्वसतः पक्षादेरुपादानाल्लोकाभ्युपगमाल्लोकाप्रामाण्यं न सिद्ध्यतीति । ... (अथेति) अथ प्रतिज्ञैवाभ्युपगम: स्यान्मतं न हि पदप्रयोगविषयोऽभ्युपगमोऽस्ति, पदार्था. भावात् , पदार्थस्योत्प्रेक्षाविषयत्वाद्वाक्यार्थाधिगमोपायत्वेनोपोद्धृत्य वाक्यार्थस्य व्याख्येयत्वात् । 15 वाक्यमेव शब्दः, तदर्थ एव च शब्दार्थः, तस्मात् प्रतिज्ञैवाभ्युपगमः, तत्साधनार्थत्वाच्छेषावयवव्यापारस्य । कस्मात् ? ततो लोकाप्रामाण्यात् , ततः-तस्याः प्रतिज्ञाया हेतुभूतायाः, तद्बलादित्यर्थः इत्यर्थः । स्वार्थमभिधायेत्यादि, खशब्दोऽत्रात्मीयवचनः, अर्थशब्दोऽभिधेयवचनः, खोऽर्थः खार्थः स चानेकप्रकारो जातिगुणक्रियासम्बन्धखरूपलक्षणः यथा गौः शुक्लः पाचकः राजपुरुषः डित्थ इति । तं खार्थमभिधाय तेन स्वार्थन समवेत सम्बद्धं द्रव्यमाह शब्दो निरपेक्ष इति, यथा द्रव्येऽभिधातव्ये खार्थोऽपेक्ष्यते न तथा स्वार्थेऽभिधातव्येऽर्थगतं निमित्तान्तरम20 पेक्ष्यते, द्रव्यमिति शब्देन चेदं तदिति परामर्शयोग्यं वस्त्वभिधीयते, तत्र जातिशब्दो यदा जातौ वर्तते तदारोपितस्वरूपां खरूपेणैकीकृतां जातिमाहेति तदा तेषां वरूपं स्वार्थः, जातिस्तु द्रव्यम् । यदा तु जातिविशिष्टं द्रव्यमाह तदा जातिः स्वार्थः। शुक्लादयो यदा गुणजातौ वर्तन्ते तदा तेषां स्वरूपं खार्थः जातिव्यम् । यदा तु गुणे वर्तन्ते तदा गुणसामान्यं स्वार्थः गुणो द्रव्यम् , यदा द्रव्ये वर्तते तदा गुणः स्वार्थः । समवेतस्य द्रव्यस्याभिधाने सति लिङ्गं वचनं विभक्तिं चाहेति सम्बन्धः । तान् विशेषानिति लिंगादीनामेव परामर्शः, लिङ्गं स्त्रीत्वादि, वचनं संख्या, विभक्तिः कारकं कर्मादि । कचिल्लिङ्गसंख्याकारकाण्येव 25 खार्थः, यथा स्त्री पुमान् नपुंसकम् , एको द्वौ बहवः, कर्म करणं सम्प्रदानमिति, प्रवृत्तिनिमित्तलिङ्गसंख्याव्यतिरिक्तलिङ्गसं। ख्याभिधानं यत्र यथा स नपुंसकोऽभवत्, गावो विंशतिरिति तत्रायमेव क्रमः । यत्र तु प्रवृत्तिनिमित्तव्यतिरिक्तलिङ्गसंख्याड सम्भवः स्त्री पुमानेको द्वौ बहव इति तत्र पुनर्लिङ्गसंख्ययोरभिधानाभावः, यद्यपि लोके पदादुच्चरिताद्युगपत् पञ्चार्थाः प्रतीयन्ते शब्दस्य विरम्य व्यापाराभावात् , तथाप्यन्वयव्यतिरेकाभ्यां शास्त्रे संव्यवहाराय कल्पिताभ्यां प्रातिपदिकस्याप्रयोगार्हस्य कल्पितामर्थवत्तां कल्पितन्यायवशात् क्रमवतीमाश्रित्येदमुच्यते, तथाहि नागृहीतविशेषणा विशेष्ये बुद्धिरिति न्यायात् पूर्व 30 खार्थाभिधानेन भाव्यम् , पश्चात्तद्विशिष्टस्य लिङ्गाद्याश्रयस्य द्रव्यस्याभिधानेन, ततो मेदापेक्षबहिरङ्गसंख्यापेक्षया लिङ्गमन्त रणमिति तदभिधीयते, ततः संख्या, सा हि विजातीयक्रियापेक्षसाधनापेक्षया तुल्यजातीयक्रियापेक्षाऽन्तरजा, संख्याभिधानानन्तरन्तु कारकाभिधानम् । एतान् विशेषानभिधाय स्वार्थादिपञ्चकवृत्तं कृत्स्नमात्मानमपेक्षमाणः शब्दः प्रियकुत्सनादिषु विभक्त्यन्तः पुनः प्रवर्तते, पुनःशब्दस्तुशब्दस्यार्थे वर्तते विभक्त्यन्तस्तु इत्यर्थः, तत्र कुत्सितशब्दप्रवृत्तिनिमित्तन्यतिरिकायां कुत्सितत्वस्य कुत्सायां कप्रत्ययः उपपन्नो भवति यथा प्रकृष्टतम इति प्रकृष्टस्य प्रकर्षे तमप्प्रत्ययस्तथा कुत्सितत्वं यदा कुत्स्यते नास्य सम्यक् कुत्सितत्वमिति तदा प्रत्यय इति भाष्यव्याख्यायाम् । ततो लोकाप्रामाण्यादिति । ननु पदविषयाभ्यु 2010_04 Page #115 -------------------------------------------------------------------------- ________________ लोकपमापत्तिः] न्यायागमानुसारिणीव्याख्यासमेतम् लोकाप्रामाण्यात्-लोकस्याप्रमाणत्वसिद्धेः, नित्यः शब्दोऽकृतकत्वादाकाशवदिति नित्यत्वे सिद्धे तहलानित्यानित्याद्यनेकरूपैकवस्तुप्रतिपत्तिर्लोकेऽप्रमाणं भवतीत्यत्रोच्यते न, अविशेषादिष्वसतः पक्षादेरुपादानाल्लोकाभ्युपगमादिति सर्व सर्वात्मकमित्येतस्मिन्नविशेषकान्तेऽभ्युपगते पुनर्नित्यः शब्द इत्यस्य पक्षस्य तद्धेतोदृष्टान्तस्य चाभावः पूर्वोक्तभ्यो हेतुभ्यो निर्विशेषत्वादिभ्यः। तथा विशेषैकान्ते पूर्वोक्तहेतुभ्य एव परोक्षादीनामभावः, निर्मूलत्वादिभ्य उभयानेकत्वैकान्तेऽपि परस्पर विभिन्नस्वभावानां सामान्यविशेषकार्यकारणानामभाव इत्युक्तम् , तस्मादविशेषादिष्वसतः पक्षादेर्लोकप्रसिद्धस्योपादानालोक एव पुनरभ्युपगतो भवत्यगतिभिः शास्त्रविद्भिः, तस्माल्लोकाभ्युपगमाल्लोकः प्रमाणीकृत एव, किश्चिदकिश्चित्तथाऽन्यथेत्यादिपरस्परविलक्षणव्यवहाराभ्युपगमाच्च लोकाप्रामाण्यं न सिद्ध्यतीति, ते यूयं सुदूरमपि गत्वा लोकमेव शरणं गन्तुमर्हाः शास्त्रविदः । एवं शास्त्रव्यवहारो लोकदर्शनमन्तरेण न सिद्ध्यति, लोकवदेव चार्थ इति व्यव-10 स्थाप्य शब्दप्रयोगात् । (एवमिति) एवं शास्त्रव्यवहारो लोकदर्शनमन्तरेण न सिद्ध्यतीति, वाक्यविषयः पदविषयो वा, ततः साक्षात् लोकपक्षापत्त्याऽभ्युपगमविरोध इत्युक्तः, तथा तद्विषयः खवचनविरोधोऽपि प्रतिपत्तव्यः । कस्मात् ? लोकवदेव चार्थ इति व्यवस्थाप्य शब्दप्रयोगात् , लोकेन तुल्यं वर्तते, लोकस्येव, लोक इव वा लोकवत् , एवेत्यवधारणे, किमवधारयति ? लोकेऽर्थमवधारयति, नार्थ लोकं शास्त्रविदा- 15 मपि लोकत्वात् , पृथक्त्वेऽप्यर्थलोकयोरुभयत्र वाऽयमेवकारो द्रष्टव्यो लोकवदेवार्थोऽर्थवदेव लोक इति द्वयोरपि परस्पराव्यभिचारात् , शास्त्रविदां लोकपृथक्त्वे लौकिकार्थपृथक्त्वे च तत्कल्पितार्थानामिति । इतिशब्दः प्रकारे, अनेन प्रकारेण व्यवस्थाप्य-बुद्ध्याऽभ्युपगम्य स्वनिश्चितार्थप्रतिपादनार्थ परेषां शब्दप्रयोगात्, पदावधिको वाक्यावधिको वा शब्दप्रयोगव्यवहारो लोकानुपातीत्यनिष्टकैरपि शास्त्रकारैः। 20 तत्र चतथा सत्यत्वसिद्धे शब्दार्थे ततः पुनर्न यथालोकग्राहं वस्त्विति विरुद्ध्येत ।। (तथेति) तेन प्रकारेण तथा, येन प्रकारेण मृदूपादिपृथुकुक्ष्यादिकेऽर्थे घटशब्दो लोकेन प्रयुक्तस्तेनैव प्रकारेण सत्यत्त्वेन सिद्धे-सत्यत्वसिद्धे लोके शब्दं प्रयुञ्जानैः शास्त्रविद्भिर्लोकोऽभ्युपगतोऽपगम एवं नारिख, पदतदर्थविभागस्यापारमार्थिकत्वात् , किन्तु वाक्येभ्योऽपोत्य-कल्पनाबुसा पदं पृभा निकृष्येयं 24 प्रकृतिरेष प्रत्ययः अयमस्य पदस्यार्थ इत्यादिकल्पना क्रियते, केवलं पदार्थो एव वाक्यार्थबुद्धविधातारः पदानि च खं खमर्थमभिधाय निवृत्तव्यापाराणि न वाक्यार्थजनकानि ततः पदविषयाभ्युपगमप्रयुक्तदोषो नास्ति, अखण्डं वाक्यमेव शब्दः तदर्थ एव शब्दार्थस्तस्मात् प्रतिज्ञैव शब्दार्थः तदर्थप्रतिपादनायेतरावयववाक्यानि, तान्यन्तरेण प्रतिज्ञातार्थस्य लोकाप्रामाण्यस्यासिद्धेरेवमेव पदविक्याभ्युपगमादषि लोकप्रामाण्यसिद्धिरिति पूर्वपक्ष्यभिप्रायः । सामान्यादिवादे पक्षादेर्वस्तुनोऽभावालोकाश्रयेण पक्षाशीकारे तु कथं लोकस्याप्रमाणत्वं सिदित्याह-अविशेषादिग्विति । वाक्यविषयः पदविषयो वा 30 शास्त्रव्यवहारो लोकादर्शनमन्तरेण न सिजाति तदभ्युपगमे लोकपक्षापत्त्याऽभ्युपगमविरोध इत्याह एवमिति । कुतो न सिजातीयत्राह-लोकवदेवेति । अर्थानुसारेण न लोकः किन्तु लोकानुसारेणार्थ इत्याह-लोकेऽर्थमिति । ननु शास्त्रविद्भिर्योऽर्थो निर्णीयते स कथं लोकवदित्यत्राह-शास्त्रविदामपीति । पृथक्त्वेऽपीति, शास्त्रविद्भय इत्यादिः । शालषिदामिति, शास्त्रविदा लोकभिन्मत्वे तत्प्रतिपादितार्थानां लौकिकार्थभिनत्वे च लोकवदेव चार्थ इत्मभ्युपगमविसेष इति भावः । द्वा. न.१ 2010_04 Page #116 -------------------------------------------------------------------------- ________________ ६६ द्वादशारनयचक्रम् [विध्यरे स्माभिरित्युक्तमेव भवत्यर्थात् , ततः पुनर्न यथालोकग्राहं वस्त्विति विरुद्ध्येत, लोकस्य ग्राहो लोकप्राहा, प्राह इव प्राहः, यो यो लोकग्राहो यथालोकग्राहम , किं तत् ? वस्तु, यथैवाऽऽगोपालप्रसिद्धं वस्तु बुबाणो वादी यो यो मया शब्दः प्रयुज्यते स स न तथार्थः स्यादित्यादि स्ववचनेनैव विरु दमाह, स्ववचनेन तद्वचनं विरुद्ध्येत, विरुद्ध्येतेत्याशङ्कावचने लिङ्, कथं मुखनिष्ठुरं विरुद्ध्यत एवेत्य5 वधार्योच्येत ?, कथञ्चिद्विरुद्ध्येतेति दाक्षिण्यमाचार्यः स्वकं दर्शयति, एवं तावत्स्ववचनविरोधः । ___ लोकविरोधः प्रस्तुत एव, तदविरोधेऽप्रवृत्तेः। (लोकेति) रूढिविरोधो लोकविरोधः, स तु प्रस्तुत एव, तदविरोधेऽप्रवृत्तः, तेन लोकेनाविरोधे शास्त्राणामप्रवृत्तेः, तस्या रूढेः शब्दप्रयोगादेवाभ्युपगताया विरोधमनुपपाद्य शास्त्राणामविशेषविशेषोभयानेकत्वैकान्तप्रतिपादनार्थानामप्रवृत्तेः, कथमप्रवृत्तिः ? तानि रूढमेवार्थमनुब्रूयुः, अरूढं 10 वोत्पादयेयुः, यदि रूढमनुवदन्ति व्यर्थानि । अथारूढं व्युत्पादयन्ति रूढिविरोधिनमर्थ विरुध्यन्त एव लोकेन निःसंशयमिति साधूच्यते तदविरोधेऽप्रवृत्तेर्लोकविरोधः प्रस्तुत एवेति । किश्चान्यत् लोकाप्रामाण्ये वा शास्त्रकाराणां सर्वत्र पदे वाक्ये प्रत्यक्षानुमानविरोधावुपस्थितावेव, तत्स्थत्वात्तयोः। 15 (लोकेति) तत्र तावदंशे प्रत्यक्षविरोध इत्याद्यभिहितं पूर्वमिदानी सर्वत्र प्रत्यक्षविरोधो वाच्य इति विशेषः, अनुमानविरोधो वा नोक्तः सोऽभिधेयः, तदनुषङ्गेण पुनः प्रत्यक्षविरोधवचनं च तत्पूर्वकत्वादनुमानस्येति शास्त्रकारप्रवृत्तेर्लोकविरुद्धत्वादेव प्रत्यक्षानुमानविरोधावप्युपस्थितावेव, एवेत्यवधारणे, न न भवतों भवत एवेत्यर्थः । किं कारणं? तत्स्थत्वात्तयोः, लोकनाद्धि लोकः, अनुपहतेन्द्रियमनस्कः प्राणिगणो लोक इत्युच्यते, तयोस्तस्मिंल्लोके स्थितत्वात् प्रत्यक्षानुमानयोः, लोकश्चेदप्रमाणं लोकस्य प्रत्य20 क्षानुमाने प्रागेवाप्रमाणे, अथवा स एव स्थितः तत्स्थः 'सुपि स्थः' (पा० अ० ३ पा० २ सू० ४) इति वचनात्, लोक एव प्रामाण्येन व्यवस्थितः, क ? तयोः प्रत्यक्षानुमानयोः, स एव लोकः प्रत्यक्षानुमानज्ञानाधारत्वात्तद्रूपापत्तेश्च प्रत्यक्षमनुमानञ्च ततस्तदप्रामाण्ये तयोरप्रामाण्यमिति । स्यान्मतं भवताम् कथं प्रमाणज्येष्ठं प्रत्यक्षमप्रमाणीक्रियेतेति, तत्र वः सम्प्रचारमिमं प्रयच्छामि, शास्त्र25 वदेव प्रत्यक्षमपि लौकिकप्रत्यक्षविलक्षणं तथानुमानञ्चास्तु तयोरप्यलौकिकत्वकल्पनार्थ सामान्यविशेषकान्तसंवादि घटादिकल्पनापोढं प्रत्यक्षं कल्प्यम् । विरुद्ध्यत इति निश्चयेन किं नोक्तं सम्भावनायां विरुद्ध्येतेति कुत उक्तमित्याशङ्कायामाह विरुद्धयेतेतीति, यदि लोकोऽभ्युपगम्यते तर्हि तत एव वस्तुसिद्धेः शास्त्रारम्भो वृथा यदि नाभ्युपगम्यते तर्हि लोकविरोध इत्याशयेनाह-तदविरोध इति, लोकाविरोधेन शास्त्र प्रवर्तनीयमन्यथा तस्याप्रवृत्तिः स्यादिति भावः । अरूढमित्यस्यैव व्याख्या रूढिविरोधिनमर्थमिति । पौनरु30स्यमपाकरोति तत्र तावदिति । एवकारोऽध्याहार्येण भवत इति पदेन योज्यस्तथा चाभवन प्रतिषेधः फलतीत्याशयेनाह नेति । तयोरिति.प्रत्यक्षानुमानयोर्लोक एव स्थितत्वादित्यर्थः।लोकसम्बन्धिनोः प्रत्यक्षानुमानयोरप्रमाणत्वे शास्त्रविदस्तयोः किमायातमतस्तयोः प्रमाणता स्यादेवेति शङ्कायां तस्या अपि दूरीकरणाय व्युत्पत्त्यन्तरमारचयत्यथ वेति, प्रत्यक्षानुमानयोर्विषये लोक एव प्रामाण्येन व्यवस्थितो नान्यः कचिदिति तदप्रामाण्ये तयोरप्रामाण्यमेवेतिभावः । प्रत्यक्षस्य ज्ञानात्मनो ज्येष्ठतामाह 2010_04 Page #117 -------------------------------------------------------------------------- ________________ प्रत्यक्षस्थालौकिकत्वम्] न्यायागमानुसारिणीव्याख्यासमेतम् ___(कथमिति) तदपि प्रत्यक्षमेवं कल्प्यं शास्त्रवदेवेत्यादि, शास्त्रे ज्ञातेऽपि तद्विहितक्रियासा. ध्यत्वादिष्टफलस्य क्रियायाश्च व्यभिचारात् , ज्ञाने यथोक्तम् "जानानाः सर्वशास्त्राणि च्छिन्दन्तः सर्वसंशयान् । न च ते तत्करिष्यन्ति गच्छ स्वर्ग न ते भयम्” इति, तस्माज्ज्ञानं फलस्याव्यभिचारि कारणं क्रियासाधनवादिनोऽपि, किमङ्ग पुनर्ज्ञानमात्रसाधकवादिन इति । तदेव विचार्यते शास्त्रवदेवेत्यारभ्य यावद्व्यञ्जनकाय इति, शास्त्र इव शास्त्रवत्, यथा शास्त्रेऽभिहिताः पदार्था अत्यन्त- । विलक्षणास्तथा प्रत्यक्षमपि लौकिकप्रत्यक्षविलक्षणं तथाऽनुमानश्चास्तु, तयोरप्यलौकिकत्वकल्पनार्थप्रत्यक्षानुमानयोरप्यलौकिकत्वस्य कल्पनार्थ लक्षणान्तरं कल्प्यम् , किं तत् ? सामान्यविशेषकान्तसंवादि-सामान्यं च विशेषश्च सामान्यविशेषौ, सामान्य विशेषौ च सामान्यविशेषौ च सामान्यविशेषा इत्येकशेषः, सरूपत्वात् । सामान्यमेव न विशेषः, विशेष एव न सामान्य तौ परस्परविलक्षणौ चेति त एवैकान्ता लौकिकपदार्थविलक्षणाः शास्त्रेषु कल्पितास्तैः संवदितुं शीलमस्य तदिदं सामान्य- 10 विशेषैकान्तसंवादि, घट आदिर्यस्याः कल्पनायाः सा घटादिकल्पना, घटसंख्योत्क्षेपणसत्ताघटत्वाद्यध्यारोपात्तस्याः, ततः कल्पनाया अपोढं प्रत्यक्षं कल्पनीयम् । स्यादाशङ्का कल्पनापोडं प्रत्यक्षं विशेषैकान्तवादिन एव मतं नेतरयोस्तयोः कथमलौकिकत्वमिति चेदत्रोच्यते यत्तावद्विशेषमात्रस्खलक्षणविषयमनिर्देश्यं प्रत्यक्षं तत्कल्पनापोढत्वादलौकिकं तत्सामान्यानात्मकत्वात् खपुष्पवदसदिति सिद्धम् , तथा विशेषानात्मकत्वात् खपुष्पवत् सामान्यमानं सर्व सर्वात्मकं कल्पनापोढं वस्तु तदसत्, अस- 15 स्वात् तज्ज्ञानमपि तद्वत् । तथोभयानेकत्वैकान्ते तयोरितरेतरानात्मकत्वात् खपुष्पवदभाव इत्यलो. किकत्वम् । यद्यपि सामान्यविशेषव्यपाश्रयं लक्षणमभिहितं-श्रोत्रादिवृत्तिः प्रत्यक्षम्, "आत्मेन्द्रियमनोऽर्थसन्निकर्षाद्यन्निष्पद्यते तदन्यत्" (वै० अ० ३ आ० १ सू० १८) इत्यादि । तथापि सामान्यविशेषकान्तवादिनां बलात्तदेव कल्पनापोढमलौकिकश्चेत्यापन्नम्, तस्य चोभयात्मकत्वाभ्युपगमे प्रतिज्ञाहानिः, अथवा तेनैव दूषितत्वात् कस्तौ हतौ हनिष्यतीति तस्यैवोपरि बध्यते परिकर इत्यनेनाभि- 20 प्रायेण पूर्वमेव तत्परिकल्पितप्रत्यक्षलक्षणमुपन्यस्यति दूषयितुकामः सूरिरित्यलमतिप्रसङ्गेन । . शास्त्रे ज्ञातेऽपीति । प्रत्यक्षस्य ज्येष्ठत्वं पूर्ववर्तित्वात् , निखिलप्रमाणोपजीव्यत्वात् सर्ववादिनामविप्रतिपत्तेश्च । एकशेष इति, तेनोभयैकान्तवादस्यापि लाभो बोध्यः । घटसंख्येति, क्रमेण द्रव्यगुणकर्मसामान्यविशेषाभिप्रायेण । सामान्यवादिनोभयवादिना वा प्रत्यक्षलक्षणं विषयघटितं न कृतमित्याशङ्कते यद्यपीति । श्रोत्रादिवृत्तिःप्रत्यक्षमिति, इदं सांख्यानां प्रत्यक्षलक्षणम् , वृत्तिरिति व्यापारः, कारणैः फले जनयितव्ये चरमभाविधर्मो फलोत्पादानुकूलो व्यापार उच्यते 25 यथा पटे जनयितव्ये तन्तुभिश्चरमभाविनः संयोगविशेषाः, तथा च प्रतिबिम्बरूपेण लब्धविषयाणामिन्द्रियाणां सन्निकर्षे सति बुद्धेर्यस्तमोलक्षणावरणानादरपूर्वकसत्त्वप्रकाशबाहुल्यरूपो धर्मविशेषः सोऽध्यवसाय इति वृत्तिरिति ज्ञानमिति चाभिधीयते, लब्धविषयाणामितीन्द्रियविषयसन्निकर्षाभिधानम् , स च तमोऽभिभवे हेतुः सत्त्वोद्रेक एव वृत्तिपदार्थः, तत्र च तमोऽभिभवो हेतुरतः सामान्यरूपविषयनिवेशोऽस्ति लक्षणेऽस्मिन्नित्यलौकिकत्वमस्त्येवेति भावः । एवमुभयानेकत्वैकान्तवादिप्रत्यक्षलक्षणेऽपि बोध्यम् । बौद्धेनैव सामान्योभयकान्तवादिलक्षणयोर्दषितत्वात् प्रकृते कल्पनापो प्रत्यक्षमित्यनेन बौद्धमत एव निराक्रियत इति 30 2010_04 Page #118 -------------------------------------------------------------------------- ________________ द्वादनमरमपंचक्रम् [विध्यरे - प्रकृतमुच्यते अथ का कल्पना ययाऽपोढं ज्ञानं प्रत्यक्षमिति ? अत्रोच्यते नामजातिगुणक्रियाद्रव्यस्वरूपापन्नवस्त्वन्तरनिरूपणानुस्मरणं विकल्पना ततोऽपोढमक्षाधिपत्येनोत्पन्नमसाधारणार्थविषयमभिधानगोचरातीतं प्रत्यात्मसंवेद्यत्वात् प्रत्यक्षमक्ष मक्षं प्रति वृत्तः पञ्चेन्द्रियजम् । ... (नामेति) नामजातिगुणक्रियाद्रव्यस्वरूपापन्नवस्त्वन्तरनिरूपणानुस्मरणं विकल्पना ततोऽपो ढमपेतं, नाम संज्ञा शब्द इत्यनर्थान्तरम् , तहारिका कल्पना, सा द्विविधा समासतो यादृच्छिकी नैमित्तिकी च, नामग्रहणाद्यादृच्छिकी, जातिग्रहणाच्च नैमित्तिकी गृहीता, निमित्तनिरपेक्षं नाम याहच्छिकं डित्थो डवित्थ इत्यादि शब्दद्वारा च सत्यामपि जात्यादिनिमित्तापेक्षायां भिन्नाम्, तत्र गौरिति जात्या, शुक्ल इति गुणतः, मतुब्लोपादभेदोपचाराद्वा विशेषणस्वरूपायत्तं ततो विशेषणादन्यद्वस्तु तयोर्विशेष10 णविशेष्ययोरभेदसम्बन्धनात्मिकया कल्पनया पूर्वं मनसा निरूप्यते पश्चादनुस्मयते । तथा डित्थादिष्वप्यस्येदं सोऽयमिति वा भिन्नयोरर्थाभिधानयोरभेदसम्बन्धनया निरूपणानुस्मरणे, शब्दार्थयोनिमित्तनैमित्तिकयोभिन्नयोरभेदाध्यारोपात् । क्रियाशब्देषु कारक इत्यादिषु नाभेदोपचारोऽभिन्नरूपत्वात् क्रियाक्रियावतोरतो न निरूपणं किन्त्वनुस्मरणमेव, सर्वत्र शब्दार्थाभेदोपचारान्निरूपणानुस्मरणे स्त एव । तथा द्रव्यशब्देषु संयोगसमवायनिमित्ताद्दण्डी विषाणीत्यादिषु । तस्याः कल्पनाया अपोढं, अक्षा15 धिपत्येनोत्पन्नमिति, "रूपालोकमनस्कारचक्षुर्यः सम्प्रवर्तते । विज्ञानं मणिसूर्यांशुगोशकृन्य इवा नलः ॥” चक्षुः प्रतीत्य रूपं चालोकं बाह्यमान्तरं निरुद्धमनःसंज्ञितं चित्तं चित्तान्तरानवकाशदानास्मकं प्रतीत्य चक्षुर्विज्ञानमुत्पद्यते, चतुर्भिश्चित्तचैत्ता इति सिद्धान्तात् । तथापि चाधिपतिना चक्षुषा अपदिश्यते चनुर्विज्ञानमित्यसाधारणकारणत्वात् , यथा यवाङ्कुर इति बीजतुवारिमारुताकाशसंयोगे सत्यपीति, असाधारणार्थविषयमिति चक्षुरादिविज्ञानानां परस्परविविक्तरूपादिनिर्विकल्पस्खलक्षणविषय20 कल्पान्तरमाहाथवेति । सत्यामपि जात्यादिनिमित्तापेक्षायामिति, यदृच्छाशब्दत्वेन डित्यादयो ये शब्दाः प्रतीतास्तेऽपि कालप्रकर्षमर्यादावच्छिन्नवस्तुसमवेतां जातिमभिधेयत्वेनोपाददते प्रतिक्षणं वस्तुमेदात् तथापि लोकप्रसिद्धिमनुरुध्य पृथक् नामग्रहणम् , गवादयो हि शब्दा लोके जातिशब्दतया प्रतीता डित्थादयस्तु संज्ञाशब्दत्वेनेति । एवञ्च पञ्च कल्पना भवन्ति जातिगुणक्रियाद्रव्यनाममेदात् , ताश्च कल्पनाः क्वचिदमेदेऽपि मेदकल्पनात्, क्वचिच्च मेदेऽप्यमेदकल्पनादित्याशये. नाह तत्रेति । मतुबिति, गुणवचनेभ्यो मतुबो लुबिष्ट इति वचनात् । मतुबभावेऽपि गुणगुणिनोरमेदकल्पनया शुक्लो घट 25 इति व्यपदिश्यते, तत्र प्रथमं विशेषणस्य जातिगुणादेर्शानं ततो विशेष्यविशेषणभावकल्पनेति बहुप्रक्रियापेक्षं कल्पनाज्ञानम्, यदाह-विशेषणं विशेष्यञ्च सम्बन्धं लौकिकी स्थितिम् । गृहीत्वा सकलं चैतत्तथा प्रत्येति नान्यथा ॥ इति ॥ अपोढमिति, अपेतं कल्पनाखभावरहितमित्यर्थः । अधिपतिना चक्षुषेति, खखविषयाणामुपलब्धौ पञ्चानामिन्द्रियाणामाधिपत्यं बोध्यम् , चतुर्भिश्चित्तचैत्ताः चित्तमर्थमात्रप्राहि, चैत्ता विशेषावस्थाग्राहिणः सुखादयः, चित्तचैत्ता हि चतुर्हेितुप्रत्ययसमनन्तरप्रत्ययाऽs लम्बनप्रत्ययाधिपतिप्रत्ययरूपैरुत्पद्यन्त इति सिद्धान्तः 'सम्प्रयुक्तकहेतुस्तु चित्तचैत्ताः समाश्रिताः' तुल्याश्रयाणि चित्तवेत्तानि 30 परस्पर सम्प्रयुक्तहेतवः, अन्योऽन्यफलार्थेन सहभूहेतवः यथा परस्परबलेन मार्गपरायणाः सहसार्थिकाः ते हि चित्तवेत्ताः सा श्रया इन्द्रियाश्रयत्वात् , सालम्बनाः विषयालम्बनत्वात् , साकारा विषयाकारत्वात् , सम्प्रयुक्ताः अन्योऽन्यमिथुनखभावात्, श्रुतचिन्ताभावनादयो धर्माः सम्प्रयुक्तकहेतवः प्रायोगिकहेतव इति चोच्यन्ते। यथेति, यथा बीजकालधरणिसलिलसंयोगादिस. सवधाने जायमानोऽप्यङ्करो न कालाङ्करः सलिलाङ्करो धरण्यङ्कर इति व्यपदिश्यते तस्य कालादिधर्मत्वाभावादपि तु बीजनैव ध्यपदिश्यते यवाकरः शाल्यङ्कर इति तस्याधिपतिना जातत्वादेवं ज्ञानमप्यसाधारणकारणेनेन्द्रियेण जातत्वात्तेनैव व्यपदिश्यत इति भावः । असाधारणार्थविषयमिति, योऽसाधारणभूतोऽर्थः स एव प्रत्यक्षप्रात्यो न तु सामान्यभूतोऽर्थः। असाधार _ 2010_04 Page #119 -------------------------------------------------------------------------- ________________ खलक्षणविचारः] न्यायागमानुसारिणीव्याख्यासमेतम् त्वात् , अभिधानगोचरातीतं मनोनिरूपितार्थविषयत्वादभिधानस्य तद्गोचरातीतम् , किं कारणम् ? प्रत्यात्मसंवेद्यत्वात् , आत्मानमात्मानं प्रति प्रत्यात्म, प्रत्यात्मना संवेद्यते नान्यस्मै शक्यमाख्यातुं शूलादिवेदनास्वरूपवत् , ज्ञानमित्यन्यत्रासम्भवात् सम्बन्धः प्रत्यक्षमक्षमक्षं प्रति वृत्तेः पञ्चेन्द्रियजम् ।। चक्षुर्विज्ञानसमङ्गी नीलं विजानाति नो तु नीलमित्यभिधर्मागमोऽपि, प्रकरणपदेऽप्येनमेवार्थ भावनयाऽनया विशेषयत्यर्थेऽर्थसंज्ञी न त्वर्थे धर्मसंज्ञीति, (चक्षुरिति) चक्षुर्विज्ञानसमङ्गी नीलं विजानाति नो तु नीलमित्यभिधर्मागमोऽपीति विधेः तमेतल्लौकिकप्रत्यक्षविलक्षणं कल्प्यमानमचीक्नृपः, तवागमोऽप्येवमेवेति दर्शयति, चक्षुर्विज्ञानसमङ्गी चक्षुर्विज्ञानसमन्वयी सन्तानः, अगि रगि लगि गत्यर्थाः चक्षुर्विज्ञानं समङ्गितुं शीलमस्पेति चक्षुविज्ञानसमङ्गी, एवं श्रोत्रादिबिज्ञानसमङ्गिनः, नीलं विजानाति-रसादिविविक्तं रूपं स्खलक्षणं विजानाति, नो तु नीलमिति विजानाति, इतिशब्दस्य शब्दपर्यायत्वादिदं तन्नीलमिति शब्दनिर्देश्यं न बिजा- 10 नाति, अपटुत्वादिन्द्रिय विज्ञानस्य कुतः शक्तिरेवं कल्पयितुम् । प्रकरणपदेऽप्युक्तमिति, भवत्सङ्गताग. मव्याख्यानग्रन्थान्तरेण तदर्थानुवादिनाऽभिहितमिति दर्शयति । नीलः स नामनीलं निस्तोकः पदे तन्नीलमेतदिति नाम्ना निर्देशो नीलमस्य नामैतनिरूपणविकल्पकृतं न नीलार्थः, नीलस्य रूपस्य वस्तुनश्चक्षुरिन्द्रिय विषयस्य परमार्थः । स्वरूपतोऽनक्षरः, अक्षरैर्व्यञ्जनपदनामकायैरनभिलपनीयः, स च पुरुषो निरूपणकाले स्वयं निश्चिन्वन्ननुस्मरणकाले चानुस्मरन् परं प्रतिपिपादयिषया नीलमिति वाचं भाष- 15 माणो नीलस्वार्थमनभिलाप्यस्वरूपं स्वज्ञानांशक्दविकल्पं न पश्यति तदा तत्स्वरूपविषयस्याविकल्पख नीलार्थविज्ञानस्य च विरुद्धत्वात् , तदन्यस्य नीलशब्दाभिलाप्यस्याध्यारोपितस्य सामान्यस्पेन्द्रियगोचरानागतेरेतस्यैवार्थस्य भावनात् , तुशब्दो विशेषणार्थः, एनमेवार्थ भावनयाऽनया विशेषयति, भवत्येवार्थः, तं भवन्तं भव भवेति बुद्धौ भावयति यया व्याख्यया सा भावना का पुनः सा ? अर्थेऽर्थसंज्ञी न त्वर्थे धर्मसंज्ञीति, एतस्य भावनावाक्यस्य पुनर्व्याख्या-अर्थे रूपादिके प्रत्यक्षविज्ञानविषये 20 रूपरसगन्धशब्दस्प्रष्टव्यलक्षणे स्वरूपसंज्ञी, रूपादिमात्रसंज्ञी, संजानातीति संज्ञी, स्वरूपसंज्ञाऽस्यास्तीति षा स्वल्पसंज्ञी । किमालम्बना सा संज्ञा किंवरूपा वा यया सम्प्रयुक्तं तत्प्रत्यक्षं रूपादिचित्तं निर्विकल्पं चैत्तसिक्या सम्प्रयुक्तधर्माख्यया योगात् संझया संज्ञीत्युच्यते तत्सन्तानः ? इत्यत आह-अर्थस्वरूपविशेषमात्रालम्बनया निर्विकल्पया संज्ञया सम्प्रयुक्तमिति, गतार्थ व्याख्यातत्वाद्भाष्येण । तदेवं स्वलक्षणविषयं स्वमेव विशेष एव लक्षणं लक्ष्यत इति लक्षणं "कृत्यल्युटो बहुल"मिति (पा० ३।३१११३) 25 कर्मणि ल्युट् प्रत्ययः, स्खलक्षणमनन्यविषयमित्यर्थः । अस्य सन्तानस्येति, चक्षुर्विज्ञानसमङ्गिनः, चक्षु णत्वञ्चार्थस्य सजातीयविजातीयव्यावृत्तत्वादिति । चक्षुरिति, अभिधर्मागमादीनां प्रन्थानामनुपलम्भायथाशक्ति बौद्धग्रन्थोऽयं प्रकाश्यत इति सुधीभिर्भाव्यम् । परमार्थ इति, चक्षुरिन्द्रियविषयस्य परमार्थस्य नीलरूपादेर्वस्तुनो न निरूपणविकल्पकृतो निर्देश: सम्भवति, परमार्थता च नीलादेरकृत्रिमत्वादनारोपितत्वादिति भावः । नीलस्वार्थमिति, परमार्थसनीलखलक्षणमित्यर्थः, तद्धि नाभिलाप्यमिति बाग्व्यवहारकाले न दृश्यम् , यच्चाभिलापयोग्यं गौरिति समारोपितं सामान्यं न 30 तच्चक्षुरादीन्द्रियविषयं सङ्केतस्मरणादिसामध्यपेक्षत्वेनेन्द्रियादिना व्यवहितत्वात्तस्मान्न नीलादिखलक्षणं विकल्पविषय इति भावः । तुशब्द इति, मो तु नीलमिलत्र तुशब्द इति भावः, विषिष्टतामेवाह-एनमिति । पुमास्येति, 2010_04 Page #120 -------------------------------------------------------------------------- ________________ द्वादशारनयचक्रम् [विध्यरे विज्ञानवत् चक्षुरादिपञ्चविज्ञानकाया व्याख्याता इत्थं कल्पनापोढाः, इतिः प्रदर्शने, यत्पुनरुक्तं कल्पनात्मकं ज्ञानं न तत्प्रत्यक्षमर्थस्वलक्षणाविषयत्वात् , गव्यश्वज्ञानवदिति साधनम् , इतश्च सविकल्पकं नीलमिदमित्यादिज्ञानं न प्रत्यक्षम् , विशेषणाध्यारोपादुत्पलाधारसुरभ्यादिज्ञानवदिति, इतिः परिसमाप्त्यर्थः, अर्थेऽर्थसंज्ञीयेतस्य व्याख्यानमिति परिसमाप्तम् । न त्वर्थधर्म संज्ञी तस्य व्याख्या, 5 न त्वर्थे, नेति प्रतिषेधे तुर्विशेषणे तमर्थमध्यारोपविशिष्टं प्रतिषेधति, तस्मिन्नेव रूपादिकेऽर्थे यहच्छादिना न संज्ञी-यहच्छाजातिगुणक्रियाद्रव्यशब्दसंज्ञी, धर्मशब्दस्य शब्दपर्यायत्वाद्धर्मसंज्ञी न भवति शब्दसंज्ञी न भवतीत्यर्थः । नैषा स्वमनीषिकोच्यते किं तर्हि ? एवमभिधर्मेऽप्युक्तं धर्मो नामोच्यते नामकायः पदकायो व्यञ्जनकाय इति, एवं 10 सावत् कल्पितमेव भवत्सिद्धान्ते, किं सम्प्रधारणया? । (एवमिति) एवमभिधर्मेऽप्युक्तं अभिधर्मपिटकेऽभिहितं, किमुक्तं ? धर्मों नामोच्यते नामकाय इत्यादि नामैव कायो नामकायः, कायवत्प्रतिक्षणं शरारुत्वाच्चतुर्भूतसंघातत्वाच्च, नाम्नां वा विज्ञानादीनां संघातत्वात् । संज्ञाशब्दानां क्षणिकानामपि संहतानामेवोत्पत्तिविनाशाभ्युपगमात् , यथोक्तम् "वर्णो गन्धो रसः स्पर्शश्चत्वारोऽपि च धातवः । अष्टावेते विनिर्भागाः सहोत्पादाः सहक्षयाः" इति 16 सिद्धान्तात् । पदानि नामाख्यातोपसर्गनिपातास्तत्कायः पदकायः, व्यञ्जनान्यक्षराणि, अर्थस्य व्यञ्जकत्वात् , तत्कायो व्यञ्जनकाय इति, एवं तावत् कल्पितमेव भवसिद्धान्ते किं सम्प्रधारणया। अत्रेदानी परमार्थो विचार्यते कल्पितमपि त्विदमफलमलौकिकत्वात् स्ववचनव्यपेक्षाक्षेपदुस्तरविरोधपरिहारं हि त्वदुक्तिवदेवेदमप्रत्यक्षं कल्पनात्मकत्वात् । 20 कल्पितमपि त्विदमफलमित्यादि, नास्य फलमित्यफलम् , किं कारणम् ? अलौकिकत्वात् , खरविषाणकुंततीक्ष्णादिकल्पनवत्, कस्मादलौकिकत्वमिति चेत् ? स्ववचनव्यपेक्षाक्षेपदुस्तरविरोधपरिहारं यस्मात् , स्वं वचनं स्ववचनं प्रत्यक्षलक्षणवादिनो दिनभिक्षोः, स्ववचनस्य स्ववचनेन वा व्यपेक्षा प्रत्यवमर्शः स्ववचनव्यपेक्षा सेवाक्षेपः तेनाक्षेपेण दुस्तरो विरोधस्य परिहारोऽस्येति स्ववचअभिधर्मागमस्य भाष्यादिव्याख्यायां व्याख्या क्रियत इति प्रतिभाति । अर्थवलक्षणाविषयत्वादिति, अर्थ्यत नक इत्यर्थों हेय उपादेयश्च, अर्थक्रियासमर्थं परमार्थसद्वस्तु भवति स एवाविकल्पविषयः, विकल्पविषयस्तु नार्थः, ततोऽर्थक्रियाऽ भावात् , गव्यश्वज्ञानं हि नार्थक्रियासमर्थविषयमतो नार्थस्खलक्षणविषयमिति न तत्प्रत्यक्षमेवं विकल्पोऽपीति भावः । विशेषणाध्यारोपादिति, विशेषणं नीलत्वादिसामान्यमिदमिति विशेष्यं तत्सम्बन्धश्च विज्ञाय विशेषणविशेष्ययोरभेदाध्यारोपानील. मिदमिति विकल्पो भवति, अतश्च बह्वायाससाध्यत्वेनेन्द्रियव्यवधानेन च तन्न प्रत्यक्षमिति भावः। धर्मशब्दस्येति, सास वानास्रवमेदेन धर्मो द्विविधः, हेतुप्रत्ययजनिताः संस्कृता धर्माः सानवाः, रूपादिस्कन्धपञ्चकं संस्कृतो धर्मः, पञ्चेन्द्रियाण्यथाः 30 पश्च विज्ञप्तयो रूपस्कन्ध इति शब्दस्यापि रूपस्कन्धेऽन्तर्गतत्वात्तस्य च धर्मत्वाच्छब्दपर्यायोऽपि धर्मशब्द इति भावः, अत्रैव प्रमाणमुच्यते-एवमिति । कल्पितमिति, इदं प्रत्यक्षलक्षणमफलमलौकिकत्वात् , खरविषाणादिकल्पनावत् , हेत्वसिद्धिमाशङ्कय निराचष्टे करमादिति । खवचनेति, पूर्वोत्तरवचनपरामर्श सति निजवचनविरुद्धत्वादलौकिकत्वमिति भावः । तत्र दृष्टान्त 2010_04 Page #121 -------------------------------------------------------------------------- ________________ कल्पनासमर्थनम्] न्यायागमानुसारिणीव्याख्यासमेतम् नव्यपेक्षाक्षेपदुस्तरविरोधपरिहारं खेनैवैतद्वचनेन पौर्वापर्येण प्रत्यवमृश्यमानेन विरुध्यते सदाऽहं मौनव्रतिकोऽस्मि, पिता मे कुमारब्रह्मचारीत्यादिवचनवत्, न त्वस्मद्रुपपत्तिदूष्यमिदम् । तदर्थे दृष्टान्त माह-त्वदुक्तिवदेवेदम् , यथेयं त्वदुक्तिः कल्पनात्मिका सती न प्रत्यक्षं तथैवेदमप्रत्यक्षमिति प्रतिज्ञा, कल्पनापोढलक्षणलक्षितं ज्ञानमत्र धर्मि, तदप्रत्यक्षत्वविशिष्टं साध्यते, को हेतुः ? कल्पनात्मकत्वात् । न त्विदमसिद्धं निरूपणविकल्पात्मकत्वात् , घटत्वादिज्ञानवत् , आलम्बनविपरीतप्रति- 5 पत्त्यात्मकत्वात् , यथाऽप्रतिपत्तिः।। (नत्विति) न विदमसिद्धं कल्पनात्मकत्वं तस्य ज्ञानस्य कल्पनापोढत्वात् , अत्रेदं तत्साधनार्थमभिधीयते धर्मान्तरं तत्कल्पनात्मकं निरूपणविकल्पात्मकत्वात् , इदमित्थमिति ज्ञानं निरूपणं स एव विकल्पस्तदात्मकं तत्प्रत्यक्षं घटत्वादिज्ञानवदिति । आह-निरूपणविकल्पात्मकत्वमप्यसिद्धमिन्द्रियज्ञानस्येति, आचार्यस्तु तत्साधनार्थमाह-आलम्बनविपरीतप्रतिपत्त्यात्मकत्वात् , यथाऽप्रतिपत्ति- 10 रिति, द्रव्यसतामेवाणूनां नीलपीताद्याकारत्वात् संवृतिसत्त्वात्तस्यापि नीलपीताद्याकारस्य प्रत्येकं तारतम्यवत्त्वात् यथाऽप्रतिपत्तिरिति । स्यान्मतं द्रव्यसतामेवाणूनां नीलपीताद्याकारत्वान्न विपरीता प्रतिपत्तिरित्येतच्चायुक्तम् , आकारस्याध्यारोपात्मकत्वात् माणवकसिंहत्वाध्यारोपवत् । सदाऽध्यारोपित इति कुतो गम्यते ? सामान्यरूपविषयत्वात् , तत्सामान्यश्च कारीषतौषतार्णपार्णादिविशेषानाश्रि-15 ताग्नित्ववत् । तदप्यसिद्धमिति चेत्, सिद्धमेव तदतद्विषयवृत्तित्वात् , तैमिरिककेशोण्डुकादिज्ञानवत् । (स्यान्मतमिति) स चासश्च विषयौ तदतद्विषयौ, तत्र वृत्तिरस्येति तदतद्विषयवृत्ति तज्ज्ञानमनेकपरमाणुसमूहजत्वात् , तस्य समूहे तेषु च वृत्तित्वात् , समूहस्यासत्त्वात् समूहिनामेव द्रव्यसतामणूनां सत्त्वात्तयोश्चाभेदेन नीलाद्याकारपरिग्रहेण ज्ञानोत्पत्तेः, समूहासत्त्वञ्च तदग्रहे तबुद्ध्यभा- 20 वात् , बलाकापतिमुष्टिग्रन्थ्यादिवत् । उक्तञ्च "गुणानां परमं रूपं न दृष्टिपथमृच्छति । यत्तु माह सदेति। तथा च प्रत्यक्षवचनमलौकिकं पूर्वोत्तरवचनपरामर्श सति निजवचनविरुद्धत्वात् , सदाऽहं मौनप्रतिकोऽस्मीत्यादिवचनवत् , एवञ्च त्वदीयं प्रत्यक्षलक्षणं त्वद्वचनविरोधेनैव दुष्टं न त्वस्मदीयखण्डनहेतुभिर्दूष्यमित्यर्थः, तथा च कल्पनापोढलक्षणलक्षितं ज्ञानं न प्रत्यक्षं कल्पनात्मकत्वात् , सदेत्यादित्वदुक्तिवदित्यनुमानं फलितमिति भावः । द्रव्यसतामेवेति. योगाचाराणां हि त्रिविधं सत्, परमार्थसत्, संवृतिसत्, द्रव्यसत्, द्रव्यतः खलक्षणतः सत् द्रव्यसत, संवृतिः सम्बन्ध-25 स्तद्वशेन सत्यं संवृतिसत् पटोऽयमिति व्यवहारस्तन्तूनां परस्परसम्बन्धेन, विभिन्नाकारस्थानवशेन हि सनिवेशितास्तन्तवः पटपदाभिधेयाः, तत्सम्बन्धाग्रहणे न पटव्यवहारः, एवं घटोऽयमिति कथनं संवृतिसत्, घटोऽस्ति जलमस्ति इत्यादावपि तथैव रूपरसादीनां विश्लेषणे व घटः क जलम् ? अन्योऽन्यसम्बन्धेनैव व्यवहारः अत एव संवृतिसत् । वस्तुविनाशे (अपोहे )ऽपि यस्य विचारो निरन्तरं प्रवर्तते तत्परमार्थसत्, यथा रूपे परमाणुत्वं प्राप्तेऽपि रूपविचारः प्रवर्तत एव, परमस्य ज्ञानस्यार्थः परमार्थः परमार्थश्च सच परमार्थसदिति व्युत्पत्तेः । तदग्रह इति, समूहो हि परस्परसम्बन्धस्तस्य चाग्रहे 30 न तद्बुद्धिः घटादिनीलादिबुद्धिर्भवतीत्यर्थः । बलाकापतिर्बलाकासमुदायात्मिका, मुष्टिरङ्गुलिकरतलसम्बन्धविशेषः, प्रन्थिस्तन्वादीनां सम्बन्धविशेषः,एषां सम्बन्धानामग्रहे न तनुद्धिर्भवतीति भावः गुणानामिति, रूपादीनां परमार्थसद्भतानां परमाणुत्वेनेन्द्रियाविषयत्वम्, नीलाकारादिथेन्द्रियविषयः समूहात्मकतया मायाकल्पितत्वादसमेवेति भावार्थः।अन्वरोति ।अन्वयः _ 2010_04 Page #122 -------------------------------------------------------------------------- ________________ द्वादशारनयचक्रम् विध्यरे दृष्टिपथप्राप्तं तन्मायेव सतुच्छकम्" इत्यतः सदसदभेदपरिग्रहात्मकत्वात्तैमिरिककेशोण्डुकादि ज्ञानवत्तदतद्विषयत्वमस्य । किश्चान्यत् सर्वथा साधारणार्थत्वादेर्हेतुपारम्पर्येण कल्पनात्मकत्वसिद्धेः । एकैकस्माद्वा हेतोरप्रत्य5 क्षमिदं कल्पनापोढलक्षणलक्षितं ज्ञानमनुमानादिज्ञानवत् । (सर्वथेति) साधारणोऽर्थोऽस्य ज्ञानस्येति साधारणार्थम्, तत्साधारणार्थत्वमभेदपरिग्रहा. त्मकत्वात् , आदिग्रहणादन्वयव्यतिरेकार्थविषयत्वात् सामान्यविशेषात्मकार्थविषयत्वादित्यादिभ्यो हेतुभ्यः, दृष्टान्तान्यनुमानादिज्ञानानि, तथैवोदाहृतानि "भ्रान्तिसंवृतिसंज्ञानमनुमानानुमानिकम् । स्मा भिलाषिकञ्चेति प्रत्यक्षाभं च तैमिरम्" इति, तस्माद्धेतुपारंपर्येण कल्पनात्मकत्वसिद्धेः । एकै10 कस्माद्वोक्तहेतोरप्रत्यक्षमिदं कल्पनापोढलक्षणलक्षितं ज्ञानमनुमानादिज्ञानवदिति, यथाऽनुमानादिज्ञानं कल्पनात्मकत्वादप्रत्यक्षं तथा भवदिष्टमिन्द्रियज्ञानम् । मा मंस्थाः प्रोक्तकल्पनात्मकत्वादिहेत्वसिद्धिरिति, उक्तं हि वोऽभिधर्म एव सञ्चितालम्बनाः पञ्च विज्ञानकाया इति, रूपादिपरमाणोषेकस्यासञ्चितस्यालम्बनस्य घटादिषु नीलादिषु प्रत्यक्षाभिमतेषु संवृतिसत्स्वभावात् सञ्चिताणुघटनीलाद्याकार एव गृह्यते चक्षुरादिभिः, 15 चक्षुरादिविज्ञानानां रूपादिपरमाणुसङ्घात एवालम्बनम्, ततः प्रत्येकमालम्बनपरमाणूनां परमार्थसतां भवत्सिद्धान्तेनैवाविषयता। (मा मंस्था इति) अभिधर्म एव-अभिधर्मपिटक एव बुद्धवचनेऽभिहितं-सश्चितालम्बनाः पञ्चविज्ञानकाया इति, नित्यसम्प्रयुक्तकधर्मैर्युक्तत्वाद्रागादिभिः काया इत्युच्यन्ते पञ्च चक्षुरा-. दिविज्ञानानि । रूपादिपरमाणोकस्यासश्चितस्यान्यैः समानजातीयैरसङ्गतस्यालम्बनस्य-विषयस्येन्द्रि20 यबुद्धिग्राह्यस्य घटादिषु-घटपटरथादिषु नीलादिषु-रूपरसगन्धस्पर्शशब्देषु तद्गुणेषु प्रत्यक्षाभिमतेषु - संवृतिसत्स्वभावात् सञ्चिताणुघटनीलाद्याकार एव गृह्यते चक्षुरादिभिः । तस्याश्चावस्थायां परमाणु त्वेनावस्थानमाहतान् प्रत्यसिद्धम् , परिणामान्तरापत्त्यभ्युपगमात्, वैशेषिकाणां परमाण्वारब्धावयविद्रव्यम् , सांख्यानां समवस्थानविशेषापन्नाः सत्त्वादयो गुणाः, लौकिकानान्तु स्थूलकार्यानुमितत जातीयसूक्ष्मकारणमात्रसम्भाक्नम् , सन्ति केचित्सूक्ष्मा बहवः स्थूलस्य कारणभूताः पटस्येव तन्तव इति, 25 सम्भावितानां तथासम्भावनेऽपि तेषां संघातपरिणामाभ्यामृते चाक्षुषत्वाद्यभावो लोकव्याप्ताणुवत्, साजावं व्यतिरेको वैजात्यं तद्विषयस्वादित्यर्थः, आलम्बनभूतानान्तु परमाणूनां सजातीयविजातीयव्यावृत्तत्वात् प्रत्यक्षस्य चान्वयव्यतिरेकार्थविषयत्वादालम्बनविपरीतप्रतिपत्तिरूपतेति भावः। भ्रान्तीति, एतानि ज्ञानानि कल्पनात्मकत्वादप्रत्यक्षाणि विझेयानि। आनुमानिकपदेनोपमानशाब्दार्थापत्यादीनां ग्रहणम् .स्मात ज्ञानं स्मृतिः. आभिलाषिकमिच्छाविरचितं देवदत्तोऽयमित्यादि ज्ञानं प्रत्यक्षाभं च तैमिर-तिमिरादिदोषजं ज्ञानम् । पूर्व केचन हेतवोऽसिद्धिवारकतयोपन्यस्ताः, सम्प्रति सर्व एव हेतवः 30 साक्षादप्रत्यक्षत्वसाधका इत्याह-एकैकस्मादिति । पूर्वोदितासिद्धिनिरसनार्थमाह-मा मंस्था इति । चक्षुरादिग्राह्यावस्थायामालम्बनभूताः परमाणवः खलक्षणा न विषयाः ते तदानीं संवृतिखभावा एच मतान्तरेष्वपि तदानीं तेषां तथावस्थानानभ्यु. पगमात् अतीन्द्रियत्वेन तेषां चक्षुरादिविज्ञानालम्बनत्वानुपपत्तेश्च तस्मात्तेषां सहात एवालम्बनमिति परमाणूनां वस्तुसतामवि. षयत्वमापनम, बच विषयः सदातः स न परमार्थसन् किन्तु संकृतिसभेवेति भावार्थमाह तस्याश्वावस्थायामित्यादिना । 2010_04 Page #123 -------------------------------------------------------------------------- ________________ ७३ व्यपदेश्यत्वम् ] न्यायागमानुसारिणीव्याख्यासमेतम् अतोऽतीन्द्रियत्वाद्यालम्बनत्वानुपपत्तिः, अतश्वालम्बनत्वानुपपत्तेर्द्रव्यस्य सतां परमाणूनामेतत्प्रतिपत्तव्यं चक्षुरादिविज्ञानानां रूपादिपरमाणुसंघात एवालम्बनमिति, आदिग्रहणाद्रसादिपरिमण्डलादिपरमाणुसंघात एवालम्बनम् । ततः किमिति चेत् ततः प्रत्येकमालम्बनपरमाणूनाम्-आलम्बनार्थाः परमाणवः आलम्बनपरमाणः तेषां परमार्थसतामेषां त एव हि परमार्थसन्तो न समूहो नीलादिर्घटादिश्च संवृतिसत्त्वादिति भवसिद्धान्तेनैवाविषयता परमाणूनाम् ।। तत्र प्रतिविविक्तरूपान्तराविविक्तस्वतत्त्वे रूपसङ्घाते इन्द्रियसन्निकृष्टे आलम्बनविपरीता प्रतिपत्तिरव्यपदेश्यैकात्मकनीलरूपविषयाऽभिमता। (तत्रेति) तत्र प्रतिविविक्तरूपान्तराविविक्तस्वतत्त्वे-प्रत्येकं विविक्तानि रूपान्तराणि प्रतिपरमाणुभेदेन रसादिभेदेन वा तेषामेव रूपान्तराणामविविक्तं स्वतत्त्वं यस्य सोऽयं प्रतिविविक्तरूपान्तराविवितस्वतस्वः, कोऽसौ ? रूपसङ्घातः रूपधातुभेदपरमाणुसंघातः, अधिकृतचक्षुर्विषयाभिमतरूपसंघातो 10 वा, तस्मिन् रूपसंघाते इन्द्रियसनिकृष्टे स्वविषयाभिमुख्येनोपस्थिते आलम्बनविपरीता-परमार्थत आलम्बनभूतेभ्यः परमाणुभ्यो नीलमिति वा घट इति वा येयं प्रतिपत्तिः सा विपरीता, तद्ग्रहे तद्बुद्ध्यभावात् , बलाकासु पतिज्ञानवत् अव्यपदेश्यैकात्मकनीलरूपविषया व्यपदेश्यानेकपरमाण्वालम्बनेभ्योऽन्योऽव्यपदेश्य एक आत्माऽस्येत्यव्यपदेश्यैकात्मकम् , किं तत् ? नीलरूपं तद्विषयोऽस्या इत्यव्यपदेश्यैकात्मकनीलरूपविषयाऽभिमता प्रतिपत्तिरिति वर्तते, सैव वा प्रतिपत्तिरव्यपदेश्या एकात्मका, अनेकपरमा-15 णुनीलरूपविपरीतैकनीलरूपविषया। तद्व्याख्यानार्थ भवतामभिधर्मपिटके यथोच्यते नीलं विजानाति नो तु नीलमिति। ननु हेत्वपदेशव्यपदेश्यैव सा, नच शब्दाभिधेयमेव व्यपदेश्यम् , किं तर्हि ? यदर्थान्तरेणाधिगम्यते तद्व्यपदेश्यम् , तथा चोक्तं सञ्चितालम्बनाः पञ्चविज्ञानकाया इति न संचयालम्बना इति, धूमेनाग्निरिवैतदपि चक्षुरादिविज्ञानं व्यपदेश्यं ततोऽन्यत् परमाणुभ्यः परमार्थसझ्यः 20 कल्पितमेकं सामान्यं न साक्षादिन्द्रियैर्गृह्यते, व्यवहितमेवार्थान्तरैस्तद्वारेण गृह्यते। . (तद्वयाख्यानार्थमिति) नाव्यपदेश्या सा प्रतिपत्तिरित्यभिप्रायः, तां दर्शयति-ननु हेत्व. पदेशव्यपदेश्यैव सा यस्मादुक्तं "हेतुरपदेशो निमित्तं लिङ्गं प्रमाणं कारणमित्यनन्तरम्" इति (वैशे० अ० ९ आ० २ सू० ४) न चावश्यं शब्दाभिधेयमेव व्यपदेश्यम्, किन्तर्हि ? यदर्थान्तरेणाधिरूपधातुमेदपरमाणुसंघात इति, धारणाद्धातुः, स चाष्टादशविधः षट् चक्षुरादीन्द्रियाणि, षट् चक्षुर्विज्ञानादीनि, 25 षड् रूपादयो विषयाः, तत्र गंधरसघ्राणजिह्वाविज्ञानव्यतिरिकाश्चतुर्दश धातवो रूपधातव उच्यन्ते अथवैक एव धातू रूपसंज्ञकश्चक्षुर्विज्ञानविषयभूतो प्राह्य इत्याहाधिकृतेति । अनेके हि रूपपरमाणवश्चक्षुर्विज्ञानस्यालम्बनानि, न त्वेकः अतीन्द्रियत्वात् प्रतिपत्तिस्तु नीलमिति वा घट इति वा एकात्मकवस्तुविषया भवतीत्यालम्बनविपरीतता प्रतिपत्तेरिति भावः । अव्यपदेश्येति, व्यपदिश्यत इति व्यपदेश्यं शब्दाश्रयतामापन्नं नीलादिकमुच्यते, इन्द्रियार्थसन्निकर्षादुत्पन्नेन विज्ञानेन यद्विषयनामधेयेन व्यपदिश्यते रूपमिदं रसोऽयमिति, तद्यपदेश्यमतथाभूतञ्चाव्यपदेश्यम् , तथैकखरूपं नीलायेव तत्प्रतिप- 30 त्तेविषयत्वेनाभिमतमित्यर्थः । सम्प्रति विज्ञानमेवाव्यपदेश्यैकात्मकत्वेन विशेषयति सैव वेति । नाव्यपवेश्येति. किन्तु व्यपदेश्यैवेत्यर्थः । सा प्रतिपत्तिः शब्दाव्यपदेश्यापि प्रकारान्तरेण तस्या व्यपदेश्यत्वमाविष्करोति, नन्विति । हेतुरित्यादि, अपदिश्यते कथ्यतेऽनेनार्थ इत्यपदेशः शब्दः स च हेतुलिङ्गादिपर्यायः इति सूत्रार्थः । तथा च या शब्देनैव व्यपदिश्यते सैव व्यपदेश्येति न नियमः किन्तु हेत्वादिभिरपि याधिगम्यते सापि, अधिगम्यते हि नीलादिचाक्षुष द्वा० न०१. ___ 2010-04 Page #124 -------------------------------------------------------------------------- ________________ ७४ द्वादशारनयचक्रम् [विध्यरे गम्यते तस्यपदेश्यम् , अर्थान्तरस्य हेत्वपदेशनिमित्तादिपर्यायत्वात् , तथापि च यतः सञ्चयग्रहणापदेशेन निमित्तान्तरजनितमिन्द्रियज्ञानमिष्टं तस्मात्तद्व्यपदेश्यं तत् , तथा चोक्तं "सञ्चितालम्बनाः पञ्च विज्ञानकाया" इति, न सञ्चयालम्बना इति, एतस्यार्थनिदर्शनार्थमुदाहरणमाह-धूमेनाग्निरिव, यथा धूमेनार्थान्तरभूतेनाग्निरत्रेति ज्ञानमुत्पद्यमानं व्यपदेश्यं दृष्टं तथैतदपि नीलरूपादि विषयं चक्षुरादिवि5 शानं परमाणुभिरर्थान्तरैर्जनितत्वाव्यपदेश्यम् ततोऽन्यदित्यादि-यत एव व्यपदेश्यं धूमादग्निरिव सन्नीलरूपं ततः परमाणुभ्यः परमार्थसङ्ग्योऽन्यत् कल्पितमकल्पितेभ्य एक बहुभ्यः सामान्यं विशेषेभ्यः, न साक्षादिन्द्रियैरव्यवहितं गृह्यते, किं तर्हि ? व्यवहितमेवार्थान्तरैः परमाणुभिस्तद्वारेण परमाणुद्वारेण गृह्यते न स्वत एवेति । अत्राह10 ननु च सञ्चयस्य कारकहेतुत्वेनापदेशः प्रत्यक्षप्रतिपत्तेः, न धूमवज्ञापकहेत्वपदेशतयाऽग्नेरिवार्थान्तरस्यैकरूपत्वस्य । ननु च सश्चयस्येत्यादि यावदर्थान्तरस्यैकरूपत्वस्येति, नन्वित्यनुज्ञापने, चशब्दः प्रसिद्धभेदसमुच्चये, नन्विदं प्रसिद्धमन्यः कारको हेतुरन्यो ज्ञापक इति, तस्मादणूनां तत्सञ्चयस्य नीलस्य च कारकसम्बन्धात् धूमस्याग्नेश्च ज्ञापकसम्बन्धात् प्रत्यक्षानुमानप्रतिपत्त्योरर्थ एव गम्यः, अतः साध्यधर्म15 वैकल्यं दृष्टान्तस्य, इष्टविघाताद्विरुद्धता हेतोरिति वाक्यार्थः, अक्षराण्युत्तानार्थान्येवेति न विवृण्महे । आचार्यों दोषद्वयं परिहरन्नाह नन्विदमस्यैवार्थस्य प्रदर्शनार्थ प्रस्तुतमस्माभिर्यदीदं प्रत्यक्षं स्यात् कारकादेव, सञ्चयाख्यात् संवृतिसतो न स्यात्, भवति तु तस्मान्न प्रत्यक्षं ज्ञापकधूमाद्यपेक्षाग्निज्ञानवत् , , वैधhण दाहानुभवनवत् , प्रत्यक्षत्वादव्यवहितप्रतिपत्त्यात्मकत्वात् प्रत्यक्षस्य, तथा तस्य 20 स्वलक्षणविषयत्वादनध्यारोपात्मकत्वादिति यावत् । - (नन्विति) नन्विदमस्यैवार्थस्य प्रदर्शनार्थ प्रस्तुतमस्माभिः, नैतदनिष्टमस्माकं न वा साध्यधर्मवैकल्यम्, यत्सञ्चयस्य ज्ञापकत्वप्रसङ्गात्प्रत्यक्षप्रतिपत्तेस्तद्दोषद्वयमस्मान्प्रत्यापायेत न पुनरेवमेतत् , अस्यैव प्रतिपिपादयिषितत्वात् , तदुच्यते, यदि भवन्मतमिदं प्रत्यक्षं स्यात्कारकादेव-निष्पादकादेव • प्रतिपत्तिः कल्पितेनैकेन सामान्येनार्थान्तरभूतेन सञ्चयेन, तस्मादर्थान्तरशब्दस्य हेतुपर्यायत्वेन हेत्वपदेशव्यपदेश्यैव सा प्रति25 पत्तिर्न त्वव्यपदेश्येति भावः। न सञ्चयालम्बना इति, परमाणूनां कल्पितः सञ्चयो न विज्ञानविषयः किन्तु सञ्चयद्वारेण परमाणव एवालम्बना इत्यर्थः तथा च प्रयोगः चक्षुरादि विज्ञानं व्यपदेश्य अर्थान्तरेण सञ्चयेन अधिगम्यत्वात् धूमेनाग्निग्रहणवदिति, प्रत्यक्षस्य हि सञ्चयो नीलादिर्वा कारकहेतुरुच्यते, वहिज्ञानस्य तु धूमः ज्ञापकहेतुरुच्यते, द्वयोरपि प्रतिपत्त्योरर्थ एव गम्यो भवति तत्रान्तरेणाधिगम्यमानत्वादिति हेतावान्तरपदेन ज्ञापकहेतुर्यदि गृह्यते तर्हि तजन्यप्रतिपत्तिन तेन व्यपदि। श्यते वयादिज्ञानवदिति प्रत्यक्षज्ञानस्य नीलादिव्यपदेश्यत्वेनेष्ट स्यासिद्ध्या विरुद्धता, पक्षे च तथाविधसाधनाभावोऽपि, यदि 30 च कारकहेतुरर्थान्तरपदेन गृह्यते तर्हि तज्जन्य विज्ञानस्य तेनैव व्यपदेश्यतया दृष्टान्ते तद्व्यपदेशत्वाभावेन साध्यधर्मविकलता तस्य, अत्रापि दृष्टान्त हेत्वभावो बोध्य इति भावार्थ मत्वाऽऽह-ननु चेति। पूर्वोक्तं दोषद्वयं तवैव न ममेत्याह-नन्विति । अस्यैवार्थस्य-इष्टविघातसाध्यधर्मवैकल्यलक्षणार्थस्य । कारकादेवेति, एवशब्देन ज्ञापकताव्यवच्छेदः, तहीति शेषः । संवृतिसतः-सञ्चयात्, एक्श्च कारकत्वं परमार्थसत एव भवति, सश्चयस्तु न परमार्थसन्निति कथं तस्य कारकत्वमिति ज्ञापकत्वमेव 2010_04 | Page #125 -------------------------------------------------------------------------- ________________ 10 सञ्चयस्याकारकत्वम् ] न्यायागमानुसारिणीव्याख्यासमेतम् ७५ चक्षुरादिविज्ञानस्य नीलपीतादेः स्वार्थाभिमतादालम्बनभूताद्धेतो येत , संचयाख्यात् संवृतिसतो न परमार्थसतोऽण्वादेरपि स्यात् । वैधर्येण दाहानुभवनवत् स्वार्थमात्रालम्बनं वा स्यात् प्रत्यक्षत्वादाहानुभवनवत्, यथोक्तं "अन्यथा दाहसम्बन्धाद्दाहं दग्धोऽभिमन्यते । अन्यथा दाहशब्देन दाहार्थः सम्प्रतीयते ॥” इति (वाक्यपदीये कां० २ श्लो० ४२५) अव्यवहितप्रतिपत्त्यात्मकत्वात् प्रत्यक्षस्येति तस्यैवोपचयहेतुः, अर्थान्तरेणाव्यवहितस्यार्थस्य ग्राहकं प्रत्यक्षं दृष्टं यथा दाहानुभवः । तथा तस्य स्खलक्षणविषयत्वात्-प्रत्यक्षस्यार्थान्तरनिरपेक्षता स्यान्न पुनरस्तीति, स्वलक्षणविषयत्वादनध्यारोपत्वादिति यावत् , सर्वत्रार्थान्तराध्यारोपवृत्त्यर्थान्तरादुपचयोत्पन्नं न ज्ञानमिति, यावदुक्तं भवति स्वलक्षणविषयत्वादव्यवहितप्रतिपत्त्यात्मकत्वात् प्रत्यक्षत्वादित्यादि । अर्थान्तरनिमित्तग्राह्यश्चाप्रत्यक्षं दृष्टम् , यथा दाहशब्दजनितज्ञानमिति, एवं तावत्कारकतां संचयस्याभ्युपगम्य दोष आपादितः। इदानीं कारकतामपि दूषयितुकाम आहकारकतापि सञ्चयस्य नैवास्ति परमार्थतोऽसत्त्वात् , अलातचक्रवत् । (कारकतापीति) कारकतापि सञ्चयस्य नैवास्तीति प्रतिज्ञा, परमार्थतोऽसत्त्वादिति हेतुः, अलातचक्रवदिति दृष्टान्तः परमार्थतोऽसत्त्वं संवृतिसत्त्वाद्भवन्मतेन घटवत् , यथोक्तम् “भेदे यदि न तद्बुद्धिरन्यापोहधियाऽपि च । घटाम्बुवत्संवृतिसत्तदन्यत् परमार्थसत्" (अभिधर्मकोशे अ०६ का० ४) इति यथोल्मुकं भ्रमद्धान्तदृष्टेश्चक्रवदाभाति न तच्चक्रमस्ति, अग्निकणानां नैरन्तर्याभावात् , 15 चक्रस्य परमार्थतोऽसत्त्वाच्चक्रविज्ञानस्याकारकता, एवं सञ्चयस्य संवृतिसत्त्वान्नीलविज्ञानस्याकारकता, तथाऽतीन्द्रियत्वादणुनीलानाम् । . इतश्च सञ्चयस्याकारकता प्रत्यवयवव्यवस्थानमात्रत्वात् ।। . (इतश्चेति) अवयवमवयवं प्रति प्रत्यवयवं, अवयवा नीलादिपरमाणवः, तेषामेव संहत्यैकत्र परस्परासत्त्या व्यवस्थानमात्रं सञ्चयो न तेभ्योऽर्थान्तरमिष्टं भवताम् , अतः परमार्थतो नास्येवासौ 20 सञ्चयः, तदेवं सञ्चयस्यासतः खरविषाणस्येव न कारकता। अभ्युपेत्यापि सञ्चयस्य सत्त्वं दोषं ब्रूमः... लोकवत्तु सञ्चयसत्त्वे व्यपदेशोऽस्त्येवेति गृह्यताम् , ततश्चाव्यपदेश्यो विषयः प्रत्यस्यादेवञ्च धूमावह्निज्ञानवदप्रत्यक्षत्वं दुरुद्धरमिति भावः । यदि तु नीलादिविज्ञानस्य चाक्षुषस्य प्रत्यक्षत्वमभ्युपगम्यते तर्हि दाहजन्यदाहानुभववत् केवलं खार्थ एव परमार्थसन् परमाणुरालम्बनं स्यादित्याह-वैधयेणेति । तथा च नीलादीन्द्रि-25 यविज्ञानं खार्थमात्रालम्बनम् , प्रत्यक्षत्वात् अव्यवहितप्रतिपत्त्यात्मकत्वात् स्खलक्षणविषयत्वाद्वा दाहानुभववदिति प्रयोगः । खार्थमात्रेत्यत्र मात्रपदेन व्यवधानस्य सञ्चयस्य व्युदासः । उपचयहेतः पोषकहेतुरित्यर्थः सञ्चयलक्षणार्थान्तरग्राह्यत्वे तस्याभ्युपगम्यमाने त्वाह-अर्थान्तरेति । अलातेति, उभयवाद्यनुसारेण दृष्टान्तोऽयम् , असिद्धिं निरस्यति परमार्थत इति । बौद्धमतेन दृष्टान्तमाह-भवन्मतेनेति । घटभेदे घटबुद्धिनिरुध्यते, बुद्ध्या जले रूपादिकं यद्यपनोद्यते तदा जलबुद्धिरपि निरुध्यते, एवं घटादिनाशेऽपि सञ्चयतो यो व्यवहारः सः संघतिसन् , अतोऽन्यः परमार्थसजित्यभिप्रायिकां कारि-30 कामाह-भेद इति । दृष्टान्तं व्यावर्णयति यथेति चक्रविज्ञानं प्रति परमार्थतोऽसतश्चक्रस्य यथा न कारकत्वं तथा सञ्चय. स्थापि, परमार्थसन्तो नालाणवोऽतीन्द्रियत्वान्न कारकभूता इति भावः। परमाणूनामन्योऽन्यसम्बन्धेन स्थितिरेव सञ्चयः, सच न परमाणुभ्यो व्यतिरिकः कश्चिदतोऽसन्नित्यकारकः सञ्चयः इत्याह-इतश्चेति । सञ्चयस्य सत्त्वे कारकत्वे च तेन । व्यपदिश्यत एव तज्ज्ञानमिति तस्याव्यपदेश्यत्वाभिधानमनर्थकमित्याह-लोकवदिति । तुशब्दोऽसत्पक्षविपरीतपक्ष M _ 2010_04 Page #126 -------------------------------------------------------------------------- ________________ द्वादशारनयचक्रम् [विध्यरे क्षस्य, प्रत्यक्षं वाऽव्यपदेश्यमित्युभयमनृतम् , विशिष्टोऽपदेशो व्यपदेशः, विशिष्टोऽन्य इत्यर्थः, ग्राह्यादन्यः सञ्चयस्तव्यपदेशेन व्यपदेश्यं प्रमेयं तदनुमेयं प्रामोति, व्यपदेशव्यपदेश्यत्वान्न प्रत्यक्षं धूमानुमिताग्निवत् यथा धूमेन व्यपदेशेन साधितोऽग्निरनुमेयोऽप्रत्यक्षश्च तथा नीलं रूपम् । 5 (लोकवदिति) लोकवत्तु सञ्चयसत्त्वे यथा लोकस्याव्युत्पन्नस्यापि समुदायिव्यतिरेकेण सन्नेवावयवी परिणामान्तरवत्तत्समुदायो वा योऽस्तु सोऽस्तु परैर्युत्पादितः सन्नेवासौ, तन्तुपटादिषु बुद्धिशक्तिकार्याभिधानसंख्यादिभेददर्शनात्, इष्टसूत्राक्षरार्थानुसारेण व्यपदेशोऽस्त्येवेति गृह्यताम् , ततश्चाव्यपदेश्यो विषयः प्रत्यक्षस्य, प्रत्यक्षं वाऽव्यपदेश्यमित्युभयमनृतम् , तत्कथमिति चेत् ? विशिष्टोऽपदेशो व्यपदेश इति विशब्दस्य विशिष्टार्थतामपदेशशब्दस्य हेत्वर्थतां दर्शयति । विशिष्टोऽन्य इत्यर्थः, 10 कुतोऽन्य इति चेदुच्यते ग्राह्यादन्यः, ग्राह्यो नीलादिस्तस्मादन्यः सञ्चयः, तद्व्यपदेशः, तेन सञ्चयेन व्यपदेशेन हेतुना व्यपदेश्यम् , किं तत् ? प्रमेयं नीलादि त्वदभिमतप्रत्यक्षप्रमाणगम्यम् , किं भवति ? तन्नीलादिरूपमनुमेयं प्राप्नोति व्यपदेशव्यपदेश्यत्वान्न प्रत्यक्षम् , तस्य ज्ञेयस्यास्मादेव हेतोः प्रत्यक्षत्वाभावोऽनुमेयभावश्च साध्यते, तज्ज्ञानस्याप्रत्यक्षताऽनुमानता च साध्यते को दृष्टान्तः ? धूमानुमिताग्निवत् , यथा धूमेन व्यपदेशेन साधितोऽग्निरनुमेयोऽप्रत्यक्षश्च तथा नीलं रूपम्-यथा च धूमालम्ब15 नोत्पादिताग्निज्ञानमनुमानमप्रत्यक्षश्च तथा नीलज्ञानं सञ्चयोत्पादितमिति । किश्चान्यत् सर्वथा तत्तेन व्यपदेश्यं तदविनाभावात्तस्य, कारकतायामकारकतायां वा न कश्चिद्विशेषोऽर्थान्तरनिमित्तादेव पितृधूमादिवत् , ततस्तुल्ये व्यपदेश्यत्वहेतौ व्यपदेश्यनिरोध कोऽयमनर्थको विचारः कारको ज्ञापक इति, एवं तावदर्थतो व्यपदेश्यमेव । 20 (सर्वथेति) सर्वथा तन्नीलादिज्ञानं तेन-सञ्चयेन व्यपदेश्यं तदविनाभावात्तस्य, कारकतायामकारकतायां वा न कश्चिद्विशेषो व्यपदेश्यत्वसिद्धौ वस्तुनः, कुतः १ अर्थान्तरनिमित्तादेव पितृधूमादिवत् , यथा पिता पुत्रस्य जनकस्तेन व्यपदिश्यते कारकेण पुत्रः, धूमेन ज्ञापकेनामिरविशिष्टत्वाद्वस्तुनः, ततस्तुल्ये व्यपदेश्यत्वहेतावप्रत्यक्षत्वानुमानत्वसाधनसमर्थे सति व्यपदेश्यत्वनिरोधकोऽय द्योतकः । लोकापेक्षया अवयवव्यतिरेकेणावयवी वर्तत एव, बुद्धिशक्तिकार्याभिधानसङ्ख्यादिमेददर्शनातू, तन्तुषु हि तन्तुरिति बुद्धिः पटे च पट इति बुद्धिमेदः, पटस्यावरणशक्तिर्न तन्तोरिति शक्तिमेदः, तन्तोः कार्य पटादि न पटादेरिति कार्यमेदः, तन्तोस्तन्तुरिति नाम न पट इति, पटस्य च पट इति न तन्तुरिति नाममेदः, पट एकस्तदवयवास्तन्तव अनेक इति सङ्ख्यामेदः, एवञ्च सोऽयं भिन्नोऽवयवी, तन्तुपरिणामान्तरभूतस्तन्तुसमुदायलक्षणो वा पटस्तत्तद्वाद्यभिप्रायेण भवतु किन्तु सः सन्नेवेत्यङ्गीकारे तेन तज्ज्ञानं व्यपदिश्यत एवेत्याशयेनाह-यथेति । नीलादिविज्ञानस्य व्यपदेश्यत्वानीकारे तद्विषयस्य नीलादेः प्रत्यक्षत्वं व्याहतमनुमेयत्वमेव च प्राप्तं स्यादित्याह-किं भवतीति । तदिति, तस्य सञ्चयस्य 30 व्यपदेश्यत्वाविनाभावादित्यर्थः, यदर्थान्तरेणाधिगम्यते तद्यपदेश्यमिति व्याप्तः, न पत्र कारकत्वज्ञापकत्वकृतः कश्चन विशेषः, अर्थान्तरभूतस्य निमित्तत्वे व्यपदेश्यत्वध्रौव्यात्, एवञ्च व्यपदेशव्यपदेश्यत्वहेतौ दृष्टान्तपक्षसाधारण्येन स्थिते सति व्यपदेश्य 2010_04 Page #127 -------------------------------------------------------------------------- ________________ ७७ 10 प्रत्यक्षस्य पापीयस्त्वम्] न्यायागमानुसारिणीव्याख्यासमेतम् मनर्थको विचारः कारको ज्ञापक इति । एवं तावदर्थकृतोऽस्य नीलस्य व्यपदेशः सिद्धो यत्सिद्धरप्रत्यक्षानुमेयत्वे सिद्धे स्याताम् , तत्सिद्धेश्च तज्ज्ञानस्यानुमानत्वं सिद्ध्येत्, अव्यपदेश्यत्वादिलक्षणविरोधश्च। ____ यदपीष्टमभिधानतो न व्यपदेश्यं तन्नीलादिपरमाणुरूपं परमाणुसमूहाभेदादेकं वेत्येते द्वे अपि नैव स्तः, अनुमिताग्निवद्बहुविषयत्वात् , तथा ज्ञानमपि । . (यदपीति) अभिधानाव्यपदेश्यैकात्मकत्वे अपि नैव स्तो नीलादिरूपस्येति प्रतिज्ञा, दृष्टान्तोऽनुमिताग्निवदिति, प्रतिपत्तिसौकर्यात् प्रागेव हेतोदृष्टान्त उक्तः, तद्बलादवयवसिद्धेहेतुसमर्थनार्थत्वात् दृष्टान्तस्य । हेतुस्तर्हि क इत्यत्रोच्यते बहुविषयत्वात् , यथा धूमज्ञानानुमितोऽग्निरबादिविनिवृत्त्युपलक्षितो देशकालादिभेदभिन्नोऽप्यभिधानव्यपदेश्योऽनेकात्मकत्वापन्न एव गृह्यते तथा नीलार्थोऽपि स्याद्बहुपरमाणुविषयत्वात् , तथा ज्ञानमपीति । इदानीं प्रागभिहितकल्पनात्मकत्वादिभिर्हेतुभिरनुमानात् पापीयस्त्वं तस्य प्रत्यक्षस्य प्रतिपादयितुकाम आह तद्धि नीलरूपनिरूपणमर्थव्यपदेशेन शब्दव्यपदेशेन वा दृष्टं स च विकल्प एवातः कल्पनापोढमिति दुष्टं लक्षणं ज्ञानार्थयोरध्यारोपाच्च निरूपणात्तस्य, प्रतिपरमाणु प्रतिभिन्नानि स्वानि तत्त्वानि, तथा तेषां नीलरूपाण्यप्यनेकरूपाण्येव, तेषाश्च यथासंख्यमेकतत्त्वैकरूपा- 15 ध्यारोपादर्थान्तरनिरूपणम् , स चाध्यारोपो रूपान्तरसामान्यरूपविषयत्वात् , तदपि सामान्य तदतद्विषयवृत्तत्वात् । तद्धि नीलरूपनिरूपणमित्यादि, तदिति प्रागपदिष्टमविकल्पात्मकं हिशब्दो यस्मादथै, यस्मानीलरूपस्य निरूपणमुक्तन्यायेनार्थव्यपदेशेन शब्दव्यपदेशेन वा दृष्टं स च विकल्प एवेत्यविकल्पकत्वं नास्त्यतः कल्पनापोढमिति दुष्टं लक्षणम् , ज्ञानार्थयोरध्यारोपाच्च निरूपणात्तस्य, तत्कथमिति 20 चेदुच्यते प्रतिपरमाणु-परमाणुं परमाणु प्रति प्रतिपरमाणु परस्परतः प्रतिभिन्नानि स्वानि तत्त्वानियो यस्य भावः स तस्य तत्त्वं न सोऽन्यत्र भवति, भवनमेव हि तस्त्वमतो विभिन्नानि प्रतिपरमाणु तत्त्वानि, एकैकस्य परमाणोः परमाण्वन्तरेभ्योऽत्यन्तभिन्नं खं तत्त्वं, भावान्तरमनपेक्ष्य स्वरसत एव त्वनिराकरणाय भवता योऽयं विचारः क्रियते सोऽनर्थक इति भावः । एवं तावदिति, एतावता ग्रन्थेन साधितमुच्यते, नीलादेर्व्यपदेश्यत्वसिद्धौ तस्याप्रत्यक्षत्वमनुमेयत्वञ्च सिध्यति, तत्सिद्धौ च नीलादिज्ञानस्यानुमानत्वं सिध्यति, ततश्च नीलादि-25 ज्ञानस्याव्यपदेश्यत्वादिलक्षणप्रणयनं विरुध्यत इति । ननु पूर्व नीलादिज्ञानस्याव्यपदेश्यैकात्मकनीलरूपविषयत्वमुक्तमर्थतो देश्यत्वमनभ्युपगच्छता वादिना तन्निराकृतश्चैतावता प्रतिवादिना, सम्प्रति व्यपदिश्यतेऽनेनेति शब्दपरव्युत्पत्त्यभ्युपगमेन मीलादेः शब्दतोऽव्यपदेश्यत्वं यदि ब्रूयात्तमपि पक्षं निराकर्तुमाहाभिधानेति । तथा च नीलरूपं नाभिधानाव्यपदेश्यकात्मकं बहुविषयत्यात् , अनुमितामिवदिति प्रयोगः । प्रतिपत्तिसौकर्यमेव दर्शयति-तद्वलादिति, आदौ हेतुं प्रदर्शयित्वापि यावता दृष्टान्तो न प्रदर्श्यते तावता न हेतावविनाभूतत्वनिर्णयः, तद्बोधकवाक्यस्य वाऽवयवत्वसिद्धिः, अतो दृष्टान्तस्य प्रतिपत्तौ जनयि-30 तव्यायां प्रधानतेति भावः। तदेवं नीलादेविषयस्य शब्दव्यपदेशेन व्यपदेश्यत्वं समर्थ्य नीलादिज्ञानस्यापि तत्समर्थनमतिदिशतितथा ज्ञानमपीति । कल्पनापोढप्रत्यक्षस्य कल्पनात्मकत्वं समर्थयति-स च विकल्प एवेति । अध्यारोपं दर्शयति प्रतिपरमाण्विति, प्रत्येकं हि परमाणवोऽन्योऽन्यानपेक्षखरसभवनखभावा नात्मानमन्येन मिश्रयन्ति तथा तेषां नील 2010_04 Page #128 -------------------------------------------------------------------------- ________________ द्वादशारनयचक्रम् - [विध्यरे भवनात् , भावानामेकत्वञ्च साधारणभवनत्वात् परमाणूनो स्वानि तत्त्वानि भिन्नानि, तथा तेषां परमाणूनां नीलादिरूपाण्यप्यनेकरूपाण्येव, तेषाश्च स्वतत्त्वानां तेषाश्च नीलादिस्वरूपाणामेकद्वित्रिगुणादिभिन्नानां यथासंख्यमेकतत्त्वैकरूपाध्यारोपात्-सर्वपरमाणुतत्त्वानामेकवतत्त्वाध्यारोपात् सर्वपरमाणुरूपाणामेकनीलरूपाध्यारोपादर्थान्तरनिरूपणम् , स चाप्यध्यारोपो रूपान्तरसामान्यरूपविषय। त्वात्-रूपादन्यद्रूपं रूपान्तरं परमाणुरूपात् परमाण्वन्तररूपं रूपान्तरम् , एवं सर्वाणि परमाण्वन्तर रूपाणि, तेषां रूपं नीलमित्यभेदेन यत्सामान्यबुद्ध्या गृह्यते सोऽध्यारोपस्तद्विषयः, तदपि सामान्यं तदतद्विषयवृत्तत्वात् , सामान्यमित्युच्यते स चान्यश्वार्थो विषयोऽस्येति कृत्वा।। । ततश्चात्र प्रत्यक्षेऽन्यस्यानपोहादनुमाने त्वपोहात्प्रत्यक्षमविविक्तविषयमतोऽनुमानात्तत् पापीया, सङ्कीर्णतरविषयत्वान्नाम्यनुमानवदेतत् , अपोह्याथोपोहशक्तिशून्यत्वात् । 10 (ततश्चेति) ततश्चात्र प्रत्यक्षेऽन्यस्यानपोहः, अनुमाने त्वनग्नेरन्यस्यापोहः-तस्मादतदनपोहात् प्रत्यक्षमविविक्तविषयम्-स्वविषयाभिमतेऽन्यत्र चापरित्यागेनाभेदेन च वृत्तेः, नानुमान खविषये सामान्यमात्र एव वृत्तेरतोऽनुमानात् तत्-परपरिकल्पितं प्रत्यक्षं पापीयः, सङ्कीर्णतरविषयत्वादिति तस्मान्नाम्यनुमानवदेतत्-अग्न्यनुमानतुल्यमपि तन्न भवति, 'अपोह्यार्थापोहशक्तिशुन्यत्वात् , तस्मात्सामान्यात्मकतैवान्यनुमानस्य न प्रत्यक्षस्येति तस्य नीलादेरर्थस्य प्रत्यक्षविषयस्य ज्ञानस्य च 15 तदतदोः सङ्कीर्णरूपता। किश्चान्यत् तदतद्विषयवृत्ततापि न नीलरूपादेस्तज्ज्ञानस्य वोपपद्यते, किं कारणम् ? सदसतोः सम्बन्धाभावात् , घटखपुष्पवत् , तत उपचरितमत्र तदतद्विषयवृत्तत्वमपीति तत्प्रदर्शनार्थमाह.. प्रज्ञप्तिपरमार्थस्थितसञ्चयपरमाणुपरिग्रहात्मकत्वात्तदतद्विषयवृत्तता, सा च सर्वथा सा धारणार्थत्वादिसर्वेष्वेतेषु हेतुषु, ततो मूलहेतुरेतैः साधितस्तस्मान्न तत्प्रत्यक्षं नानुमानवदस20 ङ्कीर्णस्वविषयम् । (प्रज्ञप्तीति) प्रज्ञप्तिसन् सञ्चयः, परमार्थसन्तस्तु तथास्थिताः परमाणवः, तेषां परिग्रहः रूपाण्यपि प्रतिपरमाणु भिन्नानि परानपेक्षस्वतत्त्वानि, तथा च स्थिते वस्तुखभावे परमाणुतत्त्वानामेकत्वं तन्नीलरूपाणाञ्चैकरूपत्वमध्यारोप्य निरूपणं ज्ञानार्थयोः क्रियत इत्यर्थान्तरनिरूपणं बोध्यम् । प्रत्येकं परमाणुस्वतत्त्वानां भवनानां कथमेकत्वमित्यत्राह-भावानामिति । रूपाश्रयेणाह-तथेति । यथासंख्यमिति, एकतत्त्वाध्यारोपः परमाणुतत्त्वानां तन्नीलरूपाणा25 चैकरूपाध्यारोपो यथासंख्यार्थः । रूपान्तरेति, रूपान्तराणां-निखिलपरमाणुरूपाणां तत्समुदायस्य च रूपमिति सामान्य बुद्ध्याऽभेदेन विषयीकरणादारोपरूपतेत्यर्थः । अतदनपोहादिति, इतरव्यावृत्त्यकरणात् , अतद्विषयेऽपि प्रत्यक्षज्ञानस्य वर्तनादित्यर्थः । अपोह्येति, अपोह्यो व्यावर्तनी यो योऽर्थस्तस्यापोहे व्यावर्त्तने शक्तिशून्यत्वात् सामर्थ्यवेधुर्यात् प्रत्यक्षस्येत्यर्थः । सामान्यात्मकतैवेति, सामान्यं हि अतळ्यावृत्तत्वम् , अनुमानज्ञानेनानग्गेावर्तनात्तस्य सामान्यात्मकता, अत एवासङ्की. णविषयत्वं प्रत्यक्षन्त्वतद्विषयेऽपि वृत्तावृत्त्यकरणादसामान्यात्मकमत एव च सङ्कीर्ण विषयमिति भावः। सद्रूपाणां तेषां 30 परमाणूनामसद्रूपस्यातदस्तत्सञ्चयस्य वैज्ञानिकस्य घटखपुष्पवत्परस्परं सम्बन्धासम्भवात्प्रत्यक्षस्य तदतद्विषययोरपि वर्तनं न वास्तवमपि त्वौपचारिकमिति प्रदर्शयति किञ्चान्यदिति । प्रज्ञप्तीति, प्रज्ञप्तिश्च परमार्थश्च प्रज्ञप्तिपरमाथी, ताभ्यो स्थिती. प्रज्ञप्तिपरमार्थस्थिती, सञ्चयश्च परमाणुश्च सञ्चयपरमाणू, ततः कर्मधारयः, तयोः परिग्रहः, स एवात्मा यस्यासो तादृश. 2010_04 Page #129 -------------------------------------------------------------------------- ________________ प्रत्यक्षस्याप्रत्यक्षता] न्यायागमानुसारिणीव्याख्यासमेतम् सदसदभेदात्मकः, तस्मात्सदसदभेदपरिग्रहात्मकत्वात्तदतद्विषयवृत्तता, सा च सर्वथा साधारणार्थत्वादिसर्वेष्वेतेष्वनन्तरोक्तेषु हेतुषु, ततो मूलहेतुः कल्पनात्मकत्वादियेवैतैः साधितः, तस्मान्न तत्प्रत्यक्षं न चानुमानवदसङ्कीर्णस्वविषयमित्येतदर्थभावनार्थाः पुनस्त एव हेतवो व्यापारिताः प्रत्येकमपि पूर्ववदेतस्मिन्नर्थे योज्याः। इतश्च तज्ज्ञानमप्रत्यक्षमप्रत्ययप्रत्ययात्मकत्वाच्छब्दाश्रावणत्वप्रत्ययवत् । (इतश्चेति) प्रत्ययः कारणं हेतुरित्यर्थः, न प्रत्ययो हेतुरस्येत्यप्रत्ययः, कोऽसौ ? प्रत्ययः, प्रत्ययो विज्ञानम् , द्वितीयप्रत्ययशब्दस्य विज्ञानार्थत्वात् , अकारणज्ञानत्वादित्युक्तं भवति, कथं पुनरकारणं तज्ज्ञानं ? संवृत्यतीन्द्रियत्वाभ्याम् , यस्मान्नाणुषु न सञ्चये प्रत्ययता तथा प्रतिपत्तिं प्रति द्रव्यसतामविषयत्वात्, द्रव्यसन्तो हि परमाणवोऽतीन्द्रियत्वादेव न प्रत्यक्षज्ञानहेतवः, तथा नीलत्वादया, संवृतिसन्तस्तत्सश्चयोऽसत्त्वादेवाकारणम् , तस्मादुभयथाऽप्यप्रत्ययः स प्रत्ययो नीलरूपमिति, को 10 दृष्टान्तः ? यथाऽश्रावणः शब्द इति प्रत्ययोऽप्रत्यक्षं तथेदमपीति । स्यान्मतं कल्पनात्मकत्वादिभ्यो हेतुभ्योऽनुमानज्ञानं तर्हि चक्षुरादिविज्ञानं भविष्यतीत्यत्रोच्यते अनुमानज्ञानमपि तन्न प्रतिपूर्यते सम्बद्धगृहीतस्यान्यथा प्रतिपत्तेः, यथा विरुद्धादिज्ञानम् । (अनुमानज्ञानमपीति) कर्मकर्त्तर्यात्मनेपदम् , यत् व तत्प्रतिषेधान्न प्रतिपूर्यते इति 15 रूपम् ? यथाऽयमोदनो विपन्नत्वात् पूतिमांसवदात्मानं न भोजयति न भुज्यते स्वयमेव तथेदमपि ज्ञानमात्मानमपि न पूरयति न प्रतिपूर्यते, कस्माद्धेतोः ? सम्बद्धगृहीतस्यान्यथाप्रतिपत्ते, सम्बद्ध एव गृहीतस्तस्य सम्बद्धगृहीतस्यान्यथाप्रतिपत्तेः तस्य ज्ञानस्यान्यथाप्रतिपद्यमानसम्बद्धगृहीतार्थत्वादित्यर्थः, यद् ज्ञानं सम्बद्धमेवार्थ गृहत्तमेवार्थमन्यथा प्रतिपद्यते तज्ज्ञानं नानुमानमपि सम्पूर्ण भवति, तद्यथा विरुद्धादिज्ञानम् , यथा कृतकत्वान्नित्यः शब्द इति पक्षधर्मज्ञानं शब्दसम्बन्धे घटादिष्वनि- 20 त्यानुगमसम्बद्धं गृहीत्वा नित्यं शब्दं प्रतिपद्यमानं विरुद्धहेत्वाभासज्ञानं भवति, आदिग्रहणात् प्रमेयश्रावणत्वद्वारं नित्यज्ञानं वा शब्दविषयमनैकान्तिकाभासं यथा तथेदमपि न सम्पूर्णमनुमानमपीति । परिग्रहात्मकस्तस्य भावस्तस्मादिति विग्रहः । सदसदिति, सन्तः परमाणवोऽसन्सञ्चयस्तेषाममेदरूपेण परिग्रह इत्यर्थः । अनन्तरोक्तेषु हेतुष्विति, सर्वथा साधारणार्थत्वादन्वयव्यतिरेकार्थविषयत्वात् सामान्यविशेषात्मकार्थविषयत्वादित्यादिहे. तुषु तदतद्विषयवृत्तता वर्तते, अत एवैते हेतवः प्रत्यक्षज्ञानस्य कल्पनात्मकत्वं साधयन्ति, ततश्च कल्पनात्मकत्वे सिद्धे तज्ज्ञा- 25 नस्याप्रत्यक्षत्वं तेन सिद्ध्यतीति भावः । अथ कल्पनापोढज्ञानस्याप्रत्यक्षत्वे कारणान्तरमाह-इतश्चेति। नीलादिप्रत्यक्षं न प्रत्यक्ष कारणं विना जातज्ञानत्वात् , अश्रावणः शब्द इति प्रत्ययवदिति मानम् । तस्य हि प्रत्यक्षस्य परमाणुर्वा सञ्चयो वा : भवतां कारणत्वेनाभिमतः, स च न सम्भवति, परमार्थसतः परमाणोरतीन्द्रियत्वेन प्रत्यक्षकारणत्वायोगात्, संवृतिसतः सञ्चयस्य चासत्त्वादेवाकारणत्वात् , अतोऽप्रत्ययप्रत्ययात्मकं तदिति भावः कर्मकर्तरीति, यदा सौकर्यातिशयं द्योतयितुं कर्तृव्यापारो न विवक्ष्यते तदा कर्मादिकारकान्तराण्यपि कर्तृसंज्ञां लभन्ते स्वव्यापारे वतन्त्रत्वात्, तदा सकर्मकेभ्यः 30 कर्तरि ह्यात्मनेपदादयो भवन्ति पूरी आप्यायने चुरादिः, प्रत्यक्षज्ञानमात्मानं न पूरति, तदनुमानज्ञानं प्रेरयतीति अनुमानज्ञानं प्रत्यक्षज्ञानमात्मानं न पूरयति, तत्र कर्मणः प्रत्यक्षज्ञानस्य कर्तृत्वविवक्षायां कर्मस्थक्रियया तुल्यक्रियत्वात् प्रत्यक्षज्ञानमात्मानं न प्रतिपूर्यते इत्यात्मनेपदादयः अत एवाग्रे तज्ज्ञानं नानुमानमपि सम्पूर्ण भवतीति भावार्थो वर्णित इति । यथा कृतकत्वादिति, कृतकत्वं हि अनित्यत्वेन सम्बद्धं तथैव गृहीतं तद्गृहविज्ञानं यदि शब्दं नित्यत्वेन प्रतिपादयति तदा तज्ज्ञा __ 2010_04 Page #130 -------------------------------------------------------------------------- ________________ द्वादशारनयचक्रम् [विध्यरे अथवा तिष्ठतु तावत् स्वलक्षणमात्रविषयप्रत्यक्षत्वस्य प्रत्यक्षविधिविधानाभ्युपगमेन विरोध इति, इह तु चक्षुर्विज्ञानसमङ्गीत्येतदेव तु न घटते। (अथवेति) अथवा तिष्ठतु तावद्यावत् प्रत्यक्षविषयत्वाभ्युपगमविरोध इति स्थितम् , तावद्वस्तु विदूरस्थेनागमेनाभ्युपगतेन प्रत्यक्षविषयत्वस्य विरोध इत्येतत्-इदमेवास्मिन् प्रकरणे यदुदाहृतं 5 तश्चक्षुर्विज्ञानसमङ्गीत्यादि तदेव न घटत इति वाक्यार्थः । प्रत्यक्षस्य विधिः-प्रत्यक्षस्य जन्म, तस्य विधानं-व्याख्यानं सञ्चितालम्बनाः पञ्चविज्ञानकाया इति, स एवाभ्युपगमः, प्रत्यक्षविधिविधानाभ्युपगमः, स्वलक्षणमात्रविषयप्रत्यक्षत्वमेव-खलक्षणमात्रं विषयो यस्य तत्स्वलक्षणमात्रविषयं, किं तत् ? प्रत्यक्षं तस्य भावः स्खलक्षणमात्रविषयप्रत्यक्षत्वं तस्य प्रत्यक्षविधिविधानाभ्युपगमेन विरोधः समनन्तर प्रन्थोपपादितः स स्थित एव । चनुर्विज्ञानमित्येतदेव तु न घटते, तुशब्दो विशेषणे, किं विशि10 नष्टि ? पूर्वस्माल्लक्षणवाक्यादागमस्यास्याशुद्धतरतां विशिनष्टि, चक्षुषः चक्षुषि चक्षुषा वा विशिष्टं ज्ञानं विज्ञानमसाधारणविषयं तत्समङ्गति समन्वेतीति चक्षुर्विज्ञानसमङ्गी कः ? सन्तानः, विज्ञानस्य तदर्थेकगमनात् तद्वारेण तत्सन्तानोऽपि समंगीत्युच्यते तत्समङ्गिनो नीलविज्ञानं तदेव प्रत्यक्षं कल्पनापोढमनिर्देश्यं खलक्षणविषयमित्यादिवचनं तेन लक्षितस्योदाहरणमिदं तदिति प्रत्यक्षीकरणं प्रदर्शनम् यथा 'वृद्धिरादैजि' (पाणि० अ० १ पा० १ सू० १) त्युपलक्षितस्यैव लावन इत्युदाहरणम् । 15 कथं पुनस्तन्न घटते ? तत आह एवं ते सञ्चयस्य तब्रहणे तत्प्रत्यक्षत्वाद्रूपमात्रत्वात् सश्चितालम्बनकल्पनावैयर्थ्यम् । एवं ते सञ्चयस्येत्यादि यावत्सञ्चितालम्बनकल्पनावैयर्थ्य मिति, एवं ते उदाहरणत्वेनेष्टौ सत्यां सञ्चयस्य रूपमात्रत्वात्, किं भवति ? सञ्चितालम्बनकल्पनावैययं स्यादित्यभिसम्भत्स्यते, रूपमात्रत्वं सञ्चयस्य कुतः ? तद्हणे तत्प्रत्यक्षत्वात् , यद्हे यस्य प्रत्यक्षत्वं तत्तावन्मात्रमेव दृष्टं यथा 20 दाहप्रहे दाहप्रत्यक्षत्वे दाहमात्रमेव नातोऽन्योऽर्थ इष्टः, एवं सञ्चयग्रहे नीलरूपमात्रमेव अतः किं ? सञ्चितालम्बनकल्पनावैयर्थ्यम् , सञ्चयाभावात् सञ्चयाभावो रूपमात्रत्वात् सञ्चितालम्बनकल्पनावैय. या॑चोदाहरणमेव तु न घटते चक्षुर्विज्ञानसमङ्गीत्यादि ।। अतन्मात्रत्वे संवृतिसत्त्वात्सञ्चयस्यारूपत्वं खरविषाणवदित्यचक्षुर्विषयो रूपम् , ततो नस्य विरुद्धहेत्वाभासज्ञानरूपतया नानुमानं पूरयतीति, एवं प्रमेयत्वश्रावणत्वलक्षणानैकान्तिकहेत्वाभासज्ञानमपि शब्दनित्य20 त्वानुमानं न पूरयतीति प्रमेयत्वं साधारणानैकान्तिकं श्रावणत्वमसाधारणानैकान्तिकमिति विज्ञेयम् । अथवा तिष्ठत्विति, अभिधमोगमानुपलम्मेन यथाशक्ति प्रन्थमिदं पृथक् क्रियते स्खलक्षणविषयत्वे प्रत्यक्षस्याभ्युपगम्यमाने सञ्चितालम्बनाः पञ्चविज्ञानकाया इत्यागमेन विरोधो य उद्भावितः स तिष्ठतु कल्पनापोढखलक्षणविषयस्य प्रत्यक्षत्वे चक्षुर्विज्ञानसमझी नीलं विजानाती त्याधुदाहरणवाक्यं तु न घटत एवेति भावः । पूर्वमादिति, प्रत्यक्षं कल्पनापोढमनिर्देश्यं खलक्षणविषयमिति पूर्वोक्तलक्षण वाक्यादित्यर्थः । अस्यागमस्य-चक्षुर्विज्ञानसमङ्गीत्याद्यागमस्य । विज्ञानस्येति, विज्ञानमसाधारणं खलक्षणमेव समन्वेतीति 30 खलक्षणद्वारेण खसन्तानमपि समन्वेतीति सन्तानश्चक्षुर्विज्ञानसमझी भवति । इदं तदिति, इदं नीलविज्ञानं तत् चक्षुर्विज्ञानसमश्रीति प्रदर्शनमुदाहरणमिति भावः। अतन्मात्रत्वे सञ्चयस्य रूपमात्रत्वानभ्युपगमे सञ्चयस्यैव प्रहणात्तस्य च संवृतिसत्त्वेन परमाथेसबूपखरूपासम्भवाद्रूपस्याग्रहणाचक्षुर्नैव चक्षुः स्यानूपाप्राहकत्वात् सञ्चयस्यापि रूपानात्मकतया चक्षुषा ग्रहणं न स्यादिति भावः। 2010_04 Page #131 -------------------------------------------------------------------------- ________________ विज्ञानस्याविज्ञानत्वम्] न्यायागमानुसारिणीव्याख्यासमेतम् रूपस्याग्राहकत्वाच्चक्षुरचक्षुः श्रोत्रवत् , अथासञ्चितमेव परमाणुनीलरूपमिष्टं तथाप्यतीन्द्रियत्वादचक्षुर्विषयो रूपमित्युभयथापि रूपाग्राहित्वाद्धटादिवञ्चक्षुर्नैव चक्षुः स्यात् ।। ___ अतन्मात्रत्वे संवृतिसत्त्वादित्यादि यावदुभयथापि रूपाप्राहित्वाद्धटादिवत् , अथ मा भूदेष दोष इति न रूपमा सञ्चयः स एव च गृह्यत इतीष्यते ततः सञ्चयस्य संवृतिसत्त्वादरूपत्वं खरविषाणवत , संवृतिसत्त्वञ्च प्रागुपपादितम् , अरूपत्वाच्च न चक्षुर्माह्यः स्यात् सञ्चयो रूपादन्यत्वात् । शब्दवत् खपुष्पवद्वा, ततः को दोष इति चेदुच्यते चक्षुनैव चक्षुः स्यात् , रूपस्याग्राहकत्वात् घटवत् जिह्वावत्त्वग्वदित्यादि, कथं रूपस्याग्राहकं चक्षुरिति दृष्टप्रसिद्धिविरुद्धमुच्यत इति चेत् तवैव दृष्टप्रसिद्धिविरोधावापाद्यते मया, किं कारणं ? उभयथा रूपाग्राहित्वात्तस्य, यदि सञ्चयस्तथाप्यसन्नरूप एवेत्युक्तत्वादचक्षुर्विषयो रूपं ततो रूपस्याग्राहकत्वाञ्चक्षुरचक्षुः श्रोत्रवत्, अथासञ्चितमेव परमाणुनीलरूपमिष्टं तथाप्यतीन्द्रियत्वादचक्षुर्विषयो रूपमतो रूपस्याग्राहकत्वाच्च चक्षुर्न चक्षुः स्यादुक्तवदिति सूक्त- 10 मुभयथापि रूपस्याप्राहकं चक्षुरिति । एवं तावच्चक्षुर्विज्ञानसमङ्गीत्यत्र चक्षुषोऽचक्षुष्ट्वाच्चक्षुर्ग्रहणमनर्थकम् । विज्ञानग्रहणमप्यत एवानर्थकमित्यत आह विज्ञानमपि न विज्ञानं स्यात् , अन्यथाऽर्थप्रतिपत्तेरलातचक्रादिज्ञानवत् , न च चक्षुविज्ञानं समङ्गति चक्षुर्विज्ञानस्य रूपादन्यत्रासम्भवात् , न वा तत्सन्तानोऽन्यत्र सम्भवति, सञ्चयापेक्षो व्यभिचारोऽस्त्यतो विशेष्यत इति चेन्न, न हि सञ्चयो रूपमरूपत्वाच्चक्षुर्विज्ञान- 15 सङ्गत्यभावः । यदपि च तद्रूपं रूप्यत इति तद्विषयं तदेकगमनं चक्षुर्विज्ञानस्येति, तदपि नास्ति, अविषयत्वादन्येन्द्रियविषयवत्, सञ्चयविषयमपि चक्षुर्विज्ञानस्य समङ्गन न, संवृतिसच्चात् खपुष्पवत् । . विज्ञानमपि न विज्ञानं स्यादित्यादि यावत् खपुष्पवदिति, विशेषेण ज्ञान विज्ञानं तावद्भव- . दभिमतं प्रत्यक्षं मुख्यं विज्ञानं न स्यात् , इतरथा कथमाचार्यश्रीमल्लवादी विज्ञानं न स्यादिति स्ववचनविरोधं 20 मायेयदिनाविव ब्रूयात् । किं कारणं पुनर्विज्ञानं तन्न स्यात् ? अन्यथाऽर्थप्रतिपत्तेः, अरूपस्य सञ्चयस्य रूपत्वेन प्रतिपत्तेः, सञ्चयत्वेन वा रूपमात्रस्य प्रतिपत्तेः, को दृष्टान्तः ? अलातचक्रादिज्ञानवत्, यथोल्मुकाग्निकणमात्रमर्थं चक्रमिति प्रतिपद्यमानं न विज्ञानमेवं तदपि, आदिग्रहणात् स्थाणुपुरुषज्ञानवदि अथ रूपस्य सञ्चयानात्मकत्वे चातीन्द्रियत्वेनापि चक्षुर्ग्राह्यताऽनुपपत्तिरित्याह-अथासश्चितमेवेति । तथा च चक्षु व चक्षुः । रूपाप्राहकत्वात् , घटादिवत्, अत्रासिद्धिवारणाय रूपं न चक्षुाह्यमतीन्द्रियत्वात् , अतीन्द्रियत्वं सञ्चयानात्मकत्वात् , सञ्चयो न 25 रूपं संवृतिसत्त्वात् खरविषाणवदित्याद्यनुमानानि । दृष्टप्रसिद्धीति, चक्षुषा हि रूपं दृश्यते तदपवादे दृष्टविरोधः, रूपग्राहक चक्षुरिति प्रसिद्ध लोके तदनङ्गीकारे प्रसिद्धिविरोध इति रूपस्याग्राहकं चक्षुरिति न सूक्तं वचनमिति शङ्कार्थः । भवदभिमतमिति, अनेन विशेषणपूरणेन विज्ञानं विज्ञानं न स्यादिति खवचनविरोधप्रसङ्गो दूरीकृतोऽन्यथा यदि तद्विज्ञानं कथं तर्हि विज्ञानं न स्यात् , विज्ञानाङ्गीकारात् , यदि तन्न विज्ञानं कथं तर्हि विज्ञानं न विज्ञानमित्युच्यते, अनभिमतोपालम्भत्वादिति विरोधः स्यादिति : भावः।मायेयः-अद्वैती मायासूनवीयो वा, दिनभिक्षुः कश्चिद्वौद्धः । मुख्यमिति, प्रमाणभूतमित्यर्थः । तेन तस्य भ्रमात्मक- 30 त्वात् विज्ञानं न विशिष्ट ज्ञानमित्यर्थेन न विरोधः। तस्य विज्ञानत्वाभावे हेतुमाह-अन्यथाऽर्थप्रतिपत्तेरिति. अर्थस्य वस्तुतोऽरूपस्य सञ्चयस्य, अन्यथारूपत्वेन प्रतिपत्तानात् ,यद्वा वस्तुतोऽसञ्चयात्मकस्य रूपस्य सञ्चयत्वेन प्रतिपत्तेरिति भावः। यथेति, यथा उल्मुकाग्निकणमेवार्थ भ्रमन्तं भ्रान्तदृष्ट्या पुरुषेण चक्रमिति प्रतिपद्यमानं न विशिष्ट ज्ञानमुच्यत इत्यर्थः द्वा० न०११ 2010_04 Page #132 -------------------------------------------------------------------------- ________________ द्वादशारनयचक्रम् [विध्यरे त्यादि । एवं तावच्चक्षुरिति विज्ञानमिति च द्वयं दूषितं, चक्षुर्विज्ञानसमङ्गीत्यत्र समङ्गित्वमपि दूषयितुकाम आह-न च चक्षुर्विज्ञानं समङ्गतीति, तहारेण पुरुषाख्यसन्तानैकगमनं समङ्गनं ततस्तन्निषेधः, कस्मान्न समङ्गति ? चक्षुर्विज्ञानस्य रूपादन्यत्रासम्भवात् , न वा तत्सन्तानोऽन्यत्र सम्भवति, उक्तं हि "सति सम्भवे व्यभिचारे च विशेषणविशेष्यभाव' इति, सञ्चयापेक्षो व्यभिचारोऽस्त्यतो विशेष्यत 5 इति चेत्तन्न, यस्मान्न सञ्चयो रूपम् , अरूपत्वाच्चक्षुर्विज्ञानसङ्गत्यभावः । स्यान्मतं नीलरूपाव्यभिचारा देव तदेकगमनात् समङ्गीत्युच्यते चक्षुर्विज्ञानमित्येतञ्चायुक्तम्, तस्याप्यतीन्द्रियत्वाच्चक्षुर्विज्ञानाविषयत्वादरूपत्वम् । अभ्युपेत्यापि त्वन्मतेन यदपि च तद् रूपं रूप्यत इति रूपं चक्षुर्विज्ञानेन किल रूप्यत इति, तद्विषयं स विषयो यस्य तत्तद्विषयं, कि ? तदेकगमनं कस्य ? चक्षुर्विज्ञानस्य, तदपि नास्ति, कस्मात् ? अविषयत्वात् , अविषयत्वमतीन्द्रियत्वात् प्रस्तुतप्रत्यक्षस्य, अन्येन्द्रियविषयवत् , यथा 10 शब्दोऽन्येन्द्रियविषयश्चक्षुर्विज्ञानेन न समझ्यते तथा तदपि रूपमिति । स्यान्मतं सञ्चयश्चक्षुर्विज्ञानसङ्गतियोग्यः स्यादित्यत्र ब्रूमः, सञ्चयविषयमपि चक्षुर्विज्ञानस्य समङ्गनं न, अस्तीति वर्तते, कस्मादसत्त्वं १ संवृतिसत्त्वात् , खपुष्पवदिति, सङ्गमनाभावसाधम्र्येण दृष्टान्तः, एवं तावद्रूपं चक्षुर्विज्ञानं समङ्गतीत्येतानि दूषितानि । इदानीं नीलं विजानातीति च दूष्यम् , तत्र नीलं पदार्थतो दूषितमेव विजानातीति च दूषित16 मेव पदार्थतः रूपचक्षुर्विज्ञानानां संगतेश्च दूषितत्वात् , मा भूदक्षरस्थानं दूषणशून्यमिति कृत्वा वाक्यार्थतोऽपि दूज्यते नीलविज्ञानसम्बन्धी न भवति तत्सन्तानः, तदाकारज्ञानोत्पत्तिहेत्वभावात्, अदग्धस्य दाहाज्ञानवत् । (नीलेति) स आकारोऽस्येति तदाकारं ज्ञानं नीलाकारं तस्योत्पत्तिस्तदाकारज्ञानोत्पत्तिः 20 तस्या हेतुः सञ्चयो नीलरूपं वा स्यात् , उभयमपि तन्न भवत्युक्तविधिनैव, तस्मात्तदाकारज्ञानोत्पत्ति हेत्वभावात् , को दृष्टान्तः ? अदग्धस्य दाहाज्ञानवत् , यथाऽदग्धस्य दाहानुभवज्ञानं तदाकारज्ञानो. त्पत्तिहेत्वभावान्नास्ति तथा नीलज्ञानसम्बन्धी न भवति तत्सन्तान इति । एवं नीलरूपतत्सञ्चययो. रन्यतरविषयत्वेऽष्टौ दोषा उक्ताः । न च चक्षुर्विज्ञान मिति, चक्षुर्विज्ञानं खलक्षणं समन्वेति, विज्ञानस्य स्खलक्षणमात्रे गमनात्, तद्वारेण च सन्तानमपि 26 समन्वेतीति यदुक्तं तदयुक्तं, कुत इति चेत् समङ्गित्वस्य व्यर्थत्वात् , न हि चक्षुर्विज्ञानं रूपं सन्तानं मुक्त्वाऽन्यत्र याति येनाति प्रसक्तिवारणाय चक्षुर्विज्ञानसमङ्गित्वयोर्विशेषणविशेष्यभावोऽङ्गीक्रियेत, न च सञ्चयेऽपि चक्षुर्विज्ञानमस्तीति तद्वारणाय समङ्गित्वमिति वाच्यम् , तस्यारूपत्वादिति भावः । नन्वव्यभिचारेण नीलरूपेण सह चक्षुर्विज्ञानस्यैकगमनाचक्षुर्विज्ञानसमझीत्युच्यते न व्यभिचारादिवारकं समङ्गित्वमित्याशङ्कते-स्यान्मतमिति, नीलरूपमपि न रूपमतीन्द्रियत्वेन चक्षुर्ग्राह्यत्वाभावादिति समा. धत्ते-तस्यापीति । तस्य रूपत्वमभ्युपेत्याप्याह-अभ्यपेत्यापीति । यथा खपुष्पे चक्षुर्विज्ञानस्य समङ्गनं नास्ति तथा सञ्च30 येऽपि नास्तीति समङ्गनाभावसाधर्येण खपुष्पदृष्टान्त उद्भावितो न तु संवृतिसत्त्वसाधात् खपुष्पादेः संवृतिसत्त्वस्याप्यन• जीकारादित्याशयेनाह-सङ्गमनाभावेति।पदार्थों वाक्यार्थश्चाक्षरस्थानम् , उभयरूपेणाक्षरेभ्योऽर्थप्रतिपत्तेः, नीलविज्ञानादिपदार्थानां निराकरणेऽपि वाक्यार्थानिराकरणे तत्स्थानं दूषणशुन्यमिति कश्चिदभिमन्येतेति तदपि दूषयितुमाह मा भूदिति । नीलसन्तानो न नीलविज्ञानसम्बन्धी, नीलाकारज्ञानोत्पत्तिहेत्वभावात् , अदग्धस्य दाहाज्ञामवदिति प्रयोगः, नीलसन्तानस्य नीलखरूपेण सञ्चयरूपेण वा तदाकारज्ञानोत्पत्ती निमित्तत्वाभावस्य पूर्वमेवोक्तत्वादित्याशयेनाह-तदाकारक्षानेति। ननु 2010_04 . Page #133 -------------------------------------------------------------------------- ________________ रूपादीनामेकता ] न्यायागमानुसारिणीव्याख्यासमेतम् इदानीं प्रत्येकं त एव समुदिता इत्युभयैकविषयत्वे दोषं वक्तुकामः पक्षान्तरं ग्राहयति---- नीलश्च सञ्चयञ्च प्रत्येकसमुदितकारणत्वाद्विज्ञास्यतीति चेन्न युगपज्ज्ञानासम्भवात् । ( नीलश्चेति ) स्यान्मतं त एव हि नीलपरमाणवः प्रत्येकं शिबिकोद्वाहन्यायेन समुदिताश्च कारणं न चैकैकः, न च समुदायस्तद्व्यतिरिक्तोऽस्तीत्युभयकारणत्वं ज्ञानस्य, तस्माज्ज्ञानोत्पत्तिहेत्वभावासिद्धिरित्येतन्न, युगपज्ज्ञानासंभवात्, द्वयोरर्थयोर्युगपदेव ज्ञानाभावादेकैकस्मिंश्चार्थे युगपज्ज्ञान- 5 योरभावात् भवता यथोक्तम् "विजानाति न विज्ञानमेकमर्थद्वयं यथा । एकमर्थं विजानाति न विज्ञानद्वयं तथा ॥” इति । स्यान्मतं हस्तेनानेकबदरामलकाद्यर्थग्रहणवत् स्यादित्येतश्चायुक्तम्, ज्ञानस्य क्रियावैधर्म्यात्, ज्ञानं च प्रत्यक्षमुच्यते कल्पनाया ज्ञानव्यभिचारात् प्रत्यक्षं कल्पनापोढं यद् ज्ञानमर्थे रूपादाविति वचनादेवं रूपरूपसमुदाययोर्नानात्वे दोषः । " यद्यपि स्यात्तयोरेकज्ञानत्वादेकज्ञेयत्वं दाहानुभववत्, तस्मिन्नितरेतरत्वे सर्वसर्वात्म- 10 वादिता, समुदायानर्थान्तरत्वाद्रूपं समुदाय एव, समुदायस्वरूपवत्, समुदायो वा रूपमेव, रूपानर्थान्तरत्वात् रूपस्वरूपवत्, तस्मादैक्ये सति समवायग्रहणे हि प्रत्येकैकनीलग्रहणं स्यात्, एकनीलवालग्रहणेऽपि च सर्वनील केशपाशग्रहणम्, एकनीलात्मकत्वात् समुदायस्य । ( यद्यपीति) यद्यपि स्यात्तयोरेकज्ञानत्वादेकज्ञेयत्वं - एकं ज्ञानमनयोरित्येकज्ञाने, तयोरेकज्ञानत्वादेक एव ज्ञेयस्तद्भाव एकज्ञेयत्वं, दाहानुभववत्, तस्मिन्नेकज्ञेयत्वे इतरेतरत्वे अन्योऽन्यात्मापन्नत्वे 15 सति सर्वसर्वात्मवादिता, कथं ? समुदायानर्थान्तरत्वात् रूपं समुदाय एव समुदायस्वरूपवत्, समुदायो वा रूपमेव रूपानर्थान्तरत्वात् रूपस्वरूपवत्, एवं रसादिघटादिरूपादिसमुदायान्तराभिमतार्थानामनर्थान्तरत्वात् सर्वसर्वात्मकत्ववादिता, तस्मात् - सर्वपरमाणुनीलानां सयानर्थान्तरत्वादैक्ये सति समवायग्रहणे - युवतिकेशपाशसमुदाये गृह्यमाणे, हिशब्दो यस्मादर्थे, यस्मात्सर्वनीलैक्यं तस्मादेकमेव नीलं रूपमेककेशगतं गृह्येत, एकमेकं प्रति प्रत्येकं प्रत्येकैकनीलग्रहणं स्यात्, एकनीलवालग्रह - 20 णेsपि च सर्वनील केशपाशग्रहणमेकनीलात्मकत्वात् समुदायस्य । ततश्च यथात्र सन्द्रावात्सर्वनीलैकता तथा रूपादिपञ्चकस्यापि सन्द्रावादेकता गुण 2010_04 ૮૨ प्रत्येकं नीलाणव एव समुदिताः कारणं भवन्तीति तदाकारज्ञानोत्पत्तिहेत्वभावलक्षणो हेतुरसिद्ध इत्याशङ्कते - स्यान्मतमिति । द्वयोरर्थयोरेकदैकेन ज्ञानेन ग्रहणासम्भवात्, एकैकस्मिंश्चार्थे एकदा प्रत्येकसमुदायविषयविज्ञानद्वयासम्भवान्नीलसञ्चययोर्ज्ञानं न सम्भवति, नीलस्यातीन्द्रियत्वात् सञ्चयस्य संवृतिसत्त्वादित्याशयेनोत्तरयति - युगपदिति । एतदर्थविषयकतदीयगाथामाह - 25 विजानातीति, स्फुटार्था चेयम् । ज्ञानस्येति, ज्ञानस्य ग्रहणक्रियातो विलक्षणत्वादित्यर्थः अथ नीलाणुसमुदाययोर्ना नात् दोषमभिधाय तयोरेकज्ञानविषयत्वादेकज्ञेयत्वमित्येकत्वेऽपि दोषं वक्तुमाह-यद्यपीति । तयोः - नीलतत्सञ्चययोः । इतरेतरत्वे नीलस्य नीलतत्सश्चयरूपत्वेन सञ्चयस्य वा नीलतत्सभ्चयरूपत्वेनैकज्ञेयत्वे सांख्यमतप्रवेशापत्तिरिति भावः । तथात्वेऽपि दोषमाह - तस्मादैक्ये सतीति । कर्मधारयसमासे तत्पदग्रायनीलसंचययोर्ज्ञानात्मकतया तत्रैकज्ञानत्वमसिद्धमिति बहुवीहिमाह - एकं ज्ञानमिति तयोर्भावः एकज्ञानत्वमिति पूरणीयम् । उक्ताशङ्कानिरासायार्थमाह - तस्मिन्निति । अनेककेशपाशग - 30 तानां नीलानामेककेशगतनीलेनामेदादैवये एककेशगतमेव नीलरूपं गृह्येत, एवमेवान्यान्यकेशगतानि नीलरूपाणि पृथक् . पृथकू गृह्येरन्, एकनीलग्रहणेऽपि च सर्वकेशपाशग्रहणं प्रसज्येतेत्याह- यस्मादिति । सर्व सर्वात्मकत्ववादितामेव स्फुटयति- ततश्चेति । सन्द्रवणं सन्द्रायः-समुदायः, यथा प्रकृते नीलसमुदायो नीलमेघ, मीलानर्थान्तरस्वात् तथा रूपरसादीनां समुदा Page #134 -------------------------------------------------------------------------- ________________ द्वादशारनयचक्रम् [विध्यरे त्वात् नीलैकत्ववत् , ततश्च गुणसन्द्रावद्रव्यत्वात् सर्वथा पृथिव्यादीनाम् , तेषामपि रूपादिपरमार्थत्वादिति सर्वसर्वात्मकत्वं विशेषकान्तवादिनोऽप्यविशेषकान्तवादिन इव ।। . (ततश्चेति) ततश्च यथाऽत्र सन्द्रावात्सर्वनीलैकता-गुणसन्द्रावो द्रव्यं नार्थान्तरं, संहत्य सर्वनीलगुणा एकतामापन्नास्तथा रूपादिपञ्चकस्यापि-रूपरसगन्धस्पर्शशब्दपञ्चकस्यापि सन्द्रावादेकता, स्यादिति वर्त्तते, कस्माद्धेतोः ? गुणत्वात् धर्मत्वादित्यर्थः, न हि वैशेषिकवद्गव्यगुणभेदोऽस्तीति कृत्वा दृष्टान्तो नीलैकत्ववत् यथा सर्वनीलानां गुणत्वाद्धर्मत्वादेकत्वं तथा रूपरसाद्येकत्वम्, ततश्च सन्द्रावसिद्धौ गुणानां रूपायैक्ये सति को दोषः ? उच्यते गुणसन्द्रावद्रव्यत्वात्-गुणानां संहतिमात्रमेव यस्माइन्यं तस्मात् सर्वथा पृथिव्यादीनां पृथिव्यप्तेजोवाय्वादीनाम् , एकत्वमिति वर्त्तते, किं कारणं ? तदेव रूपाद्यकत्वं कारणम् , तत आह-तेषामपि रूपादिपरमार्थत्वादिति, रूपादय एव पर10 मार्थों गुणसन्द्रावद्रव्यत्वात्तेषाश्चैक्यमतःपृथिव्यप्तेजोवायुघटपटसरित्समुद्रज्योतिरादेः सर्वस्य लोकस्य तदात्मकत्वादैक्यं प्राप्तमिति, तदुपसंहृयैवाह-सर्वसर्वात्मकत्वमित्यतः साधूच्यते सर्वसर्वात्मवादितैव विशेषकान्तवादिनोऽप्यविशेषकान्तवादिन इवेति । अविशेषैकान्तवादिनमतिशेते च विशेषकान्तवादीति तद्व्याचिख्यासुराह गुणसन्द्रावात्मकद्रव्यत्वापादनाय तु सञ्चयस्य सन्द्रावातिशयो मायोपमः, सञ्चिता15 नामसञ्चितानाश्च प्रागनभ्युपगमात् , अवश्यञ्चैतदेवमभ्युपगतम् , आगम एवोक्तं हि वः 'सङ्घाता एव सङ्घातान् स्पृशन्ति सावयवत्वादिति, तत्र परस्पर्शनिरूपणे सर्वात्मस्पर्शनास्पर्शनयोर्दोषापादनेन निर्धारितं सङ्घाताः सङ्घातान् देशेन स्पृशन्ति देशमेवेति, सोऽपि स्पर्शो न सञ्चयादृते सम्भवति । गुणसन्द्रावात्मकद्रव्यत्वापादनाय त्वित्यादि यावन्न सञ्चयादृते संभवतीति, तु20 शब्दो विशेषणार्थः, किं विशिनष्टि ? रूपादीनामैक्यापत्तेः प्राक् पृथक्स्वरूपैस्तैः शब्दादिभिराहकारिकैराकाशाद्यारम्भाभ्युपगमवादिनामविशेषकान्तवादिनां कदाचिदसश्चिताः सन्त्यपि रूपादय इति प्रक्रिया, विशेषकान्तवादिनान्तु सञ्चिततयैक्यापत्तिरेव, पृथगसश्चितरूपाद्यनभ्युपगमात् सर्वसर्वात्मकवादातिशय इति विशिनष्टि । व्याख्यातार्थसन्द्रावातिशयो मायोपमः, सञ्चितालम्बनाभ्युपगमात् रूपादिपरमाणूनामिति ग्रन्थात्तत्सश्चयत्वम् , कारणत्वप्रदर्शनार्थमाह-सचितानामसञ्चितानां प्रागनभ्यु 26 यस्याप्येकता स्यादित्याह-यथाऽति । गुणसमुदायात्मकमेव द्रव्यं न ततो व्यतिरिक्तं धर्मिभूतं द्रव्यमस्ति येन गुणगुणिभावो भवेदत आह-न हीति । एवमेव पृथिव्यादीनामप्येकत्वं वस्तुतस्तेषां रूपादिसमुदायादभिन्नत्वादेवञ्च सर्वसर्वात्मकत्ववादितैव विशेषवादिनोऽपीत्याह-गुणसन्द्रावेति। अविशेषवाद्यपेक्षया विशेषवादिनोऽतिशयमाह-गुणसन्द्रावेति । अविशेषवादाविशिष्टतामाह-रूपादीनामिति । तन्मते हि प्रकृतेर्महान् महतोऽहङ्कारस्तस्मादेवादशेन्द्रियाणि पश्चरूपादितन्मात्राणि तन्मा त्रेभ्यः पृथिव्यादिपञ्चभूतानि भवन्ति, तानि च भूतानि गुणसमुदायात्मकान्येव, तथा च कारणभूततन्मात्राणामसञ्चितानां 30 भूतसृष्टिपूर्व सत्त्वमस्ति, विशेषैकान्तवादे चासञ्चितरूपादेः कदाप्यनभ्युपगमाद्विशिष्टतेति भावः । व्यावर्णितः सन्द्रावातिशयो वस्तुतो मायासदृश एव, असञ्चितानां परमाणुरूपाणां क्वचिदप्यभावात् , सञ्चयश्च त्वदीयग्रन्थेष्वभ्युपगत इत्याह-व्याख्यातार्थेति ।मायोपमत्वे हेतुमाह-सञ्चितानामिति । परस्परं परमाणूना स्पर्शो न सम्भवति, न हि स देशेन, परमाणोनिरषयवस्वात, नापि सर्वात्मना, एकपरमाणुत्वप्रसङ्गात् तस्मात् प्रागसम्चिताः परमाणवस्ततः सवितालासमीभूता इति पहुँन 2010_04 Page #135 -------------------------------------------------------------------------- ________________ वाक्यार्थानुपपत्तिः] न्यायागमानुसारिणीव्याख्यासमेतम् पगमात्-प्रागसश्चिताः परमाणुरूपादयः पश्चात् सञ्चितालम्बनीभूता इति नाभ्युपगम्यते यस्मान्मायासूनवीयैः, अवश्यञ्चैतदेवं भवद्भिरभ्युपगतमेतदिति तदर्थोपदर्शनार्थमाह-आगम एवोक्तं हि वः, हि शब्दो यस्मादर्थे, यस्मादुक्तं वः सिद्धान्ते, किमुक्तं ? संघाता एव संघातान स्पृशन्ति सावयवत्वादित्युक्तम् , 'किं परमाणवः परस्परं स्पृशन्ति ? स्पृशन्तोऽपि किं देशेन देशं स्पृशन्ति सर्व वा संघाता वा संघातान् स्पृशन्तो देशेन वा देशं सर्वं वा स्पृशन्ती'ति परप्रश्नोपक्रमः, तत्र परस्पर्शनिरूपणे इत्यादि, सर्वा- 5 त्मस्पर्शनास्पर्शनयोर्दोषापादनेन निर्धारितं संघाताः संघातान् देशेन स्पृशन्ति देशमेवेति । यदि परमाणुं स्पृशेद्देशाभावात् सर्वात्मना स्पृशेत् ततश्च तत्प्रवेशेन पिण्डोऽणुमात्रकः स्यात् प्रतिघातत्वहानश्वास्य स्यात्, तथा संघातोऽपीति सर्वात्मना स्पर्शाभावः, अस्पर्शनेऽपि च सप्रतिघत्वाद्यभावः परमाणुषु वाऽविद्यमानः प्रतिघातः सिकताविवासत्तैलं तत्संघातेऽपि न स्यात् , स च दृष्टः संघाते, तस्मान्नास्त्यस्पर्शनं परमाणूनां तत्संघातानाच, तस्मात्संघाता एव संघातान् देशेन स्पृशन्ति, आदिग्रह- 10 णाद्गतिप्रतिबन्धाभावदोषस्तेषां स्यात् , तत एव संघाताभावादालम्बनाभावः स्यादित्यादिदोषापत्तेर्देशस्पर्श एवोपात्तः । सोऽपि च स्पर्शो न सञ्चयाहते सम्भवति कथञ्चिदिति साधूच्यते सन्द्रावातिशयो मायोपम इति । ___ एवं च नीलं विजानातीति वाक्यं संवदत्यर्थतः केनार्थेन कतमत् ? यत्तूक्तं नो तु नीलमित्येतदेवैकं संवदति नान्यत् किञ्चित् , कदाचिदपि नीलपरमाण्वाकारनियतज्ञानो- 18 त्पत्तिहेतुत्वाभावात् , समुदायस्य चानीलत्वात् । (एवञ्चेति) एवं च नीलं विजानातीति वाक्यार्थोऽपि न घटत इत्युक्तम् , एतत्तु तस्मिन्नभिधर्मे प्रत्यक्षलक्षणोदाहरणवाक्यं संवदत्यर्थतः केनार्थेन कतमत् ? यत्तूक्तं नो तु नीलं विजानातीति तु वर्त्तते, अमानोनाः प्रतिषेधे, नीलं न विजानातीति, एतदेवैकं संवदति नान्यत् किञ्चित् , किं कारणं ? कदाचिदपि नीलपरमाण्वाकारनियतज्ञानोत्पत्तिहेत्वभावात् , ये तावत् परमाणवो नीला उच्यन्ते 20 तेषां कदाचिदपि नीलाकारनियतस्य ज्ञानस्योत्पत्तौ हेतुत्वं न भूतं न भवति न भविष्यति चातीन्द्रियत्वादतोऽसौ त्वदभिमतचक्षुर्विज्ञानसमङ्गी न कदाचिन्नीलं विजानातीति सुनिश्चितोपपत्तिकं वचः । शक्यते, अत एव च सञ्चयस्यासम्भवात् परमाणुसन्द्रावाभ्युपगमलक्षणोऽतिशयो बौद्धानां मायोपम इत्याशयेनाह-प्रागसञ्चिता इति । नन्वस्माभिः सञ्चयो नाभ्युपगम्यते येन मायोपमता भवेदित्याशङ्कायामाह-आगम एवोक्तमिति । सङ्घाता एवेयेवकारेण परमाणूनां निरासः। यदि परमाणमिति, पिण्डादिलक्षणसंघातो यदि परमाणु सर्वात्मना स्पृशेत्तर्हि तत्र 25 सङ्घातस्यान्तःप्रविष्टतयाऽणुमात्रक एव पिण्डः स्यात् तथा पिण्डस्य प्रतिघातत्वहानं स्यात् परमाणोरप्रतिघत्वादिति भावः । अथ परमाणु सङ्घातो न स्पृशतीति नापि वक्तुं शक्यम्, प्रतिघाताभावप्रसङ्गादेव, नहि प्रत्येकं परमाणुष्वसतः प्रतिघातस्य सङ्घाते सम्भवः सिकतासु तैलमिवेत्याह-अस्पर्शनेऽपि चेति । तथा सङ्घातः सङ्घातं न सर्वात्मना स्पृशति, सङ्घातद्वयस्य दृष्टप्रतिघातानुपपत्तेः, गतेः प्रतिबन्धाभावापत्तेश्च, तथा च व्यणुकादिसंघातानामप्रतिहतगतीनां स्थूलसङ्घातरूपतानापत्त्या प्रत्यक्षादिज्ञानालम्बनत्वानुपपत्तिः स्यादतः सङ्घाता एव सङ्घातान् देशेन स्पृशन्तीति भावः । सञ्चयस्य मायोपमत्वादेव नीलं 30 विजानातीत्युदाहरणवाक्यं केनापि रूपेण कमप्यर्थ न संवदतीत्याह-एवञ्चेति, सञ्चयस्य मायोपमत्वे चेत्यर्थः । चक्षुर्विज्ञानसमझी नीलं न विजानाति इत्येतदेवैकं वाक्यं सङ्गतार्थकमित्याह-यत्तूक्तमिति । अविज्ञाने हेतुमाह-कदाचिदपीति, भीलपरमायाकारनियतस्य शानस्योत्पत्ती भीलपरमाणूनो कालत्रयेऽपि हेतुत्वं न समच्छत इति भाषः । सचयस्य हेतुता निरा. 2010_04 Page #136 -------------------------------------------------------------------------- ________________ द्वादशारनयचक्रम् [विध्यरे स्यान्मतं सञ्चयस्येन्द्रियविषयत्वान्नीलात्मकत्वाच्च तस्य नीलं विजानाति इत्येतच्चायुक्तं समुदायस्य चानीलत्वात् , यदि समुदाये संवृतिसति नीलत्वं स्यात् स्यात्तदेवम् , न पुनरभावस्य नीलताऽस्तीति न विजानाति नीलमित्येतदेवात्र सुभाषितमिति । . __स्यान्मतं न विजानीयान्नीलं यद्येकं परमाणुमतीन्द्रियं पश्यतीति ब्रूयात् , तत्समुदाय वा 5 खपुष्पस्थानीयमिति, किं तर्हि ? तानेव परमाणून प्रत्येकं भिन्नान् संहतान् सर्षपप्रचयवदेकस्थान् पश्यतीत्येतञ्चायुक्तम् भेदतत्त्वाभिमतप्रत्येकसमुदायपरिग्रहेऽपि न नीलं विजानाति, तेषामितरेतरनीलत्वेनानीलत्वात् , जात्याकारादिना अतद्रूपत्वात् परमार्थसन्नीलपरमाणुरेव ।। भेदतत्त्वाभिमतेत्यादि, भेदा एव तत्त्वं भेदतत्त्वं, तद्भावस्तत्त्वं, भेदतत्त्वमित्यभिमताः, 10 प्रत्येकं त एव समुदायः, न समुदायप्राधान्यम् , किं तर्हि ? भेदप्रधान एव समुदायः-प्रत्येकसमु दायः सन् , तत्परिग्रहेऽपि-भेदस्वरूपपरस्परविशिष्टसमुदायपरिग्रहेऽपि शिबिकोद्वाहकन्यायेन प्रत्येकमसामर्थेऽपि तत्प्रधानसमुदाये नीलज्ञानोत्पत्तिहेतुसामर्थ्यमस्त्वित्येतस्मिन्नपि च पक्षे परिगृह्यमाणे नीलाभावान्न नीलं विजानाति, कस्मात् ? तेषामितरेतरनीलत्वेनानीलत्वात् , तानि नीलत्वानि हि प्रतिपर___माणु भिन्नानि स्वाश्रयपरमाणुतोऽन्यत्र न वर्तन्ते, स्वरसोत्पत्तिभङ्गवत्त्वादर्थान्तरासम्बन्धाच्च भावानाम् , 15 तस्मादितरस्य नीलत्वमितरत्र नास्ति, किं कारणं ? अतद्रूपत्वात् , तदेवं रूपं तद्रूपं न तद्रूपमतद्रूपं तद्भावोऽतद्रूपत्वं तस्मादतद्रूपत्वात् , न हि तन्नीलमितरस्य नीलरूपं भवति, यदि भवेत्तदेव तत्स्यात् तद्रूपत्वात् तद्वत्, न तु भवति । अथवा तत् रूपमस्य तद्रूपं, न तद्रूपम् तत्स्वरूपमित्यतद्रूपम् । केन रूपेण ? जात्याकारादिना, न हि तन्नीलमितरनीलरूपं जात्या नीलत्वलक्षणया सामान्यभूतया, आकारेण वा संस्थानविशेषेण वृत्तपरिमण्डलादिना । जातिरूपेणाकाररूपेण वा यत्स्यादनन्याकारयोर्नीलयोः पर20 माण्वोः तस्य तन्मतेन कस्यचिदनुपपत्तेरतद्रूपत्वमन्येन नीलं नीलान्तररूपेण नास्ति तद्वन्नीलान्तरमपि तद्रूपेण नास्ति, आदिग्रहणात् प्रथमक्षणदृश्यं द्वितीयक्षणदृश्यरूपं न भवति तदपीतररूपं न भवतीति, देशतोऽपि देशान्तरदृश्यं देशान्तरदृश्यरूपं न भवत्यतोऽनन्यत्वकरस्यानुपपत्तेरतद्रूपत्वम् , अनन्यकरत्वस्थानुपपत्तिरत्यन्तव्यावृत्तत्वादर्थस्यति परमार्थसन्नीलपरमाणुरेव । ते च परमाणवोऽत्यन्तमितरेतरव्यावृत्तासाधारणरूपाः कस्मात् ? द्रव्यसद्रूपत्वात् , 25 करोति-सञ्चयस्येति । ननु मेदोपसर्जनामेदप्रधानस्य परमाणूनां समुदाय इत्येवंरूपस्य सञ्चयस्य खपुष्पस्थानीयत्वेऽपि अमेदोपसर्जनभेदप्रधानस्य शिबिकोद्वाहकन्यायेन समुदितपरमाणूनां नीलाकारज्ञानोत्पत्तिहेतुत्वं सम्भवतीत्याशङ्कायामाह-मेदतत्त्वाभिमतेति । समुदिता ये नीलपरमाणवस्तेषु प्रत्येकं नीलत्वसत्त्वेऽपि तावत्परमाणुषु नीलत्वं नास्त्येव, नीलत्वस्य प्रत्येकपर्याप्तत्वात् । एकपरमाणुगतं हि नीलत्वं नान्यपरमाणुषु वर्त्तते, क्षणिकत्वेन द्वितीयादिक्षणगतान् समानक्षणवृत्तीन् वा न याति, अर्थान्तरासम्बन्धखरूपत्वात् , यद्येतन्नीलत्वं परमाण्वन्तरेऽपि स्यादेतत्परमाणुरेव स्यादेतद्रूपवदतःसमुदितपरमाणूनाम30 नीलत्वान्नीलाकारज्ञानोत्पत्तिहेतुत्वं नास्तीत्याह-नीलाभावादिति । एको नीलपरमाणुरन्येन नीलपरमाणुना जातिरूपेण वृत्तपरिमण्डलादिसंस्थानविशेषेण वा न भवति, तथाविधस्य तन्मतेन कस्यचिदनुपपत्तेरित्याह-अथ वेति । जातिपदेन द्रव्यमाकारपदेन भावो विवक्षितः, आदिना च कालक्षेत्रौ ग्राह्यौ, यत्स्यादिति, अनन्याकारयो लयोः परमाण्वोस्तद्रूपत्वं स्यादित्यर्थः । तस्य- तथाविधस्य । तदपि-द्वितीयक्षणदृश्यमपि, इतररूपं न भवति-प्रथमक्षणदृश्यरूपं न भवति । भत्यन्त. व्यावृत्तवादिति, खलक्षणस्य सजातीयविजातीयच्यावृत्तवादित्यर्थः । तदेवाह-ते घेति । द्रव्यसद्रूपत्वादिति, 2010_04 Page #137 -------------------------------------------------------------------------- ________________ वाक्यार्थान्तरकथनम् ] न्यायागमानुसारिणीव्याख्यासमेतम् द्रव्यसतो ह्येतद्रूपं यदन्यनिरपेक्षविविक्तस्वरूपत्वम् , तत्र यथा तद्रसरूपेण गन्धरूपेण वा नास्ति द्रव्यसद्रूपत्वात्तथा नीलस्वरूपेणापि नास्ति तदपि च द्रव्यसद्रूपमाण्याद्यभावे रथाभाववन्नीलान्तररूपाभाववद्वा तदभावेऽपि न भवत्येव । नीलत्वशून्यत्वाद्वा नीलान्तरनीलवत्तदपि परनीलं तद्वदनीलमतः कतरत्तन्नीलं स्याद्यद्विज्ञायेत चक्षुषा चक्षुर्विज्ञानसमङ्गिनेति न नीलं विजानाति चक्षुर्विज्ञानसमगी। (ते चेति) अनन्यत्वकरस्य जात्यादेरभावादेव वा रूपमिति वा रस इति वाऽत्यन्तभिन्नानां परमाणूनामभेदेन द्रव्यसतां ग्रहणाभावान्न नीलं विजानाति । इतरेतराभावपरमार्थत्वाद्वोक्तन्यायेनैव न नीलं नीलान्तरश्चास्ति, रूपरसादिवदन्यरूपमिति न नीलं विजानातीत्येतदेव संवदतीति सूक्तमिति । अत एव चक्षुर्विज्ञानसमगी सञ्चितालम्बन इत्यादिप्रत्यक्षविधेर्वाक्यस्यार्थोऽयमापद्यते नो तु नीलमिति, तस्य सञ्चयस्यासतश्चक्षुषा ग्रहणात् नो तु नीलमेवं भवति परमार्थसत्प-10 रमाणुनीलत्वात् , अत एवेत्यादि, अत इत्यनन्तरनिर्दिष्टनीलार्थचक्षुर्विज्ञानसमङ्गनाभावात् , एवेत्यवधारणे वक्ष्यमाणवाक्यार्थापत्तिः, प्रत्यक्ष विधेः-प्रत्यक्षजन्मनो विधायकस्य वाक्यस्यार्थोऽयमापद्यते नो तु नीलमितीति, अत्रेतिशब्दस्य प्रकारार्थवाचित्वादेवं प्रकारो वाक्यार्थ आपद्यत इति, कतमस्य वाक्यस्येति स्फुटीकरणाथ प्रस्तुतमेव प्रत्यक्षलक्षणोदाहरणवाक्यं प्रत्युच्चार्य प्रदर्शयति चक्षुर्विज्ञानेत्यादि, 15 तदेवं चक्षुर्विज्ञानसमङ्गी सञ्चितालम्बनः पूर्वोक्तः सन्तानः, चक्षुर्विज्ञानसमङ्गी सश्चितमालम्बनमस्येति सञ्चितालम्बनः, सञ्चयं संवृतिसन्तं नीलं रूपं. विज्ञानमसदवस्तु नीलाभिमतं जानाति न सत् किञ्चिदित्ययमर्थो जायते, किं कारणं ? तस्य नीलस्य सञ्चयस्यासतश्चक्षुषा चक्षुरिन्द्रियेण ग्रहणात्, नो तु नीलमेवं भवति-एवंप्रकारमतद्रूपं नीलं न भवति, सदेव हि तन्नील न जानाति परमार्थसत् । किं कारणं तन्नीलं न भवतीति चेत् ? परमार्थसत्परमाणुनीलत्वात्-परमार्थसन्तो हि परमाणव 20 एव नीलाः, न सञ्चयस्तस्मान्न नीलं विजानाति चक्षुर्विज्ञानसमङ्गीति । ___ भावना त्वस्यानर्थेऽर्थसंज्ञी न च कदाचित्वचिदप्यर्थे धर्मसंज्ञीति, अनर्थे-संवृति सति समुदाये द्रव्यसन्नीलसंज्ञी, न त्वर्थेऽर्थसंज्ञी, न त्वर्थ एव-द्रव्यसति परमाणुनील एवार्थसंज्ञी भवति तस्यातीन्द्रियत्वात् । यद्येवमर्थे धर्मसंज्ञी भवतु, नेत्युच्यते न च कदाचित् कचिदप्यर्थे धर्मसंज्ञी, अतीन्द्रियत्वादत्यन्तं सर्वकालं परमाणुनीलादेरग्राह्यत्वात् , ततोऽर्था- 25 देतदप्यापन्नमनर्थ एव धर्मसंज्ञीति, अनर्थ एव-असति नामादिधर्मसंज्ञापि, सञ्चयस्य नामा द्रव्येण-परमार्थेनाकृत्रिमेनानारोपितेनास्तीति द्रव्यसत्, य एवार्थः सन्निधानासन्निधानाभ्यां स्फुटमस्फुटश्च प्रतिभासं करोति स एव प्रत्यक्षविषयोऽन्यनिरपेक्षविविक्तखरूपः विकल्पविज्ञानेनावसीयमानोऽर्थः सन्निधानासन्निधानाभ्यां स्फुटत्वेनास्फुटत्वेन ज्ञानप्रतिभासं न भिनत्ति, आरोप्यमाणरूपत्वात् तद्धि सकलनीलसाधारणमतस्तत्सामान्यलक्षणं खलक्षणन्त्वसाधारणमिति बौद्धमतम् । समुदितपरमाणूनां रूपमिति वा रस इति वा नीलमिति वा ग्रहणं न सम्भवति, अनन्यत्वकरादेरभावाऽत्यन्त- 30 व्यावृत्तासाधारणपरमार्थत्वाद्वा नीलं न विजानातीत्येव सम्यगित्याह-अनन्यत्वकरस्येत्यादिना । उक्तन्यायेनैवेति, तत्र यथा तद् रसरूपेणेत्यादिमूलोकन्यायेनैवेत्यर्थः । अनन्तरेति, पूर्वव्यावर्णितानुसारेण नीलार्थस्य चक्षुषो विज्ञानस्य ___ 2010_04 Page #138 -------------------------------------------------------------------------- ________________ द्वादशारनयचक्रम् [विध्यरे दीनाञ्च कल्पनात्मकत्वादनथे-यावत्कल्पनात्मके सञ्चयेऽनर्थकल्पनात्मकशब्दादिधर्मसंज्ञी, कल्पनापोहासम्भवात् , तस्मादस्मदुक्तैषा भावना घटते । भावना त्वस्येत्यादि, उक्तोपपत्तिबलादेव त्वदुक्ता भावना न ह्यर्थेऽर्थसंज्ञी न त्वर्थे धर्मसंज्ञीति, कथं तर्हि घटत इत्यत्राह-भावना त्वस्यानर्थेऽर्थसंज्ञी न च कदाचित् कचिदप्यर्थे धर्मसंज्ञीति, तद्व्या5 चष्टे-अनर्थे-संवृतिसति समुदाये, अनर्थो हि संवृतिसत्त्वात्समुदायः, तदद्महे तु तद्बुद्ध्यभावात् । यथोक्तम्-'भेदे यदि न तद्बुद्धि'रिति श्लोकः । पतयादिवदिति त्वन्मतेनैव तस्मिन्नसल्लक्षणे समुदाये द्रव्यसन्नीलसंज्ञी-परमार्थसत्परमाणुनीलसंज्ञी, तेषामेवार्थत्वात् । अनर्थेऽर्थसंज्ञीत्येतस्माद्भावनावाक्यादर्थाक्षिप्तमेतल्लभ्यते न त्वर्थेऽर्थसंज्ञीति, तळ्याचष्टे-न त्वर्थ एव द्रव्यसति परमाणुनील एवार्थ संज्ञी भवति, कस्मात् ? तस्यार्थस्यातीन्द्रियत्वादित्येतत्कारणं पुष्कलमस्यस्मिन्नस्मत्कल्पितभावनावाक्य इति दर्शयति । 13 यद्येवमर्थे धर्मसंज्ञी भवतु, नेत्युच्यते, न च कदाचित् कचिदप्यर्थे धर्मसंज्ञी, कदाचिदिति समुदायस्यै वेन्द्रियविषयत्वात्तद्ब्रहणकाले वा इत्वरकाले वा न धर्मसंज्ञाप्यर्थे भवितुमर्हति, अथवा प्रत्यक्षकालेऽनुमानकाले वा, किं कारणम् ? अतीन्द्रियत्वात् , अत्यन्तं सर्वकालं कदाचिदित्यस्य व्याख्यानम् । अग्राह्यत्वात् कस्य ? परमाणुनीलादेः, ततोऽर्थादेतदप्यापन्नमनर्थ एव धर्मसंज्ञीति । तव्याचष्टे-अनर्थ एवा सति नामादिधर्मसंज्ञापि, किं कारणं ? सञ्चयस्य नामादीनाञ्च कल्पनात्मकत्वादनर्थे यावत्कल्पनात्मके 15 सञ्चयेऽनर्थकल्पनात्मकशब्दादिधर्मसंज्ञी, कस्मात् ? कल्पनापोहासम्भवात् , समुदाये समुदायाश्रयनामादिषु वा नामजात्यादियोजना च कल्पना तदपोहस्तस्य ज्ञानस्य कल्पितसमुदायतन्नामादिविषयस्य न सम्भवत्येव, तस्मादस्मदुक्तैषा भावना घटते । अथवा त्वदीयैरेवाक्षरैरेषोऽर्थो भाव्यते अर्थेऽर्थसंज्ञी न, अर्थे-नीलादौ परमार्थसत्यर्थसंज्ञी न भवत्यतीन्द्रियत्वात्तस्य, तुशब्दो विशेषणे, अर्थे धर्मसंज्ञी नेति वर्त्तते यस्तावदर्थ 20 एवार्थसंज्ञी न भवतीति स कुतोऽर्थे धर्मसंज्ञी भवतीति विशेषस्तुशब्दात् , अर्थापत्त्या पूर्वव समगनस्य चासम्भवादेवेत्यर्थः । सञ्चयं संवृतिसन्तमिति । विज्ञानं हि संवृतिसन्तमसदवस्तुभूतं नीलाभिमतं नीलं रूपं सञ्चयं जानाति न तु वास्तविक कश्चिदर्थमित्यर्थः। पूर्वोक्ता त्वदीया या भावनाऽर्थसंज्ञी न त्वर्थे धर्मसंज्ञीति सोक्तोपपत्तिबलादेव न हि-न हि घटत इत्यर्थ इत्याह-उक्तोपपत्तिबलादेवेति । अनर्थे संवृतिसतीति, परमाणुनीलानामतीन्द्रियत्वात् संवृतिसत्यनर्थे एव परमार्थसन्नीलसंज्ञा भवति, नतु कदाचिदप्यर्थे परमाणाविति भावः। पड्यादिवदिति, बलाकादीनां पंक्ति: 25 प्रतिविशिष्टसमुदायलक्षणा तस्या अग्रहे न हि पंक्तिरियमिति विज्ञानं भवति तथैव परमाणूनां समुदायः संवृतिसन्, संबन्धाधीनत्वात् , यथा तंतूनां परस्परसम्बन्धेन पटोऽयमिति व्यवहारः, तत्सम्बन्धाग्रहणे च न पट इति व्यवहारः, तस्मात् समुदायोऽनर्थ इति भावः।नच कदाचिदिति । यथाऽर्थेऽर्थसंज्ञा न भवति तथाऽर्थे धर्मसंज्ञापिन भवति, धर्मसंज्ञा शब्दसंज्ञा, अर्थस्यातीन्द्रियत्वादेव कदाचिदपि शब्दसंज्ञापि न भवतीत्यर्थः, तथाचानर्थे एव शब्दसंज्ञापि भवति, अनर्थस्य सञ्चयस्य कल्पनात्मक त्वात् तत्रैव कल्पनात्मकनामादिशब्दसंज्ञा तद्विषयञ्च ज्ञानं कल्पनात्मकमेव न तु कल्पनापोढमिति । पूर्वमर्थेऽर्थसंज्ञी न त्वर्थे 30 धर्मसंज्ञीत्यघटितार्थत्वादनर्थेऽर्थसंज्ञी न च कदाचिदर्थे धर्मसंज्ञीति भावना कृता, सम्प्रति अर्थेऽर्थसंज्ञी न त्वर्थे धर्मसंज्ञीति तद्वाक्यादेव भावना क्रियत इत्याह-अथ वेति । क्वचिदर्थसंज्ञाधर्मसंज्ञे अन्तरेण तनिषेधो न संभवतीत्यर्थीपत्त्याऽनर्थेऽर्थसंज्ञा धर्मसंज्ञा च लभ्यत इत्याह-अर्थापत्त्येति । शून्यं शून्येन गुणितं शून्यमेव भवतीति कल्पनं यथा गणकानां शिष्यमतिसंस्का तथा कल्पनापोढं प्रत्यक्षमिति कल्पनाया अप्यसद्विषयत्वं निर्मूलत्वञ्च, अत एव मृगतृष्णिकादिकल्पनाभ्योऽपि 2010_04 Page #139 -------------------------------------------------------------------------- ________________ बुद्धवचनाप्रामाण्यम् ] न्यायागमानुसारिणीव्याख्यासमेतम् दनर्थेऽर्थसंज्ञी तस्मिन्नेव च धर्मसंज्ञीति, ततः किं जातं ? शून्यशून्यप्रत्युपादनवदसद्विषयत्वं दोषजाताया अपि तस्याः कल्पनायाः, ततश्च निर्मूलकल्पनामात्रसत्यत्वालौकिकदृष्टसलिलादिबीजमृगतृष्णिकादिकल्पनाभ्योऽपि पापीयस्य प्रत्यक्षानुमानकल्पने युष्मदीये । " ( अथवेति ) यथा शून्यं शून्येन गुणितं जातं शून्यमेवेति यथा गणकानां क्वचित्कल्पनमसद्विषयं शिष्यमतिपरिकर्मार्थं तथेदमसद्विपयम्, ततश्चासद्विषयत्वान्निर्मूलकल्पनामात्रसत्यता - निर्बीजा 5 समुदायकल्पना तद्धर्मकल्पना च, निर्मूले द्वे अपि कल्पने, ते प्रमाणमस्य तन्मात्रं, तन्मात्रमेव सत्यं नान्यत्किञ्चित् सत्यं भवत्कल्पिते प्रत्यक्षे, तस्मान्निर्मूलकल्पनामात्रसत्यत्वाल्लौकिकदृष्टसलिला दिबीजमृगतृणादिकल्पनाभ्योऽपि पापीयस्यैौ प्रत्यक्षानुमानकल्पने युष्मदीये । यच्चाप्यभिहितमभिधर्मकोशे यत्तत्रानेकप्रकारभिन्न इत्यादि यावदनेकवर्णसंस्थानं पश्यत इति बुद्धवचनं प्रत्यक्षलक्षणानुषङ्गागतं चक्षुर्विज्ञान समङ्गिनी लविज्ञानोदाहरण संभाव - 10 नवाक्यवन्नोपपद्यत एवेत्युपपादयिष्यन् न पश्यतीदं पुनर्बुद्धवचनं न प्रमाणमिति । ( यच्चेति) अभिधर्मकोशे निदर्शितं तद्विचार्यम्, तत्रानेकः प्रकारः प्रकृष्टः कारः, कोऽसौ ? अन्योऽन्यातुल्यत्वम्, केन प्रकारेण भिन्नं रूपायतनं ? नीलपीतादिप्रकारभिन्नं तत्र तस्मिन् रूपायतने नैकप्रकारभिन्ने कदाचिदेकेन द्रव्येण चक्षुर्विज्ञानमुत्पाद्यते, कदा पुनरेकेन द्रव्येणोत्पाद्यते ? यदा नीलादितत्प्रकारव्यवच्छेदो भवति, नीलमेवेदं न पीतादि, पीतमेवेदं न नीलादीत्येक प्रकारव्यवच्छेदो यदा 15 भवति तदा चक्षुर्विज्ञानमेकेन द्रव्येणोत्पाद्यते । कदाचिदनेकेन, कदा पुनरनेकेन ? यदा तत्प्रकारव्यवच्छेदो न भवति, नीलादिप्रकारव्यवच्छेदो यदा न भवति तदा चक्षुर्विज्ञानमनेकेन द्रव्येणोत्पाद्यते । अस्मिन्नर्थे उदारणमप्याह - दूरान्मणिसमूहमित्यादि, विप्रकृष्टदेशस्थितं मणीनां समूहमनेकवर्णसंस्थानं अनेन वर्णेन संस्थानं - व्यवस्थानमस्य तमनेकवर्णसंस्थानं पश्यतः अनेकवर्णमनेकसंस्थानच पश्यत इति वा यो नीलपीताद्यनेकवर्णो वृत्तत्र्यस्राद्यनेकसंस्थानो वञ्चेन्द्रनीलमरकत सस्यकपुष्य रागपद्मराग - 20 स्फटिकादिमणिसमूहोऽनेकप्रकारभिन्नः तं पश्यतः पुरुषस्य दूरान्न व्यवच्छेदो भवति, आरात्तु व्यव - .: च्छेदो भवति यदयमिन्द्रनीलो वज्रादीनामन्यतमो वेति । = तत्र कल्पनापोढस्वलक्षणविषय प्रत्यक्षलक्षणचोद्योपक्रमप्रसङ्गेन यत्तहीदं सञ्चिताल - पापीय इत्याह- ततः किं जातमिति । मृगतृष्णिकादिकल्पनासु किञ्चिन्मूलमस्ति साधारणधर्मदर्शनादयः, अत्र तु न किश्चिदिति तेभ्योऽपि पापीयस्त्वमिति भावः । अनेकप्रकारभिन्न इति, अनेकप्रकारभिन्ने रूपायतने तत्र कदाचिदेकेन 25 द्रव्येण चक्षुर्विज्ञानमुत्पद्यते कदाचिदनेकेन यथा दूरान्मणिसमूहमनेकवर्णसंस्थानं पश्यतो न व्यवच्छेदो भवत्यारात्तु भवति, अयमिन्द्रनील इत्यादीत्यभिधर्मकोशे निदर्शितमिति ज्ञायते वचनमिदं प्रत्यक्षलक्षणस्यानुषङ्गेणागतं एतदपि न प्रमाणम्, अनेकप्रकारभिन्नरूपायतनं पश्यतो यच्चक्षुर्विज्ञानं भवति तस्यालम्बनं समुदाय एवेति कथं खलक्षणविषयत्वं तस्य कथं वैकद्रव्येण चक्षुर्विज्ञानं तस्यातीन्द्रियत्वादिति चक्षुर्विज्ञानसमङ्गी नीलं विजानातीत्यादिवदतस्तव कथं तद्बुद्धवचनं प्रमाणं स्यादिति भावः । अन्योऽन्यातुल्यत्वमिति । नीलादिपरमाणूनां परस्परमतुल्यत्वात् तन्मते कस्यापि परमाणोः केनापि तुल्यत्वं नास्ति, 30 सजातीयविजातीयव्यावृत्तस्वभावताङ्गीकारादिति । नीलादितत्प्रकारव्यवच्छेदः - नीलादिरूपेण वास्तविकवस्तुप्रकारेण वस्तुनो निर्णय इत्यर्थः । अनेकेन वर्णेन संस्थानं व्यवस्थानमस्येति व्युत्पत्तौ नीलादिव्यतिरिक्तवस्तुस्वीकार आपद्यत इति व्युत्पत्त्यन्तरमाह - अनेकवर्णमिति । कल्पनापोढं खलक्षणविषयं प्रत्यक्षमिति प्रत्यक्षलक्षणमाक्षेप्तुं पृच्छति यत्तहृति, द्वा० न० १२ 2010_04 Page #140 -------------------------------------------------------------------------- ________________ TO - द्वादशारनयचक्रम् [विध्यरे बनाः पञ्च विज्ञानकाया इति तत्कथम् ? यदि तदेकतो न विकल्पयति, यच्चोक्तमनेकप्रकारमिनेकानेकद्रव्योत्पाद्यज्ञानेत्यत्र कल्पनात्मकत्वप्रसङ्गोऽस्वलक्षणविषयत्वप्रसङ्गश्चेति चोदिते तत्सरिहारार्थमायतनस्वलक्षणं प्रत्येते स्वलक्षणविषया न द्रव्यस्वलक्षणमिति कथं तत्कल्पनापेतमित्यन्यत्र विचारः करिष्यते । इदमेव तावद्विचारयामो बुद्धवचनं कदाचिदेकेन द्रव्येण । ज्ञानमुत्पाद्यते कदाचिदनेकेनेति । अत्रापि कथमनेकप्रकारभिन्नसामान्यवृत्तिरूपायतनतायां तद्रूपायतनं पश्यतस्तदालम्बनत्वात्तस्य स्वलक्षणविषयं तद्युज्यते ? तथा रूपविज्ञानकाय इति कथं? कथञ्च इति पश्यतः तस्यामेकप्रकारावच्छेदः? अविभागसमवस्थसमूहात्मकत्वात्, मणिसमूहप्रभानुविद्धवर्णसंस्थानवत् । (तत्रेति) अत्रापि कथमनेकप्रकारभिन्नसामान्यवृत्तिरूपायतनतायां यावत्पठ्यंत इति वक्त. 10 व्यम् , कथं वक्तव्यमिति सम्बन्धः, अनेकप्रकारे भिन्ने सामान्ये वृत्तिरस्य रूपायतनस्य तदनेकप्रकारभिन्नसामान्यवृत्तिरूपायतनं तद्भावस्तापायतनता तस्यां सत्यामनेकप्रकारभिन्नसामान्यवृत्तिरूपायतनतायां तद्रूपायतनं पश्यतः, समूहात्मकं तदालम्बनत्वात्तस्य, चक्षुर्विज्ञानस्य तद्विषयत्वात् , सामान्याख्यसमूहरूपायतनविषयत्वात् , कथं स्खलक्षणविषयं तद्युज्यते ? तथा सर्वरूपादिपञ्चविज्ञानकाया:, रूपायतनतद्विज्ञानयोरुदाहरणमात्रत्वात्, कथं स्खलक्षणविषयाः पञ्चविज्ञानकायाः पठ्यन्त इति वक्त16 व्योऽत्र समाधिः । आयतनस्य सामान्यरूपत्वान्न स्वलक्षणतेत्यर्थः, कथञ्चेतीत्यादि, यावदेकप्रकाराव. च्छेद इति, कथमिति हेतुपरिप्रश्ने, चशब्दो दोषसमुच्चये। केन हेतुना तस्यामनेकप्रकारसामान्यवृत्तिरूपायतनतायाम् , इतिशब्दः प्रकारवाची, इत्थं नानारूपिरूपायतनं पश्यतः सञ्चितालम्बनतायामविभागसमवस्थसमूहात्मकत्वात्-अविभागेन-ऐक्यापत्त्या समवस्था यस्य समूहस्य सोऽयमविभागसमवस्थसमूहस्तदात्मकत्वाद्रूपायतनस्य कथमेकप्रकारावच्छेदः, न भवितुमर्हतीत्यर्थः। किमिव ? मणि20 समूहप्रभानुविद्धवर्णसंस्थानबत्, यथा नानावर्णानां मणीनां समूहे तत्प्रभयानुविद्धे वर्णसंस्थाने नास्त्येकप्रकारावच्छेदः तथैकद्रव्यावच्छेदाभाव इति । एकानेकेति एकस्मिन् द्रव्ये न चक्षुर्विज्ञानमुदेत्यतीन्द्रियत्वात् , अनेकद्रव्यालम्बनत्वे च समूहात्मकस्य तस्य काल्पनिकत्वेन कल्पनात्मकता विज्ञानस्य, अखलक्षणविषयता च स्यादिति प्रश्ने कृते सतीति भावः। रूपायतनात्मकं खलक्षणमालम्बनं न द्रव्यलक्षणमित्युक्त कल्पनापेतं कथं तद्विषयं विज्ञानं स्यादिति दोष इत्याह-तत्परिहारार्थमिति । स्कन्धलक्षणस्य रूपाय25 तनस्य काल्पनिकत्वादिति भावः । अनेकप्रकारेति यतो रूपायतनता नीलपीताद्यनेकप्रकारभिने सामान्ये समूहरूपे वृत्तिरतस्तं समूहात्मकं रूपायतनं पश्यतस्तदालम्बनं चक्षुर्विज्ञानं कथं खलक्षणविषयं स्यादिति भावः । पञ्चानां विज्ञानका• यानामपि न खलक्षणविषयत्वमित्याह-सर्वरूपादीति । रूपायतनस्यालम्बनत्वे तस्याविभक्तसमूहात्मकत्वादेकेन द्रव्येण शानस्थानुत्पत्त्या नीलमेवेदं न पीतादीत्येवं कथमेकप्रकारावच्छेद इत्याह-कथञ्चति, तस्यां-रूपायतनतायाम् । मूले 'मायतनमात्रे कथितेऽपि तस्य दृष्टान्तमात्रतया पञ्चरूपाद्यायतनानां पञ्चविज्ञानकायानामपि ग्रहणं विज्ञेयमित्याह-रूपायत. 30 नेति । अत एव रूपविज्ञानकाय इत्यस्य सर्वरूपादिपञ्चविज्ञानकाया इति व्यावर्णितम् । आयतनस्येति, आयतनं हि सामान्यरूपं न खलक्षणात्मकमत एवात्र समाधिर्वक्तव्य इति भावः। नानारूपिसमूहात्मक रूपायतनं पश्यतो नानारूपा. बच्छेद एव स्थान त्वेकप्रकारावच्छेद एकद्रव्यावच्छेदो वेत्याह-इत्थं नानारूपीति । सञ्चितस्यालम्बनत्वे एकद्रव्यग्रहणासम्भ ____ 2010_04 Page #141 -------------------------------------------------------------------------- ________________ एकानेकद्रव्यालम्बनम् ] न्यायागमानुसारिणीव्याख्यासमेतम् किश्चन्यत् एकस्य च द्रव्यस्य कदाचिदग्रहणादेकेन द्रव्येण कथं चक्षुर्विज्ञानमुत्पाद्यते ? तस्मात् किमेतद्बुद्धवचनं बुद्धवचनमिति चिन्त्यताम् । रसनानास्वादितरसाज्ञानवच्चक्षुषाऽगृहीतेषु चक्षुर्विज्ञानं नास्ति । . (एकस्येति) एकस्य च द्रव्यस्य परमाणोः सर्वदाऽप्यतीन्द्रियस्य ग्रहणाभावादेकेन द्रव्येण । कथं चक्षुर्विज्ञानमुत्पाद्यते ? न कदाचित् कथञ्चिदुत्पाद्यत इत्यर्थः । तस्मात् कदाचिदेकेन द्रव्येण ज्ञानमुत्पाद्यते यदा नीलादिप्रकारव्यवच्छेदो भवतीति किमेतद्बुद्धवचनं बुद्धवचनमिति चिन्त्यताम् । किमिव पुनरेकस्य द्रव्यस्य कदाचिदग्रहणाचक्षुर्विज्ञानं नोत्पाद्यत इति चेत् , उच्यते रसनानाखादितरसाज्ञानवत्-रसनेन्द्रियेणानास्वादिते यथा रसज्ञानं नोत्पद्यते एवं चक्षुषाऽगृहीतेषु चक्षुर्विज्ञानं नास्ति । यदि चास्य बुद्धवचनस्य बुद्धवचनत्वसिद्ध्यर्थमेकेन द्रव्येण ज्ञानमुत्पाद्यत इत्यभ्युपगम्यते ततः-10 एकद्रव्यज्ञानोत्पादे तु सञ्चितालम्बनकल्पना निरर्थिकैवेति तदभ्युपगमविरोधः। (एकेति) यदा चैवं प्रत्येकं चक्षुर्विषयता अणूनामिष्यते तदेदमपरं बुद्धवचनमबुद्धवचनं निरर्थकञ्च जायते, कतमत् ? सञ्चितालम्बनाः पञ्चविज्ञानकाया इति, एतस्य च सत्यत्वे तदसत्यता स्थितैवेति परस्परतो वचनद्वयविषयोऽभ्युपगमविरोध इत्यत आह-तदभ्युपगमविरोधः । किश्चान्यत 16 तत्प्रकारावच्छेदानवच्छेदानेकप्रकारभिन्नत्वमित्येतान्यपि ज्ञानानि न भवितुमर्हन्ति, रूपायतनस्य सश्चितगतेरेव, नरसिंहवत् । तत्प्रकारावच्छेदेत्यादि यावत्सश्चितगतेरेव, तत्प्रकारः, अवच्छेदः, अनवच्छेदः, अनेकप्रकारभिन्नत्वमित्येतान्यपि ज्ञानानि न भवितुमर्हन्ति, कस्मात् ? रूपायतनस्य सश्चितगतेरेव, सश्चितमेव हि रूपायतनं, गम्यते वा सञ्चितमतो न प्रकार इति ज्ञानं घटते, प्रकृष्टः कारः प्रकारः, नील: 20 पीत इत्ययमस्माद्विशिष्ट इति परस्परतोऽत्यन्तभेदाभावे प्रकाराभावादभेदगतिः, सामान्येन तु प्रकार. ज्ञानं घटते । तथाऽवच्छेदोऽन्यस्मादन्यस्य भेदाभेदविकल्पनात् , तथाऽनवच्छेदः। अनेकेत्यनेकेन च प्रकारेण भिन्न इति भिन्नानामभेदगतिः, सञ्चितगतेरभेदगतेश्च न प्रकारादिज्ञानान्यकल्पनात्मकानि वेन नैकेन द्रव्येण चक्षुर्विज्ञानमुत्पाद्यत इत्याह-एकस्य चेति । किमेतदिति, एतद्बुद्धवचनं किं बुद्धस्य तत्त्ववेत्तुर्वचनं भवितुमर्हति नैवेति भावः । एकद्रव्येति, एकस्मादणुलक्षणाद्रव्याद्यदि चक्षुर्विज्ञानमुत्पद्यत इत्यभ्युपगम्यते एकद्रव्याव-28 च्छेदाय तर्हि सञ्चितालम्बनकल्पना किमर्था, यदि च चक्षुर्विज्ञानस्य सञ्चितमेवालम्बनं यथार्थ तर्हि कदाचिदेकेन द्रव्येण चक्षु. विज्ञानमुत्पाद्यत इत्ययथार्थम् , अस्य वा यथार्थत्वे सश्चितालम्बनाः पञ्च विज्ञानकाया इत्ययथार्थमिति वचनद्वयस्याभ्युपगमो विरुद्ध इति भावः । तत्प्रकारेति, सञ्चितं नानारूपिरूपायतनमभिन्न प्रकारादिज्ञानानि च भिन्भेष्वभेदकल्पनाद्भवन्ति, नीलपीतादिप्रत्येकपरमाण्वग्रहे कथं तत्प्रकारादिज्ञानानि स्युः सञ्चितस्यैव भेदेन ज्ञानात्, अनेकप्रकारभिन्नसामान्यवृत्तिरूपायतनतेत्यपि न सङ्गच्छते सञ्चयेऽनेकप्रकाराणां ज्ञानाभावात् , एवमवच्छेदः नीलमेवेदं न पीतादीत्येवं रूपः एवं व्यवच्छेदाभावश्च न घटत 30 इति । सश्चितस्यैवाभेदस्यैव च ज्ञानात् नीलादिप्रकारादिज्ञानानि कल्पनात्मकान्येव, नाकल्पनात्मकानि न वा खलक्षणविषयाणीत्याह-सञ्चितगतेरिति । तयोहीति, नराकारसिंहाकारसञ्चययोर्नरसिंहाविति नरसिंह इति च प्रकारगतिर्युक्ता, अन्यदा 2010_04 Page #142 -------------------------------------------------------------------------- ________________ 5 द्वादशारनयच कम् [ विध्यरे स्वलक्षणविषयाणि च भवितुमर्हन्ति, किमिव ? नरसिंहवत् यथा नरस्याकारोऽधस्त्यः सिंहस्याकारः शिरोभागः, तदुभयाभेद गतेर्नरसिंह इत्युच्यते, एवं प्रकारादिज्ञानान्यपि भिन्नेष्वभेदकल्पनादेव स्युर्नान्यथेति । नरे सिंहे च नरसिंहाविति भिन्नयोरभेद गत्यभावाद दृष्टान्ततेति चेन्न, सञ्चययोरेवाभेदरूपत्वात् । ९२ नरसिंहानेकप्रकारगतिरपि हि नरत्व सिंहत्वसञ्चययोः पूर्वं भेदेन दर्शनादभेदकल्पनात्मिकाऽभेदगतिरिति युक्ता, न तथा असञ्चयेषु तद्रव्येष्वणुषु, असञ्चितस्यादर्शनात् कुत एव तद्व्यवच्छेदादि सम्भाव्येत, एवं तावदेकेन द्रव्येणेत्ययुक्तम् । I नरसिंहानेकप्रकारग तिरपि हीत्यादि, तयोर्हि प्रत्येकं नरसिंह इति च भिन्नयोरपि प्रकारगतिः, यस्मात् नरत्वसिंहत्व सञ्चययोः पूर्वं भेदेन दर्शनादभेदकल्पनात्मिकाऽभेद्गतिरिति युक्ता, 10 न तथा अभ्युपेत्यापि नरसिंहप्रकारगतिमेव च, असञ्चयेषु तद्रव्येष्वणुष्वित्यादि, सवितालम्बना: पञ्च विज्ञानकाय इति यदुक्तं त्वया तद्विस्मृत्येदमुक्तं यदेतदनेकप्रकारभिन्नं रूपायतनं तत्र कदाचिदेकेन द्रव्येण ज्ञानमुत्पाद्यत इति । चक्षुर्विज्ञानसमङ्गी नीलं विजानाति नो तु नीलमित्येतदपि विस्मृत्येदमुक्त कदाचिदनेकेन यदा तद्व्यवच्छेदो न भवति तद्यथा - मणिसमूहमनेकवर्णसंस्थानं पश्यत इति नीलपीताद्यनेकरूपस्य युगपद्ग्रहणाभ्युपगमे नीलैकरूपविज्ञानविरोधादित्यलं प्रसङ्गेन । प्रकृतमुच्यते - द्रव्यस• 16 त्स्वणुषु नीलपीतादिप्रकारग्रहणमेव नास्ति तदसंचये, किं कारणं ? असञ्चितस्यादर्शनात्, असश्चितानामदर्शनमतीन्द्रियत्वादित्युक्तम्, कुत एव तद्व्यवच्छेदादि ? सति हि दर्शने तद्व्यवच्छेदानवच्छेदप्रकारभिन्नत्वज्ञानानि सम्भाव्येरन्, असति दर्शने दूरादेव तानि न स्युः । एवं तावदेकेन द्रव्येणेत्ययुक्तम् । यदपि चोक्तमनेकेन द्रव्येण कदाचिज्ज्ञानमुत्पाद्यत इत्यस्मादनेकेनेति वचनात् तस्या20 नेकद्रव्यसंवृतिसत्त्वात् सामान्यता, सामान्यत्वादसत्कल्पनं तत्, तद्विषयाः पञ्चविज्ञानकाया असत्कल्पनविषयत्वादनुमानतदाभासज्ञानवदप्रत्यक्षमप्रमाणं वा, दूरान्मणिसमूहदर्शनवद्वा न स्वलक्षणविषयाः प्रसक्ताः । 25 ( यदपीति न च केवलमस्वलक्षणविषयतैव दोषः, किं तर्हि ? एकविज्ञानमनेकविषयताऽपि दूरदर्शनवदेवेति, बुद्धवचनासमञ्जसत्वप्रतिपादनप्रसङ्गेनेदमप्युपन्यस्तम् । यदपि च बुद्धेनोक्तं द्वयं प्रतीत्य चक्षुः प्रतीत्य रूपाणि च प्रतीत्य चक्षुर्विज्ञानं मनःप्रतीत्य धर्माश्चोत्पद्यते मनोविज्ञानमिति तद्विरुध्यते, नराकारसिंहाकारसञ्चययोर्भेदेन दर्शनात्, अणू नान्त्वसञ्चितानां भेदेन कदाप्यदर्शनात् कथं तत्प्रकारादिव्यवच्छेद इति भावः । कदाचिदेकेनेति, अनेन सञ्चितालम्बनत्वं परित्यक्तम्, कदाचिदने केनेति, अनेन नीलादिविज्ञानाव्यभिचारित्वोक्तिस्त्यक्ता नीलज्ञानानुदयात्, अनेकेषां नीलपीतादीनां युगपचक्षुषा ग्रहणे स्वीकृतेऽपि नीलैकरूपज्ञानं विरोधान्न सम्भवतीति 30 भावः । पञ्चविज्ञानकाया इति, असत्कल्पनात्मक सामान्यविषयत्वादनुमानं यथा न प्रत्यक्षं तथैतेऽपि, अनुमानाभासश्रद्वाऽसद्विषयत्वादप्रमाणानि स्युः समूहालम्बनमणि समूहदर्शनवच्च स्वलक्षणविषया न भवेयुः । एकविज्ञानमिति, एक विज्ञा 2010_04 Page #143 -------------------------------------------------------------------------- ________________ विज्ञानोत्पत्तिविचारः] न्यायागमानुसारिणीव्याख्यासमेतम् ९३ यदपि च बुद्धेनोक्तं द्वयं प्रतीत्येत्यादि यावद्धर्मांश्चोत्पद्यते मनोविज्ञानमिति, यद्यनेकेन द्रव्येण ज्ञानमुत्पाद्यते साक्षाद्बुद्धेनोक्तं यदपि च द्वयं प्रतीत्येत्यादि विरुद्ध्यत इत्यभिसम्बन्धः, आध्यात्मिकमायतनं बाह्यश्च द्वयं प्रतीत्य विज्ञानस्योत्पत्तिर्भवति इत्युक्त्वा स्वयमेव पुनः प्रतिपृच्छय व्याकरोति, कतमहयं प्रतीत्य ? चक्षुः प्रतीत्य रूपाणि च प्रतीत्येत्यादि विभज्य वाच्यं गतार्थमेव तत् । द्वयषटात् विज्ञानषदूमुत्पद्यत इति पूर्वपक्षः, तथा चाह 'विजानाति न विज्ञानमेकमर्थद्वयं यथा । एकमर्थ । विजानाति न विज्ञानद्वयं तथा' इति, अत्रोत्तरमाह-अत्रापि चक्षुः प्रतीत्य रूपाणि च प्रतीत्य चक्षुर्विज्ञानस्योत्पत्तिर्भवतीति द्वयी गतिः । बहुवचननिर्देशः सञ्चयापेक्षयाऽतीन्द्रियाणामपि रूपाणां व्यक्तिपदार्थाश्रयः स्यात् , 'जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्याम्' (पा. अ० १ पा. २ सू० ५) इति जातिपदार्थाश्रयो वा । तत्र यदि व्यक्त्यपेक्षो निर्देशः सञ्चयाधारतया ततोऽयमेव संवृतिसत्सामान्यासत्कल्पनविषयाः पञ्चविज्ञानकाया न स्वलक्षणविषया इति दोषः, अथ द्रव्योक्तमेतज्जातीयाः 10 परमाणव एकरूपनिर्देशेन सर्व निर्देष्टव्या इत्येकस्मिन् बहुवचनं तत इहाभ्युपगमविरोधः, अभ्युपगतं त्वयाऽतीन्द्रियाः परमाणव इति तेन विरोधः। अस्मिंश्चाभ्युपगमेऽन्यदप्यनिष्टापादनमुच्यते बुद्ध्यादेरपि चैन्द्रियकत्वमतीन्द्रियत्वाद्रूपवत् , रूपं वा न चक्षुर्ग्राह्यं स्यादतीन्द्रियत्वाझुद्ध्यादिवत् , नन्वतीन्द्रियत्वं चक्षुग्रोह्यत्वञ्च परस्परतो विरुध्येतेति तन्मा मंस्थाः, भव-15 तोऽनिष्टापादनपरत्वात् , भवबुद्धिनिवर्त्तनफलत्वाचास्य प्रयोगस्येति । अथापि यश्चात्र विरोध: सम्भाव्येत स तुल्यः परमाण्वैन्द्रियकत्वेन । बुद्ध्यादेरपि चैन्द्रियकत्वमतीन्द्रियत्वाद्रूपवदिति, बुद्धिसुखदुःखेच्छाद्वेषवेदनादयो धर्माश्चाक्षुषाः स्युर्भवत्परिकल्पिताः, अतीन्द्रियत्वाद्रूपवत्, परमोऽणुः परमाणुः अणुशब्दः सूक्ष्मपर्यायः, परमशब्दस्तदतिशयवाची, स चातीन्द्रियत्वे घटते तस्यातीन्द्रियस्यैन्द्रियकत्व-चाक्षुषत्वं यथाविरु- 20 द्धमेवमिदमपि बुद्ध्यायेन्द्रियकत्वं तुल्यमिति समानदोषतया विरोधोद्भावनमस्तु को दोषः । किश्चान्यत् चक्षुः प्रतीत्य रूपाणि च प्रतीत्य चक्षुर्विज्ञानमुत्पद्यत इति चातीन्द्रियत्वादनुमानविरोधः, उक्तभावनावत्स्ववचनविरोधोऽपि । नस्यानेकविषयत्वं दोषः, विजानाति न विज्ञानमेकमर्थद्वयं यथेत्युक्तरिति भावः। द्वयषट्कादिति, चक्षुरूपश्रोत्रशब्दघ्राणग- 25 न्धरसनारसत्वस्पर्शमनोधर्मलक्षणाद्वयषट्वाच्चाक्षुषादिविज्ञानषट्कमुत्पद्यत इत्यर्थः । द्वयी गतिरिति, रूपाणीति बहुवचननिर्देशो द्विधैव सम्भवति संचयाधाररूपव्यक्त्यपेक्षया जात्यपेक्षया वेति भावः। तत्र व्यक्त्यपेक्षनिर्देशाङ्गीकारे विज्ञानानां सञ्चितालम्बनत्वात् सञ्चयस्य च संवृतिसत्त्वात्सामान्यरूपतयाऽसद्रूपत्वात् कल्पनात्मकत्वं स्यात् । जात्यपेक्षनिर्देशाङ्गीकारे चैकपरमाण्वालम्बनत्वापत्त्या परमाणोरतीन्द्रियत्वाभ्युपगमविरोध इत्याह-तत्र यदीति। अतीन्द्रियस्याप्यन्द्रियकत्वे दोषमाह-बुद्ध्यादेरपीति अत्रैन्द्रियकत्वं चक्षुर्ग्राह्यत्वं विवक्षितम् । अतीन्द्रियत्वचक्षुर्ग्राह्यत्वयोर्विरुद्धत्वादेव भवतोऽनिष्टमा- 30 पाद्यते मया यद्येकद्रव्यालम्बनत्वं चक्षुर्विज्ञानस्याभ्युपगम्यत इत्याह-भवत इति । असावनुमानप्रयोगोऽतीन्द्रिये परमाणी भवदीयां चाक्षुषालम्बनताबुद्धिं निवर्तयति, एतावदेवास्य प्रयोगस्य फलमित्याह-भवद्वद्धीति । अथापीति बुद्ध्यायेन्द्रियकत्वे यो विरोध उद्भाव्यते भवता स एव विरोधः परमाण्वन्द्रियकत्वेन तुल्यो न त्वेकशेषः कर्तुं पार्यत इति भावः । _ 2010_04 Page #144 -------------------------------------------------------------------------- ________________ 5 ९४ 20 वादपरमेश्वरसंश्रयश्चैवम्, ( वादेति ) एवञ्च भवत एकान्तवादिनस्तत्त्यागेनाने कान्तवादाश्रयः । वादाः सर्व एव लोकं स्वसात्कर्त्तुं समर्थत्वाल्लोकस्येशते एकान्ता अपि तेषां तु सर्वेषामनेकान्तवादः परमेश्वरस्तद्वशवर्त्तिनामीष्टे, तेषां स्वार्थोन्नयनसमर्थानामपि परस्परविरोधदोषवतामुदासीनमध्यनृपतिवत्संध्यादिषड्गुणान्यतमगुणाश्रयिणां विजिगीषूणां परार्पणलक्षणसंश्रयगुणाधारः परमेश्वरः स्याद्वादः, तत्संश्रयेणैव 10 स्ववृत्तिलाभात्तदसंश्रये परस्परकायविलोपात् स्वयं विनाशाच्च तेषाम् । लौकिको व्यवहारनय आह न च नस्तेन विरोधः, तस्य लोकनाथत्वात्, स हीनः विलुप्यमानस्य लोकतत्त्वस्य त्राता, सर्ववादभेदयथार्थानां लोकसंवादेनोपग्राहयित्वा पालनात् । ( न चेति ) लोको हि व्यवहारनयस्तद्वशवर्त्तित्वेन तन्मतविलोकनाल्लोकस्य नाथत इति लोक15 नाथः स्याद्वादः कस्मात् ? स हि इनः, यतो विलुप्यमानस्यैकान्तवादिभिर्लोकतत्त्वस्य - लोकसारस्य सम्यग्दर्शनरत्नस्य त्राता - त्राणशीलत्राणधर्मा साधुत्राणकारी वेति, कथं त्रातेति चेत् ? सर्ववादभेदेत्यादि, लोकभूतानां सर्ववादानां भेदाः सर्ववादभेदाः नित्यानित्याद्येकान्ताः, तेषां यथार्था: - यथार्थभावा: - स्वविषयसमर्थनभाविताः, तेषां लोकसंवादेनोपग्राहयित्वा परस्परसाम्यावस्थापनेन पालनात् त्रातेत्युच्यते । द्वादशारनयचक्रम् [ विध्यरे (चक्षुरिति) स्थूलानां सूक्ष्मपूर्वकत्वात् कार्यानुमानसिद्धाः परमाणवः, तस्मान्नित्यानुमेयानां तेषां चक्षुर्विषयत्वाभ्युपगमेन च तयोरनुमानविरोधिता । किञ्चान्यत्-उक्तभावनावत्स्ववचनविरोधोऽपि उक्त भावना तद्वदुक्तभावनावत्, एवमेव च परमाणुरतीन्द्रियत्वाच्चाक्षुषश्चेत्यनुमानविरोधभावनयोक्तया तुल्यत्वादतीन्द्रियत्वाभिमतः परमाणुश्चक्षुर्विषयतामायातीति ब्रुवतः स्ववचनविरोधोऽपि । इतर आह कथं संश्रय इति चेत् ? अनेकात्मकरूपायतनाभ्युपगमात् । (कथमिति) अस्तु तावद्वादपरमेश्वरत्वं लोकत्राणात् स्याद्वादस्य, लोकत्राणश्च परस्पराविरोधोपादककरणाच्च तेषाम् । वादपरमेश्वरसमाश्रयः कथमेकान्तवादानामित्यत्रोच्यते, अनेकात्मकरूपायतनाभ्युपगमात्, अनेक आत्मा यस्य तदिदमनेकात्मकं रूपायतनं यत्तदेकेन द्रव्येण कदाचि - 25 चक्षुः प्रतीत्येति, परमाणुरूपस्य ह्यनेनाभ्युपगमेन चक्षुर्विषयतोता सा च न युक्ता परमाणूनां कार्यलिङ्गेन नित्यानुमेयत्वादतस्तत्साधकानुमानविरोधस्तद्वचनाभ्युपगन्तुः प्रसज्यत इति भावः । उक्तभावनावदिति, एवञ्चोक्तरीत्या परमाणोरतीन्द्रियत्वेन चाक्षुषत्वाभ्युपगमे यथाऽनुमानविरोधस्तथैवातीन्द्रियत्वाभिमतः परमाणुश्चक्षुर्विषयतामायातीत्युक्तौ स्ववचनविरोधोऽपि स्यादिति भावः । तयोः - परमाणुत्वचाक्षुषत्वयोः । वादपरमेश्वरेति, प्रत्येकमेकान्तवादा ईश्वराः, अनेकान्तवादः पर मेश्वरः, तद्वशवर्त्तिनामीशनात् ते हि वादा यद्यपि स्वस्वार्थोन्नयने समर्थास्तथापि परस्परं विरुद्धाः सन्धिविग्रहयानासनद्वैधसमा30 श्रयलक्षणगुणा मध्यस्थं नृपतिभासाद्याविरोधेन यथा वर्त्तन्ते तथा स्याद्वाद एकनयेऽपरनयार्पणलक्षणमाश्रयं दत्त्वा विरोधं परि० हरति, नयानामितरनयानपेक्षवृत्त्यभावात् तत्सापेक्षतयैव वृत्तेरिति भावः । तेन - स्याद्वादेन सह । अनेकात्मकेति -अनेकात्मकरूपायतनाभ्युपगमाद्वौद्धेन स्याद्वादः समाश्रितः तत्रैकेन कदाचिज्ज्ञानमुत्पाद्यते यदा नीलादिव्यवच्छेदः कदाचिदनेकेन 2010_04 د Page #145 -------------------------------------------------------------------------- ________________ स्थावादसमाश्रयणम् ] न्यायागमानुसारिणीव्याख्यासमेतम् ज्ज्ञानमुत्पादयति कदाचिदनेकेनेति तद्वयवच्छेदाव्यवच्छेदाभ्यामिति तदभ्युपगमात् स्याद्वादसमाश्रयः, स्याद्वादैकदेशाश्च नया एकान्तवादाः, यथोक्तं-'भई मिच्छादसणसमूहमइयस्स अमयसारस्स । जिणवयणस्स भगवओ संविग्गसुहाहिगम्मस्स' (संमतेः गा. ५९) इति, नैताः खमनीषिकाः, लक्षणमपि तथैव नयानां, उक्तं हि 'द्रव्यस्यानेकात्मकत्वेऽन्यतमात्मकैकान्तपरिग्रहो नयः', स्वप्राधान्येनार्थनयनान्नयः, स च मिथ्यादृष्टिरनेकाकारार्थस्य विपरीतप्रतिपत्तित्वात् , अनेकात्मकवस्तुप्रतिपत्ति- 5 त्वात् स्याद्वादस्य याथार्यम् । कथं पुनर्लोकभूतेन व्यवहारनयेनैकान्तवादिनो निगृह्यन्त इति चेल्लोकनाथसमाश्रितत्वात्तेषाम् , लोकनाथपक्षसमाश्रय एव प्रतिवादिपक्षाभ्युपगमः, स निग्रहस्थानमेकान्तवादिनामभ्युपगमसमकालमेवावसितो वाद इति । अत्र चैकरूपायतनाधारतया त्वयाप्यनेकान्तवादोऽभ्युपगत एव, तदाधारतया हि तत्रेत्यधिकरणवाचिप्रत्ययान्तेन तत्रशब्देनाव्यतिरेकं रूपायतनमेवोक्तं तस्यैवारूपरूपता पुन-10 दर्शिता, कदाचिदेकेन द्रव्येण कदाचिदनेकेन ज्ञानमुत्पाद्यते इति ब्रुवता । एवञ्च तस्यैकस्यैवैकताऽनेकता च त्वयैवोक्ता तथाऽविभक्ततत्त्वेन ज्ञानोत्पत्तेः । दृश्यते हि तदेव रूपायतनं पश्यत एकमनेकश्च परमाणवस्तत्समूहश्चेति स्वलक्षणसामान्यविषयज्ञानोत्पत्तिः, उक्तहेतुवदेतदपि भेदाभेदात्मकम् । (अत्रेति) त्वयापि स्याद्वादाभ्युपगतानेकात्मवस्त्वेकानेकत्वानेकान्तवादोऽभ्युपगत एव, 15 यस्मादनेकप्रकारभिन्न इत्यादि यावदनेकवर्णसंस्थानं पश्यत इति, अत्र च वाक्ये एकमेव रूपायतनं ज्ञानाधारमभीष्टं यस्मात्तदाधारतया पुनस्तत्रेत्यधिकरणवाचिप्रत्ययान्तेन तत्रशब्देनानन्तरनिर्दिष्टमेव रूपायतनमव्यतिरेकमभेदं तस्य वस्तुन आगृह्योक्तम् , तस्यैवारूपरूपता पुनर्दर्शिता कदाचिदेकेन द्रव्येण कदाचिदनेकेन ज्ञानमुत्पद्यत इति ब्रुवता, रूपायतनस्यैवैकानेकसंख्यानिर्देश्यत्वमनभ्युपगच्छता कथं तत्रशब्दसामानाधिकरण्यमापादयितुं शक्यते यदि तदेकमनेकश्च न 20 स्यात्, इतरथा तत्र च रूपायतनेऽन्यत्र वेति स्यान्न तु भवति, तस्मादेवश्चेत्यादि, एवञ्चोक्तविधिना तस्य-स्वयैवोक्तस्य रूपायतनस्यैकस्यैव एकताऽनेकता चातस्त्वयैवोक्ता, कस्मात् ? तथाऽ यदा तदव्यवच्छेद इत्यभ्युपगमाच । एकान्तवादरूपाः प्रत्येकं सर्वे नयाः स्याद्वादस्यैकदेशरूपा एवेत्याह-स्याद्वादेति,-अत्रार्थे पूर्वाचार्यगाथाप्रमाणमाह-भई इति, मिथ्यादर्शनसमूहमयस्य तथात्वेऽप्यमृतसारस्य संसारभयोद्विनैर्मोक्षाभिलाषुकैर्निमत्सरैर्जिनवचनश्रद्धालुभिः सुखेनावगन्तुमर्हस्य भगवतोऽर्हतो वचनस्य कल्याणं भवत्विति गाथार्थः । तथा नयखरूपमप्यत्रार्थे प्रमाण. 25 त्वेनाह-द्रव्यस्येति । नन्वेकान्तवादाः स्याद्वादैकदेशास्तहि कथं तद्वादिनो निगृह्यन्त इति चेत्स्याद्वादसमाश्रयणादित्याह-कथं पुनरिति । स्याद्वादाश्रयणमेव तेषां प्रतिवादिपक्षाश्रयणं तदाश्रयणस्य निग्रहस्थानत्वात्तदभ्युपगमे स निगृहीत एवेति भावः । एकमेव रूपायतनमिति, नीलपीतादिनानारूपिरूपायतनमेकमिष्टं, ज्ञानाधारतया तद्वचनेऽधिकरणवाचिप्रत्ययान्तेन तत्र शब्देन रूपायतनस्यैवाभिन्नस्य ग्रहणात् , तत्रैवावच्छेदानवच्छेदाभ्यां रूपरूपायतनयोः प्रदर्शनाच, एवञ्च तत्रशब्दग्राह्यस्यैकानेकरूपतया वर्णितस्य रूपायतनत्वे तदपि रूपायतनमेकानेकसंख्या निर्देश्यमेव स्यात् , अन्यथा तत्रशब्देन सामानाधिकरण्यं न 30 स्यात्, किन्तु तत्रैकस्मिन् रूपायतने नीलादिप्रकारावच्छेदोऽन्यत्राव्यवच्छेद इति स्यान्न तु तथा भवतीति भावः । त्वयैव रूपायतनस्यैकानेकतोकेति साधयति-एवञ्चति. तथा च चक्षुर्विज्ञानाधारं रूपायतनमेकानेकखरूपम् , तथाऽविभकत्वेन ज्ञानोपत्तेः, दूराचक्षुर्विषयानेकवर्णसंस्थानमणिसमूहवदिति प्रयोगः, समूहरूपेणैकत्वं परमाण्वात्मनाऽनेकत्वं रूपायतनस्य विज्ञेयम् , 2010_04 Page #146 -------------------------------------------------------------------------- ________________ द्वादशारनयचक्रम् - [विध्यरे विभक्तेत्यादि, तेन प्रकारेण तथा, अविभक्तं तत्त्वं यस्य तदिदमविभक्ततत्त्वं तद्भावस्तत्त्वम् , एकानेकत्वाद्यविभक्तवस्तुतत्त्वं, तेन तथाऽविभक्ततत्त्वेन ज्ञानोत्पत्तरिति हेतुः, कस्मिन् साध्ये ? तस्यैवैकानेकतायाम् । दृश्यते हि तदेव रूपायतनं पश्यत एकमनेकञ्च परमाणवस्तत्समूहश्चेति ज्ञानोत्पत्तिः, दूरान्मणिसमूहमनेकवर्णसंस्थानं पश्यत इत्युदाहरणमप्येवमेवैकानेकरूपद्रव्यरूपायतनत्वे साध्ये चक्षु5 विज्ञानाधारस्य वस्तुनः साधर्म्यदृष्टान्तत्वं भजते नैकान्तैकानेकरूपत्वे, ततश्चावश्यमेषोऽर्थ आपद्यते स्यादेकं रूपायतनं स्यादनेक रूपायतनमिति, कस्मात् ? स्निग्धरूक्षत्वाभ्यां चैक्यपरिणामापत्तेस्तत्समूहग्राह्यत्वादेकम् , द्रव्यार्थावस्थानात् परमाणूनां स्वरूपभिन्नानां भेदादनेकम् । अत एव द्रव्यम् , रूपादिगुणपर्यायपरिणामापत्तेरद्रव्यम्, प्रतिस्वमसाधारणरूपादिपरिणामापेक्षया स्वलक्षणविषयम् , साधारणीभूतभेदसमूहापेक्षं चाक्षुषत्वादिपरिणामापत्तः सामान्यविषयम्, यथोक्तं 'भेदसंघाताभ्यां 10 चाक्षुषाः' (तत्त्वार्थ० अ० ५ सू० २८) इति । उक्तहेतुवदिति, तथाऽविभक्ततत्त्वज्ञानोत्पत्ते:दाभेदात्मकज्ञानोत्पत्तिवदेतदपि वस्तु भेदाभेदात्मकमिति । इतर आह ननु कदाचिच्छब्दःकालान्तरवचनः, तस्मिन्नैव हि वस्तुनि कदाचित्कालान्तरे ज्ञान___ मेकाकारमुत्पद्यते कदाचिदनेकाकारं ज्ञानस्यैवाकारवत्त्वात्तन्न, एककाल एवोभयरूपत्वात् , 1B स्यात्तत् तत् , परमाणुद्रव्यसमूहाभेदात् , स्यान्न तत् तत् , रूपादिपरिणामभेदात् , ग्रहणापदेशविशिष्टार्थत्वादेकानेकात्मकं तद्वस्तु, अनेकवर्णमणिरूपवत् , एकपुरुषपितृपुत्रादिवद्वा। (नन्वित्यादि) निराकारबाह्यवस्तुपक्षे । अत्रोच्यते तन्नैककाल एवोभयरूपत्वात् , एकस्मिनेव हि काले नीलपरमाणुसमूहाकारज्ञानस्य भेदाभेदात्मकत्वं दृष्टमतो न सम्यगुक्तं कदाचिच्छब्दः कालान्तरवचनस्तस्मादेकाकारं कदाचित् कदाचिदनेकाकारं ज्ञानमुत्पद्यते तस्मिन्नेव वस्तुनीति, तस्माच्चै20 ककाल एवोभयरूपत्वात् , स्यात्तत्तत्,-तदेव तद्वस्तु, परमाणुद्रव्यसमूहाभेदात् , स्यान्न तत्तत् , रूपादि अयम्भावः रूपायतनमधिकृत्योत्पद्यमानं नीलादिचाक्षुषं ज्ञानं यथा परमाणून् समुदाय वा पार्थक्येन गृह्णन्नोत्पद्यते किन्त्वविभक्तवस्तुतत्त्वेन, अत एव तज्ज्ञानं खलक्षणविषयं सामान्यविषयमपि, अत एव च भेदाभेदात्मकमपेक्षाविशेषादेवमेव तद्राह्यमपि वस्तु भेदाभेदात्मकं द्रव्यपर्यायात्मकमेकानेकरूपश्च तथाऽविभक्ततत्त्वेन ज्ञानोत्पत्तेरिति । तदेव रूपायतनमिति. अविभक्ततत्त्वताऽनेन प्रकाशिता । रूपायतनस्यैकत्वं कथमित्यत्राह-स्निग्धेति, परमाणूनां परस्परं स्निग्धत्वरूक्षत्वगुणत ऐक्य26 परिणामो जायत इति तदपेक्षया समूहस्यैव ग्राह्यतया तदपेक्षया चैकत्वं रूपायतनात्मकपरमाणूनामिति भावः । अनेकत्वे कार णमाह-द्रव्यार्थति, ऐक्यपरिणामलक्षणपर्यायं प्रति सर्वेषां परमाणूनां द्रव्यार्थतयाऽवस्थानेऽपि प्रतिपरमाणु स्वरूपभेदात्तदपेक्षयाऽनेकत्वमिति भावः । अत एवेति, रूपादिगुणपर्यायं प्रति परमाणूनां द्रव्यार्थतयाऽवस्थानादेवेत्यर्थः । तेषामेव परमा: णूनां रूपादिगुणात्मकतया पर्ययनादद्रव्यमित्याह-रूपादीति, परमाणूनां चाक्षुषविज्ञानस्य च खलक्षणविषयत्वे कारणमाह प्रतिस्वमिति, प्रतिपरमाणु रूपादिगुणपर्यायस्यान्यासाधारणत्वात्तदपेक्षया द्वयोरपि स्खलक्षणविषयत्वमिति भावः। द्वयोः सामा30 न्यविषयत्वे हेतुमाह-साधारणीभूतेति नीलपीतादिनानारूपरूपिसाधारणश्चाक्षुषत्वपरिणामो परमाणूनां भेदसंघाताभ्यां भवति तदपेक्षया द्वयोः सामान्यविषयत्वमिति भावः । नन्वविभक्ततत्त्वेन ज्ञानोत्पत्तेरिति हेतुरसिद्धो येन ज्ञानस्यैकानेकाकारतया वस्त्वपि तथा स्यात् , किन्तु ज्ञानमेकदैकाकारमन्यदा चानेकाकारमुत्पद्यते न त्वेकदोभयाकारमित्याशङ्कते-नन्विति । एकाकारं ज्ञानमुत्पद्यतेऽनेकाकारं ज्ञानमुत्पद्यत इत्युक्त्या ज्ञानस्येव नीलाद्याकारो धर्मः न त्वर्थस्य, शुक्तिरजतादो रजतज्ञानमथान भावेऽपि साकारमुपलक्ष्यते, नतु विज्ञानाभावे साकारोऽर्थ इति साकारज्ञानवादिमताभिप्रायेणोक्तं-ज्ञानस्यैवाऽऽकारवत्त्वा35 दिति, एवकारेणार्थस्य साकारत्वं प्रतिक्षिप्तम् । अथैकदैव परमाणुनीलसमुदायाकारज्ञानस्य दर्शनाद्भेदाभेदात्मकं सिद्धमेवे स्युत्तरयति-तन्नेति, स्यात्तत्तदिति, समूहस्य समृह्यनन्यत्वं प्रतिपादयति स्यान्न तत्तदिति, समूहस्य समूह्यन्यत्वं प्रतिपाद 2010_04 Page #147 -------------------------------------------------------------------------- ________________ कल्पनात्मकत्वादिदोषाः] न्यायागमानुसारिणीव्याख्यासमेतम् परिणामभेदात् । हेत्वन्तरमप्यत्रोच्यते-ग्रहणापदेशविशिष्टार्थत्वात् , ग्रहणं-ज्ञानं ज्ञानमेवापदेशो हेतुः, तेन हेतुना विशिष्टो ग्रहणापदेशविशिष्टः स चासावर्थश्च तद्भावो ग्रहणापदेशविशिष्टार्थत्वम् , यस्माचक्षुर्विज्ञानाद्धेतोर्विशिष्टोऽर्थो रूपं समुदायात्मकं गृह्यते तस्मादेकानेकात्मकं तद्वस्तु, को दृष्टान्तः ? अनेकवर्णमणिरूपवत्, एक एव वा मणिर्मेचकः स्फटिकाद्यन्यतमस्तद्रूपवत् , नानावर्णानां वा मणीनां समूहस्य रूपवत् , यथा तद्हणापदेशविशिष्टज्ञानं परिच्छिन्नविभिन्नरूपं तथा चक्षुर्विषयाभिमतं वस्तु । । एकपुरुषपितृपुत्रवद्वेति ग्रहणापदेशविशिष्टस्य साधर्म्यदृष्टान्तान्तरम् , यथैकः पुरुषोऽनेकसम्बन्धिजनापेक्षया पिता पुत्रो भागिनेयो मातुल इत्येवमादिव्यपदेश्यत्वं भजते न चास्य विरोधसङ्करानवस्थाप्रसङ्गदोषा ग्रहणापदेशविशिष्टार्थत्वादेवं चक्षुर्विज्ञानविज्ञेयं वस्तु प्रतिपत्तव्यम् । ___ अतोऽनपेक्षितस्वाभ्युपगममनेकान्तदूषणमापद्यते , अविभावितैवमर्थ्यपूर्वाभ्युपगमत्वाद्वोन्मुग्धभ्रान्तोन्मत्तादिवत् , अनपेक्षितस्वाभ्युपगमानेकान्तदूषणत्वात् कस्य वयं विशे-10 प्यायमेवोन्मुग्धो भ्रान्त उन्मत्तो वेति दोषं ब्रूमः? न विशेषदोषः कस्यचिदपि । अतोऽनपेक्षितेत्यादि, अत एव कारणायेऽत्र चोदयन्ति परस्परविरुद्धानां कथमेकत्र सम्भव इति तेषां तदनपेक्षितस्वाभ्युपगममनेकान्तदूषणमापद्यते, स्वाभ्युपगमः स नापेक्षते यस्मिन् दूषणे तदनपेक्षितस्वाभ्युपगममनेकान्तदूषणम् , तद्यथा-सर्वं सर्वात्मकमविशिष्टं प्रतिज्ञाय परिणामभेदव्याख्यानश्चानपेक्ष्यानेकान्तदूषणम् । देशकालकृतात्यन्तविशिष्टत्वं प्रतिज्ञाय संतानविशेषव्याख्या- 15 नमनपेक्ष्यानेकान्तदूषणम् । असत्कार्योत्पत्तिं प्रतिज्ञाय तुल्यजातीयद्रव्यगुणान्तरारम्भनियमव्याख्यानञ्चानपेक्ष्यानेकान्तदूषणम् । कस्माद्धेतोः ? अविभावितैवमर्थ्यपूर्वाभ्युपगमत्वाद्वा, एकान्तवादिनामुक्तानेकान्तस्वरूपोऽर्थ एवमर्थः, तद्भाव ऐवमर्थ्यमविभावितमैवमर्थ्य पूर्वाभ्युपगमश्च यैस्त इमेऽविभावितैवमर्थ्यपूर्वाभ्युपगमा एकान्तवादिनस्तद्भावादविभावितैवमर्थ्यपूर्वाभ्युपगमत्वादुन्मुग्धभ्रान्तोन्मत्तादिवदनपेक्षितस्वाभ्युपगमानेकान्तदूषणत्वात् कस्य वयं विशेष्यायमेवोन्मुग्धो भ्रान्त उन्मत्तो वेति 20 दोषं ब्रूमः ? सर्व एव यूयमेवं दोषद्रष्टारः किं तपस्विना विशेषैकान्तवादिनैव वादिपरमेश्वरपरिरक्ष्यलोकतत्त्वविलोपनोद्यमिनेति, अत आह-न विशेषदोषः कस्यचिदपीति । प्रागभिहितसम्बन्धागतकल्पनात्मकत्वापादनचोद्यदूषणमनुक्त्वा तदभ्युपगमेन परिहारोक्तिरायतनस्वलक्षणं प्रत्येते स्वलक्षणविषया न द्रव्यस्वलक्षणं प्रतीति दोषं च लपित्वा प्रतिष्ठापितवानसि । 25 यति । अत एव कारणादिति, तथाऽविभक्ततत्त्वेन ज्ञानोत्पत्तेरेककाल एवोभयरूपत्वाद्हणापदेशविशिष्टार्थत्वाद्भेदामेदात्मकं वस्त्वविरुद्धं यतोऽत एव वादिप्रयुक्ता अनेकान्ते ये दोषास्ते स्वाभ्युपगमोपेक्षामूलका एवेति भावः । सांख्यबौद्धमैयायिकानां क्रमेणानपेक्षितखाभ्युपगममनेकान्तदूषणं दर्शयति-तद्यथेति सामान्यमादावभिधाय तस्यैव परिणामवर्णनात्सामाग्यविशेषात्मकत्वं खयं खीकृत्याप्यनेकान्तवादे दोषं वक्तीति स तथा। क्षणिकत्वं वस्तुन उक्त्वा सामान्यात्मकसन्तानखीकारात्सामान्यविशेषात्मकत्वमिति तद्दोषोऽप्यनेकान्ते तादृश एव । सदसत्कार्यवादमङ्गीकृत्यापि स्याद्वादे दूषणं नैयायिकस्म तार-30 मेव, अत्र हेतुमाह-अविभावितेति, मदीयोऽर्थोऽनेकान्तरूपः मया तथैव पूर्वमभ्युपगतोऽत्र दोषो नास्त्येवेति तैर्विचारमविधायैवोच्यन्त इति ते उन्मुग्धादिसदृशा अनेकान्ततत्त्वविलोपने समानव्यापारा इति सर्व एते समानतया दूध्या म स्वैक एवं विशेषकान्तवादी अभ्यो वा यः कोऽपीति भावः । कल्पनात्मकत्वापादनेति । भीलपीताबमेकप्रकार मिले द्वा० न० १३ 2010_04 Page #148 -------------------------------------------------------------------------- ________________ 5 द्वादशारनयचक्रम् [ विध्यरे (प्रागभिहितेति ) एतत्तु व्याख्यानं प्रागुच्चार्य चोदितमेव, दोषश्च लपित्वा प्रतिष्ठापितवानसि - स्थिरीकृतवानसीत्यर्थः, यत्तु समस्तालम्बनमित्यादि यावदित्येतत्प्रतिष्ठापितमेव स्थिरीकृतमिति । एष तु विशेषोऽज्ञानत्वप्रसङ्गस्तद्यथा - स्फुटतरक इत्यादि यावत्कुतः प्रत्यक्षत्वमित्येतपदर्शितम् । ( एष इति ) एष तु विशेषः कल्पनात्मकत्वदोषादन्यो दोषः कतमः ? अज्ञानत्वप्रसङ्गः । तार्थम् । योऽपि चैकाकारेत्यादिचोद्यप्रत्युच्चारणमेतद्यावत्सश्चितालम्बनतायाम् । (योsपि चेति ) एतदुक्तं भवति - यदि तदेकतो न विकल्पयति कथं सवितालम्बनता, कल्पनानन्तरीयका हि सा, कल्पनामन्तरेण न सम्भवतीति चोदिते तत्रोत्तरो वक्ष्यमाणो यः समाधिरभि10 धीयते स एव किलास्वलक्षणत्व दोष परिहारोऽभिमतोऽर्थद्वयवाचित्वाविरोधादस्य वाक्यस्येति तत्प्रत्यु चारयति सव्याख्यानम् - अनेकार्थजन्यत्वात् स्वार्थे सामान्यगोचरमित्यनेकद्रव्योत्पाद्यत्वात्तत् स्वायतने सामाम्यगोचरमुच्यते न तु तद्भिन्नेष्वभेदकल्पनात् तेषु पृथक्पृथग्ग्रहणाभावादिति । " ( अनेकार्थेति ) गतार्थः, पिण्डार्थस्तु यद्यपि परमाणुसमूहजन्यत्वान्न ज्ञानमर्थत: सामान्य15 गोचरं तथापि रूपं रसो वा स्वार्थोऽन्यापृथक्त्वादर्थान्तरकल्पने तस्य ज्ञानस्यापटुत्वात्, तच विज्ञानमुत्पादयितुं शिबिकोद्वाहकवत्संहत्य समर्थाः परमाणवो नान्यथेति सामान्यगोचरताऽस्तु को दोष: ? यदि तद्भिन्नेष्वभेदं कल्पयदुत्पद्येत तस्मात् कल्पनात्मकम्, न तु भिन्नेष्वभेदैकाकारपरिकल्पनात्तदुपद्यत इति । अस्यार्थस्य दृष्टान्तः— 20 यथाहि शमीशाखापत्रेषु ज्ञानमन्तादिमध्याविवेकेनोत्पद्यते, एवं प्रत्यक्षमपि । यथाहि शमीशाखापत्रेष्वित्यादि, यथा सर्वपत्रावलम्बनं ज्ञानमन्तादिमध्याविवेकेनोत्पद्यते एवं प्रत्यक्षमपि । रूपायतने कदाचिदेकेन द्रव्येण ज्ञानमुत्पाद्यते कदाचिदने केनेत्युक्तौ तर्हि तज्ज्ञानं कल्पनात्मकमस्वलक्षणविषयञ्च स्यादिति पर्यनुयोगे कृते कल्पनात्मकत्वप्रसङ्गे दूषणमनुक्त्वाऽऽआयतनखलक्षणं प्रत्येते स्वलक्षणविषया न द्रव्यखलक्षणं प्र 25 तद्दोषं स्थिरीकृतवानसीत्यर्थः । एष तु विशेष इत्यादि, अत्र मूलं न सम्यगुपलब्धम् । व्याख्याकृद्भिर्गतार्थमि त्युक्तवा मूलाक्षरार्थानभिधानात् । अनेकार्थजन्यत्वादिति, कदाचिदनेकेन द्रव्येण ज्ञानमुत्पाद्यत इति पक्षेऽनेकार्थजन्यत्वात्तज्ज्ञानं नार्थतो द्रव्यतः सामान्यगोचरम्, किंतु खार्थे सामान्यगोचरम्, स्वार्थश्च रूपं रसो वा, प्रमाणस्य हि विषयो बौद्धनये द्विविधः, ग्राह्योऽध्यवसेयश्च प्रायो यदाकारं ज्ञानमुत्पद्यते सः, प्रत्यक्षस्य हि क्षण एवैको प्रायः, स एवार्थ उच्यते, अध्यवसेयस्तु प्रत्यक्षबलोत्पन्नेन निश्चयेन सन्तान एव स एव च प्रत्यक्षस्य प्रापणीयो नतु क्षणः 30 अत्यन्तसूक्ष्मत्वेन प्रापयितुमशक्यत्वात् स एवानर्थ उच्यते एवञ्च रूपं रसो वाऽत्र समानं सन्तानरूपं रूपायतनं वा प्रायमन्यसाधारणत्वात् यथा शमीपत्रेषु ज्ञानमन्तादिमध्याविवे के नोत्पद्यते तथाऽनेकार्थजन्यं ज्ञानमपि परमाणुषु पृथकू पृथक विवेकेन रूपस्याग्रहणाद्रूपमिति सामान्येनान्यापृथक्त्वेन ग्रहणात्स्वार्थे सामान्यगोचरमित्युच्यते इति भावः । को दोष इति, न कोऽपीत्यर्थः इत्थं स्वार्थे सामान्यगोचरत्वेऽपि न कल्पनाकत्वदोषः, यदि हि तज्ज्ञानं भिन्नेष्वमेदं 2010_04 Page #149 -------------------------------------------------------------------------- ________________ संघातनिरासः] न्यायागमानुसारिणीव्याख्यासमेतम् स्यान्मतं तव्यतिरेकेण पत्रे समुदाये च यथा ज्ञान तथा प्रत्यक्षमपि स्यादित्येतच्चायुक्तम् , न च संघातः कश्चिदेकोऽस्ति, तेषामनारब्धलक्षणकायत्वात् , न हि समुदायो वैशेषिककल्पितकायद्रव्यवत् पृथगस्ति, नापि परिणामान्तरमापन्नम् , तेषां क्षणिकत्वादारम्भनिष्ठाकालभेदावस्थानाभावादेवमणुष्वपि । (स्यान्मतमिति) तेषां-कारणभूतानाम् । एवमणुष्वपीति दान्तिकं निदर्शयति । । अत्रोत्तरमुच्यते अयमसमाधिरेव, अस्यार्थस्य जरत्कुटीरवदारोहणाक्षमत्वादङ्गीकृतार्थविनाशित्वात् , शब्दकृतकत्वाभिव्यक्तिस्थापनार्थप्रवृत्तवैशेषिकवत् , कुतस्तत्साधर्म्यमिति चेदुच्यते, अविषयतां प्रतिज्ञाय तदतद्विषयतया तदतद्भूतसामान्यगोचरोपसंहारात्।। (अयमिति) अयमसमाधिरेव-त्वद्वाक्यजनितस्य प्राक् चोदितापायस्यायं समाधिरप्यस- 10 माधिरेव, अङ्गीकृतार्थविनाशित्वात् , शब्दकृतकत्वाभिव्यक्तिस्थापनार्थप्रवृत्तवैशेषिकवत्, वैशेषिकस्येव वैशेषिकवत् , अचाक्षुषप्रत्यक्षस्य 'गुणस्य सतोऽपवर्गः कर्मभिः साधर्म्यम् , सतो लिङ्गाभावात्' (वैशे० अ. २ आ० २ सू० २५,२६) कार्यत्वादिभिरनित्यत्वं वैशेषिकत्वात् सिद्धं कृतकत्वञ्च, तस्याभिव्यक्तिस्थापनार्थं प्रवृत्तस्य वैशेषिकस्येवाङ्गीकृतार्थनाशित्वमेवमनेकार्थजन्यत्वात् खार्थे सामान्यगोचरमित्यर्थवचनयोर्दोषः, तद्व्याचष्टे-कुतस्तत्साधर्म्यमिति चेदुच्यते-अविषयतां प्रतिज्ञाय तदतद्विषयतया 15 तदतद्भूतसामान्यगोचरोपसंहारात्, स चासश्च विषयोऽस्य स तदतद्विषयः, तद्भावस्तदतद्विषयता, तदतद्भूतं सामान्यं, तद्गोचरोऽस्य विषय उपसंहारस्य तस्मादुपसंहारात् । स चान्यश्च विषयः सामान्यस्येति तदन्यतरत्रैव न प्रवर्तते, एकतरत्रादृष्टत्वात् , त्वन्मतेनैव प्रतिष्ठां नियतत्वाद्भावानां नैकरूपमपि, तन्न च तत्र वृत्तं न चातोऽन्यत्र, तत्रावृत्तत्वात्तन्न भवति, अतत्रावृत्तत्वादतन्न भवति ततसदतद्भूतं सामान्यं गोचरोऽस्योपसंहारस्य यः स तदतद्विषयतया त्वयाङ्गीक्रियते । 20 कल्पयदुत्पद्येत घटोऽयं घटोऽयमिति तदा स्यात्कल्पनात्मकम् , न तु भिन्नेष्वभेदैकाकारपरिकल्पनात्तदुत्पद्यत इति न कल्पनात्मकत्वप्रसङ्ग इति भावः । दृष्टान्तवैषम्यं शङ्कते स्यान्मतमिति, यथाऽऽदिमध्यान्ताविवेकेन सर्वपत्रालम्बनं ज्ञानमिव प्रत्येकमपि पत्रे ज्ञानमुत्पद्यमानं दृश्यते तथैव परमाणुसमूहालम्बनं ज्ञानमिव प्रत्येकं परमाणुष्वपि प्रत्यक्षमुत्पयेतेति शङ्कार्थः । संघातस्य कस्यचिद्वस्तुनोऽभावाद्यदुत्पद्यते प्रत्यक्षं तदणुष्वेवेति समाधत्ते पूर्वपक्षी-नच सजात इति। आरम्मेति, आरम्भणक्रियाकालमवधीकृत्य यावत्समाप्तिक्रियाकालमेकस्यापि परमाणोः स्थित्यभावादित्यर्थः। 25 जरत्कुटीरवदिति, यथा जीर्णकुटीरमारोङमयोग्यं कृते चारोहणे तस्य विनाश एव प्रसज्यते तथाऽयं समाधिरङ्गीकृतार्थविनावित्वादसमाधिरेवेत्यर्थः । प्राक् चोदितापायस्य-प्रागभिहितदोषस्य । शब्दकृतकत्वेति, वैशेषिकमते शब्दो त्यनित्यः कृतकत्वात् , तत्र चक्षुन्निबहिरिन्द्रियजन्यप्रत्यक्षविषयस्य गुणस्य सत कर्मवदाशुविनाश उच्चारणादूई सद्भावे प्रमाणाभावाद्वेरीदण्डसंयोगादिकार्यत्वाच्च कृतकत्वं सिद्धम् , स एव वैशेषिको यदि शब्दस्याभिव्यक्तिस्थापनार्थ यतते तर्हि खालीकृतानित्यत्वलक्षणार्थहानिरेव तस्य स्यात्तथैवात्रापि दोष इति भावः । कथं तथाविधवैशेषिकतुल्यतेत्याशय समाधत्ते-कत-30 स्तदिति, अविषयतामिति, परमाणूनामविषयत्वं प्रतिज्ञायेत्यर्थः, परमाणूनामध्यवसेयलक्षणं विषयत्वं नास्तीति तेषामविषयता बोध्या, तदतद्धतसामान्यविषयत्वोक्तौ च परमाणूनामपि विषयत्वं प्रतिष्ठापितमेवेति वैशेषिकतुल्यताऽऽयाता । ननु तदतद्विषयत्वं सामान्यस्य भवतु तदतद्भुतत्वं कथमित्यत्राह-स चान्यश्चेति, उभयविषयत्वादुभयत्रैव तस्य वृत्तिः, न त्वन्यतरत्रैव, एकतरत्रैव वृत्तेरदृष्टत्वात् , तस्मात् सामान्यं तत्र वृत्तं न चातोऽन्यत्रेति नच, तथाच सामान्यं तत्रावृत्तत्वान तदात्मकमतत्रापि वृतेः, अतत्रावृत्तत्वादतदात्मकं न भवति तत्रापि वृत्तः, तस्मात्तदतद्भूतं तत् । यः स इति, गोचरी-35 2010_04 Page #150 -------------------------------------------------------------------------- ________________ १०० द्वादशारनयचक्रम् [विध्यर तस्मात्तदतद्विषयतया तदतद्भूतसामान्यगोचरोपसंहारादङ्गीकृतप्रत्यक्षविनाश इत्यत आह नन्वत एव न तत्प्रत्यक्षं स्वार्थे सामान्यगोचरत्वादनुमानवत्, अनुमानमपि वा न, स्वार्थे सामान्यगोचरमिति कुमारब्रह्मचारिपितृवचनवचैतत् ।। (नन्विति) स्वार्थ इति-खविषये-स्वग्राह्ये वस्तुनि सामान्यगोपरत्वाज्ज्ञानमप्रत्यक्षं दृष्टं 5 यथाऽनुमानमिति, अनुमानमपि वा नेति, नानुमानमपि तत्स्यात् स्वार्थे सामान्यगोचरत्वात् प्रत्यक्षवत् । खार्थे सामान्यगोचरमिति, एतत्स्ववचनविरोधे, किमिव ? कुमारब्रह्मचारिपितृवचनवचैतत्, यथा कश्चिद्भूयात् पिता मे कुमारब्रह्मचारीति, तस्य तद्वचनं स्वत एव विरुद्ध्यते, यदि पिता कथं कुमारब्रह्मचारी ? अथ कुमारब्रह्मचारी कथं पितेति । तथेदमपि यदि तज्ज्ञानं स्वार्थे कथं सामान्यगोचरम् , अथ सामान्यगोचरं कथं तत्स्वार्थे ? 10 स्वार्थ इति च त्वया प्रमेयमुच्यते, सामान्यतो वस्तुस्वलक्षणं स्वार्थ इति, तथा सामान्य लक्षणमिति लिङ्गगम्यं सर्वम् , अस्वार्थविशिष्टे-स्वविषये-एकस्मिन्नेव रूपादिप्रकारे सामान्यगोचरमिति, सामान्यविषयश्च स्वार्थे ज्ञानमिति च विस्पर्धितमेतम् , अर्थविषयशब्दौ हि लक्षणार्थावेव, तद्विस्मृत्य भ्रान्तेन नेन्द्रियग्राह्यस्वार्थसामान्यभेदकल्पनापरिहारो युज्यते वक्तुम् , प्रत्यक्षव्याख्याविषयत्वात् स्वार्थस्वलक्षणस्वविषयशब्दानाम् । 15 (वार्थ इति) स्वार्थ इति च त्वया न चक्षुषोऽन्यस्य वेन्द्रियस्य विषय इति विशेषमाश्रित्य लक्षणमभिधीयते किन्तर्हि ? प्रमेयमुच्यते, सामान्यतो वस्तुस्खलक्षणं स्वार्थ इति, तथा सामान्यलक्षणमिति न धूमानुमेयामिमात्रम् , किं तर्हि ? लिङ्गगम्यं सर्वम् , एतस्यार्थस्य प्रतिपादनार्थमाह स्वार्थलक्षणमेव निरूपयन्-अस्वार्थविशिष्टे, खोऽर्थः स्वार्थो न स्वार्थोऽस्वार्थ:-स्वार्थादन्यस्ततो विशिष्टः स्वार्थस्तस्मिन् स्वार्थे, तमेवार्थ पर्यायेणाह-स्वविषये, किमुक्तं भवति, एकस्मिन् रूपादिप्रकारे प्रकृष्टे 20 कारे रूपे रसेऽस्मिन्नेव सामान्यगोचरमिति, सामान्यविषयञ्च स्वार्थे ज्ञानमिति च विस्पर्धितमेतत् परस्परतो द्वयम् , यस्मादर्थविषयशब्दौ लक्षणार्थावेव-लक्षणशब्दपर्यायवाचिनौ, तस्मात् स्वार्थः खविषयः खलक्षणमित्येतद्विवक्षितं भवतः, तद्विस्मृत्य भ्रान्तेन नेन्द्रियग्राह्यस्वार्थसामान्यभेदकल्पनापरिहारो युज्यते वक्तुम् , कस्मात् ? प्रत्यक्षव्याख्याविषयत्वात् स्वार्थस्खलक्षणखविषयशब्दानाम् । भूतविषयपरामर्शको शब्दावेतौ । स्वविषय इति, प्रमाणस्य विषयो द्विविधः ग्राह्योऽध्यवसेयश्च, यदाकारं ज्ञानमुत्पद्यते स 25 ग्राह्यः, तच्च वस्तुनोऽसाधारणं तःचम् , यमध्यवस्यति सोऽध्यवसेयः प्रापणीयश्च, अन्यो हि ग्राह्योऽन्योऽध्यवसेयः सन्तानश्चाध्यवसेयः, अयमेव विकल्पस्यानुमानस्य च विषयः, सामान्यगोचरत्वादनुमानमप्रत्यक्षं, अनुमानेनावसीयमानस्यार्थस्य सनिधानासन्निधानाभ्यां ज्ञानप्रतिभासदाभावादेवं प्रत्यक्षस्य सामान्यगोचरत्वेऽनुमानवदप्रत्यक्षमेव तत्स्यादिति भावः । खार्थे सामान्यगोचरमित्यस्य विरुद्धवचनत्वं स्पष्टयति स्वार्थ इति चेति चक्षुस्तद्भिन्नेन्द्रियविषयत्वं न स्वार्थत्वं किन्तु खार्थः प्रमेयम् , सामान्यतो वस्तुखलक्षणमेव, यल्लिङ्गगम्यं तत्सर्वं सामान्यलक्षणमित्युच्यते, तथाच खार्थे ज्ञानं सामान्यविषयञ्चेति 30 विस्पर्षितम् , एकस्य ज्ञानस्य खलक्षणविषयत्वसामान्य विषयत्वयोर्विरुद्धत्वात् , अर्थ विषयलक्षणशब्दानां पर्यायत्वादिति भावः। अस्वार्थविशिष्टे-स्वार्थभिन्नात्सामान्यलक्षणाद्विलक्षणे, एवम्भूतः खविषयः खलक्षण एव नान्यः कश्चिदिति भावः । नेन्द्रिपमापति, खार्थसामान्ययोरिन्द्रियग्राह्यत्वं परिकल्प्य विरोधपरिहारो न शक्यते कर्तुमित्यर्थः । अस्यापव्याख्यानत्वं निर 2010_04 Page #151 -------------------------------------------------------------------------- ________________ प्रमाणसंप्लवनिरासः] न्यायागमानुसारिणीव्याख्यासमेतम् १०१ __मा मंस्था नैतदेवं भवतीति, उक्तं हि प्रमाणसंख्यानिरूपणे त्वयैव 'प्रत्यक्षमनुमानश्च प्रमाणे' इत्यादि प्रमाणद्वित्वं नियम्यते प्रमेयद्वित्वात् परिमेयद्वित्वनियतप्रस्थतुलादिपरिमाणद्वित्ववत् , लक्षणद्वयाद्यद्यन्यत् प्रमेयं स्यात्तदपेक्षया प्रमाणान्तरं स्यात् , नहि स्वसामान्या लक्षणाभ्यामन्यत् प्रमेयमस्ति, प्रत्यक्षानुमानाभ्यामग्रहणात् खरविषाणवत् । (मा मंस्था इति) तदर्शयति-यस्मालक्षणद्वयं प्रमेयं स्यात् ततोऽन्यत्-प्रमेयान्तरं वसा-5 मान्यद्वित्वरूपलक्षणं तदपेक्षया प्रमाणान्तरं स्यादिति, तन्निवारणार्थमाह-नहि स्वसामान्यलक्षणाभ्यामन्यत् प्रमेयमस्ति प्रत्यक्षानुमानाभ्यामग्रहणात् , खरविषाणवत् । स्यान्मतं तत्रैव विषयद्वये विकल्पसमुच्चयाङ्गाङ्गिभावैः प्रत्यक्षानुमानागमादीनां प्रमाणानां वृत्तिर्भविष्यतीति तन्न भवति यस्मात् स्वलक्षणविषयनियतं प्रत्यक्षं सामान्यलक्षणविषयनियतमनुमानमित्युक्तम् , कथं पुनर्लक्षणशब्दोऽर्थपर्यायः? अयते गम्यत इत्यर्थः, तथा लक्ष्यत 10 इति लक्षणं तच्च वस्तुस्वभावः, स्वरूपमर्थः प्रमेयमिति पर्यायाः, तत्पुनर्द्विरूपं द्वाभ्यां प्रमाणाभ्यां परिच्छेद्यत्वात् , प्रमेयाधिगमनिमित्तं हि प्रमाणमिति, न च प्रमाणयोर्विषयसङ्करः । (स्यान्मतमिति), (लक्ष्यत इति लक्षणमिति) कर्मसाधनत्वाल्लक्षणशब्दस्य, तञ्च लक्षणं वस्तुस्वभावः, स्वरूपमर्थः प्रमेयमिति पर्यायाः, तत्पुनर्द्विरूपं परिच्छेद्यं द्वाभ्यां प्रमाणाभ्यां परिच्छेद्यत्वात्, प्रमाणं परिच्छेदकं प्रमेयं परिच्छेद्यमित्यर्थः, यस्माल्लोके दृष्टं प्रमेयाधिगमनिमित्तं प्रमाणम् , हि 15 शब्दस्य हेत्वर्थत्वात् । प्रमेयाधिगमनिमित्तं हि प्रमाणमिति, नोचेत् 'अग्निहोत्रं जुहुयात् स्वर्गकामः, दानं दद्याद्धर्मकामः' इत्येवमाद्यागमवददृष्टार्थ प्रत्यक्षं स्यान्न त्वेवमतो दृष्टार्थमेव, एतदुपलम्भकत्वात् , उपलभ्यस्य द्विविधस्य दृष्टत्वात् , न च प्रमाणयोर्विषयसङ्कर इति प्रागुक्तयुक्तिको विविक्तविषयतां दर्शयति, इतिशब्दःप्रदर्शने, एतावानत्र संक्षेपेणार्थस्तद्विस्तरपरो ग्रन्थ इति सूचयति । इदानीं व्यवस्थितार्थोपसंहारार्थमिदं वाक्यमाह 20 अधिगम्यस्य द्वित्वाल्लक्षणशब्दोऽर्थपर्यायवाची नेन्द्रियग्राह्य इति स्थिते प्रत्यक्षानुमानयोः स्वरूपाभावः स्ववचनविरोधश्च दोषाः स्वार्थे सामान्यगोचरमिति ब्रुवत इति स्थितम् । स्यति मा मंस्था इति । प्रमेयद्वित्वादिति, नहि प्रमेयद्वैविध्यमन्तरेण प्रमाणद्वैविध्यं सम्भवति, प्रमेयभेदादन्यस्य प्रमाणमेदहतोरभावात् प्रमाणं द्विविधमेव, नहि खलक्षणसामान्यलक्षणाभ्यामन्यत् प्रमेयं प्रसिद्धमिति भावः। प्रमाणसंप्लवमाशय निराचष्टे स्यान्मतमिति । अधिगतमर्थमधिगमयता प्रमाणेन पिष्टं पिष्टं स्यादित्यन्यरूपतया तु तद्रहणमुत्तरप्रमाणेन दुःश-25 क्यमादिप्रमाणविरुद्धत्वात्, तमान प्रमाणसंप्लवो युक्तः, एवञ्च खलक्षणस्य प्रत्यक्षेण मुद्रितत्वात्ततोऽन्यस्य सामान्यस्यानुमानेन मुद्रितत्वात् केतरप्रमाणानामवकाश इति भावः । लक्ष्यतेऽनेनेति लक्षणशब्दस्य साधनपर्यायत्वात् कथमर्थपर्यायत्वमित्याशङ्कते कथं पुनरिति, अयत इत्यर्थः, लक्ष्यते यत्तलक्षणमिति कर्मसाधनत्वं तयोः शब्दयोः, लक्ष्यते हि वस्तुखभावः प्रत्यक्षेणानुमानेन चेत्यर्थो लक्षणापरपर्यायो द्विविधः, तथाच लक्षणमर्थः प्रमेयमिति शब्दा अभिन्नार्थाः सामान्यविशेषरूपेणार्थस्य द्वैविध्यात्तदधिगमनिमित्त प्रमाणमपि द्विविधमर्थद्वयस्य चैकप्रमाणाधिगम्यत्वे प्रमाणान्तरवैयर्थं स्यादतः कथं स्वार्थे सामान्य-30 मोचरं प्रत्यक्षमनुमानं वा स्यादिति भावः । नोचेदिति, नोचेद्धवनदानादेरिव प्रत्यक्षमप्यदृष्टार्थ स्यान्न त्वेवमस्ति, अतः प्रत्यक्षं दृष्टार्थमेवेति भावः । य एवेन्द्रियग्राह्यः स एवार्थो नान्य इति न युक्तं किन्तु वस्तुखभावात्मा लक्षणपर्यायोऽर्थशब्दः स द्विविधः प्रमाणद्वैविध्यादित्याशयेनाह-अधिगम्यस्येति । ततः किमित्यत्राह-प्रत्यक्षानुमानयोरिति । खलक्षणसामा 2010_04 Page #152 -------------------------------------------------------------------------- ________________ १०२ द्वादशारनयचक्रम् [ विध्यरे एवमवस्थिते सामान्यगोचरव्यावृत्तार्थेन भवितव्यम्, ततः स्वार्थे सामान्यगोचरमित्येतद्विरुज्यते । न हि तादृशस्वार्थेऽस्य सामान्यस्य सम्बन्धोऽस्ति, नापि सामान्यस्य स्वार्थस-म्बन्ध इति । (अधिगम्यस्य द्वित्वादिति), अधिगमनिमित्तं द्विरूपमित्येवं व्यवस्थापिते लक्षणशब्दोऽ5 पर्यायवाची नेन्द्रियग्राह्य इति, विशेषार्थः प्राक् कृतः, इत्येतस्मिंश्चार्थे स्थिते प्रत्यक्षानुमानयोः स्वरूपाभावः स्ववचनविरोधश्च दोषाः स्वार्थे सामान्यगोचरमिति ब्रुवतः प्रोक्तविधिनेति स्थितम्, पुनश्चात्रदोषः एवमवस्थिते ( इत्यादि ) । मा भूदेष दोष इति तस्मिन्नेव सामान्ये स्वविषये स्वार्थे प्रत्यक्षं ज्ञानमुत्पद्यत इति चेत्तत एव सामान्यमेव 10 स्वविषयः, स्वलक्षणं नास्त्यतो लक्षणद्वयं नास्ति, एकमेवानुमानं प्रमाणं स्यात्, ततश्च प्रमेयप्रमाणद्वित्वावधारणकल्पना व्यर्था, प्रमाणयोर्वा विषयसङ्करः प्राप्तः । ( तस्मिन्नेवेति ) अतः - पारिभाषितासाधारणस्वलक्षणविषयाभावादेवं कल्प्यमाने लक्षणद्वयं नास्ति, एकमेव-सामान्यलक्षणद्वयाभावात्तद्विषयमेकमेवानुमानं प्रमाणं स्यात्, ततश्च प्रमेयप्रमाणद्वित्वावधारणकल्पना व्यर्था । मा भूदवधारणवैयर्थ्यमिति स्वार्थे सामान्ये च प्रत्यक्षं प्रवृत्तं तथानुमान - 15 ति प्रमाणयोर्वा विषयसङ्करः प्राप्तः, वाशब्दादेकस्य ज्ञानस्य व्यर्थता या । प्रत्यक्षमपि वा परपरिकल्पितमनुमानभेद एव स्यात्, अनेकार्थजनितसामान्यगोचर रूपादिप्रकारपरिग्रहात्, त्वयैवोक्तं हि तत्रानेकार्थजन्यत्वात् स्वार्थे सामान्यगोचरमिति । धूमबलाकालिङ्गजनितज्ञानवत्, एतस्मादेव हेतोरस्वलक्षणविषयत्वञ्चोभयत्र । ( प्रत्यक्षमपीति ) प्रत्यक्षमपि वा परपरिकल्पितमनुमानभेद एव स्यात्, कस्माद्धेतोः ? अने20 कार्थजनितसामान्यगोचररूपादिप्रकारपरिग्रहात् मा ज्ञासीरसिद्धोऽयं हेतुरिति, त्वयैवोक्तं हि तत्रानेकार्थजन्यत्वात् स्वार्थे सामान्यगोचरमिति, अनेकेन भिन्नेनार्थेनाभिन्नमेकं सामान्यं रूपं रस इत्यादि प्रकारं परिगृह्मोत्पद्यमानं ज्ञानं तेन जनितं तत्तस्मादनेकार्थजनितसामान्यगोचररूपादिप्रकारपरिग्रहात्तस्य ज्ञानस्य, को दृष्टान्तः ? धूम बलाकालिङ्गजनितज्ञानवत्, धूमादत्राग्निर्बलाकाभ्योऽत्र जलमिति लिङ्गजनितयोरग्निजलज्ञानयोरपि स्वरूपतोऽनुमानत्वाभेदः, एवं रूपादिषूत्पद्यमानानां प्रत्यक्षाभिमता25 नामनुमानत्वाभेदः एतस्मादेव हेतोरस्वलक्षणविषयत्वञ्च, अस्वलक्षणविषयं प्रत्यर्थमनेकार्थजनितसामा न्ययोः प्रत्यक्षविषयत्वेऽनुमानाभावः, अनुमानविषयत्वे प्रत्यक्षाभावः प्राप्त इति तथा स्वलक्षणविषयज्ञानस्य सामान्यविषयत्वासंभवात्सामान्यगोचरस्य च स्वलक्षणविषयत्वासम्भवात्स्वार्थे सामान्यगोचरमिति विरुद्धं वचनमिति भावः । एवमवस्थित इति, एवं प्रमाणभेदेन विषयभेदे व्यवस्थिते सति, स्वार्थः सामान्यगोचरव्यावृत्तोऽभ्युपेय इत्यर्थः । परस्परासम्बद्धयोः सामान्यस्त्रार्थयोः प्रत्यक्षज्ञानजनकत्वे दोषमाह - तस्मिन्नेवेति । परेति - बौद्धेत्यर्थः, परपरिकल्पितं प्रत्यक्षमनुमानमेद 30 एवानेकार्थजनितसामान्यगोचररूपादिप्रकारपरिग्रहाद्धूमबलाका लिङ्गजनितज्ञानवत् । अत्रासिद्धिवारणायाह त्वयैवोक्तमिति । अनुमानत्वाभेद इति, प्रत्यक्षानुमानयो रूपरसादिव हिजला दिसामान्यप्रकारपरिग्रहेणोत्पद्यमानत्वाविशेषादिति भावः सामान्यगोचररूपादिप्रकारपरिग्रहेणोत्पद्यमानत्वादेवानुमान वदखलक्षणविषयत्वश्च प्रत्यक्षस्येत्याह - एतस्मादेव हेतोरिति । 2010_04 Page #153 -------------------------------------------------------------------------- ________________ मप्रत्यक्षत्वादिदोषाः] न्यायागमानुसारिणीव्याख्यासमेतम् १०३ न्यगोचररूपादिप्रकारपरिग्रहादनुमानवत् , उभयत्रेत्यनेनानुमानेऽप्यस्खलक्षणविषयत्वं तत एव हेतोरनन्तरभावितप्रत्यक्षवत् । अथवोभयत्रेति स्वलक्षणे सामान्यलक्षणे चास्वलक्षणविषयत्वम् , अनेकैकीभावात् , समुदायवत्, सामान्यमपि न स्वलक्षणमत एवानन्तरोक्तसमुदायवत् । सामान्यास्वलक्षणत्वं सिद्धं साध्यत इति चेन्न, स्वार्थ एव सामान्यगोचरमिति वचनात् स्वार्थत्वेनाभ्युपगतत्वात् ।। अथवोभयत्रेति स्खलक्षणे सामान्यलक्षणे चावलक्षणविषयत्वम् , कथं ? स्खलक्षणाभिमतमस्खलक्षणमनेकैकीभावात् समुदायवत्तस्मात्सामान्यमपि न खलक्षणमत एवान्तरोक्तसमुदायवत् । सामान्यास्वलक्षणत्वं सिद्धं साध्यत इति चेन्न, स्वार्थ एव सामान्यगोचरमिति वचनात् स्वार्थत्वेनाभ्युपगतत्वादिति । अवश्यश्चैतदेवमभ्युपगन्तव्यं यतश्शमीशाखापत्रसंघाताविशेषदर्शनोदाहरणेन च 10 स्फुटमेव दर्शितमप्रत्यक्षत्वमनुमानत्वमप्रमाणत्वमस्वलक्षणविषयत्वं विषयसङ्कर इत्येवमादिदो. पजातम् , अनेकैकत्वापत्तिसामान्यगोचरस्वलक्षण एवार्थः प्रत्यक्षस्येत्येषा भवत आशंसा चेन्न, आरात्परान्तमध्यवर्णप्रमाणसंस्थानविविक्तवृत्त्यवस्थपत्रविशेषस्वलक्षणसामान्यात्मकत्वात् । (अवश्यमिति) अनेकैकत्वापत्तिसामान्यं गोचरः, स एव स्खलक्षणः-सामान्यगोचर एव खलक्षणः, असावेवार्थः प्रत्यक्षस्यैषा भवत आशंसा चेन्न, आरात्परान्तमध्येत्यादि यावत्स्वलक्षण 15 विषयसामान्यात्मकत्वात् , नैतदुपपद्यते पूर्वापरादिपरस्परविविक्तावस्थापन्नविषयसामान्यात्मकत्वात् , आरादन्तः, परान्तः, मध्यः, नीलप्रकर्षादिवर्णः, ह्रखदीर्घाल्पमहत्त्वादिप्रमाणं वृत्तादिसंस्थानश्च तैर्विविक्ता वृत्तयोऽवस्थाश्च येषां पत्रविशेषाणां ते विविक्तवृत्त्यवस्थपत्रविशेषास्त एव स्वलक्षणाः विषयोऽस्य सामान्यस्य तत् स्खलक्षणविषयसामान्यमात्मा स्वरूपमस्य तद्भावः सामान्यात्मकत्वं तस्मात् सामान्यात्मकत्वात् । एतदुक्तं भवति, देशाकृतिवयोवर्णप्रमाणसंस्थानादिभिरत्यन्तविशिष्टानां स्वल-20 क्षणानामेव सामान्यात्मकत्वं नान्यत्सामान्यमस्त्यतोऽनुपपन्नमनेकैकत्वापत्तिसामान्यगोचरस्खलक्षण एवार्थ इति । ननूक्तमनेकैकत्वापत्तिसामान्यगोचरमिति तन्न, यस्मान्न च सङ्घातः कश्चिदस्ति, न च परिणामान्तरम् , तेषामनारब्धस्वलक्षणकायत्वात् , एवमणुष्वपि तथा, तस्मान्न स्वार्थे सामान्यगोचरं ज्ञानमिति । 25 प्रत्यक्षग्राह्यत्वेनाभिमतं खलक्षणमपि वस्तुतो न खलक्षणमित्याह-अथ वेति । प्रयोगमाह-स्खलक्षणाभिमतमिति, अनेकैकीभावात्-अनेकेभ्यः परमाणुभ्यस्तस्यामेदेन भवनादित्यर्थः, सामान्यमपि न खलक्षणमित्याह-सामान्यमपीति, ननु सामान्यस्याखलक्षणत्वं सिद्धमेव साध्यत इत्याशङ्कते सामान्येति । स्वार्थत्वेनेति, सामान्यस्योक्तवचनेन स्वार्थत्वेनाभ्युपगतत्वान्न तस्यास्खलक्षणत्वं सिद्धमिति भावः । अनेकार्थजन्यखार्थसामान्यगोचरज्ञानस्याप्रत्यक्षत्वादिकं त्वयाऽवश्यमभ्युपेयमित्याह-अवश्यञ्चैतदिति, यथाऽनेकार्थजन्यत्वात्स्वार्थे सामान्यगोचरमित्यत्र प्रत्यक्षस्योदाहरणत्वेन शमीशाखापत्रेषु 30 ज्ञानस्य प्रदर्शनात् स्फुटमेवाप्रत्यक्षादिदोषजातं विषयसङ्करश्च प्रत्यक्षानुमानयोर्बोध्यः। आरादिति, अनपेक्षितादिमध्यान्तरूपादिहखादिवृत्ताद्यवस्थाः पत्रविशेषा एव खलक्षणाः सामान्यात्मका नान्यत्किञ्चित्सामान्यमस्ति तस्मान्ममैवाशङ्केयम्, न तु तथास्माकमभ्युपगम इति जस्पनमसाध्विति भावः । ननूक्तमिति, अत्रत्यशङ्कासमाधानव्याख्या स्यान्मतं तव्यतिरेकेणे _ 2010_04 Page #154 -------------------------------------------------------------------------- ________________ 5 द्वादशारनयचक्रम् [ विध्यरे ( ननूक्तमिति ) चशब्दान्नावयवी न च परिणामान्तरं तद्व्यतिरिक्तं त्वन्मतेन, कस्माद्धेतोः ? तेषां - पत्राणामनारब्धस्वलक्षणकायत्वात्, न हि पत्रविशेषैरारब्धं किञ्चित्कार्यान्तरमस्ति, त एवं नारब्धलक्षणा: पत्रविशेषाः सचित्य कार्यभूताः, तस्मान्न तेष्वन्यत्सामान्यमस्ति, एवमणुवपि - परमाणुष्वपि तथा - न किञ्चित्सामान्यमस्ति तस्मान्न स्वार्थे सामान्यगोचरं ज्ञानमिति । १०४ यदपि चोक्तमनेकद्रव्योत्पाद्यत्वात्तत्स्वायतने सामान्यगोचरमित्युच्यते, न तु भिन्नेष्वभेदकल्पनादिति, साऽपि त्वदिष्टा नोपपद्यते, न हि तदनेकद्रव्योत्पाद्यम्, किन्तु सचयात्, न च सञ्चयः सामान्यम्, ततो न स रूपादिभ्यो भेदेन कश्चिदस्ति, अत एव न प्रत्ययस्यालम्बनं युज्यते, अभूतत्वाद्वन्ध्यापुत्रवत् । ( यदपीति) सापि - सामान्यगोचरतापि च न घटते, यस्मान्न तदनेकद्रव्योत्पाद्यम्, कुतस्त10 ह्युत्पद्यते ? सखयात् न च सञ्चयः सामान्यम्, तस्मान्न च स रूपादिभ्यो भेदेन कश्चिदस्ति रूपादिसञ्चयः, अत एव न प्रत्ययस्यालम्बनं युज्यते, प्रत्ययो ज्ञानम् । किं कारणं ? अभूतत्वाद्वन्ध्यापुत्रवत् । स्यादाशङ्का स्वाभासज्ञानोत्पत्तेरालम्बनं भविष्यति समुदायोऽकारणे सत्यपि, एतत् कुत: ? अकारणत्वादेवालम्बनत्वाभावे का प्रत्याशाऽऽभासार्थस्येत्यत आह अनालम्बनत्वाच्चाभासार्थमपि तन्नास्ति, वन्ध्यापुत्रत्वाना भासवत्, स्वाभासं हि यस्य 15 ज्ञानेन स्वाभावावभासः, अस्वत्वादनात्मकत्वात् कुत आभासविज्ञापनम् ? (अनालम्बनत्वाचेति) अनालम्बनत्वाश्चाभासार्थमपि तन्नास्ति, किमिव ? वन्ध्यापुत्रवानाभासवत्, यथा ह्यसत्वादनालम्बनं वन्ध्यापुत्रः, अनालम्बनत्वाश्चानाभासः, तथा सञ्जय इति, स्वाभासं हीत्यादि विषयो हि नाम यस्त्र ज्ञानेन स्वभावावभास इति त्वदुक्तोपपत्तिरेवात्र व्यापार्यते, तत्पुनः कुतः ? अस्वत्वादनात्मकत्वात्, यस्त्वात्मना स्वभावेनासिद्धः स न विषयः स्याज्ज्ञानस्येति, 20 का युक्तिः ? अस्वत्वात्वस्याद्रव्यत्वात् परमार्थसत्त्वाभावात् कुत आभासविज्ञापनम्, -परवाचोयुक्त्या विज्ञापनम्, विज्ञप्तिर्बुद्धिरिति पर्यायात्, दूर एवत नास्तीत्यर्थः । एवं तर्हि स्वे तु परमाणवः आत्मानस्ते विषयतां यान्तु नेत्युध्यते, ते नाभासमुत्पादयि - यापूर्वम्पस एव कृता तत एव द्रष्टव्या । येभ्यः कार्यान्तरमारभ्यते तत्प्रति तेषां विशेषता कार्यान्तरस्य सामान्यता भवेत्, न तथा पत्रविशेषैः कार्यान्तरमारभ्यते किन्तु त एव सञ्चित्य कार्योंभूता अतो नान्यत् सामान्यमस्तीत्येवं परमाणुष्वपि 25 भाव्यमिति भावः । नोपपद्यत इति, यज्ज्ञानमनेकद्रव्योत्पाद्यतया रूपायतने सामान्यगोचरतयाऽभिमतं तज्ज्ञानं सचयावुत्पन्नं न त्वनेकद्रव्यात्, सञ्चयोऽपि न रूपादिभ्यो मेदेन कश्चिदस्ति, न वा सञ्चयः सामान्यम्, अत एवाभूतत्वात् सामान्य न तस्यालम्बनं भवितुमर्हति, अन्यथा खरविषाणोऽप्यालम्बनं स्यादिति भावः । यदेव कारणं ज्ञानस्य तदेवालम्बनमिति नास्ति नियमः, अकारणत्वेऽपि मृगतृष्णिकादेरालम्बनत्वादाभासज्ञानस्य, अतोऽकारणत्वेऽपि सामान्यस्याssलम्बनता युज्यत इत्याशङ्कते - स्यादाशङ्केति, स्वाभासज्ञानं खमाभासयज्ज्ञानं स्वविषयं ज्ञानमित्यर्थः । एतत् कुत इति, अकारणस्या30 प्यालम्बनत्वं कुत इत्यर्थः । समुदायस्यालम्बनत्वमेव नास्ति, असत्त्वाद्वन्ध्यापुत्रवदिति न ज्ञानविषयतेत्याह- अनालम्बन. त्वाश्चेति, यस्य स्वभावमवभासयति ज्ञानं स एव विषय इति तवाभिमतम्, सञ्चयस्य स्वत्वं स्वभावो नास्ति परमार्थ सद्रूपत्वाभावात्, अतः कथं स्वभावावभासः सञ्चयस्य ज्ञानेन कर्तुं पार्यत इति न सञ्चयो विषय इत्याह-स्वाभासं हीत्यादीति । परमाणवोऽप्यतीन्द्रियत्वाद्विज्ञानस्य नालम्बनं, तस्मात् प्रत्यक्षज्ञानं निरालम्बनमापन्नमित्याह एवं तहींति, परमाणूनां 2010_04 Page #155 -------------------------------------------------------------------------- ________________ बौद्धवचनासङ्गतिः] न्यायागमानुसारिणीव्याख्यासमेतम् तुमलमतीन्द्रियत्वादतीन्द्रियत्वं निराभासत्वाद्विषयवदिति प्रत्यक्षज्ञानं नोत्पद्यते निरालम्बनत्वात् , खपुष्पवत् । (एवं तहीति) इतिशब्द उपसंहारे, इतीत्थमनालम्बनत्वं सञ्चयस्याणूनाञ्च सिद्धं प्रत्यक्षज्ञानस्य, तस्मात् प्रत्यक्षज्ञानं नोत्पद्यते निरालम्बनत्वात् , खपुष्पवत् ।। अतः प्रत्यक्षस्याभावे स्ववचनव्यपेक्षाक्षेपदुस्तरविरोधप्रस्तुतेश्च कल्पनापोडं प्रत्यक्षमि- । त्येतल्लक्षणमनर्थकं स्यात् , तस्मिन्नभ्युपेतेऽपि तु सञ्चितालम्बनप्रत्ययत्वेनैवास्य प्रत्यक्षता सिद्ध्यति, त्वन्मतेनैव तदाभासं, कल्पनात्मकत्वात् । (अत इति) अतः प्रत्यक्षस्य निरालम्बनस्य खपुष्पवदनुपपत्तरुक्तोपपत्तिविधिना कल्पनापोढस्य सविषयस्य प्रत्यक्षस्य ज्ञानस्य वाऽभावे प्रतिपादिते स्ववचनव्यपेक्षाक्षेपदुस्तरविरोधप्रस्तुतेश्च कल्पनापोढं प्रत्यक्षमित्येतल्लक्षणमनर्थकं स्यालक्ष्यस्याभावात् खरविषाणस्य कुण्ठतीक्ष्णादिनिर्णयवत् , 10 अभ्युपेतेऽपि तु विषये दोषः, स चाभ्युपगम्यमानोऽपि विषयः सञ्चय एव सम्भाव्येत, न परमाणवोऽतीन्द्रियत्वात् स चालम्बनप्रत्ययो ज्ञानस्य सञ्चयस्तस्मिन्नभ्युपेतेऽपि तु सञ्चितालम्बनप्रत्ययत्वेनैवास्य प्रत्यक्षता सिद्ध्यति, त्वन्मतेनैव तदाभासत्वात् , तदाभासत्वं कल्पनात्मकत्वात् । उक्ता च कल्पनात्मकता 'तदुभयमपि भ्रान्तिज्ञानात्मकत्वात् , भ्रान्तिः संज्ञासंख्यासंस्थानवर्णान्यथाकल्पनात्, मृगतृष्णिकाप्रत्ययवद्द्विचन्द्रप्रत्ययवदलातचक्रप्रत्ययवत् काम- 15 लोपहतचक्षुषो नीलरूपपीतप्रत्ययवदिति । (उक्ता चेति) संज्ञा च संख्या च संस्थानञ्च वर्णश्च तेषां वैर्वाऽन्यथाकल्पनादन्यथाप्रतिपत्तिरेव ते कल्पनाऽभिमता, संज्ञासंख्यासंस्थानवर्णानामन्यथाप्रतिपत्तेमगतृष्णिकाप्रत्ययवहिचन्द्रप्रत्ययवदलातचक्रप्रत्ययवत् कामलोपहतचक्षुषो नीलरूपपीतप्रत्ययवदिति यथासंख्यं दृष्टान्ताः, यथाक्रमञ्च हेतोर्वा भ्रान्तिज्ञानात्मकत्वे साध्ये, ततश्च प्रत्यक्षत्वाभावे साध्ये तत्समर्थनार्थ उत्तरो ग्रन्थः। 20 तदर्थमुपसंहत्यान्ते साधनम् 'अत इदं नैव प्रत्यक्षम् , अतथाभूतार्थाध्यारोपात्मकत्वात् , भ्रान्तिवत् , अथवा तत एव हेतोः संवृतिसंज्ञानवदप्रत्यक्षम्', तद्व्याख्या यथापरमार्थसदूपत्वात् खभावस्य सम्भवेन ज्ञानं तमवभासयतीति परमाणूनां विषयत्वमालम्बनत्वं स्यादिति भावः । नालम्बनता तेषामतीन्द्रियत्वादित्याह-तेनाभासमिति । एवञ्च कल्पनापोढं प्रत्यक्षमित्यलक्षणम् कल्पनात्मकत्वात् प्रत्यक्षस्य निरालम्बनत्वाच खवचनव्यपेक्षाक्षेपदुस्तरविरोधप्रस्तुतेश्च खरविषाणस्य कुंठतीक्ष्णादिनिर्णयवदित्यनर्थकत्वं साधयति-अत इत्यादिना 25 खेनैव वचनेन पूर्वापरेण प्रत्यवमृश्यमानेन दुस्तरस्य विरोधस्य प्राप्तेरित्यर्थः। आलम्बनभूतं विषयमभ्युपेत्यापि दोषमभिदधातुमाह तस्मिन्नभ्युपेतेऽपि विति,सच विषयः सञ्चय एव वाच्यो न तु परमाणुरतीन्द्रियत्वात् ,एवञ्च तत् प्रत्यक्षं सञ्चितालम्बनरूपं जातम् , स च प्रत्यक्षाभास एव त्वन्मतेन कल्पनात्मकत्वात् , खलक्षणविषयञ्च प्रत्यक्षमसिद्धमिति भावः। कथं तस्य कल्पनात्मकतेत्यत्राह-उक्ताचेति, संज्ञासंख्येति, मृगतृष्णकाप्रत्ययः संज्ञयाऽन्यथाप्रतिपत्तिरूपः, अजलायां मृगतृष्णिकायां जलबुद्धेः। द्विचन्द्रप्रत्ययः संख्ययाऽन्यथाप्रतिपत्तिरूपः चन्द्रस्यैकत्वात् , अलातचक्रप्रत्ययः संस्थानेनान्यथाप्रतिपत्तिरूपः, अग्निक-30 णानां चक्ररूपत्वाभावात् , नीलरूपे पीतप्रत्ययो वर्णनान्यथाप्रतिपत्तिरूपः, चक्षुर्गतपीतताया अन्यत्र विज्ञानात् , तदर्थमुपसंहत्येति । अन्ते-पूर्वपक्षिणो बौद्धस्याभिधर्मकोशे प्रत्यक्षादिज्ञाननिरूपणप्रकरणान्ते इत्यर्थः । अत्रापि तद्रन्थानुपलम्मेन साधु मूलव्याख्याविवेकः कर्तुमहमसमर्थः संवृत्त इति सुधीभिर्भाव्यम् । अतथाभूतेति, खलक्षणं हि अनारोपितं वस्तु तत्र साधारणं रूपमारोप्यते समारोप्यमाणं हि सकलपरमाणुसाधारणम् , तथा चातथाभूतार्थाध्यारोपात्मकत्वात, भ्रान्तिज्ञानमिव द्वा० न० १४ 2010_04 Page #156 -------------------------------------------------------------------------- ________________ द्वादशारनयचक्रम् [विध्यरे गोपालेत्यादिना दृष्टान्तं समर्थ्य तथा संवृतिसतीत्यादिना दार्टान्तिकसमर्थनम्। संवृतिसल्लक्षणे ज्ञापकमाह 'यस्मिन् भिन्न' इति श्लोकः । (तदिति), भ्रान्तिवत्-नावारूढस्य तीरवृक्षधावनदर्शनात्मिकामेकां क्रियाभ्रान्ति मुक्त्वा प्रोक्तचतुर्विधभ्रान्तिवत् , उपनयस्तु व्यवहारप्रसिद्धस्य परमाणुनीलत्वग्रहणस्य सर्वत्रातथाभूतार्थप्रति5 पत्तिसाधर्म्यात् । ___ यस्मिन् घटे भिन्ने कपालशकलशर्करादिभावेन घटाभिमताद्वस्तुनोऽन्येष्वप्यपोहेषु कपालादिषु न घटबुद्धिरस्ति, तदग्रहे तबुद्ध्यभावात् , अङ्गल्यभावे मुष्टिबुद्धिवत् , अतोऽङ्गुलिव्यतिरेकेण मुट्यभाववत् कपालादिव्यतिरेकेण घटाभाव इति संवृतिसन् घटः, एवं क्रिया सम्भवे क्रिययाऽपोढे । यत्रापि क्रिययाऽपोहो न सम्भवति तत्रापि धियाऽपोहेऽन्येषां रूपादीनां 10 घटस्य समुदायान्न तद्बुद्धिरस्ति, रूपादिसमुदायस्य च परमाणुरूपाद्यपोहे न तद्बुद्धिरस्तीति वर्तते दृष्टान्तोऽम्बुवत् , एकस्मिन्नपि जलबिन्दौ जलबुद्धिदर्शनात् , रूपादिषु पुनर्बुद्ध्याऽपोढेषु न तोयबुद्धिरस्तीत्येतत्संवृतिसतो लक्षणम् । अथवा यस्मिन् घटे भिन्नेऽवयवशो न तद्बुद्धिर्भवति तद्धटवत्संवृतिसत्, यत्र चाम्बुबुद्ध्यार्थान्तरापोहे न तद्बुद्धिरर्थान्तरनिवृत्ति रूपस्य वस्तुनः स्वरूपाभावादग्निवाय्वादिनिवृत्तिमात्रं व्यवहारप्रसिद्धाम्बुवत्तदपि संवृतिसत्, 16 परमार्थसदन्यथा, एतद्विपरीतलक्षणम् , स्वत एव विविक्तरूपं यद्विद्यते रूपं रस इत्यादि तत्परमार्थसत् प्रत्यक्षगोचरमिति' । एतदपि परमार्थसदित्यभिमतं संवृतिसल्लक्षणानतिवृत्तेरसदेव यथोक्तविधिना । यथा रज्वां सर्प इति ज्ञानं, तददृष्टौ तत्रापि सर्पवद्रज्जुविभ्रम इत्यप्रत्यक्षं नीलादिविषयं चक्षुरादिविज्ञानं शाक्यपुत्रीयं भ्रान्तिवदिति । (यस्मिन्निति) (असदेवेति) यथोक्तविधिना संवृतिसदेव सर्वमपीत्यत्रापि ज्ञापकोदाहरणं 20 तत्संवाद्यभिहितं रज्वां सर्प इति ज्ञानम् , तावदेव रज्ज्वां सर्प इति विपर्ययज्ञानं भवति यावदस्मदादिभिर्विशेषलिङ्गादर्शनम् । विशेषतस्तु तदवधारणदृष्टौ सत्यां प्राक्तनं सर्पदर्शनं जायतेऽनर्थकम् । सापि रज्जुबुद्धिस्तदवयवे दृष्टौ सत्यां यथा सर्प इति ज्ञानमनर्थकं तथानयिंका, तत आह-तददृष्टौ तत्रापि सर्पवद्रजुविभ्रम इति । एवमनया कल्पनया सर्पपिण्डज्ञानानां संवृतिसद्विषयतैवेति साधूक्तम त्वदुक्तं प्रत्यक्षमपि नैव प्रत्यक्षं सञ्चितालम्बनप्रत्ययत्वेनैवास्य प्रत्यक्षत्वादिति भावः । यस्मिन् भिन्न इति, 'यस्मिन् भिन्ने न 25 तद्बुद्धिरन्यापोहधियाऽपि च। घटाम्बुवत्संवृतिसत् परमार्थसदन्यथा' इति कारिका। तामेतां कारिकां व्याख्याति-यस्मिन् घटे भिन्न इति । एवं क्रियासम्भव इति, घटस्य क्रियया पुरुषादिप्रयत्ननिर्वृत्तया कपालादिभावेन मेदे सति न तद्बुद्धिरिति प्रथमपादव्याख्यानं कृतम् , यत्र क्रियया मेदः कर्तुं न शक्यते तत्राप्याह-यत्रापीति, द्वितीयपादव्याख्येयम्, बुङ्ख्या यदि घटे रूपादिकमपनोद्यते तदा घटबुद्धिनिरुज्यते, रूपे च परमाणुत्वं प्राप्तेऽपि रूपबुद्धिः प्रवर्तत एव अतस्तत्परमार्थसदिति, जलसमुदायस्यापोहेऽपि जलबिन्दौ जलबुद्धिरस्तीति खत एवेति, यस्य भेदरूपता क्रियया बुद्ध्या वा न कर्तुं शक्यते 30 किन्तु खतो विविक्तं तादृशं रूपं रसादि परमार्थसदित्यर्थः । यद्भवतः परमार्थसत्त्वेनाभिमतं तदपि प्रोक्तविधिना संवृतिसदेवेति मूलकृदाह-एतदपीति । सञ्चितस्यैव प्रत्यक्षादिविषयतया बुद्ध्या मेदे परमाणोरेकस्याप्राह्यतया न परमाणुरिति बुद्धिरस्तीति परमाणुरपि संवृतिसन्नेवेति भावः । तदवधारणदृष्टौ सत्यामिति, रजरेव नायं सर्प इत्येवमवधारणे दृष्टे सतीत्यर्थः । तथैव रजुबुद्धिरप्यनर्थिका भवति यदा विशेषतो रजववयवदर्शनं भवतीत्याह-सापीति, तददृष्टाविति, विशेषलिङ्गादर्शन 2010_04 Page #157 -------------------------------------------------------------------------- ________________ प्रत्यक्षस्याप्रत्यक्षता] न्यायागमानुसारिणीव्याख्यासमेतम् प्रत्यक्षं नीलादिविषयं चक्षुरादिविज्ञानं शाक्यपुत्रीयं भ्रान्तिवदिति । एवं तावत्कल्पनापोढप्रत्यक्षलक्षणसञ्चितालम्बनपञ्चविज्ञानकायग्रन्थविरोधोद्भावनचोद्योपक्रमायातपरिहारार्थस्यानेकार्थजन्यस्वार्थसामान्यगोचरवाक्यस्य सप्रसङ्गो दोषोऽभिहितः । अधुना यदेतदनेकरूपेत्यादिग्रन्थचोद्यद्वाराऽऽयातकल्पनात्मकत्वपरिहारार्थं यथोक्तमायतनस्वलक्षणं प्रतीति तत्कथमित्येतत्परिहारार्थस्य तस्य वाक्यस्य दोपं वक्तुकामः परपक्षमेव तावत् प्रत्युच्चारयन् । व्याचष्टे सूरिष्टीकाकारलिखितं लिखन् __ यावदेकाकारपरिकल्पनादिति, उत्तरन्त्वत्राप्यनेकार्थविषयैकप्रत्ययत्वात्-तेषु परमाणुषु प्रत्येकमतीन्द्रियेषु समुदितेष्वसमुदितेषु वा प्रत्ययाभावात्तत्समूहोऽनेकार्थविषयः स एवैकः प्रत्ययः, समूहालम्बनतदाभासज्ञानोत्पत्त्यभ्युपगमात्, अर्थभेदविषयज्ञानाभ्युपगमे च 'विजानाति न विज्ञान'मित्यादि विरुद्ध्येत, तस्मादेकप्रत्ययोऽनेकार्थविषय एकार्थरूपस्तत 10 एव सामान्यरूपस्तदतद्विषयतया तदतद्भूतसामान्यगोचरः ततश्चास्वलक्षणो विषयः, अतएव संवृतिसञ्चयस्तस्मात् कल्पनात्मको निर्देश्यश्चेत्येवमाद्यस्माभिः प्राक् प्रक्रान्तं तत्सुतराम्, शेष त्वयैव भावितमनेकार्थजन्यत्वात् स्वार्थे सामान्यगोचरमिति परिहारं ब्रुवता । (यावदिति), गतार्थम् , उत्तरं त्वत्रापि, अपिशब्दात् पूर्वस्मिन्नर्थविकल्पे व्याख्याता दोषास्तेऽत्रापि सम्भवन्ति, कथमिति चेत् ? अनेकार्थविषयकप्रत्ययत्वात् , अनेकोऽर्थः परमाणवः, तद्विषय 15 एक इति प्रत्ययः, सोऽनेकार्थविषयकप्रत्ययः, तद्भावादनेकार्थविषयकप्रत्ययत्वात् । (अखलक्षणो विषयः) त एव हि परमाणवः खलक्षणम् , न तत्समूहः सामान्यत्वात् , अत एव संवृतिसञ्चयः सः, तस्मात्-अखलक्षणविषयत्वात् । किश्वान्यत् भवदभिमतप्रत्यक्षस्याप्रत्यक्षत्वसाधने च द्वे अनेकार्थजन्यत्वात् स्वार्थे सामान्यगोचर- 20 त्वादिति लेशेनोनीते त्वयैव । (भवदिति) मा भूत् स्वाभ्युपगमदोषव्यक्तिरित्युक्ते कुशलजनतर्कगम्ये न स्फुटे, कतमे द्वे ? अनेकार्थजन्यत्वात् , स्वार्थ सामान्यगोचरत्वादिति चैते द्वे ।। इत्यर्थः । तत्रापि- रजौ। एवं तावदिति, कल्पनापोडं ज्ञानं प्रत्यक्षम् , सञ्चितालम्बनाः पञ्च विज्ञानकाया इति ग्रन्थोपरि विरोधे उद्भाविते तद्वारणार्थ अनेकार्थजन्यत्वात्स्वार्थे सामान्यगोचरमिति वाक्यमुपन्यस्तम् तच्च दूषितमिति भावः । 25 यच्चोक्तमनेकप्रकारभिन्नैकानेकद्रव्योत्पाद्यज्ञानेत्यत्र कल्पनात्मकत्वप्रसङ्गोऽखलक्षणविषयत्वप्रसङ्गश्चेति चोदिते तत्परिहारार्थमायतनखलक्षणं प्रत्येते खलक्षणविषया न द्रव्यखलक्षणमिति कथं तत्कल्पनापेतमित्यन्यत्र विचारः करिष्यत इति तदिदानी विचार्यते यावदेकाकारेति, समूहालम्बनेति, अनेकविषयतैकविज्ञानं दूरान्मणिसमूहदर्शनवदखलक्षणविषयमनुमानतदाभासज्ञानवदसत्कल्पनविषयत्वादप्रत्यक्षमप्रमाणं वा स्यादिति भावः। अर्थभेदेति रूपायतनं परमाण्वादि च प्रतीत्य ज्ञानाभ्युपगम इत्यर्थः। अनेकार्थविषय एकार्थरूप इति, सामान्यलक्षण एकप्रत्ययस्तदतद्विषयतया सामान्यगोचरो- 30 ऽभ्युपेय इत्यर्थः अग्रे स्फुटमेव । एते द्वे इति, अप्रत्यक्षत्वसाधने सूक्ष्मबुद्धिगम्ये न च स्फुटे त्वयैवोपात्ते इत्यर्थः । _ 2010_04 Page #158 -------------------------------------------------------------------------- ________________ १०८ द्वादशारनयचक्रम् [ विध्यरे तत्र तावत्प्रथमं साधनम्-- तदभिमतप्रत्यक्षमप्रत्यक्षम् , अनेकार्थजन्यत्वात् , अनुमानवत् , अनुमानमपि हि पक्षधर्माद्यनेकार्थजन्यम् , ज्ञापकः स हेतुरिति चेन्न, अत्रापि तुल्यत्वात् , कारकादप्यनेकस्मादर्थात् साध्यसाधनधर्मान्वयैकान्तवतो जायते । (तदभिमतेति) दृष्टान्तेऽनुमानेऽनेकार्थजन्यत्वमसिद्धमिति मा मंस्थाः, यस्मादनुमानमपि पक्षधर्माद्यनेकार्थजन्यम्, पक्षधर्मः सपक्षानुगमो विपक्षव्यावृत्तिरित्यनेकार्थेन जन्यतेऽम्यनित्याद्यनुमानज्ञान तथेदमपि प्रत्यक्षमनेकपरमाण्वर्थजन्यमिति, ज्ञापकः स हेतुरिति चेत्, स्यान्मतं-अनुमाने पक्षधर्मादिरनेकोऽप्यर्थो धूमकृतकत्वादिरम्यनित्यादिज्ञानस्य न कारकः, किन्तर्हि ? पूर्वसिद्धमेवावि नाभाविनं सम्बन्धं स्मारयतीति ज्ञापकः स हेतुः, इतरस्तु प्रत्यक्षज्ञानस्य कारकोऽर्थस्तस्माद्वैधाद10 दृष्टान्तः इत्येतच्चायुक्तम् , अत्रापि तुल्यत्वात् , कारकादपीत्यादि, अनुमानमिति वर्तते, अनुमानमपि स्वार्थ कारकादनेकस्मादर्थाज्जायते, कस्मात् ? साध्यसाधनधर्मान्वयैकान्तवतः, पक्षधर्मसपक्षानुगमविपक्षव्यावृत्तिमत ऐकान्तिकात् , अग्निमान् प्रदेशो धूमवत्त्वाचुल्लीमूलवत्, अनित्यः शब्दः कृतकत्वाद्घटवत् , न नदीवन्नाकाशवदिति कारकहेतुतैवानुमानेऽपि तदर्थस्य । इतर आह15 असञ्चितानेकार्थजन्यत्वादनुमाने नैतत्साधर्म्यमुपपद्यते, अत्रोच्यते, ननु धूमादिरपि सञ्चय एव गृहीतोऽन्यादिकमणव इव गमयतीति कारकत्वाव्यभिचार उभयत्र । (असश्चितेति), असञ्चितानेकार्थजन्यत्वादनुमाने नैतत्साधर्म्यमुपपद्यते, कस्मात् ? असश्चितानेकार्थजन्यत्वादनुमानस्य, सचितानेकार्थजन्यत्वाच्च प्रत्यक्षस्य, देशकालभिन्नसन्निहितासन्निहिता. र्थविषयं ह्यनुमानं तद्विपरीतविषयं प्रत्यक्षमिति । अत्रोच्यते नन्विति प्रसिद्धानुज्ञापने, ननु धूमोऽग्नि 20 मत्त्वविशिष्टप्रदेशधर्मा चतुर्भूतसङ्घातोऽन्वयव्यतिरेकसहितोऽग्निमत्त्वविज्ञानं प्रदेशे जनयति, अणुसमुदायो यथा रूपविज्ञानं गमयति, अग्निर्न ज्ञानं जनयतीतिज्ञानोत्पत्तौ कारकत्वाव्यभिचारादुभयोति । हेतुप्रत्ययोऽसौ धूमोऽनुमाने, कल्पनाया हेतोः, निर्विकल्पं हि ज्ञानमधिपतिप्रत्ययं प्रत्यक्षमतो वैधो दृष्टान्त इति चेदथ कथं साधनानधिपतिधूमः ? हेतुप्रत्ययस्यार्थस्येन्द्रियाविषपक्षधर्म इति, यथा वह्नयनुमितिः शब्देऽनित्यत्वानुमितिर्वा पक्षवृत्तिसपक्षवृत्तिविपक्षव्यावृत्तिलक्षणानेकार्थेन जन्यते तथा 25 प्रत्यक्षमपि अनेकपरमाणुभिर्जन्यत इति भावः। एकसम्बन्धिज्ञानमपरसम्बन्धिस्मारकमिति न्यायेनाविनाभावलक्षणसम्बन्धेनैकसम्बन्धिनो धूमादेर्शानमपरसम्बन्धिनमन्यादिं स्मारयतीति धूमादिआपको न तु कारकः परमाणवश्च विषयतया प्रत्यक्षज्ञानस्य कारका एवेत्यनुमानदृष्टान्तो न युक्त इत्याह झापकः स हेतरिति चेदिति। अनुमानस्यापि धूमादिकं कारकहेतुरेवेत्याहअत्रापि तुल्यत्वादिति । न नदीवदिति बहेविपक्षः नाकाशवदिति अनित्यत्वस्य विपक्षः । अनुमानमसञ्चितानेकार्थजन्यं प्रत्यक्षन्तु सञ्चितानेकार्थजन्यमिति दृष्टान्तदान्तिकयोवैषम्यमाशङ्कते-असञ्चितेति। एतत्साधयं-प्रत्यक्षसाधर्म्यम् । 30 धूमोऽपि सञ्चितानेकार्थ एवेत्याह-नन्विति । अणव इवेति, अणुसमुदायो रूपविज्ञानमिवेत्यर्थः। कारकत्वाव्यभिचार उभयत्रेति यथा गृहीतोऽणुसञ्चयो रूपविज्ञानं जनयति धूमादिरपि सञ्चय एवं गृहीतोऽम्यादिकं गमयतीत्युभयत्र कारकत्वमव्यभिचरितमिति भावः । उभयत्रेति, प्रत्यक्षेऽनुमाने चेयर्थः । कल्पनाया हेतोरिति, अनुमानहेतोषूमादेः कल्पनात्म 2010_04 Page #159 -------------------------------------------------------------------------- ________________ १०९ प्रमाणैक्यापत्तिः] न्यायागमानुसारिणीव्याख्यासमेतम् यत्वादिति चेन्ननु सञ्चयनहेतुप्रत्ययोऽप्यनधिपतिरिन्द्रियाविषयत्वात् , तस्मात् सर्वथा तुल्य. मुभयं कारकत्वेन । तथा स्वार्थे सामान्यगोचरत्वादनुमानवदप्रत्यक्षमिति। हेतुप्रत्यय इत्यादि, स्यान्मतं हेतुः प्रत्ययो निमित्तमालम्बनमित्यर्थः, असौ धूमोऽनुमाने निमित्तमनधिपतिप्रत्ययः, कल्पनाया हेतोः, निर्विकल्पं हि ज्ञानमधिपतिप्रत्ययं प्रत्यक्षं न तथाऽनुमानमतो वैधोऽत्र दृष्टान्त इति चेत्-एवश्वेन्मन्यसे, अत्र परेणैवोत्तरं वाचयितुकाम आह-अथ कथमि-5 त्यादि, इदमसिद्धं द्रष्टव्यम् , कथं साधनानधिपतिधूम इत्यनालम्बनमित्यर्थः । इतर आह-इन्द्रियाविषयत्वाद्धेतुप्रत्येयस्याम्न्यादिलक्षणस्य । आचार्य आह-ननु सञ्चयनहेतुप्रत्ययोऽप्यनधिपतिः, इन्द्रियाविषयत्वात् ,-परमाणुसञ्चय एव प्रत्यक्षेऽप्यनधिपतिः, तस्मादेव हेतोरिन्द्रियाविषयत्वात् , सञ्चयस्य परमाणुव्यतिरिक्तस्यासत्त्वादिति विस्तरेण प्रागभिहितमेतत् । तस्मात् सर्वथा तुल्यमुभयं कारकत्वेनेति । तथा स्वार्थे सामान्यगोचरत्वादनुमानवदप्रत्यक्षमित्येतस्मिन् साधने कारकहेतुत्वप्रतिपादनार्थः प्रपञ्च- 10 स्तुल्य इत्यतिदिशति । अनुमानं वा प्रत्यक्षं स्यात् , अनेकार्थजन्यत्वात् , स्वार्थे सामान्यगोचरत्वादिति । अनुमान वेत्यादि, वाशब्दो विकल्पार्थः, यदि प्रतिपादितमिदं युक्तिवचनात् प्रत्यक्षस्य त्वदभिमतस्यानुमानत्वं मया, तत्त्वया खग्रहरक्तमनसा खसमयप्रसिद्ध्यनुपातिना नेष्यते, प्रत्यक्षत्वमेवेष्यते ततस्तस्मात्साधादनुमानं वा प्रत्यक्षं स्यादनेकार्थजन्यत्वात् स्वार्थे सामान्यगोचरत्वादिये-15 ताभ्यामेव हेतुभ्यां प्रत्यक्षवदित्येते अपि द्वे साधने लेशेनोनीते न स्फुटे इति । ___ किश्चान्यदेतस्मादेव हेतुद्वयाद्विषयैक्यापत्तेः प्रमाणैक्यमित्यत आह द्वयमप्येतदेकमेव, एकलक्षणत्वादिति प्रत्यक्षमेवैकं प्रमाणं तदुभयं स्यादनेकार्थजन्यसामान्यैकगोचरत्वात्, चक्षुरादिद्वारजन्मप्रत्यक्षभेदप्रत्यक्षवत् , अनुमानमेव वा स्यात् , तत एव कारणाद्धूमकृतकत्वाद्यनुमिताग्न्यनित्यादिज्ञानानुमानवत् । 20 (द्वयमपीति) स्वसामान्यलक्षणं ह्येकमेव वस्तु विषयोऽस्य प्रमाणस्येत्युक्तविधिना प्रसक्तत्वात् । इदानीं वसुबन्धोः स्वगुरोस्ततोऽर्थाद्विज्ञानं प्रत्यक्षमिति ब्रुवतो यदुत्तरमभिहितं परगुणमत्सराविष्टचेतसा तत्त्वपरीक्षायां परमोदासीनचेतसा तु येन केनचिदभिप्रायेण स्वमतं दर्शितमेव दिन्नेन वसुबन्धुकत्वान्नानधिपतिप्रत्ययोऽपि तु हेतु प्रत्ययः, परमाणोश्चाकल्पनात्मकत्वादधिपतिप्रत्ययो निर्विकल्पकप्रत्यक्षस्यातो दृष्टान्तदाान्तिकयोवैषम्यमित्यर्थः । इदमसिद्धमिति, साधनानधिपतिधूम इत्यसिद्धमित्यर्थः । स्वखविषयाणामुपलब्धौ चक्षुरादीनां पञ्चा- 25 नामाधिपत्यादग्नर्हेतुप्रत्येयस्येन्द्रियाविषयत्वान्न साधनमधिपतिप्रत्यय इति पूर्वपक्षयति-इन्द्रियाविषयत्वादिति । परमाणुसञ्चयस्यापि परमाण्वव्यतिरिक्तस्यातीन्द्रियस्य प्रत्यक्षेऽनधिपतित्वमिन्द्रियाविषयत्वादित्युत्तरयति-ननु सञ्चयनहेत्विति । द्वितीय साधनमधिकृत्याह-तथा स्वार्थ इति। इत्थं त्वदभिमतप्रत्यक्षस्याप्रत्यक्षत्वे त्वदीयसाधनाभ्यामेवोपपादितेऽपि यदि खकीयग्रहे एवानुरक्तचित्तत्वात् खसमये विख्यातिकामुकत्वाच्च तन्नानुमन्यते चेत्तर्हि तत एव हेतुभ्यामनुमानमपि प्रत्यक्षं स्यादित्याहअनुमानं वेति । प्रमाणद्वित्वव्याघातमप्याह-द्वयमपीति । प्रत्यक्षस्यानुमानस्यापि अनेकार्थजन्यसामान्यमेको विषयो यत 30 इत्यर्थः। यथा चाक्षुषरासनादिज्ञानानामेकप्रत्यक्षान्तर्भावोऽन्यथाऽनेकप्रमाणत्वात् प्रमाणद्वित्वं न स्यात् , इदश्च प्रत्यक्षस्यैवैकस्यागीकारे। अनुमानस्यैवैकस्याङ्गीकारे तु वयनुमिति शब्दानित्यत्वानुमित्यादीनामेकानुमितिप्रमाणेऽन्तर्भावो यथा तथा प्रत्यक्षस्याप्ये. कलक्षणत्वात्तत्रैवान्तर्भावः स्यादिति भावः। स्वसामान्यलक्षणमिति । खलक्षणसामान्यलक्षणात्मकमेव वस्तु विषयः पर 2010_04 Page #160 -------------------------------------------------------------------------- ________________ द्वादशारनयचक्रम् [विध्यरे प्रत्यक्षलक्षणं दूषयता, तस्य पुनरर्थो योऽस्तु सोऽस्तु किं नोऽनेन, इदमेव तावदस्तु रूपादिष्वालम्बनार्थो वक्तव्य इति विकल्प्य विकल्पद्वये दोषजातं तल्लक्षणे प्रक्रान्तं तत्तवापि समानमिति प्रतिपादयिष्यन्नयचक्रकारः सविशेषं तन्मतविरोधहेतुं स्ववचनजनितमाह अनेकार्थजन्यत्वाच्च स्वार्थसामान्यगोचरतायां यथाभासं तेषु ज्ञानमुत्पद्यते, तथा त । आलम्बनं रूपादयः, प्रत्येकं परमाणुरूपस्य बुद्धावसन्निवेशात् समुदयकृतं तन्निर्भासतयाऽऽलम्बनम् । (अनेकार्थेति) अनेकार्थजन्यत्वाच्च स्वार्थसामान्यगोचरतायामित्यादि शिष्याचार्ययोः तुल्योत्तरत्वात् , स्वार्थ इति नीलादिः स एव किल सामान्यमनेकार्थजन्यत्वात् , अनेकार्थाः परमाणवस्तजन्यं नीलविषयं प्रत्यक्षमत इन्द्रियस्य स्वार्थ इति, एतस्यामनेकार्थजन्यत्वाच स्वार्थसामान्यगोचरतायां यथाभासं 10 तेषु ज्ञानमुत्पद्यते तथा त आलम्बनं रूपादय इति नीलपीतादित्वेन यथैवाभासन्ते तथैवालम्बनमि येतदिष्टम् , किं कारणं त एव नीलादिपरमाणवो नालम्बनमिति चेदुच्यते प्रत्येकं परमाणुरूपस्य बुद्धावसन्निवेशात् , एकमेकं प्रत्येकं परमाणूनां यन्नीलादिरूपं तस्यातीन्द्रियत्वाद्बुद्धावसन्निवेशः, तस्मात् किं प्राप्तं ? समुदयकृतं तन्नि सतयाऽऽलम्बनमित्येतत् प्राप्तं, नीलादिरूपस्य तत्समुदायात्मकत्वात् । ... एवञ्च सति प्रत्यक्षार्थ एवं ज्ञायते, तद्यथा अर्थसन्निकर्षादक्षं प्रति यदुत्पद्यते तज्ज्ञानं 15 प्रत्यक्षमिति ज्ञानमर्थेन विशेष्यते । (एवञ्चेति) एवञ्च सति-परमाणुसञ्चयनीलादिनिर्भासतयाऽऽलम्बनत्वे सति प्रत्यक्षार्थ एवं ज्ञायते, तद्यथा-अर्थसन्निकर्षादक्षं प्रति यदुत्पद्यते तज्ज्ञानं प्रत्यक्षमिति ज्ञानमर्थन विशेष्यते, अर्थेनेन्द्रियस्य सन्निकर्षादुत्पद्यमानं ज्ञानमक्षं प्रति वृत्तेः प्रत्यक्षमिति ज्ञानेऽर्थस्य विशेषणता, सन्निकर्षाद्वाऽक्षं प्रति यो वर्ततेऽर्थः स प्रत्यक्षः, अर्थन्द्रियसन्निकर्षादक्षं प्रतिवृत्तेः प्रत्यक्षमितत्वादुपचरित20 वृत्तिरर्थोऽक्षेण विशेष्यत इति । अत्रोत्तरमुच्यते न तदुपपद्यते प्रत्यक्षम् , तस्यार्थस्याभावात् , न च सञ्चयोऽर्थः, संवृतिसत्त्वात् संवतिसत्त्वमद्रव्यत्वात् , वान्ध्येयवत् , अतो न साधूत्पत्तिप्रत्यय इष्यते इति सोऽर्थो न विशे षणेन विशेष्यः। तस्माज्ज्ञानत्वप्रत्यक्षत्वाभ्युपगमहानिः। 25 (नेति) एवञ्च सतीत्युच्चार्य सञ्चयः प्रसक्त इत्यभ्युपगम्य दूषयति-यस्मान्न च सञ्चयोऽर्थः, माणूनां तत्सञ्चयस्य च गोचरत्वादिति भावः। अथ ततोऽर्थाद्विज्ञान प्रत्यक्षमिति वसुबन्धुलक्षणं दूषयता दिन्नेन तदुपरि रूपादिध्वालम्बनार्थो वक्तव्य इति विकल्पद्वयं विधाय दूषितम् , सूरिश्च तदेव दूषणं तवापि प्रसज्यत इत्याह-अनेकार्थजन्यत्वाञ्चेति। प्रत्यक्ष नीलादिविषयं नीलादिरेवेन्द्रियस्य स्वार्थः समुदयकृतः स निर्भासतयाऽऽलम्बनमनेकार्थजन्यत्वात् , परमाणुरूपन्तु अतीन्द्रियत्वेन बुद्धावसन्निवेशानालम्बनमिति भावः । परमाणुसश्चयेति, परमाणूनां सञ्चयरूपं यन्नीलादि तस्यैव निर्भास 30 तया प्रत्यक्षस्यालम्बनत्वे सति प्रत्यक्षशब्दस्यार्थ एवं ज्ञायत इत्यर्थः । ज्ञानमर्थन विशेष्यत इति, नीलादिनाऽर्थेन ज्ञानं विशेष्यते नीलज्ञान पीतज्ञानमिति विषयाणां प्रत्यक्षपदबोध्यत्वमुपचारादित्याह-सन्निकर्षाद्वति । घटः प्रत्यक्षः नीलं प्रत्यक्षमित्येवमर्थोऽक्षेण विशेष्यते । संवृतिसत्त्वेनार्थस्य सञ्चयस्याभावानालम्बनत्वं सम्भवति, अतः प्रत्यक्षं निरालम्बनमिति किं 2010_04 Page #161 -------------------------------------------------------------------------- ________________ प्रमेयाभावः] न्यायागमानुसारिणीव्याख्यासमेतम् किं कारणं नार्थः सञ्चय इति चेत् संवृतिसत्त्वात् , संवृतिसत्त्वमद्रव्यत्वात् , वान्ध्येयवत्, अत:एतस्मात् कारणान्न साधूत्पत्तिप्रत्यय इष्यते, उत्पत्तौ प्रत्यय आलम्बनप्रत्यय इत्यर्थः, सोऽसत्त्वान्नेध्यते, इतिशब्दो हेत्वर्थे, एतस्मात् कारणात् सोऽर्थो न विशेषणेन विशेष्यः, तस्मात् विशेषणविशेष्यत्वाभावात् , ज्ञानत्वप्रत्यक्षत्वाभ्युपगमहानिः, ज्ञानं प्रत्यक्षमित्येतदभ्युपगतम्, विशेषणस्य विशेष्यस्य चार्थस्याभावात् किं विषयं ज्ञानं प्रत्यक्षञ्च स्यादिति हीष्यते । किश्चान्यत चक्षुरादिषु ज्ञानेष्वतः स्वनिर्भासव्यतिरिक्तप्रमेयाभावः, ततश्च तैमिरिकस्य केशोन्दुकमशकमक्षिकाद्विचन्द्रादिदर्शनवत् सा त्वसत्सत्प्रतिपत्तिरेव, तस्मात्तस्य ज्ञानस्याप्रत्यक्षत्वमलातचक्रादिज्ञानवत् तेन त्वया प्रतिज्ञातं तत्प्रत्यक्षत्वं निराक्रियते, तन्निराकरणादनुमानविरोधः। चक्षुरादिषु ज्ञानेष्वत इत्यादि यावदनुमानविरोधः, चक्षुरादीन्द्रियबुद्धयः स्वविषयनिर्भास-10 स्वरूपमात्रा एव, ज्ञानत्वात् , वस्तुत्वात् , सत्त्वात्, तैमिरिकादिज्ञानवत्, अतश्चक्षुरादिविज्ञानेषु स्वनि सव्यतिरिक्तप्रमेयाभावः, ततश्च तैमिरिकस्य केशोन्दुकमशकमक्षिकाद्विचन्द्रादिदर्शनवत् सा त्वसत्सत्प्रतिपत्तिरेव, असदवस्तु सद्वस्त्विति प्रतिपत्तितः, तस्माद्धेतोरसत्सत्प्रतिपत्तेः-विपर्ययप्रतिपत्तेस्तस्य ज्ञानस्याप्रत्यक्षत्वं प्रसिद्धमलातचक्रादिज्ञानवत् , तेन-अप्रत्यक्षत्वेन प्रसिद्धेन त्वया प्रतिज्ञातं तत्प्रत्यक्षत्वं निराक्रियते, तन्निराकरणादनुमानविरोधः । ___ ननु प्रत्यक्षनिराकरणात् प्रत्यक्षविरोधोऽयं कथमनुमानविरोध इति, अत्रोच्यते त्वन्मतेन सपक्षधर्मस्य विपक्षस्योक्तानुमानेन निराकरणानिर्विकल्पकप्रत्यक्षत्वाभावात् कतमत्तत्प्रत्यक्षं येन निराक्रियेत, यद्वा निराकुर्यात् ? अतोऽनुमानविरोध एवायम्। किश्चान्यत् , घटसंख्योक्षेपणसत्ताघटत्वाद्याकारज्ञानानामपि प्रत्यक्षत्वप्रसङ्गः, कथमिति चेदुच्यते यथा चात्र भवन्मतेन समानासमानानेकार्थजन्येन्द्रियस्वार्थाद्यदुत्पद्यते तदपि च तैमिरिकवदप्रमाणम् , यथा 20 द्विचन्द्रदर्शनं तथा समानानेकवर्णमणिसमूहजन्येन्द्रियस्वार्थादुत्पद्यमानमपि तैमिरिकवदप्रमाणं स्यात्, समानानेकार्थादतथाभूतार्थान्मण्यादिसाताजन्यं हि तत् , यदि समानासमानानेविषयं ज्ञानं प्रत्यक्षञ्च स्यादिति भावः। वान्ध्येयवदिति, वन्ध्यापुत्रवदित्यर्थः । स्वविषयेति, चक्षुरादीन्द्रियबुद्धिषु विषयतया यो निर्भासते तत्स्वरूपमात्रा बुद्धयः, न तदतिरिक्तः कश्चन पदार्थोऽस्ति यथा तैमिरिकबुद्धौ निर्भासमानाः केशोन्दुकादयो द्विचन्द्रादयश्च, अत एवासौ प्रतिपत्तिस्तथाविधवस्त्वभावेऽपि सत्त्वेन निर्भासनादसत्प्रतिपत्तिरेवैवमिदमपि ज्ञानमप्रत्यक्षं स्यादिति वसुबन्धुलक्षणं भवता निराक्रियत इत्यनुमानविरोधः स्यादिति भावः । अनुमानविरोधे कारणमाह-त्वन्मतेनेति । सपक्षभूतप्रत्यक्षस्य विपक्षभूतस्य प्रत्यक्षस्यापि ज्ञानत्वादिहेतुना निराकरणात्प्रत्यक्षाभावेनानुमानस्यैव विरोध आयात इति भावः । सपक्षो निर्विकल्पप्रत्यक्षमात्रं विपक्षः सविकल्पप्रत्यक्षम् । विवादाध्यासितं ज्ञानमप्रत्यक्षम् , असत्सत्प्रतिपत्तेरलातचक्रादिज्ञानवदित्यनुमानेन वा निराकरणादिति बोध्यम् , असत्सत्प्रतिपत्तित्वञ्च ज्ञानत्वादिना सिद्धमिति नासिद्धिहे तोरिति । घटसंख्येति, द्रव्यगुणकर्मसामान्यविशेषाकारज्ञानानामपीत्यर्थः । अयं भावः कदाचिदेकेन द्रव्येण ज्ञानमुत्पाद्यते यदा नीलादिप्रकारावच्छेदः 30 स्यादिति न वक्तुं शक्यते एकस्य परमाणोरिन्द्रियाविषयत्वादतोऽनेकार्थजन्यत्वमभ्युपेयम् , तत्रानेकार्थजन्यखार्थोऽपि नीलादिसामान्यमेव, अनेकार्थपरमाणुजन्यत्वात् . अत एव स स्वार्थो न वस्तुस्खलक्षणः किन्तु संवृतिसन् , तादृशखार्थाद्यदुत्पद्यते ज्ञानं 15 2010_04 Page #162 -------------------------------------------------------------------------- ________________ ११२ द्वादशारनयचक्रम् [विध्यरे कार्थातथाभूतार्थात् प्रज्ञप्तिसतःपरमार्थसदाकारो लभ्यते त एव हि परमार्थसन्तः परमाणवो नीलादित्वेनाभासन्त इति तद्विषयं ज्ञानं प्रत्यक्षमिष्टम् , तदा निराकृतेभ्यः सत्पक्षत्वेन घटसंख्याद्याकारेभ्यः समानासमानानेकार्थजन्येन्द्रियस्वार्थेभ्यः प्रत्यक्षज्ञानजनकार्थसधर्मभ्यः परमार्थसदाकारो लप्स्यते नीलादिसङ्घातवदिति घटः संयुक्तो वियुक्तः परोऽपरः स्पन्दत इत्यादिज्ञानं 6 प्रत्यक्षं, स च तद्विषयः प्रत्यक्षः स्यात्, संवृतिसदालम्बनत्वान्नीलादिज्ञानवत् , नीलादिज्ञानं तदर्थश्च न प्रत्यक्षे वा स्याताम् , संवृतिसत्त्वाद्धटादिज्ञानार्थवत् , त एव हि परमाणवो य एव. घटादित्वेनाभासन्ते य एव नीलादित्वेनाभासन्त इत्येवमुभयोस्तुल्ये जनकत्वे तत्कुत एतन्नीलाद्याभासज्ञानं प्रत्यक्षं न घटाद्याभासमिति ?।। नन्विति, यथा चात्रेत्यादिदार्शन्तिकमुक्त्वा दृष्टान्ततत्साधर्म्यश्च वर्णयति-यथा चात्र भव10 न्मतेन समानासमानानेकार्थजन्येन्द्रियस्वार्थात्-समानेन नीलादिवर्णनानेकेन परमाणुसङ्घातलक्षणेनार्थेन जन्य इन्द्रियस्वार्थो नासाधारणो वस्त्वभिमतस्वलक्षणस्वार्थः, कस्मात् ? तत्त्यक्त्वा तत्रानेकार्थजन्यत्वात् स्वार्थसामान्यगोचरं ज्ञानमिति वचनादन्यादृशस्वार्थस्येष्टत्वात् , तादृशस्वार्थाद्यदुत्पद्यते ज्ञानमित्यभिसंभत्स्यते, तदपि च तैमिरिकवदप्रमाणम् , तिमिरे भवं तैमिरिकम् , यथा द्विचन्द्रदर्शनम् तथा समानेनाप्यनेकवर्णमणिसमूहेन जन्य इन्द्रियस्वार्थो मेचकस्तस्मादुत्पद्यमानं तदपि च तैमिरिक15 वदप्रमाणम् , कुतः ? यस्मात् समानानेकार्थात् तस्मादतथाभूतार्थान्मण्यादिसङ्घाताजन्यं-उत्पद्यते, अतथाभूतार्थत्वमस्य संवृतिसत्त्वात् , अत आह-समानासमानानेकार्थातथाभूतार्थात्-नीलादिसङ्घातात् प्रज्ञप्तिसत:-आलम्बनात्संवृतिसतः परमार्थसदाकारो-नीलादिको लभ्यते, यतस्त एव हि परमार्थसन्तः परमाणवो नीलादित्वेनाभासन्त इति तद्विषयं ज्ञानं नीलादिप्रत्यक्षमिष्टम् । तथा निराकृतेभ्यः सत्प क्षत्वेन घटसङ्ख्याद्याकारेभ्यः-घटसयोत्क्षेपणसत्ताघटत्वाद्याकारेभ्यः प्रत्यक्षजनकार्थसधर्मभ्यः, कतमेन 20 साधम्र्येण सधर्मभ्य इति चेदुच्यते समानासमानानेकार्थजन्येन्द्रियस्वार्थेभ्य इत्येतत्सधर्मभ्यः, किमुक्तं भवति समानासमानानेकार्थातथाभूतार्थभ्यः परमार्थसदाकारो लप्स्यते नीलादिसङ्घातवदिति, अतस्तदुपसंहृत्य साधनमाह घटः संयुक्तो वियुक्तः परोऽपरः स्पन्दत इत्यादिज्ञानं प्रत्यक्षम् , स च तद्विषयः प्रत्यक्षः स्यात् , संवृतिसदालम्बनत्वान्नीलादिज्ञानवत्, नीलादिज्ञानं तदर्थश्च न प्रत्यक्षे वा स्याताम् , संवृतिसत्त्वात् , घटादिज्ञानार्थवत् । वाशब्दस्य विकल्पार्थत्वादुभयत्र ज्ञानोत्पादकार्था25 विशेषः । तत्समर्थयति-त एव हि, ते हि परमाणवो य एव घटादित्वेनाभासन्ते य एव च नीलादित्वेना भासन्त इति । एवमुभयोर्नीलादिघटादिज्ञानयोस्तुल्ये जनकत्वे तत्कुत एतन्नीलाद्याभासज्ञानं प्रत्यक्षं न घटाद्याभासमिति, स्वरुचिमात्रादन्यत् कारणं नास्तीत्यर्थः । तदपि तैमिरिकज्ञानवदप्रमाणम् , तथानेकवर्णमणिसमूहजन्यमेचकखार्थादुत्पद्यमानमपि, समानानेकार्थादतथाभूतार्थात् संवृतिसतः इत्पन्नत्वात् । यदि तु समानानेकार्थादतथाभतार्थात संवृतिसतो नीलादिसंघातात्स्वार्थावत्पद्यमानस्य नीलादिज्ञानस्य परमा30 र्थसत्परमाणूनामेव नीलादिसदाकारत्वेनावभासनातू प्रत्यक्षज्ञानमिष्यते तर्हि समानासमानानेकार्थेन्द्रियखार्थेभ्योऽतथाभूतार्थभ्यः संवृतिसन्य उत्पद्यमानमपि घटसंख्याद्याकारं ज्ञानमपि परमार्थसत्परमाणूनामेव घटसंख्यादिसदाकारत्वेनावभासनात् प्रत्यक्ष स्यात् , अन्यथाऽत्र संवृतिसत एवालम्बनत्वेनाप्रत्यक्षत्वे नीलादेनीलादिज्ञानस्यापि तद्वत् प्रत्यक्षता न स्यात् , उभयत्राविशेषादिति भावः। प्रत्यक्षजनकार्थसधर्मभ्य इति, नीलादिप्रत्यक्षस्य जनकीभूतो योऽर्थः नीलादिसंघातरूपः खार्थः तेन 2010_04 Page #163 -------------------------------------------------------------------------- ________________ रूपघटानाकारताऽणोः] न्यायागमानुसारिणीव्याख्यासमेतम् बुद्धावाभासनसामर्थ्याविशेषाञ्च जनकहेत्वविशेषमेव दर्शयति__यथैव हि परमाणवो ज्ञानस्याकारसन्निवेशविशिष्टाः सामान्यत आभासन्ते तथा घटादिज्ञानेष्वप्याकारविशेषेण समुदितास्त एवाभासन्ते, नान्यो घटो नामास्ति यस्तथा भासेत, तथास्थेषु रूपादिष्वेव घट इति बुद्धिः प्रवर्तते प्रज्ञप्तिश्च, एवं तथास्थेष्वेव परमाणुषु नीलादिरूपबुद्धिः प्रवर्तते प्रज्ञप्तिश्चेति।। यथैव हीत्यादि यावत्समुदितास्त एवाभासन्त इति, अत्र च यथापरमाण्ववयवसमुदायता च नीलप्रत्यक्षावभासत्वात् , तथास्थेषु-तेन प्रकारेण स्थितेषु । सर्वमुभयत्र तुल्यम् । अत्र परेणोभयोवैधर्म्यप्रदर्शनार्थम् अथोच्येत नीलादिसमुदाये नीलादिद्रव्यसदाकारो विद्यते, तदण्वात्मकत्वात्तेषाम् , अणूनां द्रव्यसत्त्वात्तत्प्रत्यक्षत्वं न्याय्यम् , न तु घटाद्याकारोऽतत्परमाणुत्वात् , तथाऽसत्त्वात् । 10 अथोच्येत नीलादिसमुदाय इत्यादि यावत्तथाऽसत्त्वादिति; नीलादिसमुदाये नीलादिद्रव्यसदाकार:-परमार्थसदाकारः स विद्यते, किं कारणं ? तदण्वात्मकत्वात्तेषाम् , नीलादीनामण्यास्मकत्वात् , अणूनां द्रव्यसत्त्वात्तत्प्रत्यक्षत्वं न्याय्यम् , न्यायादनपेतं न्याय्यं युक्तमित्यर्थः, तद्विषयस्य च ज्ञानस्य प्रत्यक्षत्वं तत्प्रत्यक्षत्वम् । न तु घटाद्याकारः-न त्वस्ति घटसंख्योतक्षेपणाद्याकारोऽतत्परमाणुत्वात्, तस्याकारस्य परमाणुत्वं तत्परमाणुत्वं न तत्परमाणुत्वमतत्परमाणुत्वमतोऽतत्परमाणु-15 त्वात् । ततः किं ? तथाऽसत्त्वात्-तेन प्रकारेणासत्त्वात्-परमाणुत्वेन तेषां घटाद्याकाराणामसत्त्वात् । अत्राचार्य उत्तरमाह एतच्च तुल्यमुभयत्राविशेषात् , यथैव तस्मिन् रूपादिसमुदाये घटाधनाकारता, तदनणुत्वात् तथाऽसत्त्वात् , एवं रूपाद्याकारस्यानाकारता, अनन्तरोक्तहेतोः सञ्चितस्यैन्द्रियकत्वात्तस्यैवालम्बनत्वात् तदनणुत्वात् , तथाऽसत्त्वात् , अन्यथाऽविषयत्वादनालम्बन- 20 त्वादत एवाप्रत्यक्षत्वात्। (एतचेति) एतच्च तुल्यमुभयत्राविशेषात् , परमाणुजन्यत्वादेव नीलादिघटाद्याकारप्रत्यक्षयोः । यथैव तस्मिन् रूपादिसमुदाये घटाद्यनाकारता तदनणुत्वात् , तस्य घटाद्याकारस्यानाकारता तस्या सह समानासमानानेकार्थजन्येन्द्रियस्वार्थत्वधर्मेण सदृशा घटादिसंख्यादिसंघातास्तेभ्यो घटसंख्यादिज्ञानस्य तत्संघातानाच परमार्थपरमाणुसदाकारो लप्स्यते नीलादिसंघाततज्ज्ञानवदिति भावः । सच-घटादिसंघातः, तद्विषयः घटसंख्यादिविष-25 यश्च प्रत्यक्षः स्यादित्यर्थः । यथैव हीति, नीलादिज्ञाने परमाणव एव सामान्येनाकारसन्निवेश विशिष्टा यथाऽवभासन्ते तथैव : घटादिज्ञानेऽपि परमाणव एवाकारसन्निवेशविशेषेणावभासन्ते समुदितपरमाणुभ्योऽव्यतिरिक्तत्वाद्धटादेः । यथा तेन प्रकारेण स्थितेष्वेव रूपादिषु घट इति बुद्धिः, तद्विषया प्रज्ञप्तिश्च प्रवर्तत एवमेव तेन प्रकारेण स्थितेषु परमाणुष्वेव नीलरूपबुद्धिः तद्विषया प्रज्ञप्तिश्च प्रवर्तत इत्याभासनसामर्थ्याविशेषाजनकहेतोर्विशेषाभावेन नीलाद्याभासमेव प्रत्यक्षं न घटाद्याभासमित्येकशेषो न युज्यते कर्तुमिति भावः । ननु नीलात्मका हि परमाणवोऽतो नीलादिसमुदाये नीलादिपरमार्थसदाकारो विद्यते, न तु घट- 30 संख्याद्यात्मकाः परमाणवः, तस्माद्धटादिज्ञानेषु न घटादिपरमार्थसदाकारतया परमाणूनां प्रतिभासः, एवञ्च नीलादिज्ञानस्य तद्विषयस्य च प्रत्यक्षत्वं युक्तं न तु घटादिज्ञानस्य तद्विषयस्य चेत्याशयेनाह-नीलादिसमुदाय इति । अतत्परमाणुत्वादिति, घटसंख्याद्याकाराणां परमाण्वात्मकत्वाभावादित्यर्थः, अविशेषमाह-परमाणुजन्यत्वादेवेति । उभयत्रेतिपदप्रात्यमाह-नीलादिघटाद्याकारप्रत्यक्षयोरिति । रूपाद्याकारस्यानाकारतेति, न रूपायाकारः परमावात्मक द्वा० न० १५ 2010_04 Page #164 -------------------------------------------------------------------------- ________________ ११४ द्वादशारनयचक्रम् [विध्यरे कारस्यानणुत्वात् , तथाऽसत्त्वात् अनणुत्वेन घटाद्याकारणासत्त्वात् , अणुत्वादेव सत्त्वात् , एवं रूपाद्याकारस्यानाकारता, अनन्तरोक्तहेतोः सञ्चितस्यैन्द्रियकत्वात्-परमाणुसमुदायस्यैन्द्रियकत्वात् , तस्यैबालम्बनत्वात् , असश्चितस्यातीन्द्रियत्वात् , अत एवानालम्बनत्वात् , तदनणुत्वात् ,-तस्य सञ्चित. स्पैन्द्रियकस्यालम्बनस्थानणुत्वात् तथाऽसत्त्वात्-अनणुत्वादेवासत्त्वात् , अन्यथाऽविषयत्वात्-परमा6 णुत्वेनाविषयत्वात् , अविषयत्वादेवानालम्बनत्वात् , अत एवाप्रत्यक्षत्वात् । किश्चान्यत्--- पक्षान्तरापत्तिश्चैवं यदाभासं तेषु ज्ञानमुत्पद्यते तथा नालम्बनमित्येवं पक्षं परित्यज्य यथा ते विद्यन्ते तथा नालम्बनमित्ययं पक्ष आश्रितो भवति, अस्मिन्नपि च पक्षे त्वयैव वसुबन्धुं प्रत्युक्ता ये दोषास्ते तवापि स्युः, यस्मात्त्वयाऽपि चायं पक्षोऽङ्गीकृत एव, यथाच 10 प्रत्यक्षोत्पत्तिबीजसञ्जननार्थमुक्तं प्रत्येकञ्च ते समुदिताः कारणमिति, तत्रानेकार्थजन्यत्वात् स्वार्थ सामान्यगोचरमित्यस्य व्याख्यायां पुनर्वसुबन्धुं दूषयितुकामेन विकल्पितः स एवार्थः। किम् ? यथा विद्यमाना अन्याभासस्यापि विज्ञानस्य कारणं भवन्ति तथा प्रत्यक्षस्यालम्बनं रूपादय इति पूर्वपक्षत्वेनैतयोश्च वचनयोरेकाकारार्थत्वादसावपि पक्षोऽभ्युपगतस्त्वया, एवमपि न त आलम्बनमतीन्द्रियत्वाद्गगनवत् ।। 18 (पक्षान्तरेति) पक्षान्तरगमनश्च वादावसानायेति । किश्चान्यत्-(अस्मिन्नपीति) कथमिति चेत्तदर्शयति-(यथा चेति), ततः को दोष इति चेत् ? (एवमपीति) अतीन्द्रियत्वात्-इन्द्रियगोचरातीतत्वात् । इन्द्रियज्ञानालम्बनं न भवन्ति परमाणवः। किश्चान्य उत्तरदोष उच्यते अभ्युपगम्याप्येवंविधालम्बनताश्चान्यथाविद्यमानाः परमाणवः समूहाभासस्यापि ज्ञानस्य 20 कारणं भवन्तीति धूमोऽग्निप्रत्यक्षज्ञानालम्बनं स्यात् , तथाविद्यमानत्वेऽन्याभासस्यापि ज्ञानस्य कारणीभवनात् , त्वदुक्तप्रत्यक्षालम्बनवत् , यथा त्वदुक्तस्य प्रत्यक्षस्यालम्बनं परमाणवोऽन्यथाविद्यमानाः समूहाभासज्ञानस्य कारणं भवन्ति तथा धूमोऽपि तत्साधयत्तिज्जनितज्ञानालम्बनस्याग्नेः प्रत्यक्षालम्बनतामात्मनः साधयति, धूमनिमित्ताग्निज्ञानं वा प्रत्यक्षं इत्यर्थः, नीलादिज्ञाने यो नीलाकारः स सञ्चितोऽत एवैन्द्रियकोऽत एव चालम्बनम्, परमाणुस्त्वसञ्चितोऽत एवातीन्द्रियोऽत 25 एवानालम्बनमिति कथं नीलाद्याकारः परमाण्वात्मक इति भावः । अनन्तरोक्तहेतोरिति, प्रत्येकं परमाणुरूपस्य बुद्धाव सन्निवेशादित्यर्थः । पक्षान्तरापत्तिश्चेति, यदाभासं तेषु ज्ञानं तथा ते आलम्बनमिति वसुबन्धुं दूषयितुं तथानालम्बन मित्येव पक्ष आश्रयणीयः परन्तु त्वयाऽथोच्येतेति ग्रन्थात् यथा ते विद्यन्ते तथा नालम्बनमित्येवं पक्षः श्रित इति पक्षान्तरापत्त्या निग्रहस्थान प्राप्त इति भावः। कथं मयाऽयं पक्षोऽङ्गीकृत इत्यत्राह-प्रत्येकञ्च त इति, अनयोक्त्या यदाभासं ज्ञानमुत्पद्यते तथानालम्बनमिति पक्ष उक्तः परमाणूनामेव समुदितानां शिबिकोद्वाहकन्यायेन कारणत्वात् , अनेकार्थजन्यवादित्युक्त्या च यथा ते विद्यन्ते परमाणवस्तथैव प्रत्यक्षस्य कारणमिति पक्ष आश्रितः त एव परमाणवोऽन्याभासज्ञानस्य कारणीभवनादिति प्रतिभाति । सूरिरुत्तरमाह-एवमपि न त आलम्बन मिति । उत्तरदोष इति, वसुबन्धोर्यदुत्तरं दत्त तत्र दोष उच्यत इत्यर्थः । तथा विद्यमानानामन्याभासविज्ञानजनकत्वेऽङ्गीकृतेऽनेकान् दोषानभिधातुमाह-अभ्र पीति । अन्यथाऽविद्यमानाः-समूहात्मनाऽविद्यमानाः स्वस्वरूपेण विद्यमाना इत्यर्थः । ननु धूमोऽमिप्रत्यक्षस्यालम्बनं स्यात्, 2010_04 Page #165 -------------------------------------------------------------------------- ________________ न्यायागमानुसारिणीव्याख्यासमेतम् परमाण्वनालम्बनता ] ११५ स्यात्, अन्यथाविद्यमानत्वेऽन्याभासविज्ञानजनकार्यालम्बनत्वात् त्वदुक्तप्रत्यक्षवत्, तस्मादेव तोश्चक्षुराद्यप्यालम्बनं स्यादेवमयमतिप्रसङ्गदोष एवंवादिनो यदि कारणमालम्बनं विज्ञानस्यान्याभासस्यापीष्टम् । 10 अभ्युपगम्याप्येवंविधालम्बनताश्चेत्यादि यावत्त्वदुक्तप्रत्यक्षालम्बनवदिति, अन्यथा विद्यमानाः परमाणवः - अतीन्द्रियत्वेन विद्यमानाः समूहाभासस्यापि ज्ञानस्य कारणं भवन्तीत्येवं - 5. विधालम्बनतायां सत्यां धूमोऽभिप्रत्यक्षज्ञानालम्बनं स्यात्, तथाविद्यमानत्वेऽन्याभासस्यापि ज्ञानस्य कारणीभवनात् - धूमत्वेन विद्यमानो धूमोऽम्याभासस्य अन्याभासज्ञानस्य कारणीभवनुपलभ्यत इति पक्षधर्मत्वमस्त्यस्य त्वदुक्तप्रत्यक्षालम्बनवदिति दृष्टान्ते तस्य सपक्षानुगमनं दर्शयति-यथा त्वदुक्तस्य प्रत्यक्षस्यालम्बनं परमाणवोऽन्यथा विद्यमानाः - परमाणुत्वेन विद्यमानाः समूहाभासज्ञानस्य कारणं भवन्ति तथा धूमोऽपि तत्साधर्म्यात्तज्जनितज्ञानालम्बनस्याग्नेः प्रत्यक्षालम्बनतया व्याप्तत्वात् प्रत्यक्षाल- ' म्वनतामात्मनः साधयति । धूमनिमित्ताभिज्ञानं वा प्रत्यक्षं स्यात्, तथाविद्यमानत्वेऽन्याभास विज्ञानजनकार्थालम्बनत्वात् त्वदुक्तप्रत्यक्षवत्, तत्साधर्म्यदेव त्वदुक्तप्रत्यक्षं समूहार्थेनाप्रत्यक्षं स्याद्भूमजनिताम्यर्थज्ञानवत् । किञ्चान्यत् - तस्मादेव हेतोश्चक्षुराद्यप्यालम्बनं स्यात्, एवमयमतिप्रसङ्गदोष एवं वादिनः - यदि कारणमालम्बनं विज्ञानस्यान्याभासस्यापीष्टं ततश्चक्षुरादीन्द्रियाणि चक्षुरादिविज्ञानानामालम्बनानि स्युः, अन्यथा विद्यमानत्वेऽन्याभासस्यापि विज्ञानस्य कारणीभवनाच्चक्षुरि- 15 न्द्रियं चक्षुर्विज्ञानस्यालम्बनं स्यात् रूपादिपरमाणुवत् तज्ज्ञानं वा चक्षुरिन्द्रियालम्बनं स्यात्तज्जन्यत्वे सत्यन्याभासत्वात् परमाणुजन्यरूपविज्ञानवत्, एवं श्रोत्रादिज्ञानानि । परमाण्वालम्बनमभ्युपगम्यायं दोष उक्तः । " न च ग्राह्यस्य नीलादेर्विषयस्य चक्षुरादिविज्ञानस्य नीलादिपरमाणव आलम्बनम्, अन्यथा विद्यमानत्वाच्चक्षुरादिवत् । तदसाधारणविषयत्वाद्वा रसज्ञानवत् । नच ग्राह्यस्य नीलादेर्विषयस्येत्यादि, चक्षुरादिभिर्ग्राह्यस्य नीलादेः समूहात्मकस्य विषयो गोचरः सम्बन्धि चक्षुरादिविज्ञानं तस्य नीलादिपरमाणवो नालम्बनम्, अन्यथा - परमार्थतो विद्यमानत्वात् चक्षुरादिवत्, नीलादिग्राह्य विषयज्ञानालम्बना न भवन्ति परमाणवः, यथा चक्षुरादीन्द्रियाण्यन्यथा परमार्थतोऽनीलादिपरमाण्वात्मकानि सन्ति अन्यथा नीलादिज्ञानोत्पत्तौ हेतुभावं बिभ्रति नालम्बनानि तथा परमाणव इति । इतश्च परमाण्वालम्बनं न भवति चक्षुर्विज्ञानम्, तदसाधारणविषयत्वाद्वा, तस्या- 25 2010_04 अन्यथाविद्यमानत्वे सत्यन्याभासज्ञानस्य हेतुत्वात् त्वदुक्त प्रत्यक्षालम्बनवदित्यनुमानम्, अत्र हेतोः पक्षधर्मत्वं दर्शयन्नाह - धूमत्वेन विद्यमान इत्यादिना । दृष्टान्ते साध्यहेत्वोरनुगमनं दर्शयति-यथा त्वदुक्तस्येति । उपनयनिगमने दर्शयत्यर्थतः - तथा धूमोऽपीति । लाघवात् परमाणुजनितसमूहाभासज्ञानस्य प्रत्यक्षवद्धूमजनिताग्निज्ञानस्यापि प्रत्यक्षत्वं स्यादित्याह - धूमनिमित्ताग्निज्ञानं वेति । समूहाभासज्ञानस्यानुमानवदप्रत्यक्षं वा स्यादित्याह तत्साधर्म्यादेवेति । परमाणुवच्चक्षुरादीनामप्यालम्बनत्वापत्तिमाह-किञ्चान्यदिति । चक्षुषि चाक्षुषज्ञाने वा चक्षुर्विज्ञानालम्बनत्वं चक्षुरिन्द्रियालम्बनत्वं वाऽऽपा - 30 दयति-चक्षुरादीन्द्रियाणीति । ननु चक्षुरादिग्राह्य समूहात्मकनीला दिगोचरचक्षुरादिविज्ञानस्य न नीलादिपरमाणव आलम्बनम्, अन्यथा विद्यमानत्वे सत्यन्याभासविज्ञानकारणत्वात् चक्षुरादिवदिति प्रयोगमाह-न च ग्राह्यस्येति । परमाण्वालम्बनतां निरस्यति । चाक्षुषज्ञानं पक्षत्वेनाधिकृत्याह - तदसाधारणेति । तदसाधारणविषयत्वाद्वेति, 20 Page #166 -------------------------------------------------------------------------- ________________ ११६ द्वादशारनयचक्रम् [विध्यरे साधारणविषयत्वाच्चक्षुर्विज्ञानस्य, असाधारण एवैको नीलपरमाणुर्विषयोऽस्येति तदसाधारणविषयत्वम् , तञ्च सिद्धं प्रत्येकं च ते समुदिताः कारणमिति वचनात् , तस्मादसाधारणविषयत्वाद्वा रसज्ञानवत् , यथा रसज्ञानमसाधारणविषयत्वान्नीलपरमाण्वालम्बनं न भवत्येवं चक्षुर्विज्ञानमपि, वाशब्दा सन्नीलपरमाणवश्चक्षुर्विषया न भवन्त्यसाधारणविषयत्वात् , असाधारणाश्च ते विषयाश्च, रसज्ञान6 बत् , रसज्ञान इव रसज्ञानवत् , यथा रसज्ञाने रसलक्षणोऽर्थोऽसाधारणविषयत्वात्त्वन्मतेनैव चक्षुविज्ञानविषयो न भवत्येवं नीलपरमाणव इति । इतर आह ननु च प्रत्येकमेव ते समुदिताः कारणमित्युक्तमेव, तथासन्त एव समुदिताः परमाणव आलम्बनम् , तदवस्थेषु ज्ञानोत्पादनशक्त्यभिव्यक्तेः, सा हि प्रत्येकं विद्यमाना नाभिव्यज्यते, 10 चक्षुरादिपरमाणूनामिव, न ह्येक इन्द्रियपरमाणुर्विषयपरमाणुर्वा विज्ञानमुत्पादयितुमलम् , न तत्समुदायः, प्रज्ञप्तिसत्त्वात् , तस्मात् प्रत्येककारणतायामणूनां समुदाये दर्शनशक्तिव्यक्तिः, शिबिकावाहकसमुदाये वहनशक्तिवत् , वैधयेणान्धपतौ प्रत्येकादर्शनवैलक्षण्यं न । - ननु च प्रत्येकमेव ते समुदिताः कारणमित्यादि यावदन्धपत्रौ प्रत्येकादर्शनवैलक्षण्यं 'नेति, ननु मया विशिष्योक्तं प्रत्येकमेव ते समुदिताः कारणमिति, किमुक्तं भवति ? तथासन्त-एव 15 परमाणुत्वेन परमार्थसन्त एव समुदिताः परमाणवश्चक्षुरादिज्ञानोत्पत्तिहेतुत्वादालम्बनम् । किं कारणं ? तदवस्थेषु ज्ञानोत्पादनशक्त्यभिव्यक्तेः, सः समुदायः अवस्था येषान्ते तदवस्थाः, तदवस्था एव हि ज्ञानमुत्पादयितुं शक्ताः, सा हि ज्ञानोत्पादनशक्तिः प्रत्येकं विद्यमाना नाभिव्यज्यते समुदायेऽमिव्यज्यते, को दृष्टान्तः ? चक्षुरादिपरमाणूनामिव प्रत्येकं रूपदर्शनशक्तानामपि न सा शक्तिरभिव्य" ज्यते समुदाये त्वभिव्यज्यते, तद्वदालम्बनपरमाणूनामपि, विषयविषयिपरमाणूनां प्रत्येकं तद्व्यक्तीनाम20 प्यसमुदितानां शक्त्यभावं तुल्यं दर्शयति-न हीन्द्रियपरमाणुर्विषयपरमाणु विज्ञानमुत्पादयितुमलमिति, न तत्समुदायः, प्रज्ञप्तिसत्त्वात्-नापि तेषामिन्द्रियविषयपरमाणूनां समुदायो विज्ञानमुत्पादयितुमलं प्रज्ञप्तिसत्त्वात्-परमार्थतोऽसत्त्वादित्यर्थः। तस्मादेकमेकं प्रति कारणभावः-प्रत्येककारणता, तस्यां सत्यामेव प्रत्येककारणतायामणूनां समुदाये दर्शनशक्तिव्यक्तिः किमिव ? शिबिकावाहकसमुदाये वहनशक्तिवत्, यथा शिविकावाहकानां प्रत्येक विद्यमानैव सा वहनशक्तिः समुदायेऽभिव्यज्यते तथैन्द्रिय 26 तन्निष्ठासाधारणविषयत्वादित्यर्थः तत्पदेन चक्षुर्विज्ञानं ग्राह्यमतो न व्यधिकरणता हेतोः, एतदेव बहुव्रीहिणा दर्शयति असाधा रण एवेति, चक्षुर्विषयस्य धर्मित्वे न बहुव्रीहिः किन्तु कर्मधारय एवेत्याशयेनाहासाधारणाश्चेति, नन्वेवं रसज्ञानवदिति दृष्टान्ते न हेतुसद्भावस्तस्य विषयवृत्तित्वादित्यत्राह रसज्ञान इव रसज्ञानवदिति, अभिप्रायं स्फोरयति यथेति । ननु च प्रत्येकमेवेति, परस्परं मिलिताः प्रत्येकाभिन्ना ये परमाणवस्त एव प्रत्यक्षज्ञानकारणभूताः सन्त आलम्बनम्, न केवलं परमाणुः, तच्छत्तयनभिव्यक्तेः, नापि केवलं समुदायः, तस्य परमार्थतोऽसत्त्वादतः समुदितास्ते कारणमालम्बनमिति भावः । 30 विषयविषयिपरमाणूनामिति । विषयपरमाणवः नीलादिपरमाणवः विषयिपरमाणवश्चक्षुरादिपरमाणवः, तद्व्यक्तीनां विषयविषयिपरमाणुव्यक्तीनाम्, न तत्समुदाय इति, परमाणूनां समुदायो विशिष्ट इत्यर्थः, अत्र पक्षे परमाणुभिर्विलक्षणः _ 2010_04 Page #167 -------------------------------------------------------------------------- ________________ अभ्युपगतनिरोधः] न्यायागमानुसारिणीव्याख्यासमेतम् ११७ विषयपरमाणूनां दर्शनश्यशक्तिः, वैधय॒णान्धपंक्तौ प्रत्येकादर्शनवैलक्षण्यं नेति, यथाऽन्धानां प्रत्येकमसती दर्शनशक्ति व्यक्तिस्तत्पशावपि न भविष्यति तथेन्द्रियविषयद्रष्ट्रदृश्यशक्तयो नाभविष्यन् , भवन्ति तु, तस्मात् प्रत्येकं विद्यमानशक्तय एवेन्द्रियविषयपरमाणवः समुदायेऽभिव्यक्तशक्तयो भवन्तीति___अनोच्यते- नन्वेवमभ्युपगतनिराकरणफलैवेयं प्रत्यक्षव्यवस्था, असञ्चितपरमाण्वालम्बनाश्रयणात्, । तच्चाभ्युपगतं निरुणद्धि प्रत्येकं दर्शनशक्तिख्यापनात् । (नन्वेवमिति) नन्वेवमभ्युपगतनिराकरणफलैवेयं प्रत्यक्षव्यवस्था, अभ्युपगतं सञ्चितालम्बनाः पञ्चविज्ञानकाया इति, तस्याभ्युपगतस्य निराकरणं फलमस्याः प्रत्यक्षव्यवस्थायाः, कुतः ? असश्चितपरमाण्वालम्बनाऽऽश्रयणात् , प्रत्येकं दर्शनशक्तिमतामिन्द्रियविषयपरमाणूनां दर्शनशक्तिव्यक्तिरित्यस्यां कल्पनायां नन्वसञ्चिताः परमाणवश्चक्षुर्विज्ञानोत्पादनशक्ता इत्येतदाश्रितं भवति पञ्चानां 10 विज्ञानकायानामसञ्चितालम्बनत्वम् , तच्चाभ्युपगतं निरुणद्धि सञ्चितालम्बनत्वमिदं कल्पनान्तराश्रयणम् , किं कारणं ? प्रत्येकं दर्शनशक्तिख्यापनात् , शिविकावाहकसाधर्म्यात्त एव दर्शनशक्तियुक्ताः प्रत्येकमिति भवन्ति । स्यान्मतम्___ ननु प्रत्येकशक्तानामेव सञ्चये तच्छत्यभिव्यक्तिरित्युक्तम् , सत्यमुक्तम् , एतदयुक्तम् ।। जनकानन्यथात्वात् , न हि ज्ञानस्य जनकेभ्यः परमाणुभ्योऽन्यः सञ्चयोऽस्तीति प्रागेतद्विस्तरेण प्रतिपादितम् । (नन्विति) आचार्य आह सत्यमुक्तं एतदयुक्तम् , किं कारणं ? जनकानन्यत्वात् , न हि ज्ञानस्य जनकेभ्यः परमाणुभ्योऽन्यः सञ्चयोऽस्तीति प्रागेतद्विस्तरेण प्रतिपादितम् , तस्माजनकानन्यत्वात् सञ्चयाभावात् प्रत्येकं दर्शनशक्त्यभिव्यक्तिः प्रत्यक्षव्यवस्थाऽभ्युपगतनिराकरणफलैवेयम् । 20 अथवा जनकानामन्यः प्रकारोऽन्यथा तद्भावोऽन्यथात्वं तत्प्रतिषेधो जनकानन्यथात्वं तस्मात् , जनकानां-परमाणूनामतीन्द्रियाणामनन्यथात्वादैन्द्रियकत्वव्यवस्थानाभावात् सञ्चयस्यार्थान्तरभूतस्याभाबादस्ति परमाण्वालम्बनाश्रयणं तदवस्थम् । समुदायो विज्ञेयः तस्यैव संवृत्तिसत्त्वादसत्त्वमुक्तम् , अणूनां समुदाय इति, विशिष्ट सम्बन्धवत्सु परमार्थसत्सु परमाणुवित्यर्थः सञ्चितपरमाणुष्विति यावत् , तेन पूर्व समुदायो विज्ञप्तिसत्त्वान्निराकृतः अतोऽत्र कथं तत्समुदाये दर्शनशक्त्यभि- 25 व्यक्तिरित्याशङ्का परास्ता वैधhणान्धपताविति, प्रत्येकमन्धेषु याऽदर्शनशक्तिः सैवान्धपतौ वर्त्तते नतु काचिद्विलक्षणा दर्शनशक्त्यात्मिका विद्यत इति भावः । प्रत्येकं दर्शनशक्तिख्यापनादिति, प्रत्येकं परमाणुषु दर्शनशक्तिखीकारे विज्ञानस्य तदालम्बनत्वप्राप्त्या सञ्चितानामेवालम्बनत्वविषयोऽभ्युपगमः सञ्चितालम्बनाः पञ्च विज्ञानकाया इत्येवंरूपो निराकृत एव भवेदिति भावः । कल्पनान्तराश्रयणं-असञ्चितपरमाण्वनालम्बनाश्रयणम् , निरुणद्धीति शेषः । ननु प्रत्येकं शक्त्यभावे समुदाये शक्ति यातीति प्रत्येकं समुदाये च शक्तिर्मयोक्ता न केवलं प्रत्येकमेव, समुदाये वा, तस्मात्सश्चये शक्त्यभ्युपगमात् 30 कथमभ्युपगतनिराकरणफला कल्पनेत्याशङ्कते नन्विति । सत्यमित्यर्धाङ्गीकारे, प्रत्येकाभावे समुदायेऽयभाव इत्यस्याङ्गीकारः सूचितः, अनङ्गीकारार्थमाह-जनकानन्यथात्वादिति, सञ्चयस्येति शेषः । भावार्थमाह-तस्मादिति । तथापि परमा 2010_04 Page #168 -------------------------------------------------------------------------- ________________ द्वादशारनयचक्रम् [विध्यरे - अथवा युक्तैषा कल्पना त्वयाऽऽश्रयि, स्वलक्षणविषयं प्रत्यक्षमित्येतत्प्रतिज्ञातसंवादित्वात्तनिर्वोढुकामेन । प्रत्येकं ते समुदिताः कारणमित्येतद्धि प्रत्यक्षविषयसमर्थवचनमादिप्रतिज्ञातवत् , यस्मात्स्वलक्षणविषयत्वप्रतिसमाधानेन निर्वहणमेतत् , प्रत्यवेक्षितव्यार्थोपायसाध्यसाधनसम्बन्धो हि वक्तव्यः, अहो साधु ! किन्तु पुनरत्र देवानां प्रिय ! भवति दोषजातम् , किं तत् ? अनेकार्थजन्यस्वार्थसामान्यगोचरनिरसनम् । पूर्वापरानुमतनिगमनपरिग्रहेण वाssदिप्रतिज्ञातार्थनिरसनम् । (अथवेति) अथवा युक्तैषा कल्पना त्वयाऽऽश्रयि स्वलक्षणविषयं प्रत्यक्षमित्येतत्प्रतिज्ञातसंवादित्वात्तन्निर्योदुकामेन । यस्मात् प्रत्येकं ते समुदिताः कारणमित्येतत् प्रत्यक्षविषयसमर्थनवचनम् , आदिप्रतिज्ञातेन तुल्यं वर्तत इत्यादिप्रतिज्ञातवत्-आदिप्रतिज्ञातानुरूपम् । या हि प्रतिज्ञा स्खलक्षणं 10 प्रत्यक्षमिति सैतेन वचनेन न विरुद्ध्यते, यस्मात्स्वलक्षणविषयत्वप्रतिसमाधानेन निर्वहणमेतत् स्वलक्षण. विषयं प्रत्यक्षमित्यादौ प्रतिज्ञाय प्रत्येकं ते समुदिताः कारणमिति ब्रुवताऽणूनां स्खलक्षणत्वात् । प्रत्यवेक्षितव्यार्थोपायसाध्यसाधनसम्बन्धो हि वक्तव्यः । अहो साधु ! किन्तु पुनरन देवानाम्प्रिय ! भवति दोषजातम्, किन्तत् ? अनेकार्थजन्यस्वार्थसामान्यगोचरनिरसनम् , तत्रानेकार्थजन्यत्वात् खार्थे सामान्यगोचरमिति चोद्योत्तरपक्षपरिग्रहेण प्रत्यवेक्षितव्यार्थोपायसौस्थित्यार्थनिगमनवचनमनेन तु निरस्यते, 15 अथ मा भूदेष दोष इति पूर्वापरानुमतनिगमनपरिग्रहेण वा आदिप्रतिज्ञातार्थनिरसनम्, वाशब्दस्य विलक्षणत्वात् स्खलक्षणविषयप्रत्यक्षत्वं वा निरस्यते, अनेकार्थजन्यस्वार्थसामान्यगोचरता वोभयं वा निरस्यत इति । किश्चान्यत् प्रत्येकं समुदिताः कारणमिति वचनादव्यस्ता इत्येतदर्थापन्नमिति तदेव पुनः स्मारयति दोषान्तरैः,20 अनेकान्तवद्वयोरन्तरयोरवस्थातव्यं तैः परमाणुभिरेकतः. प्रत्येकसमुदितैः प्रत्येकतायाश्च । (अनेकान्तवदिति) द्वयोरन्तरयोरवस्थातव्यम् , द्वावन्तौ-द्वौ देशौ, द्वयोर्देशयोरवस्थेयं तैः परमाणुभिरेकतः प्रत्येकसमुदितैः, किमिव ? अनेकान्तवत् , अनेकान्तेन तुल्यं वर्तत इत्यनेकान्तवत् , यथा द्रव्यान्तरपर्यायान्तरयोरवतिष्ठमानाः परमाणवस्त एव तत्समुदायश्चेति व्यपदिश्यन्ते, तथा प्रत्ये25 ग्वालम्बनाश्रयणं तदवस्थमेवेति सूचनाय व्याख्यान्तरमाह-अथवा जनकानामिति । परमाण्वालम्बनतायाः स्वीकारेऽपि दोषान्तरमाह-अथवेति, प्रथमोक्तस्य स्खलक्षणविषयं प्रत्यक्षमिति वाक्यस्य प्रत्येकं ते समुदिताः कारणमिति वाक्येन त्वया निवोहः कृतः, उभयत्र परमाणुलक्षणस्खलक्षणस्यैव विषयत्वप्रतिपादनात्, किन्तु पूर्वोत्तरपक्षाभ्यां विचार्य यन्निगमनं कृतमनेकार्थजन्यत्वात् खार्थे सामान्यगोचरं प्रत्यक्षमिति तत्तु त्वयाऽनेन वचनेन निराकृतमेव, अस्य वा वचनस्य परिग्रहे प्रथम प्रतिज्ञातः प्रत्येकं ते समुदिताः कारणमिति वाक्यार्थो निराकृत एव भवतीत्यथवा युक्तैषा कल्पनेत्यादि यावदादिप्रतिज्ञाता30 निरसनमिति ग्रन्थसन्दर्भस्याभिप्रायः। प्रत्यवेक्षितव्येति, प्रत्यवेक्षितव्यस्य निर्णेयस्यार्थस्योपायभूतः साध्यसाधनसम्बन्धोऽवश्यवाच्यः स चोक्त इति पूर्वपक्षाशयः । तत्रापि दोषमाह-अहो साध्विति, अहो साधु वक्तव्यः किन्तु दोषजातमत्र भवति, अनेकार्थजन्यत्वादिति वाक्यविरोधः, तस्याभ्युपगमे च प्राथमिकवाक्यविरोध इति भावः । ननु प्रत्येकं ते समुदिताः कारणं नतु व्यस्ता इत्यभ्युपगमेऽनेकान्तवादापत्तिव्यपर्यायरूपेणावतिष्ठमानानां परमाणूनां कारणतावधारणादित्याह-अनेकान्तवदिति, त एव तत्समुदायश्चेति, प्रत्येकावस्थायां समुदायावस्थायां च वर्तमानत्वात् परमाणना 2010_04 Page #169 -------------------------------------------------------------------------- ________________ समुदायासम्भवः ] न्यायागमानुसारिणीव्याख्यासमेतम् कतायाच्चावस्थेयमित्यनेकान्तसाधर्म्य दर्शयति, चशब्दः समुच्चये, किं समुश्चिनोति ? समुदायमुपरितनम् प्रत्येकतायाञ्च समुदाये चावस्थातव्यमिति । ११९ प्रत्येक शक्यतो हि समुदाय इत्युभयथा स्याद्वादिनो यद्वदन्ति तदेव तवाप्यापनम्, साक्षात्तदुक्ततत्त्वत्वात्, अनेकैकत्व भृशगत्यर्थ समुदायपरिग्रहाच्च । (प्रत्येकेति ) अम्यम्भसोश्च तदशक्यशक्ते समुदाये - अमे: शक्यं दहनादि हाइनस्नेहनाद्यश- 6 क्यम्, अम्भसस्तु स्नेहनह्लादनादि शक्यमशक्यं दहनादि, तदशक्ये शक्तस्तदशक्याशक्तः प्रत्येक शक्ये शक्तः समुदायः । वाक्यार्थस्तु लोकव्यापिनोऽपि परमाणवः संघातभेदपरिणामापेक्षा एव चाक्षुषत्वादिभाजो भवन्ति नान्यथेत्युभयथा स्याद्वादिनो जैना यद्वदन्ति तदेव तवाप्यापन्नम्, कुतः ? साक्षातदुक्ततत्त्वत्वात् तथैव साक्षादुक्तं तत्त्वमेतत् परमाणूनां प्रत्येकं चक्षुर्विज्ञानोत्पादने न शक्ताः समुदिताः शक्ता इत्येवं तावत् साक्षादनेकान्ताभ्युपगमः । अर्थापत्त्या वाऽभ्युपगत एव, - अनेकैकत्वभू - 10 शगत्यर्थ समुदाय परिग्रहाच्च, समित्येकी भावे, स चैकी भावोऽनेकस्य, इण् गतौ, अयनं गमनं गतिराय इति पर्यायाः, उत्कृष्ट आय उदायः, संगतो भृशमायः, समुदायशब्दस्य तत्परिग्रहात्, प्रत्येकं ते समुदिता अनेकैकी भूतभृशगतयः कृताः, तस्माच्चानेकान्तवादाभ्युपगमः । किञ्चान्यत्— " इतरथापि वैषां समुदाय एव न स्यात्, प्रत्येकमभूतत्वाद्वन्ध्यापुत्रवत् । (इतरथापीति) न्यायतोऽपीत्यर्थः, एतत्प्रतिज्ञातः समुदाय एव न स्यात्, प्रत्येकमभूतत्वात्, वन्ध्यापुत्रवदित्येष न्यायः, यथा प्रत्येकमभूतानां वन्ध्यापुत्राणां समुदायो नास्ति तथा परमाणूनामिति । नन्वयमन्यायः प्रत्येकमभूतत्वासिद्धेः परमाणूनामिति चेनेत्युच्यते बौद्धैरेवोक्ता त्रयातिरिक्तसंस्कृतक्षणिकानित्यत्वाभ्युपगमेन सहासङ्गतिरस्य, यदुक्तं वः सिद्धान्ते 'बुद्धिबोध्यं त्र्यादन्यत् संस्कृतं क्षणिकञ्च तत्' इति प्रत्येकत्वप्राप्तानन्तरमेव 20 विनष्टत्वात् कः प्रत्येकं समुदायः को वा देशतोऽत्यन्तं रूपादिभेदेन यावदनभिलाप्यतया - वस्थानं भिद्यमानानां प्रत्येकं भावः ? । (बौद्धैरेवेति) आकाशप्रति संख्याऽप्रतिसंख्या निरोधाख्यत्रयादन्यत् प्रत्ययजनितत्वात् संस्कृतं संस्कृतत्वाच्च क्षणिकानित्यम्, क्षणोऽस्यास्तीति क्षणिकं क्षणमात्रमेवास्य कालो न परत इति क्षणिकानित्यमेव 2010_04 1 मनेकान्तसाम्यता विज्ञेया । एतदेव समर्थयति - प्रत्येकेति प्रत्येकेनाशक्यं समुदायेन शक्यते कर्त्तुं यथाऽमिनाऽसाध्यं यत् 25 स्नेहनादि, जलेनासाध्यं यद्दहनादि तदभिजल समुदायेन कर्तुं शक्यते तथा प्रत्येकपरमाणूनामसामर्थ्येऽपि संघातमेदपरिणामापेक्षाणां चाक्षुषत्वं सम्भवतीति जैनसिद्धान्त एव त्वयाप्याश्रयणीयः आश्रितश्च त्वयोभयथा साक्षादर्थापत्त्या च । तदेवाहउभयथेति । कथं साक्षादाश्रित इत्यत्राह - साक्षात्तदुक्तेति । कथमर्थापत्त्याऽऽश्रित इत्यत्राह - अनेकैकत्वेति । ननु वस्तुतः परमाणूनां समुदाय एव न सम्भवतीति न्यायप्रयोगमाह- इतरथापीति, अनुमानप्रयोगमाह-एतदिति बौद्धेत्यर्थः । परमाणूनामसत्त्वासिद्ध्या दुष्टोऽयं न्याय इत्याशङ्कते - नन्वयमिति । क्षणिकानित्यत्वेनाभ्युपगतेन सह प्रत्येकं ते समुदिता: 30 कारणमित्यभ्युपगमस्य परमाणूनामुत्पत्त्यनन्तरविनाशित्वेन प्रत्येकसमुदायभावासम्भवादभूतत्वसिद्धेरुक्त प्रयोगस्य नान्यायत्वमित्याह - बौद्धैरेवेति । आकाशेति, बौद्धमते त्यवबोधोपयोगिपदार्थस्वरूपो धर्मः सातवानात्रवभेदेन द्विविधः, तत्र सास्रवाः रूपादि पश्च स्कन्धाः द्वादश चक्षुरायायतनानि चक्षुराद्यष्टादश धातवः, एते एव संस्कृतपदप्रायाः, तत्र संस्कृता 15 Page #170 -------------------------------------------------------------------------- ________________ १२० द्वादशारनयचक्रम् [विध्यरे न कालान्तरावस्थाय्यनित्यत्वं लौकिकाभिमतघटादिवदियेतेनाभ्युपगमेन सह प्रत्येकं ते समुदिताः कारणमित्यस्याभ्युपगमस्य सङ्गति स्ति, किं कारणं? प्रत्येकत्वप्राप्तानन्तरमेव विनष्टत्वात् , एकैकस्य परमाणोः स्वरूपलाभसमनन्तरमेव विनष्टत्वात् कः प्रत्येकं समुदायः ? को वा देशतोऽत्यन्तं रूपादि भेदेन यावदनभिलाप्यतयाऽवस्थानं भिद्यमानानां प्रत्येक भाव इति सिद्धं प्रत्येकमभूतत्वं देशतः काल5 तश्वावस्थान्तरप्राप्तेरिति । प्रत्येकत्वप्राप्तिरपि चैवं नैव निर्मूलत एव परमाणूनामसत्त्वाद्वन्ध्यापुत्रवत् । सहोत्पादाददोष इति चेन्न, तुल्यत्वात् , किं भूतस्य सहता, अभूतस्य वेति विकल्पद्वयेऽपि योगपद्यासिद्धेः । अभूतस्य सहतेत्ययुक्तो विकल्पः खपुष्पस्येवातो भूतस्य सहतेति ब्रूमः । (प्रत्येकत्वेति) प्रत्येकत्वप्राप्तिरपि चैवं नैव, निर्मूलत एव परमाणूनाम् ,-यापि प्रत्येकत्व10 प्राप्तिः सापि चैवमुक्तविधिना नैवास्ति, स्वरूपप्राप्तिमात्रदेशकालाप्रतीक्षित्वविनाशित्वादसत्त्वात् , वन्ध्यापुत्रवत् , यथा वन्ध्यापुत्राणां प्रत्येकत्वस्य प्राप्तिास्ति तथा परमाण्वभिमतानां तथानवस्थानानामभावान्न प्रत्येकत्वप्राप्तिरिति । सहोत्पादाददोष इति चेन्न-तेषां परमाणूनामसत्त्वमसिद्धं तथानवस्थानानामपि देशैक्येन कालैक्येन सहोत्पादाभ्युपगमात् , तस्मादस्ति प्रत्येकत्वप्राप्तिरित्येतच्च न, तुल्यत्वात् परमाण्वसत्त्वस्य, देशकालभेदोत्पादासत्त्वेन सहोत्पादासत्त्वस्य तुल्यत्वात् । (किमिति) 1B विकल्पद्वयेऽपि यौगपद्यासिद्धेरिदमसिद्धं द्रष्टव्यं किं भूतस्य सहता, अभूतस्य वेति । विकल्पद्वयानति वृत्तरेवं प्रश्नः, उभयथापि न घटत इत्युत्तरं वक्तुमनसः । (अभूतस्येति) एवं न ब्रूयामभूतस्य खपुष्प स्येव सहतेति, यतः स विकल्पः पूर्वपक्षस्ते, तस्माद्भूतस्य सहतेति ब्रूमः । . अत्राचार्य आह। त्वमेवैतद्विकल्पद्वयं 'तदवस्थाः प्रत्येकसमुदिताः कारणं परमाणवः' इति ब्रुवाणश्चि20 नाम हेतुप्रत्यजनिता रागाद्याश्रयभूताः अनास्रवा मार्गसत्यपदवाच्या हेतुप्रत्ययं विनैवात्मलाभवन्त आकाशप्रतिसंख्यानिरोधा प्रतिसंख्यानिरोधरूपाः, तत्राकाशमनावरणस्वरूपं तन्नान्यधर्मराव्रियते न चान्यानावृणोति, स प्रतिसंख्यानिरोधो यो निखिलानां सासवधर्माणां पृथक् पृथक् विभागः । प्रतिसंख्या-प्रज्ञा तया निरोधः । धर्माणामुत्पत्तोऽत्यन्तं विरोधी सोऽप्रतिसंख्यानिरोधः, एकस्मिन् हि रूपे यदा चक्षुर्मनसी व्यासक्ते तदाऽन्ये शब्दादयोऽगृहीता एव प्रत्युत्पन्ना निरोधगतिं यन्ति सत्स्वपि श्रोत्रादिषु, तदेवमप्रतिसंख्याय-अपरिज्ञायैव तेषां निरोधोऽप्रतिसंख्यानिरोधः । एकैकस्येति. इदं कालतः प्रत्येकमभूतत्वप्रकाश25 नाय । को वा देशत इति, इदं देशतः प्रत्येकमभूतत्वप्रकाशनाय । एवञ्च प्रत्येकमभूतत्वं परमाणूनां सिद्धत्वाच्यायतोऽपि समुदायाभावः सेत्स्यत्येवेति भावः । अथ परमाणूनां प्रत्येकत्वप्राप्तिरपि नास्ति, समुदायापेक्ष हि प्रत्येकत्वं समुदायासम्भवे न सम्भवत्येव,स्वरूपप्रायनन्तरमेव देशकालाधनपेक्षयैव विनाशित्वात् यावदनभिलाप्यतयाऽवस्थानं भिद्यमानत्वाञ्चेत्याह-प्रत्येकत्वप्राप्तिरपीति। अनेके परमाणवः सहोत्पद्यमानाः समुदायव्यपदेश्याः तदपेक्षया चैकैकस्य तद्धटकस्य परमाणोः प्रत्येकव्यप देश्यत्वमिति नोक्तदोष इत्याशङ्कते-सहोत्पादादिति । यथा परमाणनां देशकालापेक्षयोत्पत्ति स्ति. अन्यानपेक्ष 30 त्वात् , तथैव सहत्वापेक्षोत्पत्तिरपि नास्तीत्युत्तरयति-तुल्यत्वादिति । दोषान्तरमप्याह-किं भूतस्येति, किं भूतस्य सहता? .: अभूतस्य वेति विकल्पनमिदमसिद्धं द्रष्टव्यम्, विकल्पद्वयेऽपि योगपद्यासिद्धरुभयथाऽपि न घटत इत्युत्तरं वक्तुमनसो विकल्प द्वयानतिवृत्तेरेवं प्रश्न इति योजना। ननु नाहमभूतस्य सहता खपुष्पस्येवेति ब्रूयाम् , किन्तु तुल्यत्वात् परमाण्वसत्त्वस्येति ब्रुवतस्तवैवायं पूर्वपक्षो न मम, वयन्तु भूतस्य सहतेति ब्रूम इति बौद्ध आशङ्कते-अभूतस्येति । नायं मम पूर्वपक्षः किन्तु तवैवेत्याशयेनाऽऽचार्य उत्तरयति-त्वमेवैतदिति । भूतस्य सहता तावन्न सम्भवतीत्याह-यदि तावदिति । प्रतिलब्ध. 2010_04 Page #171 -------------------------------------------------------------------------- ________________ विज्ञानपक्षाश्रयः] न्यायागमानुसारिणीव्याख्यासमेतम् न्तय क एवमाहेति, किं नः एतेन, यो ब्रवीति स ब्रवीतु, यदि भूतस्य, कुतः सहता! उक्तवत् , तथा तेषामसत्त्वापत्तेः, प्रतिलब्धसहत्वस्य चोत्पाद उच्यते त्वया तत्तु सहत्वमप्रतिलब्धमसत्त्वापत्तेरेव । (त्वमेवैतदिति) यदि तावद्भूतस्य सहोत्पादो भवनानन्तरविनष्टत्वात् क्षणिकवादे कुतः सहता ? नास्त्यत्र कारणं सहत्वे कस्यचित् केनचिदित्यर्थः । उक्तवदित्यतिदेशादेशकालाभ्यामत्यन्त-5 भेदे निरभिलाप्यस्वभावानां प्रत्येकत्वप्राप्तिरेव नास्तीत्युक्तम् , तथा तेषामसत्त्वापत्तेः, अणूनां कुतः सहतेत्यभिसम्बन्धः । प्रतिलब्धसहत्वस्य चोत्पाद उच्यते त्वया, तत्तु सहत्वं-योगपद्यमप्रतिलब्धमसस्वापत्तेरेव, तस्मात्सहोत्पादाददोष इत्यपरिहारः । ____ अथाभूतस्योत्पादो यौगपद्येनेष्यते साऽपि सहता वो नोपपद्यते, वन्ध्यापुत्रसमुदायोऽपि स्यादित्यनिष्टप्रसङ्गात् , अभूतत्वादस्थितत्वादणुसमुदायवत् । अणुसमुदायोऽपि 10 न स्यादभूतत्वादस्थितत्वाद्वन्ध्यापुत्रसमुदायवत् ।। (अथेति) अथाभूतस्योत्पादो यौगपद्येनेष्यते सापि सहता वो नोपपद्यतेऽनिष्टप्रसङ्गात् , किमनिष्टं ? वन्ध्यापुत्रसमुदायोऽपि स्यादित्यनिष्टम् । कुतः ? अभूतत्वादस्थितत्वादणुसमुदायवदिति साक्षादनिष्टापादनम् । अणुसमुदायोऽपि न स्यादभूतत्वादस्थितत्वाद्वन्ध्यापुत्रसमुदायवत्, अभूतत्वमस्थितत्वश्च हेतुद्वयं शून्यक्षणिकवादिनोः सिद्धत्वादुक्तम् । ... . 15 सन्तानादिति चेदेतच्चायुक्तम् , सोऽपि ह्येवमेव । (सन्तानादिति) स्यान्मतमभूतत्वमस्थितत्वश्चेष्यते तेषां तथापि जन्मविनाशसन्तानस्याव्यवच्छेदात् स्थितत्वमस्त्यतः सहोत्पादाददोष इति, एतच्चायुक्तम् , यस्मात्सोऽप्येवमेव, सोऽपि सन्तानो भूतो वा स्यादभूतो वा ? यदि भूतः कुतः सहता ? उक्तवत् , भवनानन्तरविनष्टेभ्योऽन्यस्य सन्तानस्याभावात् , अस्ति चेत्तद्विलक्षणो नित्यान्य इति सर्वक्षणिकप्रतिज्ञाहानिः, अथाभूतो वन्ध्यापुत्रव-20 दित्यायभिहितदोषाक्रान्तमेव । ___ अथोच्येत बाह्यवस्तुप्रतिपत्तिजनितः सर्व एवैष विरोधसंक्लेशः, एवन्तु सर्वदोषविनिर्मुकमिदं कल्पनान्तरमाश्रयामहे विज्ञानमात्रकमिदं त्रिभुवनम् , न पुनरेतस्यां कल्पनायामेवंसहत्वस्येति, भूतस्य सहतेति सहत्वावस्था प्राप्त एवोत्पाद्य इति वा स्वीकारादिति भावः । अभूतस्य योगपयनोत्पादाभ्यु गको बन्ध्यापुत्रसमुदायस्यापि प्रसङ्गेन बन्ध्यापुत्रसमुदायासम्भववद्वा परमाणुसमुदायासम्भवेन न युज्यते युष्याकमित्याह-अथा- 25 भूतस्येति । न चाभूतत्वमस्थितत्वञ्चासिद्धमित्याह-अभतत्वमिति । सन्तानादिति, परमाणोः क्षणविनाशित्वेऽपि. क्षणिकपरमाणुसन्तानस्य सत्वात् स्थितत्वमस्तीति सहोत्पादो युज्यत इति भावः, तमपि किं भूतस्याभूतस्य वा सहतेति विकल्प्य दूषयति सोऽपीति, परमाणुव्यतिरेकेण सन्तानस्याभावान भूतस्य सहस्वसम्भवो व्यतिरेके च नित्यत्वे क्षणिक वस्तुमांत्रमिति प्रतिज्ञा हानिः, अभूतस्य सहत्वन्तु वन्ध्यापुत्रसमुदायस्यापि योगपद्येनोत्पत्तिप्रसज्ञादयुक्तमिति भावः । ननु सचितालम्बनाः पत्र विज्ञानकाया इति बाद्यवस्तुखीकारपक्षे सञ्चयः कल्पितोऽकल्पितो वेत्यादिनियोगपर्यनुयोगादयः स्यानाम, 30 तथा तत्र वैफल्यविरोधादिदोषाच, यदा च सर्वदोषविनिर्मुक्त विज्ञानमेवैकं वस्त्विति वयं प्रतिपद्यामहे तदा न कोऽपि क्लेश इति विज्ञानवादी समुत्तिष्ठते-अथोच्चतेति विज्ञानवादेऽनुभवानान्योऽनुभाथ्योऽनुभविताऽनुभवनश्च तथापि बुख्या सोन बुद्धिपरिकल्पितेनान्तस्थ एवेष प्रमाणप्रमेयफलन्यवहारः प्रमालव्यवहारथन पारमार्थिक इति कास्किका प्रायोजया द्वा० न० १६ _ 2010_04 Page #172 -------------------------------------------------------------------------- ________________ १२२ द्वादशारनयचक्रम् [विध्यरे विधः संक्लेशोऽस्ति यदिदं संवृतिसदिदं परमार्थसदिदमैन्द्रियमिदमतीन्द्रियमित्यादि विकल्प्यमानं विज्ञानाव्यतिरिक्तमर्थजातमिच्छतां स्यात् , न तु तत्ततो भिन्नमस्ति, तस्मादनर्थको विचार इति । अथोच्येत बाद्यवस्तुतत्त्वेत्यादि यावत्ततो भिन्नमस्तीति, अत्यधिकारान्तरे, अथ सञ्चितालम्बनविषयज्ञानपक्षे कल्पिताकल्पिता उपपत्तयो विफला भवन्ति सदोषाश्चेति तं परित्यज्येदमुच्येत सर्व एवैष विरोधसंक्लेशो बाह्यवस्तुप्रतिपत्तिजनित:-विज्ञानाद्वाह्य वस्तुतत्त्वमस्तीति प्रतिपत्तौ सत्यां जायतेऽयं संक्लेशः, यदि परमाणव आलम्बनं ततोऽतीन्द्रियत्वसञ्चितालम्बनत्वाद्यभ्युपगमविरोधः, अथ समुदायः, असत्त्वात् खपुष्पवदनालम्बनमेव। प्रत्येकं ते समुदिता इति स्ववचनविरोधादिदोषः प्रोक्तन्यायेनेत्येवमादिविरोधोद्भावनजनितेन चित्तसंक्लेशेन कमर्थं वाच्यामहे ? एवन्तु सर्वदोषविनिर्मुक्तमिदं 10 कल्पनान्तरमाश्रयामहे विज्ञानमात्रकमिदं त्रिभुवनम् । यदुक्तम् 'द्यौः क्षमा वायुराकाशं सागरः सरितो दिशः । अन्तःकरणतत्त्वस्य भागा बहिरिव स्थिताः' इति, न द्रव्यसंवृत्या, न पुनरेतस्यां कल्पनायामेवंविधः संक्लेशोऽस्ति यदिदं संवृतिसदिदं परमार्थसदिदमैन्द्रियमिदमतीन्द्रियमित्यादि विकल्प्यमानं विज्ञानाव्यतिरिक्तमर्थजातमिच्छतां स्यात् , न तु तत्ततो भिन्नमस्ति तस्मादनर्थको विचार इति। . . अत्रोच्यते ननु देवानां प्रिय! तन्मतवदेव विज्ञानवादविध्वंसनार्थोऽयमारम्भः, तिष्ठतु 15 तावद्वाह्यार्थाभावे विज्ञेयत्वाभावात्तस्य विज्ञानत्वाभावः, ततश्च प्रमेयत्वाभावात् प्रमाणत्वाभावः प्रत्यक्षस्येति, इदं तावद्विज्ञानं हि लोके प्रत्यक्षादि, तत्र निर्धार्य कतमत्तव विज्ञानमात्रम् । ब्रूयास्त्वं प्रत्यक्षविज्ञानमात्रमिति, तन्न तस्यैवमवस्थत्वात् , नानुमानविज्ञानमात्र, तस्यापि तत्पूर्वकत्वात् तदसिद्धावसिद्धिरतन्त्वपटवत् । अत्रोच्यते ननु देवानां प्रिय ! तन्मतवदेव विज्ञानवादविध्वंसनार्थोऽयमारम्भः, यथेदं 20 कल्पनापोढं प्रत्यक्षमित्येतस्य तन्मतस्य तत्संवादिनो बुद्धवचनस्य च विध्वंसनार्थोऽयमारम्भस्तथा विज्ञानमात्रविध्वंसनार्थोऽप्ययमेवारम्भः, त्वत्तीर्थकराभि हितत्वात्तस्यापि । अथवाऽपरमार्थत्वप्रतिपादनार्थत्वाच सर्वदेशनानां बौद्धानां तद्विध्वंसनार्थ एवायमारम्भः, एतदपि प्रमाणाभावादयुक्तमिति ग्राह्यम् । प्रमाणाभावश्च प्रमेयाभावादिति स दोषः स्थित एवेति दर्शयति-तिष्ठतु तावदित्यादि, तच्चोपायेन दर्शयिष्यन्नाह-बाह्यार्थाभावे विज्ञेयत्वाभावः, तस्य विज्ञानमात्रत्वाद्विज्ञेयत्वाभावे च तस्य विज्ञा25 मत्वमपि नास्ति, विजानातीति विज्ञानम् , किं विजानाति विज्ञेयाभावे, ततः प्रमेयत्वाभावात् प्रमाण वाभावः प्रत्यक्षस्येति शेयज्ञानं प्रमाणत्वप्रमेयत्वविलक्षणं खपुष्पवत् किं तत् प्रत्यक्षं नामेत्येष दोषो दर्शयति यदुक्तमिति कथं पुनरवगम्यतेऽन्तस्थ एवायं सर्वव्यवहारो न विज्ञानव्यतिरिको बायोऽर्थोऽस्तीत्याशङ्कायां विपझे बाधकं दर्शयति,-न पुनरेतस्यामिति, तिष्ठतु तावदिति, बाह्यार्थस्याभावेऽपि सर्वस्य ज्ञानात्मकत्वेन विज्ञेयत्वाभावः तदभावे च विजानातीति व्युत्पत्तिसिद्धं विज्ञानमपि न सम्भवति. तथा च प्रमाप्रमेययोरभावे प्रमाणत्वप्रमेयत्वयोरप्यभाव इति 30 तद्विलक्षणज्ञानज्ञेययोरसिद्धरित्ययं विचारस्तावत्तिष्ठतु तदभ्युपगम्य तु विज्ञानमेदो विचार्यत इति भावः। तमेव विचार विधत्तेइदं तावदिति । तन्मतवदेवेति, बाह्यार्थक्षणिकवादिमतवदेवेत्यर्थः । त्वत्तीर्थकरेति, विनेयाभिनिवेशमालक्ष्य तद. नुरोधेनोपदेशविधात्रा सुगतेनाभिहितत्वाद्विज्ञानकवादस्येति भावः। न केवलं तन्मतविज्ञानमतयोरेवापरमार्थताप्रतिपादनार्थोऽयमारम्भः किन्तु तथागतस्य सर्वेषां देशनानामित्याह-अथवेति । एतदपि-कल्पनान्तराश्रयणमपीत्यर्थः। तमिति, दोष 2010_04 Page #173 -------------------------------------------------------------------------- ________________ १२३ विज्ञानमात्रताभङ्गः] न्यायागमानुसारिणीव्याख्यासमेतम् दुर्निवारः, स तावत्तिष्ठतु, इदं तावदस्तित्वाभ्युपगमेनाऽन्यथा विचार्यते-विज्ञानं हीत्यादि, हिशब्दो दृष्टार्थे, दृष्टं हि लोके विज्ञानं प्रत्यक्षादि-प्रत्यक्षमनुमानञ्च प्रमाणे विज्ञाने, आदिग्रहणात् संशयविपर्ययानध्यवसायलक्षणानि च विज्ञानानि प्रमाणाभासाभिमतानि । इदमसि त्वं प्रष्टव्यः, तत्र निर्धाय कतमत्तव विज्ञानमात्रम् ? इदं सर्ववैकधातुकमिति नैकमपि विज्ञानमात्रं भवतीत्यभिप्रायः । ब्रूयास्त्वं प्रत्यक्षविज्ञानमात्रमिति, तन्न तावत् प्रत्यक्षविज्ञानमात्रम् तस्यैवमवस्थत्वात् ,-तस्य-प्रत्यक्षविज्ञानस्य, । एवमवस्था यथाऽस्माभिर्व्याख्याता 'न रूपादिविषया न समुदायविषया न चक्षुरादिनिमित्ता संवृत्या परमार्थेन वा युज्यत' इति, तस्मान्न प्रत्यक्षविज्ञानमात्रम् । स्यान्मतमनुमानमात्रमिति तदपि नानुमानविज्ञानमात्रम् , किं कारणं ? तस्यापि तत्पूर्वकत्वात् , तस्याप्यनुमानस्य तत्पूर्वकत्वात्-प्रत्यक्षपूर्वकत्वात् , प्रत्यक्षपूर्वकं हि स्वानुभवोत्तरभावि विकल्पात्मकम् , अविकल्पज्ञानसमनन्तरजन्मानुमानं मानसमनि. न्द्रियमयोगिमानसप्रत्यक्षपूर्वकमेवेष्यते तस्यैव प्रत्यक्षस्यासिद्धौ कुतोऽनुमानसिद्धिः, अतो नानुमानमा-10 त्रमत आह-तदसिद्धावसिद्धिरतन्त्वपटवत्, यथा तन्तुपूर्वकस्य पटस्य तन्त्वसिद्धावसिद्धिस्तत्पूर्वकत्वात्, तथा प्रत्यक्षासिद्धावसिद्धिरनुमानस्य, एवं तावत्प्रमाणविज्ञानमात्रत्वासिद्धिः । एवं तर्हि संशयभ्रान्त्यादिकल्पना विज्ञानमात्रमस्तु तदपि न, अत एव, नानध्यवसायमात्रम् , अग्रहात्मकत्वात्तस्य, न हि तदत्यन्तासंचेतितं नाम ज्ञानमस्ति, तस्मात् प्रमाणप्रमाणाभासज्ञानेष्वनन्तर्भावात् कतमद्विज्ञानमात्रमिदं सर्वमित्यलमतिविकाशिन्या संकथया । 15 (एवमिति) तदपि-संशयभ्रान्त्यादिकल्पनामात्रमपि न संशयमानं न भ्रान्त्यादिमात्रम् , आदिग्रहणान्न स्वप्नानुभवानुभूतानुकारमानं न तैमिरिककेशोण्डुकाद्याकारमात्रम्, सर्वस्यास्य कल्पना. त्मकस्य प्रमाणाभासस्यात एव-प्रत्यक्षपूर्वकत्वादेव तदसिद्धावसिद्धेः। स्यान्मतमनध्यवसायमात्रमस्त्विति तदपि नानध्यवसायमानं नासश्चेतितं नाऽव्यक्तसुखदुःखादिस्वरूपमित्यर्थः । किं कारणं १ अप्रहात्मकत्वात्तस्य, न हि तदत्यन्तासञ्चेतितं नाम ज्ञानमस्ति, यद्यप्यव्यक्तज्ञानमस्ति, अपटुत्वात्तद-20 विग्रहात्मकं न भवत्यतो विज्ञानमेव न भवति, यस्माद्विजानातीति विज्ञानमिष्टं तच्च न किञ्चिद्विजानातीति नानध्यवसायविज्ञानमात्रम् , तस्मात् प्रमाणप्रमाणाभासज्ञानेष्वनन्तर्भावात कतमद्विज्ञानमात्रमिदं सर्वम्-एतेभ्यश्च विज्ञानेभ्यो व्यतिरिक्तस्यान्यविज्ञानस्याभावान्न किश्चिदेतद्विज्ञानमात्रं सर्वमलमतिविकाशिन्या संकथयेति । मित्यर्थः। प्रत्यक्षपदस्य प्रमाणत्वेन प्रमाणमात्रोपलक्षकत्वादाह-प्रत्यक्षमनुमानञ्च प्रमाणे विज्ञाने इति। एवं विज्ञानमेदे 25 लोके दृष्टे तेषु तव विज्ञानं कतमद्विज्ञेयमित्याशङ्कते-तत्र निर्धार्यमिति । सर्वत्रैकधातुकमिति, सर्वत्रैकवरूपमित्यर्थः । संशयादीनामसत्वरूपत्वाद्विज्ञानत्वाभाववत् प्रत्यक्षादीनामप्यसद्विषयकत्वाद्विज्ञानत्वाभाव इत्यभिप्रायं दर्शयति-नैकमपीति । अनुमानस्य विकल्परूपतया विकल्पस्य च स्खलक्षणविषयनिर्विकल्पकप्रत्यक्षमन्तरेणासिद्धेः प्रत्यक्षपूर्वकत्वमित्याह-खानुभवेति। संशयमात्रमिति, एकत्र विरुद्धभावाभावकोटिकं ज्ञानमात्रमित्यर्थः । भ्रान्त्यादिमात्रमिति, तदभाववति तत्प्रकारकज्ञानमित्यर्थः । स्वनानुभवेति, जाग्रदनुभूतवस्त्वनुकरणमात्रं ज्ञानमित्यर्थः तैमिरिकेति, तिमिररोगिणश्चिरकालाध्ययनखिन्न-30 स्योत्थितस्य वा नीललोहितादिगुणविशिष्टः कश्चिन्नयनस्याग्रे यः परिस्फुरति, अथवा करसंमृदितलोचनरश्मिषु येयं केशपिण्डावस्था स केशोण्डुक उच्यते तद्विषयं ज्ञानमित्यर्थः, स्वप्नादेन्त्यिात्मकत्वेऽपि प्रतिभासविशेषाश्रयेण पृथगुक्तिः । अग्रहात्मकस्वादिति, ज्ञानानात्मकत्वादित्यर्थः, न हि विषयमात्रानवभासकं ज्ञानं सम्भवत्यन्यथा घटादीनामपि ज्ञानत्वापत्तेः, तस्माद 2010_04 Page #174 -------------------------------------------------------------------------- ________________ १२४ द्वादशारनयचक्रम् संक्षिप्योपसंहरति- इति प्रत्यक्षलक्षणस्य सर्वथा दूषितत्वात् तत्कल्पितं प्रत्यक्षं न घटते, स्ववचनव्यपेक्षाक्षेपदुस्तरविरोधत्वात्, अनयैव च दिशाऽविशेषैकान्तवादिनोऽपि । [ बिध्यरे ( इतीति ) प्रत्यक्षलक्षणस्य सर्वथा दूषितत्वात् इतरथापि दूषणवचनप्रपञ्चस्यानेकस्यावकाB शोऽस्तीति । एवं तावद्विशेषैकान्तवादिना कल्पितं लौकिकप्रत्यक्ष विलक्षणं प्रत्यक्षं न घटते स्ववचन - व्यपेक्षाक्षेपदुस्तरविरोधत्वात्, अनयैव च दिशा, स्ववचनव्यपेक्षैवाऽऽक्षेपो द्रष्टव्य इति वाक्यशेषः, एषोऽतिदेशः कस्यचिदविशेषैकान्तवादिनोऽपि, अपिशब्दादनन्तरोक्तस्य विशेषवादिनोऽसंभवादुभयवादिनोऽपि तत्र यद्विशेषवादिनः प्रागुक्तं दोषजातं कल्पनापोढं प्रत्यक्षमिच्छतः कल्पनात्मकत्वमेव हेतुपरम्परया परिपाट्याऽप्रत्यक्षत्वमनुमानत्वमुभयैक्यं सचयाभावो निर्देश्यत्वमस्वलक्षणता च कारक10 ज्ञापकाविशेषापादनादभिधानार्थव्यपदेश्यता च पश्चाच कल्पनापोढतामभ्युपेत्यापि स्वसामान्य - योर्लक्षणयोरभावाच्चक्षुषी रूपस्य तद्विज्ञानस्यैवाभाव इत्यादिलक्षणवाक्यमुद्दिश्य तदिदानीमुत्क्रमेण वाच्यमिति । तद्दिशं दर्शयति— 15 सर्वसर्वात्मकतायां श्रोत्रादिवृत्तिः प्रत्यक्षमिति ब्रुवतो वस्तुनो निर्विकल्पत्वाद्विभागाभावात् किं श्रोत्रं यत्त्वगादिभ्यो विभक्तम् ? किमश्रोत्रं यच्छ्रोत्राद्विभक्तम् ? क आदिः कोऽनादिः ? का वृत्तिः ? किं प्रति कतमोऽन्यो भावोऽन्यमपेक्ष्य तं प्रत्यक्षमित्युच्यते किमक्षमिन्द्रियं यद्विषयव्यतिरिक्तं परस्परव्यतिरिक्तं वा ? किमनक्षमिति । सर्वसर्वात्मकतायामित्यादि यावदनक्षमिति, एवं हि लक्षणदूषणातिदेशः, सर्व सर्वात्मक.. मित्यविशेषमिच्छतः सांख्यस्यापि, सर्वात्मकैकस्य वस्तुनो रूपरसादिभेदेन श्रोत्रादिभेदेन च विकल्पयितु t 2010_04 20 संचेति तखरूपस्यानध्यवसायस्य कथं ज्ञानत्वमिति भावः । अथ बौद्धदूषणमुपसंहरति- इतीति । इतरथापीति, प्रत्यक्षलक्षण संक्षिप्यैव दूषितं न तु विस्तरेण तेनाऽन्यथापि दूषणवचनप्रपञ्चस्यानेकस्य सत्त्वेऽपि न क्षतिरिति भावः । अनयैव दिशेति, यथा विशेषैकान्तवादिवचनस्य प्रत्यवमर्शात्मकाक्षेपो विहितस्तथैवाविशेषैकान्तवादिन उभयैकान्तवादिनश्च वचनस्य प्रत्यवमर्श - त्मक आक्षेपो विधेय इति भावार्थो बोद्धव्यः । अपिशब्दात् कस्य ग्रहणमित्यत्राह - अपिशब्दादिति, असम्भवादिति, कण्ठत एव तत्र दोषस्योकत्वादतिदेशासम्भवेनापिशब्दप्रात्यत्वासम्भवादिति भावः । प्रागुक्तं दोषजातमिति, अस्याग्रेतने25 नोद्दिश्येति पदेन सम्बन्धः । विशेषैकान्तवादे प्रोक्तान् दोषानाह - कल्पनात्मकत्वमेवेत्यादिना । निरूपणविकल्पात्मकत्वादिना कल्पनात्मकत्वमत एवाप्रत्यक्षत्वं व्यपदेश व्यपदेश्यत्वाञ्चानुमानमत एवोभयैक्यं संवृतिसत्त्वात्सचया भावोऽर्थान्तरेणधिगम्यमानत्वाद्व्यपदेश्यत्व मतीन्द्रियत्वात् स्वलक्षणस्यानालम्बनत्वं हेत्वपदेशव्यपदेश्यत्वं सञ्चयस्य कारकत्वज्ञापकत्वयोरविशेषादेव व्यपदेश्यत्वमत एव चाप्रत्यक्षत्वमनुमानत्वं तथा चक्षुर्विज्ञानसमङ्गित्वाद्यभावो विशेषैकान्तवादे दोषा दर्शितास्ते यथासम्भवमत्रापि वादयोः सम्भवन्तीति भावः । तत्कथमित्याशंका यामविशेषैकान्तवादाश्रयेणाह - सर्व सर्वात्मकतायामिति । तत्र 30 लक्षणदूषणप्रकारमाह-एवं हीति । सांख्यस्य हि श्रोत्रादिवृत्तिः प्रत्यक्षमिति प्रत्यक्षलक्षणम्, तदर्थश्च श्रोत्रादीनां शब्दादिषु मनसाऽधिष्ठिता वृत्तिः यथाक्रमं तद्ब्रहणे वर्तनं प्रत्यक्षं प्रमाणमिति, तन्मते वस्तुनः सर्वसर्वात्मकत्वान्निर्विकल्पकत्वेन विभागासम्भवात् त्वगादिविलक्षण श्रोत्राद्यभावात् किं श्रोत्रं भवेत्, यच्छब्दमेव गृह्येत, को वा शब्दो यच्छ्रोत्रेणैव परिच्छेद्यः स्यात्, कावा वृत्तिरितरव्यावृत्ता तयोरेव सम्भाविनी किं वा मनः यदधिष्ठात्रेव भवेदित्येवं तन्मतेनैव तल्लक्षणमनुपपन्नमिति भावः । Page #175 -------------------------------------------------------------------------- ________________ १२५ सांख्यप्रत्यक्षभङ्गः] न्यायागमानुसारिणीव्याख्यासमेतम् मशक्यत्वाद्विशेषकान्तवादिन इव निर्विकल्पपरमार्थपरमाणुमात्रसाधादविकल्पकत्वम्, अविकल्पकत्याद्यथापूर्व प्रत्यक्षलक्षणोदाहरणवाक्ये दोषाश्चक्षुर्नैव चक्षुः, रूपं नैव रूपम् , विज्ञानं नैव विज्ञानमित्यादयस्तथा श्रोत्रादिवृत्तिः प्रत्यक्षं श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानां मनसाऽधिष्ठिता वृत्तिः-शब्दस्पर्शरूपरसगन्धेषु यथाक्रमं ग्रहणे वर्तमाना प्रमाणं प्रत्यक्षमिति ब्रुवतः सर्वसर्वात्मकत्वे निर्विकल्पत्वाद्विभागाभावात् कि श्रोत्रं, यत्त्वगादिभ्यो विभक्तम् ? किमश्रोत्रं त्वगादि, यच्छोत्राद्विभक्तम् ? यच्चोक्तं श्रोत्रादीनि । तत्र क आदिः ? सर्वात्मकैकवस्तुत्वे प्रथमद्वितीयाद्यपेक्षविभागाभावात् , कोऽनादिमध्योऽन्तो वा ? का वृत्तिः, तेषां श्रोत्रादीनां पूर्वमवृत्तानां पश्चाद्वृत्तिः ? कालभेदेनावस्थान्तरत्वेन च विशिष्टा काऽवृत्तिः वृत्त्युपरमलक्षणा, विभागाभावादेव, किं प्रति-कतमोऽन्यो भावोन्यमपेक्ष्य तं प्रत्यक्षमित्युच्यते, नपुंसकलिङ्गस्याव्यक्तगुणसंदेहविषयत्वात् किं प्रतीति प्रश्नः, किं प्रति सर्वसर्वात्मकत्वैकैकं नापेक्ष्यते। किमक्षमिन्द्रियं यद्विषयव्यतिरिक्तं श्रोत्रादिपरस्परव्यतिरिक्तं वा ? किमनक्षमिन्द्रियव्यतिरिक्तं विषयो 10 रूपादि, परस्परतो वा ? इतिः प्रदर्शने, एवं विभागाभावाद्विभागेन लक्षणप्रणयनं स्ववचनव्यपेक्षाक्षेपदुस्तरविरोधम् , आदिग्रहणात् किं शब्दादि ? किं मनः ? किमधिष्ठेयं ? केनेति ? । - किश्चान्यत् त्वन्मतेनैव च प्रत्यक्षलक्षणायोगः, यदुक्तं लोकशास्त्रे 'बहिर्वस्तुस्वतत्त्वसाक्षात्पतिपत्तिः प्रत्यक्षं' इति, तत्तु प्रत्यक्षं त्वन्मतवन्न घटते, निर्विकल्पत्वासिद्धेः, शब्दादिविभागवि-10 कल्पविषयत्वात् , अविभागरूपश्च सर्वसर्वात्मकं वस्तुस्वतत्त्वम् , तद्विषयञ्च तन्न भवति ततश्च कल्पनात्मकम् , कल्पनात्मकत्वादिभ्यो भ्रान्त्यादिवत् । __ (त्वन्मतेनैव चेति) वस्तुनः स्वं तत्त्वमसाधारणं, आत्मीयं रूपं वा, तस्य साक्षात् प्रतिपत्तिः न व्यवहिता सा प्रत्यक्षं तत्त्वेवलक्षणं प्रत्यक्षं त्वन्मतवत् त्वन्मत इव त्वन्मतवत् , यथा सर्वसर्वात्मकत्वे त्वन्मते श्रोत्रादिवृत्तेः सर्वसर्वात्मकवस्त्वेकदेशशब्दादिविषयत्वात् समुदायरूपत्वाद्वस्तुस्वतत्त्वस्य विभा- 20 गाभावाच्छ्रोत्रादिवृत्तिर्न सम्भवतीत्युक्तं तथा तस्य निर्विकल्पस्य वस्तुनो वस्तुस्वतत्त्वसाक्षात्प्रतिपत्त्यभिमतं लौकिकं सामयिकश्च प्रत्यक्षलक्षणं न घटते निर्विकल्पत्वासिद्धेः, नैव तन्निर्विकल्पं प्रत्यक्षं शब्दादिविभागविकल्पविषयत्वात् , अविभागरूपञ्च सर्वसर्वात्मकं वस्तुस्वतत्त्वं तद्विषयश्च तन्न भवति, विशेषैकान्तवादिना सहाविशेषैकान्तवादिनोऽत्रार्थे साधर्म्यमाह-निर्विकल्पपरमार्थपरमाणुमात्रसाधादिति, विविधकल्पनारहितं परमार्थभूतं वस्तूभयमते, बौद्धमते तथाविधं वस्तु परमाणुः सांख्यमते सर्वसर्वात्मिका प्रकृतिरिति साधर्म्यम् 25 तत्र परमाण्वतिरिक्ताः सन्तः, अत्र परस्परविलक्षणाः श्रोत्रादयो न सन्त्येवेति । सर्वात्मकैकवस्तुत्वे इति, विभागे ह्येकस्य द्वित्वत्रित्वादिना निरूपणम् , यदा च सर्वसर्वात्मकैकं वस्तु तदाऽयं प्रथमोऽयं तद्भिन्नो द्वितीयोऽयश्च ततोऽपि भिन्नस्तृतीय इति व्यावृत्तत्वेन विभागासम्भवात् क आदिमध्योऽन्तो वेति भावः । एवं वृत्त्यवृत्त्योरसम्भवोऽपि बोध्यः। यमपेक्ष्येति, कीदृशं भावमपेक्ष्य श्रोत्रादिवृत्तेः प्रत्यक्षत्वमुच्यत इति भावः। नपुंसकलिङ्गस्येति यस्माद्यावृत्तिः प्रत्यक्षस्य कर्तव्या तादृशस्याव्यक्तगुणस्याप्रस्फुटविशेषणस्य संशयविषयत्वात् किं प्रतीति नपुंसकलिङ्गसम्बंधी प्रश्न इत्यर्थः 30 ते। किं प्रतीति, एकैकस्य सर्वसर्वात्मकत्वात् किं वस्तु प्रति सर्वसर्वात्मकैकक नापेक्ष्यते, नास्त्येव तादृशं वस्तु यत्सर्वसर्वात्मकं न भवेत् यदपेक्षया प्रकृतस्य विभागः कर्तुं शक्यतेति भावः। नैव तनिर्विकल्पं प्रत्यक्षमिति, तत्प्रत्यक्षं निर्विकल्पं विकल्परहितं न सम्भवति, शब्दादिविभागस्वरूपविकल्पस्य विषयीकरणात्, वस्तुवतत्त्वस्य सर्वसर्वात्मकत्वेना 2010_04 Page #176 -------------------------------------------------------------------------- ________________ ૨૨૬ द्वादशारनयचक्रम् [विध्यरे ततश्च कल्पनात्मकम् , कल्पनात्मकत्वादिभ्यो भ्रान्त्यादिवत्, न प्रत्यक्षमिति वर्त्तते, कल्पनात्मकत्वात् , निरूपणविकल्पात्मकत्वात् , आलम्बनविपरीतप्रतिपत्त्यात्मकत्वात् , अध्यारोपात्मकत्वात् , सामान्यरूप. विषयत्वात् , तदतद्विषयवृत्तित्वात् , सदसदभेदपरिग्रहात्मकत्वात् , सर्वथा साधारणार्थत्वात् , भ्रान्तिसंशयानुमानादिज्ञानवदिति । सञ्चितालम्बनस्थाने उक्तवदिह तद्विपरीतं समुदायपरमार्थत्वम् , नीलादिसंवृतिसत्त्वं, संवृतिसन्तो नीलादय ऐन्द्रिया न परमार्थसत्समुदायः, तस्यारूपाद्यात्मकत्वात् , तदेकदेशभूतस्य रूपादेरपरमार्थसतोऽप्यविभागावस्थस्यैकस्यासर्वस्यालम्बनस्यासश्चितवदस्मिन् वादे लोकलोकोत्तरव्यवहारप्रत्यक्षाभिमतेषु घटादिषु नीलादिषु चाभावान्न प्रत्यक्षम् । सञ्चितालम्बनस्थान उक्तवदित्यादि यावन्नीलादिषु चाभावादित्यनेनातिदिष्टग्रन्थार्थभावनो10 पायदिक्प्रदर्शनं करोति मा भूद्व्यामोह इति यादृक्सञ्चितालम्बनस्थानेऽस्माभिरुक्तं परमाणुनीलादीनां सञ्चय:-सामान्यं संवृतिसत्त्वादसदिति, इह तु तद्विपरीतं समुदायस्य परमार्थसत्त्वम् , नीलादेः संवृतिसत्त्वम् , संवृतिसंतो हि नीलादय ऐन्द्रिया न परमार्थसत्समुदयः, किं कारणं ? तस्यारूपाद्यात्मकत्वात्, तदेकदेशभूतस्य रूपादेरपरमार्थसतोऽपि विभागावस्थस्यैकस्यासर्वस्यालम्बनस्यासश्चितवत्-न ह्येकोऽसर्वः कदाचिदालम्बनं रूपं रसः शब्दो यथाऽसञ्चिताः परमाणवः पूर्वस्मिन् वादे नैन्द्रियका 15 एवमसचितवदस्मिन् वादे लोकलोकोत्तरव्यवहारप्रत्यक्षाभिमतेषु घटादिषु नीलादिषु चाभावान प्रत्य क्षम् , तद्विषयं ज्ञानमित्यभिसम्बन्धः । किमुक्तं भवति ? रूपादयः सर्वैकात्मरूपा एव सन्ति न पृथक्स्वरूपाः, ततस्तद्विषयं ज्ञानमभावविषयत्वादप्रत्यक्षं वन्ध्यासुतादिविषयज्ञानप्रत्यक्षवदिति । अनया दिशा यदाभासं प्रत्यक्षं न सोऽस्ति विषयः, योऽस्ति न तदाभासं प्रत्यक्षमित्यादि विशेषकान्तवादिनं प्रति योऽभिहितः प्रपञ्चः स सर्वो योज्यः । 20 तथासम्भावनेऽपि च रूपादे व तत्साम्यावस्थानं सम्भाव्यते । तथासम्भावनेऽपि चेत्यादि, रूपादेरेकस्य सत्त्वरजस्तमोगुणसाम्यावस्थानलक्षणप्रधानाख्यपदार्थत्वसम्भावनेऽपि, नैव तत्साम्यावस्थानं-शब्दादिभेदैकसर्वात्मकत्वस्वभावरूपं सम्भाव्यते । विभक्तरूपत्वात् , अतस्तत्प्रत्यक्षं कल्पनात्मकमेवेति भावः । कल्पनात्मकत्वस्य साधकमाह-निरूपणेति, अस्यासिद्धत्ववारणा याह-आलम्बनविपरीतेति आलम्बनं सर्वसर्वात्मकं वस्तु तत्र शब्दादिरूपेण प्रतिपत्तिर्विपरीतेति भावः, कथं विपरीत20 रूपतेत्यत्राह-अध्यारोपात्मकत्वादिति । कुतो गम्यतेऽध्यारोपित इत्यत्राह-सामान्यरूपविषयत्वादिति । तदप्यसिद्धमिति चेदाह-तदतदिति । सर्वसर्वात्मकत्वादेव शब्दतदितरात्मविषयवृत्तित्वात् प्रत्यक्षस्येति भावः । तत्साधकमाह-सदसदिति । विभक्तशब्दादेरसत्त्वात्तस्य सता सर्वसर्वात्मकेनामेदं परिगृह्य ज्ञानोत्पत्तेरिति भावः । अत एवाह-सर्वथेति । अतिदिष्टग्रन्थार्थेति, अतिदिष्टो यः पूर्वग्रन्थो बौद्धप्रतिक्षेपपरस्तदर्थस्य भावनाऽत्र कथं कर्तव्येति व्यामोहो मा भूदिति संक्षेपेण तद्भावनोपायं प्रदर्शयतीति भावः । इह तु तद्विपरीतमिति, बौद्धमते हि परमाणुः परमार्थसन् 30 सञ्चयलक्षणं सामान्यन्तु संवृतिसत्, सांख्यमते तु समुदायलक्षणं सामान्यं परमार्थसत् , नीलादिघटादि च संवृतिसदिति वैपरीत्यं विज्ञेयम् । लोकलोकोत्तरेति, प्रत्यक्षाभिमतेषु घटादिषु तद्गुणेषु नीलादिषु च सर्वसर्वात्मकवस्त्वेकदेशभूतस्य रूपादेरपरमार्थसतोऽपि विभागावस्थस्यैकस्यासर्वस्यालम्बनस्याभावो यथा बौद्धमतेऽसञ्चितस्यैकस्य प्रत्यक्षाभिमतेषु घटादिषु संवृतिसत्स्वभावादभावः, अत एव तद्विषयं ज्ञानं न प्रत्यक्षं न हि यथा सञ्चितेष्वसञ्चितपरमाणुरस्ति तथा विभागावस्थस्या सर्वस्य रूपादेः सर्वसर्वात्मकेऽस्ति, एतदेवाह-रूपादय इति । रूपादेः पदार्थत्वसम्भावनेऽपि सर्वसर्वात्मकत्वलक्षणसाम्या35 वस्थानं न सम्भाव्यते, अव्यक्तत्वापत्तेरित्याह-तथासम्भावनेऽपीति । सम्भाव्यमानेऽपिचेति, रूपादीनामेकैकस्य _ 2010_04 Page #177 -------------------------------------------------------------------------- ________________ सांख्यमते दोषाः] न्यायागमानुसारिणीव्याख्यासमेतम् १२७ . सम्भाव्यमानेऽपि च तस्मिन्नव्यक्तेऽतीन्द्रियत्वादालम्बनत्वानुपपत्तेश्चक्षुरादिविज्ञानानां रूपादिसंघात आलम्बनमिति तेषां प्रत्येकं परमार्थसत्त्वाभावान्न विषयता, तस्माद्योनिबीजप्रकृतिबहुधानक प्रधानाव्यक्तादिपर्यायाख्यं यद्वस्तु तदतीन्द्रियत्वादप्रत्यक्षम् , यदिन्द्रियविषयं रूपादि न तत्परमार्थसदित्याद्यशेषं विशेषकान्तवादिमते यथाभागं तद्विपर्ययेणात्र यद्यत्र घटते तत्तथाऽनुसृत्य योज्यं भेदाभेदसंवृतिपरमार्थस्थानव्यवस्थापनया । _(सम्भाव्यमानेऽपीति) सम्भाव्यमानेऽपि च तस्मिन्नव्यक्ते तस्याव्यक्तस्यातीन्द्रियत्वा. दालम्बनत्वानुपपत्तेश्चक्षुरादिविज्ञानानां रूपादिसंघात आलम्बनमिति प्राप्तम् , ते च रूपादयः प्रत्येक परमार्थतोऽसन्तः। इतिशब्दो हेत्वर्थे, इत्यतःकारणाद्रूपसङ्घातालम्बनत्वात्तेषां प्रत्येकं परमार्थसत्त्वाभावान विषयता, रूपादयो न चक्षुरादिविषयाः परमार्थतोऽसत्त्वाद्वन्ध्यासुतवत्, रूपादिविषयं वा . न प्रत्यक्षं परमार्थतोऽसद्विषयत्वाद्वन्ध्यासुतज्ञानवत् । तस्माद्योनिबीजप्रकृतिबहुधानकप्रधानाव्यक्तादि- 10 पर्यायाख्यं यवस्तु तदतीन्द्रियत्वादप्रत्यक्षम् , यदिन्द्रियविषयं तत्परिणामभेदे सङ्घाते रूपादि न तत् परमार्थसदित्याद्यशेषं विशेषैकान्तवादिमते यथाभाग-यो यो भागो यथाभागं तद्विपर्ययेणाविशेषैकान्तवादेऽत्र यद्यत्र घटते तत्तथानुसृत्य योज्यमित्यतीतं ग्रन्थार्थ स्मारयति । तद्योजनोपायदिङमात्रप्रदर्शनार्थमप्याह-भेदाभेदसंवृतिपरमार्थस्थानव्यवस्थापनयेति, ये तत्र भेदरूपाः परमाणवः परमार्थसन्ततेऽत्र संवृतिसंतः सर्वसर्वात्मकपरमार्थवादे, यस्तत्राभेदः परमाणुसमुदायः संवृतिसन् सोऽत्र परमार्थ- 15 सन्नित्यनया व्यवस्थापनया योज्यम् । पुनरुत्तरोऽपि ग्रन्थो योज्यस्तद्यथा-सर्वसर्वात्मकैकरूपान्तराविविक्तखतत्त्वे रूपादिसत्त्वादिसंघात इन्द्रियसन्निकृष्ट आलम्बनविपरीतैकरूपेयं प्रतिपत्तिः, व्यपदेश्यानेकात्मकनीलरूपविषया न च हेत्वपदेशव्यपदेश्यैषा यतः सर्वात्मकग्रहणापदेशेन धूमेनैवाग्निसामान्यवद्गृह्यते नानिर्देश्यरूपम् , किं कारणं ? ततोऽन्यत् कल्पितमेकं रूपम् । ननु सर्वस्य कारकहेतुत्वेनापदेशः प्रत्यक्षप्रतिपत्तेर्न धूमवत् , ज्ञापकहेत्वपदेशतयाऽग्नेरिवार्थान्तरस्यानेकरूपत्वस्य । नन्विद- 20 मस्यैवार्थस्य प्रदर्शनार्थ प्रस्तुतमस्माभिर्यदिदं प्रत्यक्षं स्यात् कारकादेव, स्वार्थादालम्बनाद्धेतोर्जायेत, दाहानुभववत् प्रत्यक्षत्वादव्यवहितप्रतिपत्त्यात्मकत्वात् प्रत्यक्षस्य स्खलक्षणविषयत्वादनध्यारोपात्मकसाम्यावस्थानत्वेन सम्भाव्यमानत्वेऽपि रूपादेरव्यक्तत्वादतीन्द्रियत्वादनालम्बनत्वमिति रूपादिसंघातस्यैवाऽऽलम्बनता वाच्या तत्र च प्रत्येकं रूपादेः संवृतिसत्त्वेनाभावादविषयत्वमिति भावः । कथं योज्यमित्यत्राह-मेदामेदेति, तत्र-विशेषैकान्तवादे, अत्र-अविशेषैकान्तवादे । उत्तरोऽपि ग्रन्थ:-अग्रिमग्रन्थ इत्यर्थः, तत्र प्रतिविविक्तरूपान्तराविविक्तखतत्त्वे इत्युक्तमत्रत्वे. 25 करूपाविविक्तखतत्त्वे इति बोध्यम्, तत्र प्रतिविविक्तरूपान्तराविविक्तखतस्वरूपसंघातः संवृतिसन् तत्र या प्रतिपत्तिः साऽऽलम्बनविपरीता भवति, परमाणूनामालम्बनत्वात् , तस्य संघातेऽभावात् सा च प्रतिपत्तिरव्यपदेश्यैकात्मकनीलरूपविषया भवति. अत्र तु वैपरीत्यमिति दर्शयति तद्यथेति । इन्द्रियसनिकृष्ट इति, खविषयाभिमुख्येनोपस्थित इत्यर्थः । व्यपदेश्येति, पूर्वमन्यपदेश्यैकात्मकनीलरूपविषयप्रतिपत्तिरुक्ता, व्यपदेश्यानेकपरमाण्वालम्बनेभ्योऽन्यस्याव्यपदेश्यैकात्मनीलरूपस्य विषयीकरणात् , तथा बौद्धमते ननु हेत्वपदेशव्यपदेश्यैव सा, यतः सञ्चयग्रहणापदेशेन धूमेनामिरिव व्यपदेश्यं तत् ततोऽन्यत् 30 कल्पितमेकं सामान्य व्यवहितमेवार्थान्तराद्यते। ननु च सञ्चयस्य कारकहेतुत्वेनापदेशः । प्रत्यक्षप्रतिपत्तेः न धूमवज्ज्ञापकहेत्वपदेशताऽमेरिवार्थान्तरस्यैकरूपत्वस्य । नन्विदमस्यैवार्थस्य प्रदर्शनार्थ प्रस्तुतमस्माभिः यदिदं प्रत्यक्षं स्यात् कारकादेव, खार्थादालम्बनाद्धेतोऑयेत नतु भवति, वैधम्र्येण दाहानुभवनवत् प्रत्यक्षत्वात् । अव्यवहितप्रतिपत्त्यात्मकत्वात् प्रत्यक्षस्य, तथा तस्य खलक्षणविषयत्वादनध्यारोपत्वाविति यावदित्यायुक्तं, अत्र तु सञ्चयस्थाने सर्वपदमनेकस्थाने एकपदं निवेश्य 2010_04 Page #178 -------------------------------------------------------------------------- ________________ १२८ द्वादशारनयचक्रम् [विध्यरे त्वादिति यावत् , अपि च कारकतापि सर्वस्य नैव, तत्र द्वितीय चन्द्रवत्परमार्थतोऽसत्त्वादनुरूपात्तव्यावृत्तिव्यवस्थानमात्रत्वालोकवत्तु सर्वसत्त्वे विशिष्टोऽपदेशो व्यपदेशो प्रायादन्यस्तेन व्यपदेशेन प्रमेयं व्यपदेश्यमनुमेयं न प्रत्यक्षम् , धूमानुमेयाग्निवदकारकतायां कारकतायां वा वस्तुनः, पितृधूमा. दिवत् । अभिधानाव्यपदेश्यानेकात्मकत्वे अपि च नैवानुमिताग्निवदेवैकानेकविषयत्वान्नीलस्य, तद्धि 5 नीलनिरूपणं विकल्पः प्रतिपरमाणु परस्परप्रतिभिन्नखतत्त्वानेकरूपैकतत्त्वैकगमाध्यारोपात् सर्वसर्वात्मकैकरूपवस्तुरूपाद्यनेकरूपाध्यारोपाद्वा रूपान्तरसामान्यरूपविषयत्वात्तदतद्विषयवृत्तत्वादनपोहादपोहाद्वाऽम्यनुमानवत्तत्सामान्यात्मकेनैव परमार्थस्थितसञ्चयप्रज्ञप्तिनीलाणुभेदपरिग्रहात्मकत्वात् साधारणार्थविविक्तकल्पनात्मकत्वान्न प्रत्यक्षमप्रत्ययप्रत्ययात्मकत्वाच्छब्दाश्रावणत्वप्रत्ययवत, संवृत्त्यतीन्द्रियस्वाभ्यां हि न नीलादिषु न च सञ्चये कारणता तथा प्रतिपत्तिं प्रति, अनुमानज्ञानमपि तन्न प्रति10 पूर्यते, सम्बद्धगृहीतस्यान्यथाप्रतिपत्तेविरुद्धवदिति समानमेतत् कल्पनात्मकत्वात् । अन्यदपि यथासम्भवं तत्प्रक्रियापतितं मुक्तवा यदुभयोः सामान्यं तत्सर्व योज्यम् ।। एवं तावद्विशेषाविशेषकान्तवादयोः स्ववचनव्यपेक्षाक्षेपदुस्सरविरोधत्वाल्लौकिकप्रत्यक्षविलक्षणं कल्पितमपि न युक्तमित्युक्तम् , नानात्वैकान्तवादेऽपि सामान्यविशेषयोः 'आत्मे न्द्रियमनोऽर्थसन्निकर्षाद्यन्निष्पद्यते तदन्यत्', (वै. अ० ३ आ० १ सू. १८) आत्मा मनसा 15 मन इन्द्रियेणेन्द्रियमर्थेनेति चतुष्टयत्रयद्वयसन्निकर्षादुत्पद्यमानं प्रत्यक्षमित्येतदपि द्रव्यादिविनिर्मूलत्वात् किमात्मादि ? इति न प्रत्यक्षम् ।। (एवं तावदिति) (सामान्य विशेषयोरिति) अयुक्तं प्रत्यक्षमिति वर्त्तते, कीदृशं वा तत्प्रत्यक्षं कथमयुक्तं वेति ? आत्मेन्द्रियमनोऽर्थसन्निकर्षाद्यनिष्पद्यते तदन्यत्, आत्मा मनसा मन इन्द्रि येणेन्द्रियमर्थनेति चतुष्टयत्रयद्वयसनिकर्षादुत्पद्यमानं प्रत्यक्षमित्येतदपि नानात्वैकान्तवादिनां मतं द्रव्या20 दिविनिर्मूलत्वात् किमात्मादीनीति न प्रत्यक्षम् । द्रव्यमादिर्येषान्त इमे द्रव्यादयो द्रव्यगुणकर्मसामान्यविशेषसमवाया अद्रव्यत्वात् द्रव्येभ्योऽन्ये खपुष्पवन्न स्युः, एवं गुणेभ्योऽन्ये न स्युरगुणत्वात् , अकमत्वात् , कर्मणोऽन्येऽसामान्यत्वात्सामान्यतोऽन्येऽविशेषत्वाद्विशेषेभ्योऽन्येऽसमवायत्वात्समवायादन्ये निर्मूलत्वाञ्च खपुष्पवत्सर्वे । तस्य निर्मूलत्वं चापरिणामित्वाद्वन्ध्यापुत्रवदतोऽसत्त्वादात्मादीनामात्मा क्षार्थाभावे किमात्मादि यत्सन्निकर्षाज्ज्ञानमुत्पद्येत ? कस्य तत् ? आत्मद्रव्याभावात् , किं तत् ? 25 गुणामावात् । इतिशब्दो हेत्वर्थे राजपुरुषोऽसीति न बिभेमीति यथा तथा इति न प्रत्यक्षम् , आत्मादिद्रव्याणां ज्ञानादिगुणानावाभावान्नास्ति प्रत्यक्षमित्यर्थः । योजितं बोध्यम् एवमग्रेऽपि । नैव-अस्तीति शेषः । तेन व्यपदेशेनेति, तेन व्यपदेशेन व्यपदेश्यं प्रमेयं त्वदभिमतप्रत्यक्षप्रमाणगम्यमनुमेयं प्राप्नोति न प्रत्यक्षं धूमानुमेयाग्निवदिति वस्तुनो ध्यपदेश्यत्वसिद्धौ कारकतायामकारकतायां वा न कश्चिद्विशेषोर्थान्तरनिमित्तत्वात् । आत्मेन्द्रियेति, आत्मेन्द्रियार्थसन्निकर्षात्तावज्ज्ञानमुत्पद्यते, तच्चात्मनि लिङ्गम् , असिद्ध20 विरुद्धानेकान्तिकेभ्योऽन्यत् , अनाभासमिति सूत्रार्थः । चतुष्टयेति, युञानयोगिनां सूक्ष्मव्यवहितविप्रकृष्टेषु आत्ममन इन्द्रियार्थसन्निकर्षाद्योगजधर्मानुग्रहसहकृताच्चतुष्टयसंनिकर्षात प्रत्यक्षमत्पद्यते. अस्माकमपि द्रव्ये रूपादौ चात्ममनोबहिरिन्द्रियग्राह्यार्थचतुष्टयसनिकर्षात् प्रत्यक्षम्, आत्ममनःश्रोत्रेतित्रयसन्निकर्षाच्छब्दस्य प्रत्यक्षम्, खुड्यादीनामात्ममनसोद्वयोः संनिकर्षात प्रत्यक्ष बोध्यम् । मतेऽस्मिन् सामान्यविशेषयोरत्यन्तभिन्नत्वेन द्रव्यादीनां निर्मूलत्वादात्मादेरभाव एवेति प्रत्यक्ष कल्पितमेवेलाशयेनाह-द्रव्यादिविनिर्मूलत्वादिति । खपुष्पमत्सर्वे इति न स्युरिति शेषः, राजपुरुषोऽसीतीति, 2010_04 Page #179 -------------------------------------------------------------------------- ________________ विध्युपसंहारः] न्यायागमानुसारिणीष्याख्यासमेतम् १२९ तेषाश्चात्मादीनामन्यथा-परमार्थतो विद्यमानानामनेकान्तात्मकानामेकान्तात्मकतया कल्पनात अन्यथाध्यारोपात्कल्पनात्मकत्वादिभ्यो हेतुभ्यो भ्रान्त्यादिवन्न प्रत्यक्षमिति पूर्वोक्तं तदेव व्याचष्टे द्रव्यगुणभवनविशेषकारणकार्याणां सदसदनेकान्तस्वतत्त्वानामन्यतमैकान्तकल्पनात् कल्पनात्मकत्वम् , ततः कल्पनात्मकत्वादिभ्यो भ्रान्त्यादिवदप्रत्यक्षम् । द्रव्यगुणेत्यादि यावत्कल्पनादिति, द्रव्यग्रहणेन पृथिव्यादीनां तत्कल्पितानां सर्वगुणानां । गुणग्रहणेन भवनग्रहणेन सत्ताया विशेषग्रहणेन गोत्वादीनां यावदन्त्यविशेषस्य कारणग्रहणेनावयवादिद्रव्याणां संयोगादिगुणानां कर्मणाश्च कार्यग्रहणेन व्यणुकाद्यवयविद्रव्याणां चित्रादिगुणानाञ्च ग्रहणम् । तत्र परमार्थतः संश्चासंश्च पदार्थोऽनन्तरोक्तो द्रव्यादिस्तस्यानेकान्तः स्वतत्त्वं-द्रव्यमपि रूपाद्यपि भवनमपि विशेषोऽपि कारणमपि कार्यमपीति, तस्य तस्यान्यतमैकान्तकल्पनादतत्त्वं-द्रव्यमेव गुण एव कमैव भवनमेव विशेष एवेति न तत्स्वतत्त्वमपीति, तस्मात्कल्पनात्मकत्वं सिद्धम् , ततः कल्पना- 10 त्मकत्वादिभ्यो भ्रान्त्यादिवदप्रत्यक्षम्, कल्पनात्मकत्वादयः प्रागुक्ताध्यारोपात्मकालम्बनविपरीतप्रत्ययत्वादयः। अतः सर्वप्रमाणाविरोधितत्त्वव्यवहारसमवस्थलोकपरिग्रहवदेव सामान्यविशेषौ घटादिविषयौ नान्यथेति विधिः। अतः सर्वप्रमाणाविरोधीत्यादि यावद्विधिरिति, अत इत्यनन्तरोक्तसर्वोपपत्तिप्रपञ्चतो 15 यत्प्राक् प्रतिज्ञातं यथालोकग्राहमेव वस्त्विति तन्निगमयति सोपपत्तिकम् , सर्वप्रमाणाविरोधितत्त्वव्यवहारसमवस्थलोकपरिग्रहवदेवेति, प्रत्यक्षानुमानागमप्रमाणैरनवधारितकारणकार्योभयानुभयात्मकं तस्य तस्य वस्तुनो भावस्तत्त्वमविरोधि तस्मिंस्तत्त्वे तत्त्वस्य तत्त्वेन वा व्यवहारस्तस्मिन् समवस्था यस्य लोकस्य, तस्य लोकस्य परिग्रहः स सर्वप्रमाणाविरोधितत्त्वव्यवहारसमवस्थलोकपरिग्रहस्तद्वत् तेन तुल्यं वर्तत इति, एवेत्यवधारणे, ताहग्लोकपरिग्रहवदेव सामान्यविशेषौ, न तु सामान्यमेव विशेष एव परस्परं 20 भिन्नावेवाभिन्नावेवेति वा यथा शास्त्रेषु कल्पिताविति । अथवा सर्वप्रमाणाविरोधिनि तत्त्वव्यवहारे समवस्था यस्य स लोकः सर्वप्रमाणाविरोधितत्त्वव्यवहारसमवस्थलोकः तस्य परिग्रहवदेव सामान्यविशेषौ नान्यथेति यथा प्रतिपादितं लोकवदेव घटादिविषयाविति, यथा लोके घटादिभवनमेव सामान्य विशेषश्च द्रव्यक्षेत्रकालभावरूपभवनविशेषाविशेषाभ्यामुक्तविधिना कार्यकारणादिभेदेन वा नियतौ सर्वत्र न मर्यादयेत्यनवधृतस्वभावौ, इति विधिः, इतिः प्रदर्शने, एष विधिरित्थं विचारितो यः 25 प्रागुद्दिष्टः। वं राजपुरुषोऽसीति हेतोरहं न बिमेमीति भावः । अस्मीति पाठे सु अहं राजपुरुषोऽस्मि, अत एव न कस्माद्विमेमीति भावः । भवनग्रहणेन सत्ताया इति, अस्तिभवत्योः सत्तापर्यायत्वादिति भावः । विशेषग्रहणेन च सत्तावान्तरजातीनामन्त्यविशेषस्य च प्रणम् , कारणग्रहणेनावयवादिद्रव्याणामवयविद्रव्यं प्रति समवायिकारणत्वात. संयोगादिगुणानामवयबिद्रव्यं प्रत्यसमवायिकारणत्वात् कर्मणाञ्च संयोगविभागकारणत्वाद्वहणम् । एतेषां पदार्थानां परमार्थतः सदसद्रूपतयाऽनेकान्तात्मकत्वस्यैव खत-30 स्वत्वादेकान्तात्मकत्वं काल्पनिकमिति तदुक्तप्रत्यक्षादीनां कल्पनात्मकत्वमवगन्तव्यमिति भावः । अथोपसंहरति विधिभनमत इत्यादिना, अनवधारितकारणकार्येति वस्तु कारणात्मकमेव, कार्यात्मकमेव, उभयात्मकमेव, अनुभयात्मकमेवेत्यनवधारितखरूपत्वं वस्तुनस्तत्त्वं तच सर्वप्रमाणाबिरोधि, तथाविधस्वरूपेण लोकस्य व्यवहारप्रवृत्तेः सामान्यविशेषौ तथाविधावेव द्वा.न. १७ 2010_04 Page #180 -------------------------------------------------------------------------- ________________ १३० - द्वादशारनयचक्रम् [विध्यरे - एष च वेदनादिभिरपि लोकप्रमाणकोज्ञानिकवाद उपजीव्यत इति, किञ्चिन्न ज्ञायते को वैतद्वेद किंवाऽनेन ज्ञातेनेत्यशक्यप्राप्त्यफलत्वाभ्यां वस्तुतत्त्वविचारो न युज्यते, क्रियाया एवोपदेशोऽतः श्रेयानिति लेशेनाभ्युपगतत्वात्तस्यैवायमन्यभेदः । सर्वमिदमज्ञानप्रतिबद्धमेव जगत् पृथिव्यादि, रूपादिमत्त्वाद्धटादिवत् । s (एष इति) एष च वेदनादिभिरपि लोकप्रमाणकोऽज्ञानिकवाद उपजीव्यत इति, नयानामे कैकस्य शतधा भेदात् सप्तनयशतान्यर्था व्याख्यायन्ते, तेषां पुनश्चतुर्धा संक्षेपः, क्रियाऽक्रियाऽज्ञानविनयवादसमवसरणवचनात्, तत्रोक्तं तेऽज्ञानिकवादः-(किश्चिन्नेति) तस्यैवायमन्यभेद इति, तस्यैवाज्ञानवादस्यान्योऽयं भेदः, कतमोऽसौ भेदः ? सर्वमिदमज्ञानप्रतिबद्धमेव जगत् पृथिव्यादीति, कथं ? रूपादिमत्त्वाद्धटादिवत् , आदिग्रहणादप्तेजोवायवः । 10 नन्वेते पदार्था अज्ञान एव, किमर्थमज्ञानप्रतिबद्धं जगत् पृथिव्यादीत्युच्यते ? उच्यते, आका शकालदिगात्मेन्द्रियमनःप्रभृतीनामपि तद्व्यतिरेकेणानुपलब्धेर्न सन्ति, तन्मयत्वादेव च तद्वदचेतनानि, अत आह इन्द्रियाण्यपि च तन्मयान्येवाचेतनानि । इन्द्रियाण्यपि च तन्मयान्येवाचेतनानीति, तन्मयत्वानुमानश्च भूतत्वाद्गन्धवत्त्वाच्च, पृथिवी 15 गन्धे तथा जलं तेजोवायुश्च, रसरूपस्पशेषु गन्धविशेषात् रसरूपस्पर्शविशेषादिति, स्यान्मतं प्रत्यभि ज्ञानाहङ्कारेच्छादिविशेषलिङ्गदर्शनादात्मा तद्गुणस्तद्व्यतिरिक्तोऽस्तीत्येतच्चायुक्तम् , गुणगुणिनोर्भेदमिच्छतां ज्ञानादन्यत्वसाम्यात् पृथिव्यादिगुणत्वेऽपि तुल्यानुमानत्वात् । अभ्युपेत्याप्यात्मादिव्यतिरेक तत्करणत्वात्तैः प्रकाशितं स्थूलमज्ञं प्रकाश्यत्वात् प्रतिपद्येत ज्ञः, प्रदीपप्रकाशितघटवत्। 20 (तत्करणत्वादिति) तत्करणत्वात्तेषामिन्द्रियाणां करणत्वात्तानि वाऽस्य करणानीति तत्करणोऽज्ञः, तैः करणैः प्रकाशितं घटादिस्थूलमज्ञं प्रकाश्यत्वात् , एवञ्चान्यमप्यर्थ प्रकाश्यं प्रतिपद्य न त्वन्यथेति भावः। अत्र कल्पे वस्तुतत्त्वे सर्वप्रमाणाविरोधित्वं विशेषणम् , अथ वेति कल्पे च वस्तुतत्त्वव्यवहारे तद्विशेषणमिति मेदः । एष चेति, अयं विधिवादो लोकप्रमाणसिद्धोऽप्यज्ञानवाद एव ज्ञानाङ्गीकारेऽपि, नानानयसङ्ग्राहकचतुर्भेदैकतमाज्ञानवादेऽस्यान्तर्गतत्वादिति भावः। किञ्चिन्नेति, किञ्चिन्न ज्ञायते को वैतद्वदेत्यनेनाशक्यप्राप्तिरुक्ता, किं वानेन ज्ञाते25 नेत्यनेनेतज्ज्ञानस्याफलत्वमादर्शितम् , ताभ्यां वस्तुतत्त्वविचारो व्यर्थ इति भावः । लेशेनाभ्युपगतत्वादिति सदपि ज्ञानं निष्फलमिच्छत्यसौ बहुदोषसम्भावनया । अस्याज्ञानवादस्य प्रकारान्तरं दर्शयति-तस्यैवायमिति । ननु पृथिव्यप्तेजोवायूनामज्ञानात्मकत्वमस्तु न चैतावता जगदज्ञानप्रतिबद्धं सिध्यति. अन्येषामपि रूपरहितानां पदार्थानां सत्त्वादित्याशंकतेनन्वेते पदार्था इति । तद्व्यतिरेकेणेति । पृथिव्यप्तेजोवायुव्यतिरेकेणेत्यर्थः, तत्र हेतुमाह-तन्मयत्वादेव चेति, पृथिव्यादिमयत्वादित्यर्थः। तन्मयत्वानुमानश्चेति, घ्राणादीन्द्रियाणि पृथिव्यादिमयानि भूतत्वादित्यर्थः, विकारार्थे मयद 30 प्रत्ययः, इन्द्रियाणां भूतप्रकृतिकत्वे सत्सेव खखविषयग्रहणसामर्थ्यादिति भावः। तत्र घ्राणेन्द्रियं पृथिवी, गन्धादिषु गन्धबिशेषवत्त्वात् , एवं जिह्वाचक्षुस्त्वगादयो जलादिरूपाः रसरूपस्पर्शेषु रसरूपस्पर्शविशेषवत्त्वादित्याह पृथिवीगन्धे इति,तहण इति, प्रत्यभिज्ञानादिर्गुणो यस्यासौ तद्गुणः । गुणगुणिनोरिति, तयोरत्यन्तभेदे ज्ञानादेरात्मन इवान्यत्वाविशेषेण पृथिव्यादिगुणोऽपि स्यादिति भावः । तत्करणत्वादिति, किमपि वस्तु प्रतिपद्यमानोऽपि ज्ञोऽचेतनप्रदीपादिप्रकावितघटादेरज्ञानात्म 2010_04 Page #181 -------------------------------------------------------------------------- ________________ अज्ञानात्मता जगतः ] न्यायागमानुसारिणीव्याख्यासमेतम् १३१ मानोऽपि प्रतिपद्येत ज्ञः-सम्भाव्यमानप्रतिपत्तिरपि पुरुषः स्थूलमेवार्थं प्रतिपद्येताज्ञानात्मकम्, करणानि चाज्ञानानि, अचेतनकरणप्रकाशितमव्यचेतनम्, प्रदीप प्रकाशितघटादिवदेव स्यात् स्थूलम् । नच परमाण्वादि सूक्ष्मं शुद्धचेतनस्वरूपपुरुषादि वा स्यादज्ञानादिप्रतिबद्धम्, तस्यापि चेन्द्रियसन्निकृष्टद्रव्यव्यतिरिक्तासाधारणस्वरूपादर्शनादिदमिदमिति न निरूपणोपायोऽस्ति, प्रत्येकं समुदाये वा तद्दृष्टानुपपत्तेः, अपूर्वत्वात् । न च परमाण्वादि सूक्ष्मं शुद्धचेतन स्वरूपपुरुषादि वा स्यादज्ञानप्रतिबद्धं तस्यापि चेन्द्रियसन्निकृष्टेत्यादि, सत्यपि च तस्य स्थूलस्य ग्राह्यत्वे तत्स्वरूपाज्ञानादज्ञानसम्बद्धमेव तस्येन्द्रियसन्निकृष्टद्रव्यान्तरव्यतिरिक्तमसाधारणं यत्स्वरूपमात्मादेर्वाऽतीन्द्रियस्य तस्य कचित् कदाचिददृष्टत्वादिदमिदमिति न निरूपणोपायोऽस्ति, निरूपणं निर्णयज्ञानमिष्टम्, किं कारणं न निरूपणोपायोऽस्ति इदमिदमितीति चेदुच्यते - प्रत्येकं समुदाये वा तद्दृष्टानुपपत्तेः, तस्यासाधारणरूपस्यापूर्वत्वात्, अपूर्वत्वादेव 10 दृष्टानुपपत्तिर्निर्णयानुपपत्तिश्च, प्रत्येकं तावन्न हि घट एकैकः कृष्णादिरूपोऽपूर्वत्वादृश्यते स्वरूपतः, तत एव प्रत्येकमनिरूपित स्वरूपाणां कुतो निरूपणं समुदाये ? सिकतासु प्रत्येकमनिरूपितस्य समुदाये तैलस्य निरूपणाभाववत्, निश्चयेन रूपणं निरूपणं तदुपायाभावादज्ञानप्रतिबद्धमेव सर्वमिति साधूक्तम् । स्यान्मतमनुभवितुर्बाह्यविषयमिदमिदमिति निरूपणं मा भूद्यदि न भवति स्वसंवेदनं किन्त्वान्तरं सुखदुःखादिषु किं निरूपणं न भवतीति ? उच्यते स्वसंवेदनेनाशनाद्यभ्यवहृतं 15 परिणमयन्न सञ्चेतयतीति व्यभिचारान्न भवति । तथा सुप्तादीनां चलनकण्डूयनस्फुरणादिक्रियाः कुर्वतामसञ्श्चेतयमानानामेव ताः क्रियाः दृश्यन्ते, इत्थं कल्पिताकल्पिततथाभूतप्रत्ययानुपपत्तेरज्ञानानुविद्धमेव सर्वं ज्ञानमिति परिच्छेदार्थश्च प्रमाणव्यापारः । (स्यान्मतमिति) स्वसंवेदनेनाशनाद्यभ्यवहृतं परिणमयदित्यादि, प्राणापानार्थं सचेतयन्नेव हि कुरुतेऽशनादि सर्वो लोकः, अभ्यवहृतमपि खलरसभावेन रसरुधिरादिभावेन च परिणमयन्न 20 सश्चेतयति स्वयमेव तथा सुप्तादीनामिति, सुप्तमद मूर्च्छितगर्भाः सुप्तादयः, तथाऽन्यमनसामव्यक्तचलन 5 क्त्ववदचेतनभूतेन्द्रिय प्रकाशितं स्थूलं घटादिवस्तु प्रकाश्यमज्ञानात्मकमेव प्रतिपद्यते प्रकाश्यत्वस्याज्ञानत्वव्याप्यत्वात्, इन्द्रियैः प्रकाशितमिति प्रथमव्युत्पत्तेर्द्वितीयव्युत्पत्तेश्चेन्द्रियकरणज्ञानप्रकाशितमित्यर्थः । ननु स्थूलं घटादि भवत्वचेतनम चेतनकरणप्रकाशितत्वात् यत्तु सूक्ष्मं परमाण्वादि शुद्ध चेतनखरूपपुरुषादि वा कथमज्ञानप्रतिबद्धम्, परमाणोरतीन्द्रियत्वेन पुरुषादेश्व चेतनखरूपत्वादेवाचेतनकरणप्रकाशितत्वाभावादित्याशङ्कते न च परमाण्वादीति । न चेति स्यादित्यनेन सम्बद्ध्यते । समाधत्ते - 25 तस्यापीति स्थूलस्येन्द्रियग्राह्यत्वेऽपि विशिष्टस्य तत्स्वरूपस्य नैव निर्णयः कर्त्तुं शक्यतेऽत एवाज्ञान प्रतिबद्धमुच्यते तथा परमाण्वादेः पुरुषादेर्वा द्रव्यव्यतिरिक्तासाधारणस्वरूपस्य क्वचित्कदाचिदप्यदृष्टत्वान्न तन्निर्णयोपायः कश्चिदस्तीति भावः । एवं सूक्ष्मस्य परमाण्वादेरदृष्टत्वादेरेवानिरूपित स्वरूपत्वात् तत्कार्यभूतस्य समुदायात्मकस्य घटादेरप्यनिरूपितखरूपत्वं प्रत्येकमनिरूपितस्वरूपाणां समुदायस्यापि तादृशत्वादित्याह - प्रत्येकं तावदिति । ननु बाह्यविषयं खसंवेदनं ययनुभवितुर्न तर्हि मा भूत्तस्य तद्विषयमिदमिति निरूपणम्, सुखदुःखादीनान्तु स्वसंवेदनरूपाणामान्तराणां कुतो न निरूपणमित्याशङ्कते - स्यान्मतमिति । 30 स्वसंवेदनेनाऽनुष्टितस्यापि निर्णयज्ञानाभावाद्व्यभिचारमाह - स्वसंवेदनेनेति । व्यभिचारमेवाऽऽदर्शयति-प्राणापानार्थमिति । स्वसंवेदनलक्षणप्रमाणसद्भावेऽपि परिच्छेदाभावलक्षणोऽन्वयव्यभिचारो दर्शितोऽनेन स्वसंवेदनलक्षणप्रमाणाभावेऽपि परिच्छेदसद्भावरूपं व्यतिरेकव्यभिचारं दर्शयति तथा सुप्तादीनामिति । सुप्तादीनामित्यत्रादिपदप्राह्यमाह - सुतेति । 2010_04 Page #182 -------------------------------------------------------------------------- ________________ द्वादशारनयचक्रम् [विभ्यरे कण्डूयनमशकदंशस्पर्शसंवेदनं गन्धादिज्ञानं सुप्तादीनाश्चाम्लद्रव्यास्वादनमसञ्चेतितं रसास्वादनमित्यर्थः । आदिग्रहणात् क्षुतजृम्भितकाशितादयः, यथैताः क्रिया असश्चेतितास्तथा स्वसंवेदनमपि, इत्थं कल्पिताकल्पिततथाभूतप्रत्ययानुपपत्तेरिति, कल्पितस्तावत् कल्पितत्वादेव तथाभूतो न भवति प्रत्ययः । अकल्पितोऽपीत्थमुक्तविधिना नोपपद्यते तथाभूतः प्रत्ययः शुद्ध इत्यर्थः, तस्मात् कल्पिताकल्पिततथा। भूतप्रत्ययानुपपत्तेरज्ञानानुविद्धमेव सर्वं ज्ञानमिति । परिच्छेदार्थश्च प्रमाणव्यापार इति, प्रमाणं हि व्याप्रियमाणं यथार्थपरिच्छेदार्थमिष्यते, न चेत्थं तत्परिच्छेदोऽस्तीति वैधर्म्य दर्शयति । स्यान्मतमज्ञानप्रतिबद्धमित्यज्ञानशब्दोच्चारणादेव ज्ञानाभ्युपगमः कृतो भवति, प्रतिषेधस्याब्राह्मणवदन्यत्र प्रसिद्धविषयत्वात् , अन्यथा प्रतिषेधानुपपत्तेः, स्ववचनविरोधाच्च, तथापि न चाज्ञानमित्युक्तिविरोधः, राधकपूर्णकमातृव्यपदेशवत् , विशेष्यप्राधान्यादनव10 धारणात् , तथा ज्ञानाज्ञानाभ्यां तदेव विशिष्यते वस्त्विति नोक्तिविरोधो ज्ञानाज्ञानयोरविशेषात् , संशयविपर्ययानध्यवसायनिर्णयानामवगमावबोधार्थत्वात् अवगमस्य बोधाबोधपर्यायत्वात्तस्मादेतस्मिन्नयभङ्गेऽज्ञातमेव शब्दस्यार्थः । (स्यान्मतमिति) (नचाज्ञानमित्युक्तिविरोध इति) किमिव ? राधकपूर्णकमातृव्यपदेशवत्, कुतः १ विशेष्यप्राधान्यादनवधारणात् । का भावना ? यथा राधकस्य पूर्णकस्य चैकैव माता विवक्षिता 15 भवति तदा राधकमातेति राधकेन विशिष्यमाणा पूर्णकमातेति पूर्णकेन वा, अथ राधकपूर्णकमातेत्यु भाभ्यां वा सर्वथा राधकस्यैव पूर्णकस्यैव वा मातेत्यवधारणं नास्ति विशेष्यप्राधान्यात् , तथा ज्ञानाज्ञानाभ्यां तदेव विशिष्यते वस्त्विति विशेष्यप्राधान्यानोक्तिविरोधो ज्ञानाज्ञानयोरविशेषात् । न तु यथा विशेषणप्राधान्यादवधारणं नीलमुत्पलमिति, अतस्तेषामवबोधार्थाभेदाज्ज्ञानत्वमज्ञानत्वश्चाविशिष्टमिति तत्प्रदर्शयन्नाह-संशयविपर्ययानध्यवसायनिर्णयानामवगमावबोधार्थत्वात्। 'गम सूप गतौ' अवपूर्व गमन20 मवगमोऽवगमश्चावबोधः, 'बुध अवगमने' इति वचनात् , सर्वेषां संशयविपर्ययानध्यवसायनिर्णयानामवगमार्थत्वादवगमस्य च बोधाबोधपर्यायत्वात् , तस्मादेतस्मिन्नयभङ्गेऽज्ञात एव शब्दस्यार्थः, भङ्गाहणं आखवस्थासु सञ्चेतनात्मकं खसंवेदनं नास्तीति भावः । आखवस्थास्वविद्यमानानधिकृत्यापि व्यभिचारमाह-तथाऽन्यमनसामिति ।चलनकण्डूयनस्फुरणादिक्रिया इत्यत्रादिपदग्राह्यक्रिया आह-आदिग्रहणादिति। ननु ब्राह्मणत्वस्य क्वचित्प्रसिद्धौ सत्यामयमब्राह्मण इति प्रतिषेधप्रतिपत्तिर्भवितुमर्हति, प्रतियोगिनिरूपणाधीननिरूपणविषयत्वात् प्रतिषेधस्य, एवञ्चाज्ञानमित्यु25 क्यैव ज्ञानस्य क्वचिदङ्गीकारः कृत एवेति नाज्ञानप्रतिबद्धं सर्वम्। तथा ज्ञानाभावे सर्वमज्ञानप्रतिबद्धमिति नोदियात् यदीदं ज्ञानं कथं सर्वमज्ञानप्रतिबद्धं यदि न ज्ञानं कथं सर्वमज्ञान प्रतिबद्धमिति निर्णयो विरोधादित्याशङ्कते-स्यान्मतमिति । अस्याः प्रतिविधानमाह-तथापि न चेति । अनवधारणादिति, विशेषणस्याप्रधानत्वेन तदंशेऽवधारणाभावादित्यर्थः । नीलमुत्पल मितीति, नीलान्यरूपव्यवच्छेद उत्पले बोध्यते विशेषणसमतावधारणस्येतरव्यवच्छेदकत्वप्रसिद्धेनं तु विशेष्यसजतावधारणस्य, तस्यायोगस्यैव व्यावर्तकत्वादिति भावः । तेषामिति, ज्ञानत्वेनाज्ञानत्वेन चाभिमतानां संशयविपर्ययानध्यवसा30 यनिर्णयानामित्यर्थः । अवबोधार्थत्वादिति, ज्ञानं हि द्विविधमुच्यते यथार्थमयथार्थश्चेति, अयथार्थमेव चाज्ञानमुच्यते ज्ञानश्चावबोधः, शाऽवबोधने इत्युक्तेः, तथा च यथार्थायथार्थपर्यायत्वं ज्ञानस्य, अन्यथा तस्य द्वैविध्यानुपपत्तेः, अतो ज्ञानत्वमज्ञानत्वचाविशिष्टमविरोधादिति बोधाबोधपर्यायत्वं विज्ञेयमिति भावः । एतस्मिन्नयभङ्ग इत्युक्त्याऽन्योऽपि भङ्गोऽस्तीति ज्ञायते समीपतरवर्तिवाचकैतदो विशेषणाच, तथा चास्मिन्नेव भङ्गे शब्दार्थोऽज्ञात एव नान्येषु भङ्गेषु, तत्रान्यार्थानामपि सम्भवादिलाशयेनाह-भलमहणमिति । यदि भङ्गान्तरं न सूचयेत्तर्हि मिथ्यात्वादवृत्तित्वमेव स्यात्, परस्परनिरपेक्षत्वात्, विधिनि 2010_04 Page #183 -------------------------------------------------------------------------- ________________ विधेव्यार्थता] न्यायागमानुसारिणीव्याख्यासमेतम् भङ्गान्तरसूचनार्थम् , परस्परनिरपेक्षाणां भङ्गानां वृत्तेम॒षात्वात्तद्विपर्यये सत्यत्वात् तेषाञ्च विधिनियमयोरेव भङ्गत्वान्नयानाम् , तस्मादस्मिन्नेव नयभङ्गे शब्दस्याज्ञातोऽर्थो नान्येषु, तेष्वप्यन्येऽन्येऽर्था इति । एतस्य दर्शनस्य ज्ञापकमाह यथा चाहुः 'अस्त्यर्थः सर्वशब्दानामिति, सत्तामात्रमर्थः सर्वशब्दानाम् , कोऽप्यस्यार्थोऽस्ति, न निरर्थकः शब्दः, स पुनरर्थो न निरूपयितुं शक्योऽयमयमिति, एत-5 त्प्रत्याय्यलक्षणम् , तत्र दृष्टान्तोऽपूर्वदेवतास्वर्गशब्दानामर्था यथा तेषामत्यन्तापरदृष्टत्वादीदृशोऽपूर्वः स्वर्गो देवता वेदशीति न प्रतिपद्यामहे निरूपणेन तथा गवादिशब्दानामप्यर्थैः तत्समैरेव भवितव्यम् , न हि गमनागमनगर्जनादिष्वर्थव्यवस्था विशेषरूपेति कश्चिदस्त्यर्थ इत्येतावत्प्रतिपत्तव्यम् । एतस्मिन्नेव नयभङ्गे सर्वाणि पदानि वाक्यार्थः, तद्यथा देवदत्त ! गामभ्याज शुक्लां दण्डेनेत्यत्र परस्पराऽविवेकेन सङ्कीर्णरूपाणि पदान्येकार्थान्यन्वयव्यतिरे- 10 काभ्यामनुगम्यमानं सम्पिण्डितमिवार्थ ब्रूयुर्न पृथग्भूतम् , तस्मात् सर्वाणि पदानि वाक्यार्थः। (यथा चाहुरिति) अस्त्यर्थः सर्वशब्दानामिति श्लोकः । (सर्वाणीति) पदान्येव वा वाक्यार्थः, नैकैकं न तद्व्यतिरिक्तं यथोक्तम् 'अर्थकत्वादेकं वाक्यं साकाक्षश्चेद्विभागे स्यात्' (पू. मीमांसायां अ०२ पा० १ अधि० १५) इति, न तु यथाऽन्यैः कल्प्यतेऽन्यथा, 'आख्यातशब्दः सङ्घातो जातिः सङ्घातवर्तिनी । एकोऽनवयवः शब्दः क्रमो बुद्ध्यनुसंहतिः॥पदमाद्यं पृथक् सर्वं पदं सापेक्षमित्यपि । वाक्यं 18 प्रति मतिर्भिन्ना बहुधा न्यायदर्शिनाम् ॥' (वाक्यप० का० २ श्लो० १-२) इति ॥ अलौकिकत्वादशक्यप्राप्त्यफलत्वाभ्यामेव । क पुनरयं नयेऽन्तर्भाव्यते ? किं द्रव्यनयभेदे ? पर्यायभेदे वा, उच्यते व्यवहारदेशत्वाच्चास्य द्रव्यार्थता 'लौकिकसम उपचारप्रायो विस्तृतार्थो व्यवहार इति (तत्त्वा० अ०१ सू० ३५ भाष्ये) वचनात् , द्रव्यशब्दो द्रोरवयवोद्रव्यमिति व्युत्पादितः, 20 द्रुः गतियोत्रा तस्या अवयव एकदेशः, एकदेशोऽसमस्तवृत्तिरन्यथावृत्तित्वात् । (व्यवहारेति) व्यवहारदेशत्वाचास्य द्रव्यार्थता लौकिकसम उपचारप्रायो विस्तृसार्थो व्यवयमभङ्गवृत्तिव्यतिरिक्तत्वादनर्थकवचोवदनृतमित्युक्तेरिति भावः। अस्त्यर्थः सर्वशब्दानामिति, अस्त्यर्थः सर्वशब्दानामिति प्रत्याय्यलक्षणम् । अपूर्वदेवतास्वर्गः सममाहुर्गवादिषु ॥ (वाक्यपदीये का० २ श्लो० १२१) इति पूर्णः श्लोकः। तं व्याख्यातिसत्तामात्रमर्थ इत्यादिना । ननु प्रत्येकं पदानि वाक्यार्थमवगमयेयुः, तत्संघातो वाक्यं वा पदार्थो वेत्याशङ्कायामाह-25 एतस्मिन्नेव नयभङ्ग इति । सर्वाणि पदानि वाक्यपदाभिधेयानि, न हि प्रत्येकं पदेभ्यो वाक्यार्थप्रतीतिदृश्यते किन्तु परस्परापृथग्भूतेन सङ्कीर्णखरूपाणि पदान्येवैकार्थप्रतिपादकत्वाद्वाक्यमिति भावः । न तद्यतिरिक्तमिति, पदसमुदायव्यतिरिक्त पदार्थस्फोटादिरूपं न वाक्यार्थावगमनिमित्तमित्यर्थः । तत्र प्रमाणमाह-यथोक्तमिति, पूर्वमीमांसायां यावत्स्वर्थैकत्वं विभज्यमानसाकांक्षत्वञ्च तावत्सु पदेषु वाक्यत्वं पर्याप्तं न तु वाक्यसमूहे, तस्यैकार्थप्रकाशकत्वाभावात् , अथैकत्वञ्च मिनप्रतीतिविषयत्वेनानेकमुख्य विशेध्यराहित्यम् , विभज्यमानसाकांक्षत्वञ्चान्वीयमानयोः पदार्थयोरनन्वयेऽनिवृत्ताकांक्षत्वम् , कोमलमासनं 30 करोमि तस्मिन् सीदेत्यत्रानन्वये साकांक्षत्वेऽपि भिन्नवाक्यत्वादाद्यं विशेषणमिति भावार्थः । अत्र वैयाकरणैरुक्तान वाक्यविकल्पान् दर्शयति-आख्यातशब्दः संघात इत्यादि । आख्यातशब्दः, संघातः, संघातवर्तिनी जातिः एकोऽनवयवः शब्दः क्रमो बुख्खनुसंहतिः, आद्यं पदं, प्रत्येकं सर्व पदं मिथोऽनुग्रहापेक्षया संघातं वेति वाक्यं प्रति न्यायदर्शिनां मतिर्बहुधा मिलेत्यर्थः, मतिमेदे कारणमाह-अलौकिकत्वादिति । लोकव्यवहारेति, लोके व्यवहारक्षमोऽर्थो हि घट इति विभक्तरूपतया अस्तीत्यविभक्तरूपतया प्रतीयमानः पदार्थस्तत्प्रवर्तनपरो नयो व्यवहारः सोऽपि द्रव्यार्थनयोऽशुद्धः, सङ्घहनयविषयो 35 हि सत्तामात्रं द्रव्यार्थिकनयस्य विशुद्धा प्रकृतिः, अयन्तु व्यवहारो घटादिविशेषसङ्कीर्णसताप्ररूपक इत्यशुद्धद्रव्यास्तिकः, तथा 2010_04 Page #184 -------------------------------------------------------------------------- ________________ १३४ द्वादशारनयचक्रम् [विध्यरे हार इति वचनात्तस्य द्रव्यार्थभेदत्वम् , लोकव्यवहारविषयो हि व्यवहारः, तदेकदेशविषयो विधिनया, तस्माद्रव्यार्थभेदः । यथा 'दबट्ठियनयपयडी सुद्धा संगहपरूवणाविसओ। पडिरूवं पुण वयणस्थनिच्छओ तस्स ववहारो' (संमति कां० १ गा० ४) इति । तस्य शब्दार्थव्युत्पत्तिदर्शनार्थमाह द्रव्यशब्द इति द्रोरवयवो द्रव्यमिति व्युत्पादितत्वात् । अथ द्रुः कः ? 'दु द्रु गतौ' तत्तुल्यार्थमव्युत्पन्नं । प्रातिपदिकं 'शुद्रुभ्यां मः' (५।२।१०८) इति निपातितत्वात । तस्यार्थो दुर्गतिः यात्रा व्यवहारो लोकस्येति, तस्या यात्राया अवयव एकदेश इत्यर्थकथनात् , स एकदेशः क इति चेदुच्यते-एकदेशोऽसमस्तवृत्तिरन्यथाव्यवहारात् समस्तलोकव्यवहारविपरीतवृत्तित्वान्मिथ्यादृष्टिरित्यर्थः। सा पुनरस्या विधिवृत्तेरेकदेशवृत्तिता लोकत एव, मृद्घटादिसामान्यविशेषाणामर्थकलापानां परित्याज्यत्वात् , तस्मादन्यदवस्तु, अलौकिकत्वात् खकुसुमवत् , व्यतिरेके घटवदिति दिक् । 10 (सा पुनरस्या इति) सा पुनरस्या विधिवृत्तरेकदेशवृत्तिता, कुतः परिच्छिद्यत इति चेल्लोकत एव परिच्छिद्यत इत्यर्थः, यस्माल्लोके तदेकदेशवृत्तिता मृद्भटादिसामान्यविशेषाणां मृत् सामान्यं घटो विशेषः मृदः सामान्यं द्रव्यत्वं घटविशेषः पृथुबुनखण्डौष्ठसम्पूर्णरक्तकृष्णतादिः सर्व एवैष परित्याज्योऽर्थकलापः, समस्तवृत्तौ नयानां यथाखं प्रमाणवशाव्यवस्थाप्यः, तस्याज्ञानानुविद्धत्वैकान्ताद्वक्ष्य माणदोषसम्बन्धाच लौकिकस्याप्यन्या युक्तिः । इति परिसमाप्ती, विधिनयशतभेदो दिगिति । तस्माद15 न्यदवस्तु अलौकिकत्वात् खकुसुमवदिति गतार्थम् । अभिप्रायार्थ:-स तु मन्यते अलोकैकान्तसांख्यादिपरिकल्पितमवस्त्विति, व्यतिरेके घटवदिति, यद्वस्तु तल्लौकिकमेव यथा घटः कार्य कारणं वा सामान्यं वा विशेषो वा यो वा स वाऽस्तु यथा लोकप्रसिद्धिः पृथुबुध्नादिप्रागुक्तसामान्यविशेषभवनात् स च लौकिक इति, व्यतिरेके-वैधयें । - सर्वनयानां जिनप्रवचनस्यैव निबन्धनत्वात् किमस्य निबन्धनमिति चेदुच्यते20 निबन्धनञ्चास्य 'आया भंते नाणे अन्नाणे, गोयमा आया सिय नाणे सिय अन्नाणे' नाणे पुण नियमं आया इति (भग० १२-श-३-१०) । निबन्धनञ्चास्येति, आया भंते नाणे अन्नाणे इति स्वामी गौतमस्वामिना पृष्टो व्याकरोति गोयमा! नाणे नियमा आया,अतो ज्ञानं नियमादात्मा ज्ञानस्यात्मव्यतिरेके वृत्त्यदर्शनात् , आया सिय नाणे सिय अन्नाणे आत्मा पुनः स्याज्ज्ञानं स्यादज्ञानम् , अज्ञानमप्यसौ ज्ञानावरणीयकर्मवशीकृतत्वात् संश25 यविपर्ययानध्यवसाय बाहुल्यादित्यस्मात् सूत्रादेतन्मिध्यादर्शनं निर्गतमज्ञानोक्तेर्विरोधसमाधिमवददिति। विधिभङ्गारो नाम प्रथमो द्रव्यार्थभेदः समाप्तः। व्यवहारैकदेशत्वाद्विधिनयस्यापि द्रव्यार्थत्वं बोध्यम् । द्रव्यशब्देनापि व्यवहारैकदेशताया लाभ इत्याह-द्रव्यशब्द इति, दुः-ग्यवहारः तस्यावयवः एकदेशो द्रव्यम्, एकदेशत्वं चास्यासमस्तार्थपरिच्छेदकत्वात्, अर्थो हि द्रव्यपर्यायात्मकस्तत्र द्रव्यस्यैवैकदेशस्यायं नयः परिच्छेदक इति भावः । सर्वनयानामिति, जिनप्रवचनादेव सर्वनयानामुत्थानात् प्रकृतनयस्य 30 किं मूलभूतं वचनमित्याशङ्कायामाह-आया मंते इत्यादि, आत्मा स्याज्ज्ञानं सम्यक्त्वे सति मत्यादिज्ञानस्वभावत्वात्तस्य, स्थादज्ञानं मिथ्यात्वे सति तस्य मत्यज्ञानादिखभावत्वात् , ज्ञानं पुनर्नियमादात्मा, आत्मधर्मत्वात् ज्ञानस्य, न च सर्वथा धर्मों धर्मिणो भिद्यते इति, एवञ्चात्मा ज्ञानं व्यभिचरति ज्ञानं त्वात्मानं न व्यभिचरतीति सूत्रभावार्थः, कथमज्ञानमात्मेत्यत्र हेतुमाहशानावरणीयेति, यत एवासावात्मा ज्ञानावरणीयकर्मवशीभूतोऽत एव संशयाद्यज्ञानप्राचुर्यादज्ञानमुच्यत इति भावः॥ इस्याचार्यविजयलब्धिसूरिकृते द्वादशारनयचक्रस्य विषमपदविवेचने प्रथमो विधिभङ्गारः ॥ 2010_04 Page #185 -------------------------------------------------------------------------- ________________ द्वितीयो विधिविध्यरः । अयमपि तु विप्रतिषेधादयुक्तः। (अयमपीति) अयमपि तु विधिवृत्त्येकान्तोऽपि विप्रतिषेधादयुक्त इति कः पुनः सम्बन्धः? खविषयसम्पातनेनार्थानां भावनात्मभिर्विधिनियमवृत्तिभिरनेकान्तविहितप्रत्येकतत्ताभिः समधिगम्या जैनसत्यत्वसाधनवृत्तौ विवक्षितद्वादशविकल्पविशेषणा एकैव वृत्तिरधिकृतेत्यनन्तरोक्ताया विधिवृत्तेरपि । प्रत्येकवृत्ताया मिथ्यादृष्टित्वादयमपि तु विधिवृत्त्येकान्तस्त्याज्यः, कस्मात् ? अयुक्तत्वात् , अयुक्तत्वं विप्रतिषेधात्, विरुद्धः प्रतिषेधो विप्रतिषेधः सर्वमुक्तं मृषेति प्रतिषेधवत् । अपिशब्दात् सामान्यविशेषोभयवादैकान्तः प्रथमनयदूषितोऽनुमत इत्ययमभिसम्बन्धः। कथं विप्रतिषेध इति चेदुच्यते___ यदुक्तं त्वया सर्वमज्ञानानुविद्धमेव ज्ञानम् , न च ज्ञानाज्ञानयोः कश्चिद्विशेषोऽस्ति 10 संशयविपर्ययानध्यवसायनिर्णयानामवबोधैकार्थत्वान्न लोकतत्त्वं ज्ञातुं शक्यम् , विफलश्च विवेकयत्नः शास्त्रेष्विति, तद्यदि लोकतत्त्वमज्ञेयमेव सर्वशास्त्रविहितलोकतत्त्वव्यावर्त्तनं तद्यप्रत्ययमेव, अशक्यप्राप्त्यफलत्वाभ्याम् , प्रतिषेध्यस्वरूपज्ञानविषयत्वाच्च । (यदुक्तमिति) किन्त्वयैवेदं विदित्वाऽविदित्वा वा सामान्यविशेषौ स्वविषयौ परविषयौ वा - स्यातामित्यादिलोकतत्त्वं शास्त्रान्तरेषु कल्पितं दूषितम् ? विदित्वा चेन्न तर्हि तन्मतं न विदितम् , अथा- 15 विदित्वा, ततः कथं दूषितमित्युभयथाऽपि न युज्यते प्रतिषेधो विरुद्धत्वात् , प्रतिषिध्यते प्रतिषेध्यश्च न ज्ञायत इति हास्यमेतत् । स्यान्मतम् प्रतिषेध्यं ज्ञायते तैस्तस्य बहुधा कल्पितस्यानुपपत्तेरित्येतदपि विप्रतिषिद्धम् , तेषामपि मतानां लोकतत्त्वान्तःपातिनां मिथ्याविधिकत्वं ज्ञातमज्ञातं वा स्यादिति तुल्यविकल्पत्वात् 20 ज्ञाताज्ञातयोश्च तद्दोषाविमोक्षात् । यदप्युक्तमनर्थको विवेकयत्नः शास्त्रेष्विति, तत्रापि विप्रतिषेधात्तज्ज्ञानमफलमेव किमिति शास्त्रविहितार्थप्रतिषेधप्रयासः ? । विधिविधिश्च क्रियाविधायिवाक्यपरिज्ञानस्याप्यशक्यप्राप्त्यप्रयोजनत्वादिदोषाविमुक्तत्वात् खवचनविरोधादिदोषावस्तुतत्त्वपरिज्ञानाविनाभावादयुक्तः सर्वैककारणमात्रत्वम् , तच्च पुरुषकालनियतिखभावभावाद्यन्यतमात्मकमात्मप्रभेदमात्रावस्थामेदमात्रस्य व्यवहृतेरिति प्रदर्शनार्थः, तदेवाहायमपि विति, तुशब्दो भङ्गान्तरारम्भसूचकः विधिवृत्त्येकान्तोऽपीति क्रिये-25 कान्तवादोऽपीति भावः। पूर्वोदितसामान्यादि विधिवृत्त्या सहास्याः क्रियैकान्तवृत्तेः सम्बन्धं पृच्छति कापुनः सम्बन्ध इति। वृत्तिशब्दार्थो हि खविषयसम्पातनेनार्थानां भावनारूपा सा वृत्तिः परस्परभङ्गापेक्षा सती जैनसत्यत्वसाधनसमर्था भवति अन्यथा तु मिथ्यादृष्टित्वादसत्या भवति विप्रतिषेधात् सर्वमुक्तं मृषेति प्रतिषेधवदिति, अयं हि प्रतिषेधो यदि सत्यः स्यात्तर्हि कथं सर्वमुक्तं मृषा, अस्या उक्तरमृषात्वात् , यद्यसत्यः स्यात् तर्हि कथं सर्वमुक्तं मृषा सिद्ध्येत् मृषाभूतेन कस्यचित् प्रतिषेधासम्भवादिति तथैवेयमेकान्तवृत्तिः स्वयमसत्यभूता कथं वस्तु साधयेदिति भावः। नन्वज्ञानानुनिद्धमेव सर्वमित्यज्ञानशब्दोच्चार-30 णादेव प्रतिषेध्यतयाऽन्यत्र प्रसिद्धज्ञानाभ्युपगमः कृतो भवति प्रतिषेधस्य प्रसिद्धविषयत्वादित्याशङ्कायां ज्ञानाज्ञानयोरवबोधार्थसाम्यादविशेष इत्याशयेनोत्तरयति न चेति । अशक्यप्रात्यफलत्वाभ्यामिति, ज्ञातुमशक्यत्वात् शक्यत्वेऽपि निष्फलत्वादित्यर्थः । प्रतिषेध्यं शायत इति, प्रतिषेध्यं लोकतत्त्वं वादिकल्पितं ज्ञायत एव किन्तु तैर्लोकतत्त्वं यद्बहुधा कल्पितं 2010_04 Page #186 -------------------------------------------------------------------------- ________________ १३६ द्वादशारनयचक्रम् [विधिविध्यरे (प्रतिषेध्यमिति) प्रतिषेध्यं ज्ञायते तैस्तस्य वस्तुनस्सत्त्वादिगुणत्रयात्मकक्षणरूपद्रव्यादिषट्पदार्थात्मकादितया बहुधा कल्पितस्यानुपपवेरिति, एतदपि विप्रतिषिद्धं तेषामपि मतानां लोकतत्त्वान्तःपातिनां मिथ्याविधिकत्वं ज्ञातमज्ञातं वा स्यादिति तुल्यविकल्पत्वात् , ज्ञाताज्ञातत्वयोश्च तहोपाविमोक्षात्, सामान्यं स्वविषयं परविषयं वेत्थमित्थञ्च न युज्यते तथा विशेष इति अपश्चितत्वात् । 5 अज्ञातश्चेत्तर्हि सर्वमप्रत्ययत्वान्न प्रतिषेध इत्युक्तम् , ज्ञातश्चेत् कथं ज्ञातुमशक्यं लोकतत्त्वमित्यप्रत्ययमेव, स्वयमसमीक्षितवाच्यवाचकसम्बन्धत्वात् , तेन च तदुन्मत्तवदेव तावदशक्यं ज्ञातुं लोकतत्त्वमित्युक्तम् , विप्रतिषेधेऽप्युक्तमनर्थको विवेकयत्नः शास्त्रेष्विति तत्रापि विप्रतिषेधात्, यदप्युक्तमनर्थको विवेकयत्नः शालेष्विति तत्रापि विप्रतिषेधात्तज्ज्ञानमफलमेव किमिति शास्त्रविहितार्थप्रतिषेधप्रयासः ? शास्त्रविहितार्थज्ञानं तत्प्रतिषेधोपायज्ञानश्चावधार्य किं सफलमफलम् ? इति, यद्यफलं विज्ञानं शास्त्रविहितार्थान 10 प्रतिसिषेधिषतः प्रयासोऽप्यफल एव ज्ञातत्वात् पूर्ववत् । अथ सफलम् , अफलमेव लोकतत्त्वज्ञानमिति व्याहन्यते, अतः को वैतद्वेद किं वाऽनेन ज्ञातेनेत्येतदयुक्तमुक्तम् , विप्रतिषेधात् । यदप्युक्तं वस्तुतत्त्वाशक्यप्राप्तेः क्रियाया एवोपदेशो न्याय्यस्तत्पूर्वकत्वात् सुखावाप्तेरित्यत्रोच्यते क्रियोपदेशन्याय्यत्वाभ्युपगमोऽपि चैवं विघटेत, संसेव्यविषयस्वतत्त्वानुपातिपरिणामविज्ञानविरहितत्वात् , अज्ञातवैविध्यवस्तुतत्त्वपरिणामवदवैद्यौषधोपदेशवदग्निहोत्रं जुहुयात् 15 स्वर्गकाम इत्याद्युपदेशो बालकादिग्रहणवत् । (क्रियेति) विघटत एवेति कथं निष्ठुरमुच्यते । विघटेतेति सम्भावनयोच्येत दाक्षिण्यलोकज्ञानाभ्याम् । को हेतुर्विघटेत ? संसेव्यविषयवतत्वानुपातिपरिणामविज्ञानविरहितत्वात् , समित्येकीभावे, आत्मसाद्भावेन सेव्यमानस्य विषयस्य स्वतत्त्वं आहारादेः शब्दस्पर्शरसरूपगन्धात्मकस्य स्वरूपं 'वातादिप्रकोपशमोऽपचयप्रलयावहः । नागरातिविषामुस्ताकाथः स्यादामपाचनः ॥' इति, तत्तत्त्वा20 नुपातिपरिणामविज्ञानं तदनुपतितुं शीलमस्येति । किमुक्तं भवति ? आसेव्यमानस्य वस्तुनस्तक्रियात एव स्वरूपानुपातेन विपाकपरिणामस्तद्विज्ञानविरहितत्वम् , स इत्थं विपाकः सुखाय दुःखाय वेत्येतद्विज्ञानं हिताहितप्राप्तिपरिहारार्थं तत्तु भवतां नास्त्येव, अतस्तद्विरहितत्वात् क्रियोपदेशोऽपि 'अग्निहोत्रं जुहुयात्स्वर्गकामः, तन्दुलान् पचेद्भोक्तुकामः' इत्यादिदृष्टादृष्टार्थो न घटते, अज्ञातवैविध्यवस्तुतत्त्वपरिजामवदवैद्यौषधोपदेशवत् , यथा कस्यचिदविज्ञातरसवीर्यविपाकप्रभावद्रव्यगुणविशेषभागाभागसंयो26 तदनुपपनामिति प्रतिषिध्यत इति भावः । सत्त्वादिगुणत्रयात्मकेति । सांख्यमतेन, क्षणरूपेति बौद्धमतेन, द्रव्यादिषद् पदार्थेति वैशेषिकाभिप्रायेण, परपरिकल्पितस्यानुपपत्तौ हेतुमाह सामान्यं स्वविषयमित्यादिना । स्वयमसमीक्षित. बाध्यवाचकसम्बन्धत्वादिति, वाच्यवाचकभावसम्बन्धं शब्दार्थयोः खयमविचार्यैवैवमुक्तत्वेनोन्मत्तवचनवदेव तव वचनं निरुतमशक्यं ज्ञातुं लोकतत्त्वमित्यादिरूपमिति भावः। निश्चितार्थबोधकं विघटत इति पदप्रयोगं परिहृत्य सम्भावनाबोध. कपदप्रयोगनिदानमाविष्करोति विघटत एवेतीति। संसेव्यमानेति, आसेव्यमानाहारादिविषयविपाकपरिणामज्ञानवैधुर्यात् 30क क्रियाया उपदेशः श्रेयान्, न ह्यविदितभेषजगुणस्य देशकालरोगिबलरोगलक्षणानभिज्ञस्य वैद्यस्य भेषजोपदेशः साधीयान् स हि बालकादिज्ञानमिव क्रीडाविलास एव भवेदिति भावः। संसेव्येति सम्यक् सेव्यो विषयः संसेव्यविषयः, सम्यक्त्वं चैकीभावः, तथा सेव्यमानविषयाणां स्वरूपानुपातिविपाकलक्षणपरिणामविशेषविज्ञानाभावादित्यर्थः। तथाविधविपाकपरिणाममानाभावे कथं हितप्राप्त्यहितपरिहारः स्यादित्याह स इत्थमिति । अग्निहोत्रमिति, अदृष्टार्थोऽयमुपदेशः, तन्दुलानिति 2010_04 Page #187 -------------------------------------------------------------------------- ________________ वेदपौरुषेयत्वम्] न्यायागमानुसारिणीव्याख्यासमैतम् ९३७ गस्य देशकालातुरप्रकृतिसाम्यबलाबलवद्रोगसमुत्थनिदानादिलक्षणानभिज्ञस्यौषधोपदेशो न घटते तथाईग्निहोत्रं जुहुयात्स्वर्गकाम इत्याद्युपदेशः । अथवा हिताहितप्राप्तिपरिहारार्थत्वात्सर्वोपदेशानां तदभावात् क्रीडितमेवास्त्विति इदं बालकादिग्रहणवत् तज्ज्ञानविरहितस्योपदेशं श्रवणग्रहणधारणतर्कानुमानाद्यनानुबन्ध्येव स्यादितीदमर्थप्रदर्शनार्थ द्वितीयमुदाहरणम् । उपदेशादेव न ज्ञानयोग इति चेदयुक्तम् , उभयथाऽपि पौरुषेयत्वाभारतरामायणादिवदप्रामाण्यम् , अग्निहोत्राद्युपदेशस्यातीन्द्रियार्थस्य प्रामाण्यवत् सांख्याद्यतीन्द्रियार्थोपदेशप्रामाण्यं वा। (उपदेशादेवेति) स्यान्मतम् पुरुषस्यातीन्द्रियार्थदर्शनशून्यत्वात् स्वर्गापूर्वकर्मसम्बन्धज्ञाने पूर्व विज्ञानकारणाभावाद्वन्ध्याया दौहित्रस्मरणवद्रव्यगुणरसवीर्यविपाकादिज्ञानस्यानुमानं पूर्व विज्ञानकारणं न सम्भाव्येत तस्मादुपदेशादेवाग्निहोत्रकर्म स्वर्गफलाभिसम्बन्धादिज्ञानमिति, एतच्चायुक्तम् , 10 उभयथाऽपि पौरुषेयत्वात्, दृष्टादृष्टार्थत्वेनोपदेशज्ञानस्यापि पौरुषेयत्वात् , ज्ञानतो वचनतश्च पुरुषाधीनत्वादिति वा, यथा त्वमतीन्द्रियेष्वर्थेषु पूर्व विज्ञानकारणाभावं मन्यसे पुरुषस्य पुरुषज्ञानवचनानां तद्विषयाणाञ्चाप्रामाण्यं रागादियोगात्, तथाऽसर्वज्ञोपदेशस्योपदिष्टज्ञानस्य श्रोतृज्ञानवचनयोश्च ज्ञानत्ववचनत्वाभ्यां पौरुषेयत्वानतिवृत्तेर्भारतरामायणादिवदप्रामाण्यम् । अग्निहोत्राद्युपदेशस्यातीन्द्रियार्थस्य प्रामाण्यवत् सांख्याद्यतीन्द्रियार्थोपदेशप्रामाण्यं वा ।। ..15 वानरमूलिकादिपरिज्ञानवत्तद्विषयं तज्ज्ञानं स्यात् सर्वोषधादिविषयैकपुरुषविज्ञानवदतीन्द्रियग्राह्यसर्वपदार्थविषयैकपुरुषविज्ञानाभ्युपगमो वाऽवश्यम्भावी, वेदवचनयोरन्यथाऽनुपपत्तेः । (वानरेति) वानरमूलिकादिपरिज्ञानवत्तद्विषयं तज्ज्ञानं स्यान्न तु सर्वोषधादिविषयैकपुरुषज्ञानम् , अतो वैद्यकादिष्वपि पूर्वज्ञानकारणाभावः । तद्विषयैकपुरुषविज्ञानवदतीन्द्रियग्राह्यसर्वपदार्थ-20 विषयैकपुरुषविज्ञानाभ्युपगमो वाऽवश्यम्भावी, किं कारणम् ? वेदवचनयोरन्यथानुपपत्तेः, पुरुषमन्तरेण, वेदनं वेदो ज्ञानमित्यर्थः, तेन च ज्ञानस्य वचनं-परप्रत्यायनञ्च, तदुभयं-प्रत्ययनं प्रत्यायनञ्च दृष्टार्थोपदेशः, स्वर्गापूर्वतृह्यादेदृष्टादृष्टार्थत्वात् । तादृशोपदेशस्य न केवलमघटितार्थत्वमपि त्वनिष्टार्थतापील्याह अथवेति। विज्ञानं विज्ञानपूर्वकमिति नियमाभावमाह स्वर्गेति, वर्गः अपूर्वमदृष्टं यागव्यापारो यागादिकर्म चैतेषां परस्पर कार्यकारण. भावलक्षणसम्बन्धज्ञान इत्यर्थः । एतेभ्यो द्रव्यादिविपाकपरिणामेभ्यो स्वर्गादिफलं भवतीत्यनुमानासम्भवादुपदेशादेव तज्ज्ञान-25 मिति भावः, उभयथापीति । दृष्टार्थमिदमदृष्टार्थमिदमिति विज्ञाय केनचिदुपदिष्टत्वात् पौरुषेयत्वं श्रोतुर्वा इदम्प्रथमतयोपदेशश्रवणात्तथाज्ञानोत्पतेः पौरुषेयत्वं वक्तुश्च तथाज्ञानाद्वचनाच, पूर्वपूर्वविज्ञानानां कारणत्वे ह्यपौरुषेयत्वं स्यादिति भावः । असर्वज्ञोपदेश उपदिष्टं ज्ञानं श्रोतुः ज्ञानं वचनचाप्रमाणम् , ज्ञानत्वाद्वचनत्वाद्वा, अतीन्द्रियार्थोपदेष्ट्रसर्वज्ञोपदेशादिवत् । तादृशोपदेशादीनां भारतरामायणादिवत् पौरुषेयत्वमित्याशयेनाह यथेति । भारतादीनामप्यतीन्द्रियार्थेषु तत्कर्तुः रागादिसम्भवे. नाप्रामाण्यं विज्ञेयम् । अथाप्यमिहोत्राद्युपदेशस्य प्रामाण्ये सांख्यादिशास्त्रोपदेष्टणामतीन्द्रियार्थोपदेशोऽपि प्रमाणं स्यादित्याह 30 अग्निहोत्रादीति । तस्माद्वानरस्य यथा मूलिकादिपरिज्ञानं तथा यत्किञ्चिदोषधिविषयमेव वैद्योपदेशज्ञानं स्यात् न तु सर्वोषधादिविषयमेकपुरुषज्ञानं स्यादिति तत्रापि पूर्वविज्ञानकारणाभावः प्रसक्तः तथा च तस्याप्यपौरुषेयत्वं स्यादिति तत्र सर्वोषधिविषयैकपुरुषज्ञानस्याङ्गीकारेऽतीन्द्रियग्राह्यसर्व विषयैकपुरुषविज्ञानाभ्युपगमो वेदेऽपि खीकार्य इति पौरुषेयत्वमेव तस्येत्याहबानरमूलिकादीति । हेतुमाह-वेदेति, पुरुषमन्तरेण वेदनं ज्ञानं पुरुषमन्तरेण च ज्ञानस्य वचनं पर प्रतिपादनमेत द्वा० न०१८ 2010_04 Page #188 -------------------------------------------------------------------------- ________________ द्वादशारनयचक्रम् [विधिविध्यरे नोपपद्यते तयोः पुरुषसमवायित्वात् । उक्तञ्च 'रूपविबन्धः सम्बन्धः प्रामाण्यं प्रत्ययः क्रिया । शब्दस्य पुरुषाधीना ज्ञानं वा नान्यथाऽऽत्मनः ॥' इति, औषधोपदेशाज्ञानवदमिहोत्राशुपदेशाज्ञानं दशानवत्तदपि वा प्रमाणान्तरगम्यमिति । एवं तावत्कियोपदेशमभ्युपगम्य दोष उक्तः । अनभ्युपगम्यापि6 उपदेशाप्रसिद्धिरपि चैवं भवतः, सर्वस्योपदेशस्य सांख्याधुपदेशवल्लोकतत्त्वान्वेषणाहते सम्भवाभावात् । (उपदेशेति) त्वन्मतेनैवेति वाक्यशेषः । उपदेशो व्याख्या, असौ च व्याख्या पदविषया वाक्यविषया प्रमाणविषया तद्वस्तुविषया वा वेदव्याकरणसांख्यादिशास्त्रविकल्पिता यथावं प्रक्रियाभिः, तत्र यथा सांख्यादिप्रक्रियाभिर्वस्तुतत्त्वं घटादेर्लोकतत्त्वान्वेषणपरया व्याख्यया विना नाधिगम्यतेऽत10 स्तथा व्याख्यायते, एवमग्निहोत्रादिसंज्ञासंज्ञिसम्बन्धव्युत्पादनेन व्याख्यायते प्रकृतिप्रत्ययादिविभागेन, पदविषयं वाक्यविषयं प्रमाणविषयश्च प्रत्यक्षानुमानागमाद्यभ्युच्चयविकल्पाङ्गाङ्गिभावविकल्पादिलोकतस्वान्वेषणमन्तरेण नाधिगन्तुं शक्यमित्युपदेशस्तत्त्वान्वेषणपरः सर्वः प्रवर्त्तते, तत्र यथा सांख्याधुपदिष्टार्थेऽवशक्यप्राप्तिरुपदेशानर्थक्यश्च तथा वेदव्याकरणमीमांसाधुपदेशानामपीत्युपदेशाप्रसिद्धिः। अथ लोकतः तत्त्वान्वेषणपराणां तेषामुपदेशानां शक्यप्राप्त्यर्थोपदेशसाफल्ये शक्येते 18क: पराभ्युपगमे प्रद्वेषः? लोकतत्त्वान्वेषणपरत्वानतिवृत्तौ तर्कशास्त्रविचारविज्ञानसाफल्यं वा। (अथेति) इहापि च यथा लोकत एव प्रत्यक्षानुमानगम्यघटपटादितत्त्वपरिच्छेदः शक्यते कर्तुम् , एवं पदवाक्यप्रमाणपरिच्छेदोऽपि शक्यो घटादिपदाच्छब्दार्थप्रत्ययविषयस्य लोकत एव वर्णानुपूादिनियतवाच्यवाचकप्रत्ययाव्यभिचारस्य प्रसिद्धेः, एवं वाक्ये प्रमाणे च योज्यम् । उक्त 'प्रमाणानि प्रवर्तन्ते विषये सर्ववादिनाम् । संज्ञाभिप्रायभेदात्तु विवदन्ते तपस्विनः ॥ इति, तस्मादु20 पदेशानां त्वन्मतेनैव सर्वेषामप्रामाण्यसिद्धिः, लोकतत्त्वान्वेषणपरत्वे सत्यशक्यप्राप्तयफलत्वेनाभ्युपगत दुभयं खज्ञानपरज्ञापनलक्षणं पुरुषेण विना न सम्भवतीति भावः । तत्रामियुक्तोक्किं दर्शयति-रूपविबन्ध इति, शब्दस्य रूपनिष्पत्तिः वाच्यवाचकभावसम्बन्धः तत्प्रामाण्यं शाब्दबोधः परप्रत्यायनार्थ शब्दोच्चारणक्रिया च पुरुषाधीनैव नान्यथा तथाऽऽत्मनः-खस्य तज्ज्ञानमपीत्यर्थः। दोषान्तरमाह-औषधोपदेशेति, यथौषधोपदेशोऽज्ञानं न प्रमाणान्तरगम्यं तथाऽमिहोत्राघुपदेशोऽपि स्यात् , ओषधोपदेशस्य प्रमाणान्तरगम्यत्वे वाऽग्निहोत्राद्युपदेशोऽपि तथा स्यादविशेषादिति भावः, 25 दोषः-उपदेशासम्भवपौरुषेयत्वाप्रामाण्यादिदोषः । उपदेशा अप्रमाणाः लोकतत्वान्वेषणपरत्वे सत्यशक्यप्राप्त्यफलत्वात् सांख्यादिशास्त्रकारोपदेशवदिति साधयितुमाह-उपदेशेति, व्याख्यालक्षण उपदेशः तत्र च त्रेधा पुरुषानुप्रवेशो भवति यतः पौरुषेयत्वं स्यात् पदपदार्थसम्बन्धद्वारेण वाक्यवाक्यार्थसंबन्धद्वारेण ग्रन्थतश्च, तथा प्रमाणतश्च, एवं क्रियमाणं व्याख्यान लोकतत्त्वाविरोधेनैव भवेन त्वन्यथेत्याशयेनाह-असौ चेति । तद्वस्तुविषया-प्रमेयविषया । प्रमाणविषयश्चेति, व्याख्यानमिति शेषः। प्रत्यक्षेति, प्रमाणानां क्वचिद्व्याख्याने समुच्चयेन कचिद्विकल्पतः कचिदङ्गाङ्गिभावेन प्रवृत्तिः तथैव 30 लोकतत्त्वानामन्वेषणात्, अन्यथा वस्तुतत्त्वाधिगमो न सम्भवतीति भावः । तत्र तत्त्वान्वेषणं दुःशकं निष्फलम्च, को वैतद्वेद किंवानेन ज्ञातेनेत्युक्तेः तथा चोपदेश एवाप्रसिद्ध इत्याह-तत्रेति । यद्यग्निहोत्राद्युपदेशानां लोकतत्त्वान्वेषणपराणां सुशकत्वं सफलत्वचेष्यते तर्हि सांख्याधुपदेशादीनामपि तथात्वं दुर्वारमित्याह-अथ लोकतः इति । पदपदार्थप्रत्ययस्य वाच्यवाच. कभावसम्बन्धज्ञानाव्यभिचारात् पदपदार्थपरिच्छेदो लोकत एव सुशक इत्याह-एवमिति । उपदेशानां सुशकत्वे सफलत्वे वेत्यर्थः । सर्ववादिप्रमाणानां विषयेष्वविशेषेण प्रवृत्ती प्राचां सम्मतिमाह-प्रमाणानीति । उपसंहरति-तस्मादिति, लोक 2010_04 Page #189 -------------------------------------------------------------------------- ________________ अग्निहोत्रवाक्यपरीक्षा] न्यायागमानुसारिणीव्याख्यासमेतम् त्वात् सांख्यादिशास्त्रकारोपदेशवदतो दृष्टादृष्टार्थक्रियोपदेशे पदवाक्यप्रमाणविषयव्याख्यावैयर्थ्यप्रसगान्न वेदशास्त्रोपदेशसिद्धिः । लोकतत्त्वान्वेषणपरत्वानतिवृत्तौ तर्कशास्त्रविचारविज्ञानसाफल्यं वा। उपदेशाप्रसिद्धौ परीक्षकत्वहानिः, पदवाक्यप्रमाणविषयाव्यभिचारज्ञानार्थत्वात् परीक्षायाः । स व त्वन्मतेनैवैवं नावतिष्ठते, लोकतत्त्वान्वेषणानात्मकत्वात् । (उपदेशेति) परीक्षैव चोपदेशः परीक्षाव्याख्ययोरनर्थान्तरत्वात् । स चोपदेशस्त्वन्मते- 5 नैवैवं नावतिष्ठते लोकतत्त्वान्वेषणानात्मकत्वात् । । स्यान्मतं पदवाक्यप्रमाणानामपि सामान्यविशेषादिघटादिजगत्तत्त्वविचारवदव्यवस्थैव, प्रमाणानामपि प्रमाणान्तराधिगम्यत्वेऽनवस्थादोषप्रसङ्गादित्यत्रोच्यते प्रमाणानवस्था तावनास्ति चन्द्रार्कमणिप्रदीपादिवत् स्वपरावभासित्वात् प्रमाणानाम् ,, तस्यापि त्वनवस्थाने . क्रियाविधाय्यपि शास्त्रं नावतिष्ठेत तस्यापि लोकतत्त्वान्वेषणात्मकत्वानतिवृत्तेरप्रमाणादिति 10 तत्प्राप्यपुण्याघभावः। __ स्थान्मतमिति, पदादीनामभ्युपगम्यापि त्वन्मतेनानवस्थामाह तस्यापीति, जगत्तत्वल प्रमाणविचारस्य वा, इतिशब्दो हेत्वर्थे, अयं हेतुः क्रियाविधायिशास्त्रानवस्थानादिति, अतस्तत्माप्यपुण्याद्यभावः, क्रियाविधायिशास्त्रोपदिष्टक्रियाभिव्यङ्ग्यापूर्वाभाव इत्यर्थः । कतमत् पुनस्तक्रियाविधायिशास्त्रं ? उच्यते 16 - यथाऽग्निहोत्रं जुहुयात् स्वर्गकाम इति, इदं तु पुनः किं विधिरनुवादोऽर्थवादः । उच्यते, विधिः, अप्रसिद्धार्थविषयविधायित्वात् , अत्राप्रसिद्धमग्निसम्प्रदानं हवनं विधीयत इत्युपायस्यापूर्वत्वात्तदभिव्यन्यापूर्वाभावः, त्वन्मतादेवोक्तवत् । तत्त्वान्वेषणाइते सम्भवाभावादित्यर्थः । दृष्टादृष्टार्थेति, दृष्टार्थेऽदृष्टार्थे च क्रियोपदेशे तन्दुलान् पचेद्भोक्तुकामः, अमिहोत्रं जहयात्स्वर्गकाम इत्यादिरूपे पदतो वाक्यतः प्रमाणतो वा क्रियमाणो विचारोऽनर्थक एव स्यात्, लोकतत्वान्वेषणपरत्वाभा-20 वादिति, यदि च तेषामुपदेशानां लोकतत्त्वान्वेषणपरत्वाव्यभिचारित्वमिष्यते तर्हि तर्कशास्त्रादीनामपि तथात्वं स्यादित्याहलोकतत्त्वेति । ननु पदवाक्यप्रमाणानामपि नास्ति व्यवस्था तस्याः प्रमाणान्तरेण कर्त्तव्यतया तस्यापि चाव्यवस्थितस्य व्यवस्थापकत्वासम्भवेनान्यप्रमाणान्तरापेक्षयाऽनवस्था स्यात्, प्रमाणानां परतो व्यवस्थितत्वादित्याशङ्कते-स्थान्मतमिति। प्रमाणानि खपरावभासीनि नातोऽनवस्था, व्यवस्थितत्वात्, अन्यथा क्रियाविधायिशास्त्रस्याप्यनवस्थितत्वात्तत्कियाभिव्य धर्मलक्षणमपूर्वमपि न भवेदित्युत्तरयति प्रमाणानवस्थेति । यागादिकर्मनिर्वर्त्यमपूर्व नाम धर्ममाचक्षते वृद्धमीमांसकाः,25 यागादिकमैव शाबरा ब्रुवते, वाक्यार्थ एव नियोगात्माऽपूर्वशब्दवाच्यो धर्मशब्देनोच्यत इति प्राभाकरः। अग्निहोत्रमिति, अत्र मीमांसकाः विधिवाक्यानि षड्विधानि, यथाऽमिहोत्रं जुहोति, अग्निहोत्रं जुहुयात् खर्गकामः, दधा जुहोति, दधेन्द्रियकामस्य जुहुयात्, सोमेन यजेत, सौर्य चळं निर्वपेत् ब्रह्मवर्चसकाम इति, प्रमाणान्तरानधिगतार्थविषयत्वं विधेलेक्ष. णम् । तत्र प्रथमविधावग्निहोत्राभिन्नहोमकरणिकाभावनेति बोधः सर्वत्र विधी भावनायामाख्यातार्थेऽसति बाधके धात्वर्थस्यैव करणत्वेनान्वयः, द्वितीयाविभक्तिश्च करणत्वमेव लक्षणया बोधयति, अत्र द्रव्यदेवतयोः प्रमाणान्तरेण प्राप्तिः । द्वितीयविधी 30 त्वमिहोत्राभिन्नहोमकरणिका खर्गभाव्यका भावनेति बोधः, अत्रापि धात्वर्थस्य करणत्वेनान्वयः परन्तु भावनायां फलविशेष. सम्बन्धोऽधिको विद्यते । अत्राग्निहोत्रपदं भाष्यकृता यस्मिन्नन्नये होत्रं होमतदग्निहोत्रमिति व्यधिकरणचतुर्थीबहुव्रीहिमाश्रित्य वर्णितम्, न्यायसुधाकृता अग्नहोत्रं यस्मिन्निति षष्ठीबहुव्रीहिः। अत्रोभयत्रापि लक्षणा, खण्डदेवश्च होत्रपदस्य भावव्युत्पत्त्या _ 2010_04 Page #190 -------------------------------------------------------------------------- ________________ द्वादशारनयचक्रम् [विधिषिभ्यरे ... (यथेति) इति-एतच्छास्त्रम् , कथमुपलक्ष्यते विधिरिति ? अप्रसिद्धार्थविषयविधायितया लक्ष्क्ष्यते, अत्राप्रसिद्धमग्निसम्प्रदानं हवनं विधीयते, स्वर्गस्य सुखसंज्ञस्य तत्प्राध्याश्रयस्य विशिष्टदेशाद्यामकस्य वा तदभिलाषस्य च कर्तरि सिद्धत्वात् स्वर्गावाप्तावुपायोऽग्निहवनमित्युपायस्यापूर्वत्वात् । कथं पुनस्तक्रियाभिव्यङ्ग्यापूर्वाभावः ? त्वन्मतादेवोक्तवत् । 5. अतश्च तस्य विधेरसंव्यवहार्यत्वात्तद्विहितक्रियाफलसम्बन्धाभावः, आरोग्यार्थिडित्थभक्षणोक्तिवत् , एवं त्वदुक्तिक्रिये अशक्यप्राप्त्यनर्थे चेति सांख्यादिविवेकयत्नतुल्यत्वं तवापि । - (अतश्चेति) अतश्च तर्कोत्थापितलोकतत्त्वज्ञानानपेक्षत्वात्तस्य विधेरसंव्यवहार्यत्वात्तद्विहितक्रियाफलसम्बन्धाभावः, दृष्टान्त आरोग्यार्थिडित्थभक्षणोक्तिवत् , यथाऽऽरोग्यार्थिनि पुंसि डित्थं 10 भक्षयेत्युक्तिस्तक्रिया च विफले अप्रसिद्धत्वादेवं त्वदुक्तिक्रिये अशक्यप्राप्त्यनर्थे चेत्यशक्यप्राप्त्यादिमत्सांख्यादिविवेकयत्नतुल्यत्वम् , तवापि । अथोच्येत मा मंस्थाः सांख्यादितुल्यत्वमेतस्य, वैधात् कर्त्तव्यतां विधायेतिकर्तव्यताविधानात् , तद्यथा अग्निष्टोमादिसंस्थानविशेषैर्द्रव्यगुणदेवताकर्तृकर्मकालदेशादिविशेषैश्च 'वसन्ते ब्राह्मणो यजेत ग्रीष्मे राजन्यः शरदि वा यजेत वैश्यः, होलाको प्राज्ञ उदृषभयज्ञ 10 उदीच्यैर्वायव्यं श्वेतमालभेत भूतिकामो वायुर्वै क्षेपिष्ठा देवता वायुमेव स्वेन भागधेयेनोपधा वति स एवैनं भूतिं गमयती'त्यादि त्वया प्रतिपत्तव्यमिति शिष्यमनुशास्ति तत उत्तरकालमेवं प्रकारमेवाग्निहोत्रं नामकर्म भवति, विशेषविधानार्थप्रतिपत्तिबलेन च सुसिद्धा भविप्यति तस्य शिष्यता इतरार्थाविचारेणेति । अथोच्यतेत्यादि, अत्राह-मा मंस्थाः सांख्यादियत्नतुल्यत्वमेतस्य, किं कारणम् ? वैधात्, 20 तद्यथा-कर्त्तव्यतां विधायेतिकर्तव्यताविधानात् , तत्राग्निहोत्रं जुहुयादिति कर्त्तव्यतयाऽमिहोत्रं विधी यते ततः पुनरुत्तरत्र विशेषेतिकर्तव्यता विधीयते तदग्निहोत्रमेवमेवश्च कर्त्तव्यमिति, तद्यथाऽमहोत्रं होम इत्यग्निहोत्रमित्याह । सर्वत्राग्निहोत्रपदं तत्प्रख्यन्यायान्नामधेयपरम् , खण्डदेवमतेनोक्तवाक्यादग्निदेवताकहोमत्वप्र. कारकहोमविशेष्यकप्रतीतिजनकत्वेन नामधेयार्थस्याग्निदेवताकहोमत्वस्य धात्वर्थताच्छेदकत्वम्, तत्र च जुहोतिपदेनैव विशेष्याभिधानाद्विशेष्यपरमप्यग्निहोत्रपदं विशेष्यांशेऽनुवादकम् , नीलोत्पलयोरिव प्रवृत्तिनिमित्तभेदाद्भिन्नप्रवृत्तिनिमित्तकत्वे सत्येकार्थवृत्ति25 त्वलक्षणं सामानाधिकरण्यं बोध्यम् , तत्प्रख्यन्यायश्च यः शब्दो यत्र कर्मणि यद्गुणसम्बन्धं बोधयति स चेत्सम्बन्धः शास्त्रान्तरप्रति..पनस्तदा तस्य शब्दस्य तन्नामधेयत्वमिति, तत्राग्निहोत्रशब्देऽग्निसम्बन्धोधकं शास्त्रान्तरं यदग्नये च प्रजापतये चेत्याग्रस्तीति तनामधेयमिति । किमत्र विधीयत इत्यत्राह-अत्राप्रसिद्धमिति, अत्राग्नये होत्रमिति चतुर्थीतत्पुरुषमाश्रित्याग्निसम्प्रदानकहवनविधिरुक्तः । अप्रसिद्धोऽर्थः प्रमाणान्तरैरसिद्धः, स्वर्गादयस्तु सिद्ध एव न विधेय इत्याह-स्वर्गस्येति । किं विधिरिति, मनब्राह्मणात्मकवेदस्य योऽयं ब्राह्मणभागस्तस्य विध्यनुवादार्थवादात्मकतया तदाश्रयेण प्रश्नत्रयम् । कर्त्तव्यतां विधायेति, 30 आख्यातार्थभावनायाः किं भावयेत् केन भावयेत् कथं भावयेदियंशत्रयापेक्षित्वेन समानपदोपात्तहोमादेः करणत्वेन खर्गा. देर्भाव्यतया सन्निधिपठिताश्रूयमाणफलकक्रियाजातस्येतिकर्तव्यतयाऽन्वय इति कर्तव्यताविधानोत्तरकालमितिकर्तव्यताविधा. नम्, सा चेति कर्तव्यता क्रियाया एव न द्रव्यगुणयोः सिद्धत्वात् , कर्त्तव्यस्य इति-प्रकारः इतिकर्तव्यता, प्रकारश्च सामान्यमेदको विशेष एव, कर्तव्यस्य च विशेषः कर्त्तव्य एव भवति, न हि कुठारेण छिन्द्यादित्यत्र कथमित्याकांक्षायां हस्त इति केवलमुच्चार्यमाणोऽपि हस्तोऽन्वयं प्रामोति, किं तर्हि ? हस्तेनोद्यम्य निपात्येत्युच्चार्यमाणे उद्यमननिपतने एव, तद्वारा 2010_04 Page #191 --------------------------------------------------------------------------  Page #192 -------------------------------------------------------------------------- ________________ द्वादशारनयचक्रम् [विधिविध्यरे (यथेति) एवमिति प्रकारनिर्देशं दर्शयति (मृत्पिण्डमिति ) काश्चिदपीति, कर्तव्यतामितिकर्त्तव्यतां वा वक्तुमशक्यत्वादत आह-(नत्विति ) अपिशब्दादितिकर्तव्यतामपीति । स्यान्मतम् जुहुयादित्ययं तर्हि ब्रवीति हवनकर्तव्यतामिति, एवमपि तदवस्थम् , विविक्तार्थ5 वाचित्वाभिमतानां शब्दानां पदार्थान्तरावृत्तेः, जुहोतेहि धातोरयं प्रत्यय उत्पन्नः स तत्कर्तव्यतां हित्वा पदान्तरकर्तव्यतायां कथं प्रवर्तेत ? (जुहुयादिति) जुहुयादित्ययं तर्हि ब्रवीति, हुदानादनयोरित्यस्याः प्रकृतेः क्रियावाचिन्या विध्यर्थलिङ्प्रत्ययान्तत्वात् , तच्च हवनममिविषयमतस्तत्कर्त्तव्यतां जुहुयादित्येष शब्दो ब्रवीति, अनो. च्यते एवमपि तदवस्थं-सत्यमयं ब्रवीति तत्कर्तव्यता, किन्तु हवनमात्रस्य, तस्याप्यप्रसिद्धस्यैव, नत्व10 ग्निहोत्रकर्त्तव्यताम् , जुहुयादित्याख्यातस्य पूर्वापरीभूतानिष्पन्नावयवक्रियार्थवाचित्वात् , नाम्नां पिण्डितनिष्पन्नार्थवाचित्वात् । किं कारणम् ? विविक्तार्थवाचित्वाभिमतानां शब्दानां पदान्तरार्थावृत्तेः, तत आह-जुहोतेहि धातोरयं प्रत्यय उत्पन्नः स तत्कर्त्तव्यतां हित्वा पदान्तरकर्तव्यतायां कथं प्रवर्तेत ? 'प्रकृतिप्रत्ययौ प्रत्ययार्थ सह ब्रूत' इति परिभाषितत्वादाप्तः । ( महाभाष्ये ३।१।६७ सूत्रे) स्यान्मतम्15 अथ तदेव तदिति, एतत्तावदनयोरैकार्थ्य प्रसिद्धिविरुद्धम् , पौनरुक्त्यपरिहारार्थ जुहुयादित्येवास्तु किमग्निहोत्रमित्यनेन ? (अथेति) अथ तदेव तत्, यदेवामिहोत्रं तदेव हवनम्, यदेव हवनं तदेवामिहोत्रमिति, एतत्तावदनयोरैकायं प्रसिद्धिविरुद्धं नामाख्यातयोभिन्नार्थत्वप्रसिद्धेः । अभ्युपेत्याप्येकार्थवाचित्वमनयोः पौनरुक्त्यपरिहार्थं लाघवार्थश्च जुहुयादित्येवास्तु, किमग्निहोत्रमित्यनेन ? इतरोऽप्रसिद्धिपौनरुक्त्यपरिहारार्थमाह पदान्तरकर्त्तव्यतायां तावद्धवनं पदान्तरकर्तव्यतामपेक्षते वाक्यन्यायेन, भेदसंसर्गाभ्यां परस्पराकांक्षया पदान्तरार्थे वर्तते पदम् , यथा सब्रह्मचारिणा सहाधीत इत्युके हवनस्याग्निविषयत्वात् तथा च तत्कर्त्तव्यतां विधिरभिधत्त इत्याह-जुहुयादित्ययमिति । आख्यातार्थस्य विधेः खप्रकृत्य र्थभूतहवनेनैव सम्बन्धाद्धवनकर्तव्यताया एव बोधो न त्वग्निहोत्राख्यहवनकर्त्तव्यताया इत्याशयेनोत्तरयति-एवमपीति । 25 तदवस्थम्, अग्निहोत्रहवनकर्तव्यत्वबोधकत्वाभावस्तदवस्थ इत्यर्थः । पूर्वापरीभूतेति, जुहुयादित्याख्यातपदवाच्या क्रिया पूर्वापरीभूतावयवा प्रत्यक्षेणावयवशः समूहरूपेण चादृष्टा साध्यमानावस्था, यथा परमाणवः कार्यात्मना स्थिता उपलभ्यन्ते न केवलाः एवं पिण्डीभावाभावान क्रिया प्रत्यक्षा । नामपदवाच्यन्तु कार्यात्मना स्थितं सिद्धरूपं वस्तु , भावप्रधानमाख्यातं सत्त्वप्रधानानि नामानीत्यभियुक्तोक्तः । जुहोतेीति, हुधातोहि विधिप्रत्यय उत्पन्न इति पदैकवाक्यतया तस्यैव विधिना सहान्वयः नान्यस्य, पदैकवाक्यता च तत्रैव यत्र पदजन्यपदार्थोपस्थितिमात्रेण पदार्थयोः परस्परान्वयेन वाक्यार्थी निष्पद्यते । यथा जुहयात् होमेन भावयेदित्यादि, अग्निहोत्रादीनान्तु नामधेयत्वेनेतिकर्तव्यतया धात्वर्थरूपकरणपरिच्छेदद्वारा करणत्वेन वाक्यैकवाक्यतयाऽन्वयः, यत्र पदाभिहितपदार्थयोराकांक्षादिभिः सम्बन्धो ज्ञायते ततः शेषशेषिभावाद्याकांक्षायां वाक्यार्थयोरन्वयो भवति तत्र वाक्यैकवाक्यता। मूलकृता तु पदैकवाक्यतामाश्रित्याग्निहोत्रहवनकर्तव्यताबोधकत्वाभाव उक्तः, विविक्तार्थवाचित्वाभिमतानां शब्दानामिति, प्रत्ययानां प्रकृत्यान्वितस्वार्थबोधकत्वस्य नियतत्वात् समानपदेनैव हुधातुना सम्बन्धान पदान्तरेणाग्निहोत्रपदेन सम्बन्ध इति भावः। पदान्तरकर्त्तव्यतायां कथं प्रवर्तते'त्यस्य परिहारोऽथ तदेव 20 2010_04 Page #193 -------------------------------------------------------------------------- ________________ अग्निहोत्रपद सार्थक्यम् ] न्यायागमानुसारिणीव्याख्यासमेतम् १४३ येन समानो ब्रह्मचारी तेन सब्रह्मचारिणा य एवाधीते तेनैव समान इत्याकांक्षा भवति । ननु यथा पदार्थे परिच्छिन्ने न पदार्थान्तरमपेक्ष्यते पदेन तथा घटवदग्निहोत्रशब्दोऽप्यर्थवत्त्वम-पेक्षते न वेदेवं ततोऽग्निहोत्रशब्दः प्रमादाधीन आपद्येत, तत एवं वचनव्यक्तिर्भवति अग्निहोत्राख्यं हवनं कुर्यात् घटवदिति । पदान्तरकर्त्तव्यतायां तावदित्यादि, तावच्छन्दः क्रमार्थे यत्तावदुक्तं 'पदान्तरकर्त्त - 5 व्यतायां कथं प्रवर्त्तेत' इत्यत्र परिहारोऽस्मिन् परिहारे चाभिहितौ पौनरुक्त्याप्रसिद्विदोषावपि तदेव तदित्येतत्पक्षगतौ परिहृतावेवेत्यभिप्रायः । तत्र हवनं पदान्तरकर्त्तव्यतामपेक्षते, केन न्यायेन ? वाक्यन्यायेन, को वाक्यन्यायः ? भेदसंसर्गाभ्यां परस्पराकांक्षा सम्बन्धः, तयाssकाङ्क्षया पदान्तरार्थे वर्त्तते पदम्, यथा सब्रह्मचारिणा सहाधीत इत्युक्ते येन समानो ब्रह्मचारी तेन सब्रह्मचारिणा य एवाधीते तेनैव समान इत्याकांक्षा भवति सामर्थ्यात्, नान्येन केनचित्सामान्यमपेक्षत इत्यर्थः । ननु 10 यथा पदार्थे परिच्छिने घट इति न पदार्थान्तरमपेक्ष्यते पदेन सा पुनरपेक्षा घटवत्-घटशब्दवत्, अभेदनिर्देशाद्धटार्थत्वेन घट शब्द उक्तः, घटशब्दस्यार्थवत्त्ववदग्निहोत्रशब्दः सर्वथाप्यर्थवत्त्वमपेक्षते, अन्यथाऽग्निहोत्रशब्दोऽनर्थकः स्यात् तन्मा भूत्तदानर्थक्यमित्याकांक्षते, न चेदेवं ततो दोष इति, यदि तु निरपेक्षोऽग्निहोत्रशब्दो हवनप्रकृत्यर्थमात्र एव वर्त्तते ततः को दोषः ? ततोऽग्निहोत्रशब्दः प्रमादाधीन आपद्यते, अग्निहोत्रशब्दस्य च न पृथक् कश्चिदर्थो हवनप्रकृत्यर्थमात्रत्वात्ततश्च दश दाडिमादिश्लोका - 15 बयववत् प्रमादाधीन आपद्यते निराकाङ्क्षत्वात् न पुनरेवमिष्यते, तत एवं वचनव्यक्तिर्भवति 'अग्निहोत्राख्यं हवनं कुर्यात् अग्निहोत्रसंज्ञक्रियाकांक्षा हवनं कुर्यादिति, किमिव ? घटवत्, यथा घटं कुर्यादित्युक्ते सामान्यचोदनायाः श्रवणाद्विशेषाभिसम्बन्धमन्तरेण नैरर्थक्यं स्यात्तन्मा भूदिति घट कुर्यात् घटक्रियां कुर्यादिति वचनव्यक्तिस्तथाऽग्निहोत्रं जुहुयादिति । तदित्यनेन कृतः, तस्मिन् परिहारे पौनरुक्तत्यप्रसिद्धिविरोधदोषौ समायातौ तौ च 'पदान्तरकर्तव्यतायां तावदिति ग्रंथेन 20 परिहृताविति क्रमार्थो विज्ञेय इत्याह-यत्तावदुक्तमिति । वाक्यैकवाक्यतामवलव्य परिहारो द्रष्टव्यः । मेदसंसर्गाभ्या मिति, वृत्तौ हि सामर्थ्यं मेदः संसर्गो वा, यदि वृत्तौ तौ न स्यातां तदा सामर्थ्यमेव न स्यात्, तत्र भेदः संसर्गाविनाभावित्वादनुमीयमानसंसर्गः सामर्थ्यम्, संसर्गे वा मेदाविनाभावित्वादनुमेयमेदः । मेदसंसर्गवानेवार्थो वृत्त्योपस्थाप्यते मेदसंसर्गवदर्थ प्रातिपदिकत्वमेवैकार्थीभावसामर्थ्यम्, यथा राज्ञ इत्युक्ते सर्वं स्वं प्रसक्तं षष्ठ्या सम्बन्धिमात्रस्याक्षेपात् यदा पुरुषस्य पारतंत्र्यं प्रमाणान्तरेण प्रतिपन्नं तदा पुरुष इत्युक्ते सर्वः स्वामी प्रसक्तः, इहेदानीं राजपुरुषमानयेत्युक्ते राजा पुरुष 25 निवर्त्तयत्यन्येभ्यः स्वामिभ्यः, पुरुषोऽपि राजानमन्येभ्यः, स्वत्वसमानाधिकरणो राजभिन्नखामिकमेदो राजसंसर्गव्याप्यः, एवं वृत्त्युपस्थाप्य राजसम्बन्धवव्याक्तिगतराजसम्बन्धो राजभिन्नखामिकभेदव्याप्य इति बोधः, समाने साधारणे ब्रह्मणि वेदे यो व्रतं चरति सब्रह्मचारी, ब्रह्मण्युपपदे समानपूर्वे ब्रते कर्मणि चरेर्णिः व्रतलोपश्च बोध्यः । तदेव परस्परव्यावर्त्तनं प्रदर्शयति यथेति । खार्थे परिच्छिने सति सर्वेषां पदानामपेक्षा शाम्यति, यदि तु पदार्थान्तरपरिच्छेदमन्तरेण पदस्यार्थवत्त्वं न भवेत्तर्ह्यपेक्षेत पदार्थान्तरं न चैवमस्तीत्याह - ननु यथेति । शब्दार्थयोरमेदाद्धटवदिति घटार्थद्वारेण घटशब्द उक्त इत्याह- 30 अमेदनिर्देशादिति, अर्थवतां शब्दानामेव प्रयोगस्यावश्यकतयाऽग्निहोत्र शब्दस्य हवनमात्रार्थत्वे तस्य हुधातुनैव लाभादनिहोत्रशब्दस्य पृथगर्थाभावेन प्रमादाधीनस्तत्प्रयोगो निरर्थको भवेदित्याह-अग्निहोत्रशब्द इति । दश दाडिमादीति, दश दाडिमानि षडपूपाः कुण्डमजाजिनं पललपिण्डः अधरोरुकमेतत्कुमार्या स्फैयकृतस्य पिता प्रतिशीन इत्यनर्थकानि वाक्यानि श्लोकस्तु न दृष्टः । अग्निहोत्राख्यं हवनं कुर्यादिति, खण्डदेवस्तु अग्निहोत्राख्यहोमो न धात्वर्थावच्छेदकः, स्वस्मिन् स्वस्यावच्छेदकत्वानुपपत्तेः, नहि संभवति अग्निसम्बन्धिहोमेन होमेनेष्टं कुर्यादिति, किन्तु अग्निदेवताकहोमत्वरूपरूपान्तरप्रका-' 35 2010_04 Page #194 -------------------------------------------------------------------------- ________________ १४४ द्वादशारनयचक्रम् [विधिविध्यरे - आचार्य आह एतदयुक्तं दृष्टान्तवैषम्यादर्थभेदासिद्धः, न हि किश्चिदग्निहोत्रं नाम घटवत् प्रसिद्धं यदनूद्योच्येत, न हि साधर्येण यदग्निहोत्रसंज्ञकं हवनं तत्कुर्यादित्यग्निहोत्रहवनयोरैक्येन तद्विषयं करणमनुविधीयेत, नापि वैधयेण हवनं यत्कुर्यादिति हवनक्रियामनूद्य तदग्निहोत्रा5 ख्यमित्यैक्येन विधानं युज्येत, परेणाग्निहोत्रस्य हवनस्य वाऽविहितत्वादत एव तूभयमप्यशक्यम् , विशेषणं विशेष्यं च, प्रधानमुपसर्जनश्च, विधिरनुवादश्च, शेषः शेषी च, उत्सर्गो:पवादश्चान्यतरस्याप्यर्थाप्रतीतेः, यदि विशेष्येणैव विशेषणीयं हवनं कुर्यात्तच्चाग्निहोत्रसंज्ञकमिति, अग्निहोत्रं वा हवनमिति तच्च नैवं शक्यमप्रसिद्धार्थत्वात् । (एतदिति) एतदयुक्तं दृष्टान्तवैषम्यादर्थभेदासिद्धेः, अभ्युपेत्याप्याकांक्षितमर्थभेदमग्निहोत्रहव10 नयोरप्रसिद्धेदृष्टान्तेन प्रसिद्धेन घटेन वैषम्यमिति, तद्दर्शयति-न हि किश्चिदग्निहोत्रं नाम हवनं घटवत् । प्रसिद्धं यदनूद्योच्येत, यथा घटं लोके प्रसिद्धमनूद्य तद्विषयं कर्म कुर्यादित्युच्यते, न ताहगनुवदनमत्रोपपन्नमप्रसिद्धत्वादग्निहोत्रहवनयो, नाप्याकांक्षाकृतमैक्यमस्तीति तद्दर्शयति-न हि साधर्म्यण यदमिहोत्रसंज्ञकं हवनं तत्कुर्यादित्यग्निहोत्रहवनयोरैक्येन प्रसिद्धौ सत्यां तद्विषयं करणमनुविधीयेत, नापि वैधय॑ण हवनं यत्कुर्यादिति हवनक्रियामनूद्य तदग्निहोत्राख्यमित्यैक्येन विधानं युज्यते परेणाग्निहोत्रस्य 15 हवनस्य वाऽविहितत्वात्-लोके शास्त्रान्तरेण वा प्रमाणान्तरेण वाऽप्रसिद्धत्वादग्निहोत्रहवनक्रिययोः कथमनूद्य विधानं घटते । अत एव तूभयमप्यशक्यम् , अत:-इत्येतस्मादनंतरोक्ताद्धेतोर्वाक्यान्तरेण प्रमाणान्तरेण वाऽप्रतीतत्वादुभयमप्यशक्यं-विशेषणं विशेष्यञ्च, प्रधानमुपसर्जनश्च, विधिरनुवादश्च, शेषः शेषी च, उत्सर्गोऽपवादश्च, अन्यतरस्याप्यर्थाप्रतीतेः, किं हवनक्रियाविशेषणमग्निहोत्रं विशेष्यमग्निहोत्रं विशेषणं हवनं विशेष्यमिति, एवं प्रधानोपसर्जनविध्यनुवादोत्सर्गापवादशेषशेषिभावादिषु खपुष्पखर20 विषाणयोरिवायुक्तमिति, तुशब्द एवकारार्थविशेषणे प्रोक्तवदेव विशेषणत्वादि न घटत इति विशि नष्टि । कथमशक्यमिति चेद्दर्शयति-यदि विशेष्येणैव विशेषणीयं हवनं कुर्यात् तच्चाग्निहोत्रसंज्ञिकमितिहवनक्रिययाऽग्निहोत्रं विशेष्येत, अग्निहोत्रं वा हवनमिति-यदग्निहोत्रं तद्धवनं कर्मेत्यग्निहोत्रेण हवनं विशेष्येत, इतिः प्रदर्शने, इत्थं विशेष्येत यदि विशेषेण विशेष्यतया प्रयोजनमवश्यम् , तच्च नैवं शक्यमप्रसिद्धार्थत्वात् । 25 रकहोमविशेष्यकप्रतीतिजनकत्वेन धात्वर्थतावच्छेदकत्वं तत्र जुहोतिपदेनैव विशेष्याभिधानाद्विशेष्यपरमप्यग्निहोत्रपदं विशेष्यां शेऽनुवादकमिति, यद्विधानार्थं यदुपपदमिति विवक्ष्यते तदर्थस्य द्रव्यस्य देवताया वा प्रमाणान्तरेण प्राप्तौ तत्पदं नामधेयमित्याह। नामधेयस्य चान्वतिरिक्तस्य डिस्थादिवत् कचित्प्रसिद्धिरावश्यकीति. अत्र हवनशब्देन घटादिशब्देनेव सिद्धरूपः कश्चनार्थो प्रन्थकर्तुर्विवक्षित इति प्रतिभाति, अत एव क्रियाकांक्षा हवनं कुर्यादित्युच्यते. क्रियापेक्ष हवनं कुर्यादिति तदर्थः। प्रसिद्धस्यैव - धात्वर्थतावच्छेदकत्वादग्निदेवताकहोमत्वरूपाग्निहोत्रपदार्थस्याप्रसिद्धेर्न तथान्वयो विधातुं शक्यत इत्युत्तरयति-एतदयुक्त. 30 मिति सामानाधिकरण्येन वैयधिकरण्येन वा नाग्निहोत्रहवनयोरन्वय इत्याह-न हीति, मीमांसकास्तु 'अपिज्योति ज्योतिरग्नि'रिति मंत्रेणाग्निदेवता प्रकाश्यते तेनात्राग्नेः प्रसिद्धत्वात्तत्पदं नामधेयं धात्वर्थसमानाधिकरणत्वादिति वदन्ति.। परेणेति, शास्त्रान्तरेण प्रमाणान्तरेण वेत्यर्थः शास्त्रान्तरं मीमांसाव्यतिरिकं प्रमाणान्तरं वेदातिरिक्तं प्राह्यमन्यथाऽग्निहोत्रं जुहोतीति वचनान्तरेण हवनस्य प्रसिद्धत्वादप्रसिद्धत्वाभिधानमसङ्गतं भवेत् . अत एव चामिहोत्र शब्दस्य तत्प्रख्यशास्त्रेण नाम 2010_04 Page #195 -------------------------------------------------------------------------- ________________ क्रियाया अप्रसिद्धिः] न्यायागमानुसारिणीव्याख्यासमेतम् यदप्युक्तमनूयाग्निहोत्रं हवनक्रिया विधीयते हवनं वाऽनूद्यामिहोत्रं विधीयत इत्येतदयुक्तम् पाक्यभेदापत्तेरित्यत आह अनुवादविधिविषयत्वे वाक्यभेदापत्तेः। अनुवादविधिविषयत्वे वाक्यभेदापत्तेरिति, तत्रैकं ह्यनुवादकमेकं विधायकम् , तयोरन्यतरद्यथेष्टं तेऽस्तु, ततो भिन्नार्थत्वाद्वाक्यभेदोऽनयोरापद्यते, यथा कुशलतरोऽनयोर्देवदत्तो ज्ञेय इति । प्रसिद्धार्थमनूद्याऽऽनयैनमित्यानयनं विधीयते । देवदत्तमानयेति देवदत्तानयनं वा विधाय विदुषोरयं कुशलतरोऽनयोरिति प्रसिद्धार्थानुवादविधिविषये द्वे वाक्ये, एवमेकस्यानुवादत्वेऽन्यस्य च विधित्वे वाक्यभेदापत्तिरतो नैतदपि व्याख्यानं शोभत इति । ___स्यान्मतं वाक्यभेदापत्त्यादिदोषा न सम्भवन्ति क्रियाया एव विधेयत्वाद्यथोक्तं 'नैतद्विचायेते अनड्वान्नानवानिति किन्तालब्धव्यो नालब्धव्य इति', (महाभा० १-१-४३ सूत्रे) तथा 10 'स्वभावासिद्धं द्रव्यं क्रिया चैव हि भाव्यते (पा० महा० १-३-१)' इति, तस्मादग्निविषया हवनक्रियैव विधीयतेऽतो दृष्टान्तवैषम्यं नास्ति द्रव्यस्याविधेयप्रतिषेध्यत्वात् घटं कुर्यान्मा कार्षीदिति, किं तर्हि ? घटक्रियां कुर्यादिति तथा हवनं कुर्यादमिहोत्रं कुर्यादिति हवनाग्निहोत्रक्रिययोरतिदेशो न्याय्य इत्यत्रोच्यते नापि घटादिकर्त्तव्यतेव काचिदग्निहोत्रकर्त्तव्यता नाम प्रोक्षणबहिरास्तरणाज्यप्रक्षेपा-10 धुपक्रमात्मिका मन्त्रपूर्वक्रिया क्रमवती प्रसिद्धा ययाऽग्निहोत्राख्यता हवनस्यातिदिश्येत, हवनाख्यता वाऽग्निहोत्रस्य । नापि घटादिकर्त्तव्यतेवेत्यादि, यथा घटादिविषया कर्त्तव्यता मृदानयनमर्दनाशुपक्रमात्मिका लोके प्रसिद्धा न तथा काचिदग्निहवनकर्त्तव्यता नाम प्रोक्षणबहिरास्तरणाज्यप्रक्षेपाापक्रमात्मिका मनपूर्व क्रिया क्रमवती प्रसिद्धा, या कर्त्तव्यतयाऽतिदिश्येत हवनाख्ययाऽग्निहोत्राख्यता अमिहोत्रा- 20 ख्यया वा हवनाख्यताऽतिदिश्येतेति ।। धेयत्वमङ्गीक्रियते, उक्तञ्च 'विधित्सितगुणप्रापिशास्त्रमन्यद्यतस्त्विह। तस्मात्तत्प्रापणं व्यर्थमिति नामत्वमिष्यते' इति । अप्रसि. द्धार्थत्वादिति, न तावदत्राप्रसिद्धार्थत्वं प्रमाणान्तरेणाप्राप्तत्वरूपम् ; अग्निहोमयोः अग्निोतिरित्यनेनामिहोत्रं जुहोतीत्यनेन च तैः प्राप्तत्वाङ्गीकारात् किन्तु लोकतत्त्वान्वेषणस्याशक्यप्राप्त्यफलत्वाभ्युपगमादिति बोध्यम्। वाक्यमेदापत्तेरिति, अमिहोत्रं जुहुयात् स्वर्गकाम इत्येकस्यैव वाक्यस्योक्तोभयार्थत्वे वाक्यमेदो बोध्यः । अत्र वाक्यमेदः तद्वाक्यस्यावृत्त्या, अन्यथार्थद्वया- 25 नधिगतेः न तु भिन्नप्रतीतिविषयानेकमुख्यविशेष्यराहिये सति विभज्यमानसाकांक्षत्वमेकवाक्यत्वम् , तत्रैकस्य कस्यापि दलस्याभावे च वाक्यमेद इति मीमांसकाभिमतो वाक्यमेदः सम्भवति । एकोद्देशेन प्रधानद्वयविधान एव हि वाक्यमेदस्तेषामभिमतः। मैतद्विचार्यत इति. मेध्यः पशुर्विभाषितो मेध्योऽनद्धान विभाषित इत्यत्र पश्वनड़हौ विकल्पविषयाविति न विचार्य न्त्वालम्बनादिक्रियैव विकल्प्यते योग्यत्वात् , द्रव्यन्तु न विधेयं न वा प्रतिषेध्यम् , अत एव न घटो विधेयो निषेध्यो वा, किन्तु तक्रियैव, एवमग्निहोत्रहवनयो व्यखरूपयोर्न विधानं किन्तु तक्रिययोरेवेति भावः। तथा स्वभावसिद्धमिति, भाव्यते 30 यः स भावः कर्मसाधनः, भाववचनश्च धातुसंज्ञो भवति, क्रिया हि भाव्यते तेन साध्यमानार्थवाचिनां धातुसंज्ञा, घटमकार्षीत् , घटं करोति घट करिष्यतीत्यादौ कृतताक्रियमाणताकर्तव्यतायुक्तान्यपि घटादिद्रव्याणि सिद्धरूपाण्येव प्रातिपदिकेना. भिधीयन्ते स्वभावसिद्धन्तु द्रव्यम्-खभावेम-शब्दशक्तिखभावेन सिद्धं सूक्ष्मरूपेण सिद्धावस्थमेव द्रव्यशब्दवाच्यम्, अत एक 'तस्य क्रियाकांक्षा, यद्यपि क्रियापि सूक्ष्मरूपेण सिद्धावस्था तथापि सा शब्दशक्तिखाभाव्यात् स्थूलरूपेण साध्यतयैव प्रतीयत इति बोध्यमिति भूवादिसूत्रे (१-३-१) भाष्ये विवृतम् । प्रसिद्धति. लोके प्रसिद्धेत्यर्थः, शास्त्रप्रसिद्धर्वचनान्तरेण सरनात् । द्वा. न. १९ 2010_04 Page #196 -------------------------------------------------------------------------- ________________ द्वादशारनयचक्रम् [ विधिविधयरे अथ पुनरुच्येत नैव हवनं कुर्यादित्युच्यते किं तर्हि ? अग्निहोत्रं कुर्यादित्याश्रीयते जुहुयादित्ययं कुर्यादर्थ एव, अग्निहोत्रशब्देन तु तद्विशेषभूतो जुहोतेरर्थोऽभिहित एव तस्मादग्निहोत्रं कुर्यादित्ययमर्थ इति । अथ पुनरित्यादि, अथेत्यधिकारान्तरे, पक्षान्तरमधिकारान्तरम्, अनन्तरोक्तविधिना न 5 निर्वहति वनं कुर्यात् - जुहुयादिति, हवनविधावग्निहोत्रानुवाद इत्यस्मिन्नर्थेऽप्रसिद्धत्वाद्विशेषणविशेव्यताद्यभावाद्वाक्यभेदापत्तेश्च द्रव्यस्य क्रियाया वा विधाने निर्वोदुमशक्ये परेणोच्येत - नैव हवनं कुर्यादितीत्यादिहवन कर्त्तव्यतार्थतात्यागेन परिहारं मन्यते पक्षान्तरसंश्रये चोपपत्तिं निर्दोषञ्च । कतमत् पुनः पक्षान्तरमित्यत आह- किं तर्हि ? अग्निहोत्रं कुर्यादित्येतत्पक्षान्तरमाश्रीयते, उपपत्तिश्चात्राग्निहोत्रशब्दे जुहोतेर्धातोर्दर्शितार्थत्वात् कत्तृप्रत्ययार्थेन कृता दर्शितार्थत्वात्, अयं जुहुयादिति हुधातुर्लिंङ्प्र10 त्ययान्तः, स च लिङ् कर्त्तरि विहितः, 'कर्त्तरि कृत्' ( पा० ३।४।६७) 'लः कर्मणि च ' ( पा० ३।४।६९) इति । कर्त्तृशब्दश्च कृन् प्रकृतिस्तृजन्तः कर्त्तरि - क्रियाया निर्वर्त्तकेऽभिधेये कृतो लकाराश्च भवन्तीति । तथा कर्मणि विहितोऽपि कृल्लकारः कर्म नातिवर्त्तते भावे विहितस्तु क्रियामात्रावात् एव किं करोतीति सर्वक्रियाविशेषेषु पचत्यादिषु विशेषप्रश्नदर्शनात्, जुहुयादित्ययं कुर्यादित्यर्थ एव । यथा भूयते देवदत्तेन सुप्यते देवदत्तेनेत्येवमाद्यकर्मकेष्वपि स्वपिति भवतीति । 15 अग्निहोत्रशब्देन पुनस्तद्विशेषभूतो जुहोतेरर्थोऽभिहित एव, तस्मादग्निहोत्रं कुर्यादित्ययमर्थ इति । १४६ अत्रोच्यते एवमपि कर्त्तृप्रत्ययान्तकृञ्दर्शनेन जुहोत्यर्थत्यागोऽर्थभेदश्च कर्त्तृविशिष्टक्रियासामान्यमात्रवाचित्वाभ्युपगमात्, जुहोतेश्च क्रियाविशेषत्वात्, जुहुयाच्छन्दोऽपि होत्रशब्दार्थ होत्रशब्दोऽपि जुहुयाच्छब्दार्थं ब्रवीतीति नामाख्यातयोः प्रत्येकं द्व्यर्थवृत्तित्वादभेदश्चेत्येवं 20 शब्दार्थसङ्करः प्रसिद्धिविरोधश्च जुहोत्यर्थत्यागवत्सर्वधात्वर्थविशेषत्यागस्ततश्च तत्त्यागापत्तिरपि विशेषाभावे निराश्रयस्य सामान्यस्याभावात् । एवमपीति, कर्त्तृप्रत्ययान्तकृञ् दर्शनेनेति परोक्तं प्रत्युच्चारयति एवं- इदानीं कुर्यादग्निहोत्रमित्येतत्पक्षान्तरे, होत्रशब्दस्य हवनार्थता कर्त्तृप्रत्ययान्तकृनर्थता च जुहोतेरित्येतत् त्वयोक्तं मया युक्त्या सहावधारितम्, तथापि जुहोत्यर्थस्य त्यागोऽर्थभेदश्च, जुहोत्यर्थत्यागस्तावत् कर्त्तृविशिष्टक्रिया सामान्य25 अधिकारान्तरश्चात्र पक्षान्तरमेवेलाह- पक्षान्तरमिति । जुहुयादित्यस्य हवनं कुर्यादित्यर्थो न सम्भवति पूर्वोदिताप्रसिद्धार्थ - त्वादिदोषात् अतो हवनलक्षणद्रव्यस्य क्रियाया वा विधानं न क्रियते, अपि तु हवनकर्त्तव्यताविधानार्थत्वपरित्यागेन जुहुयादित्यस्य कुर्यादित्येवार्थ: स्वीक्रियते, हुधात्वर्थस्य चाग्निहोत्र शब्दघटककृत्प्रत्ययान्तहोत्रशब्देन दर्शितत्वादित्याशयेनाह-अनन्तरोक्तविधिनेत्यादि । किं करोतीति, व्यापारसामान्यवाची करोतिः, किं करोतीत्यस्य यत्करोति तत्किमिति व्यापारविशेषविषयप्रश्नोऽर्थः, पचतीति प्रतिवचनं तु तत्प्रश्ननिराकरणाय । जुहुयादिति, अनन्यलभ्यस्य शब्दार्थवाद्धवनस्या30 मिहोत्रशब्देन लाभाज्जुहुयाच्छब्दो कुर्यादर्थे वर्त्तत इति भावः । जुहुयादित्यत्र हुधातुलिंङ्प्रत्ययश्च वर्त्तते लिङ्च कर्त्तरि विहितः कर्त्ता च कृष्प्रकृतिस्तृजन्तस्तथा च लिङः कुर्यादित्यर्थः, हुधात्वर्थस्य प्राप्तत्वाज्जुहुयाच्छब्दः केवलं कुर्यादिति क्रियासामान्यवाचक एवेति तात्पर्यम् । कर्त्तृप्रत्ययान्तकृञ् दर्शनेनेति, लिडा कुर्यादित्यस्य बोधनाज्जुहोत्यर्थत्यागः, जुहुयादित्यस्य कुर्यादिति कर्तृविशिष्टक्रियासामान्यवान्चित्वाभ्युपगमेनार्थभेदश्च विशेषक्रियाया हवनरूपायास्त्यागात्, अत एव च 2010_04 Page #197 -------------------------------------------------------------------------- ________________ जुहोत्यर्थभागः] न्यायागमानुसारिणीव्याख्यासमेतम् १४७ मात्रवाचित्वाभ्युपगमाज्जुहोतेश्च क्रियाविशेषत्वात् । सामान्यविशेषयोश्चान्योऽन्यतो भिन्नत्वात् , कुर्याच्छब्दार्थ जुहुयाच्छब्दो ब्रवीतीति वचनात् , होत्रशब्देन दर्शितार्थत्वाजुहोतिरनर्थक इति त्वयैव त्यतत्वात् ततश्च जुहुयाच्छब्दोऽपि होत्रशब्दार्थ होत्रशब्दोऽपि जुहुयाच्छब्दार्थं ब्रवीतीति नामाख्यातयोः प्रत्येकं व्यर्थवृत्तित्वादभेदश्च, होनशब्दः क्रियावाची नामवाची च तथा जुहुयाच्छब्दोऽपीत्येवं शब्दार्थसङ्करः प्रसिद्धिविरोधश्च जायते, यथा पूर्वापरीभूतभावमाख्यातमाचष्टे प्रेजते पचतीत्युपक्रमप्रभृत्य-। पवर्गपर्यवसानभूतम् , सत्त्वं नामेति तद्विरोधापत्तिरिति जुहोत्यर्थत्यागभेदाभ्यां हेतुभ्यां जुहोत्यर्थत्यागवत् सर्वधात्वर्थविशेषत्यागः, यथा जुहोतिः कर्तप्रत्ययान्तस्तत्सर्वप्रकृत्यर्थवानेवं पचतिपठत्यादयः सर्वे धातवो धातुत्वात्तद्वाचिनः, तस्मात् सर्वधात्वर्थविशेषाः त्यक्ताः, विशेषशब्दस्य भेदार्थत्वान्नामाख्यातळ्यर्थवृत्तित्वात् पूर्वोक्तकरीत्यर्थवद्भिन्नार्थता च, ततश्च सर्वधात्वर्थविशेषत्यागात्तत्त्यागापत्तिरपि, तस्य कृअर्थस्य सर्वधात्वर्थसामान्यभूतस्यापि त्याग आपद्यते । किं कारणम् ? विशेषाभावे निराश्रयस्य 10 सामान्यस्याभावात् करोतीत्युक्ते किं करोति ? जुहोति पचति पठतीत्यादिविशेषसंश्रयेण विना करोतेर• र्थाभावात् । अपिशब्दात् सङ्करप्रसिद्धिविरोधपौनरुत्त्यदोषाश्च । आसन्नश्रुताग्निहोत्रकर्त्तव्यत्वान्नेति चेन्न, आसन्नतरश्रुतजुहोत्यर्थत्यागात् पदान्तरार्थे कथं वर्तेत? (आसन्नेति) स्यान्मतं संसर्गभेदभिन्नात्सामर्थ्याच्छब्दपृच्छार्थव्यवच्छेदो विशेषलिङ्गाद्भ- 15 वति यथाऽऽह-'संसर्गो विप्रयोगश्च साहचर्य विरोधिता । अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य सन्निधिः ॥ सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरादयः । शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ॥' (वाक्यपदीये का० २ का० ३१७ ) इति, तत्र यच्छब्दसन्निधिसंज्ञकं सामर्थ्य तद्व्यवच्छेदकारणमिहाप्यस्ति, तद्यथा-आसन्नश्रुताग्निहोत्रशब्दात् तच्चोदितकर्त्तव्यतैवान सम्बध्यते, तस्मान सामान्यविशेषक्रिययोः परस्परं भेद इति भावः । ततश्चेति, होत्रशब्दः वलन्तेन हुधातुना निष्पन्नः, वल्प्रत्ययश्च कर्तरि 20 विहित इति होत्रशब्देन हवनकर्तृत्वस्य बोधः जुहुयाच्छब्देनापि हवनकर्तृत्वस्य बोध इति जुहुयाच्छब्दः खार्थ होत्रशब्दार्थच । ब्रवीति, होत्रशब्दोऽपि खार्थ जुहुयाच्छब्दार्थञ्च, होनेति नाम्नो जुहुयादित्याख्यातस्य च प्रत्येकं नामार्थक्रियार्थयोवृत्तित्वादमेदेन शब्दार्थसङ्करः पूर्वापरीभूता क्रिया हि आख्यातार्थः, सत्त्वं नामार्थः क्रियाप्रधानमाख्यातं सत्त्वप्रधानानि नामानीत्युक्तः, तथा चास्याः प्रसिद्धेविरोध आपद्यत इति भावः। ननु यथा जुहयादिति पदं खार्थपरित्यागेन कुर्यादित्यर्थे वर्तते तथैव धातुत्वातू पचतिपठतीत्यादयः सर्वे धातवः स्वस्वार्थपरित्यागेन करोत्यर्थवाचका भवेयुरेवञ्च क्रियाविशेषमात्रभावप्रसङ्गेन क्रियासामान्य-25 स्याप्यभावः स्यादित्याशयेनाह-जुहोत्यथेति । विशेषाभाव इति, पचादयो हि क्रियाविशेषवचनाः सामान्यक्रियावाचिना . करोतिना सामानाधिकरण्यात् , किं करोतीति क्रिया प्रश्नजनकजिज्ञासायां तद्विषयेण पचतिपठतीत्याद्युत्तरेण निरासाद्विशेषक्रियावाचकत्वं पचादीनाम् । तथा च विशेषाणां धात्वर्थानां त्यागे निर्विशेषं न सामान्यमिति न्यायेन सामान्यक्रियाया अप्यभाव इति भावः । स्यान्मतमिति, शब्दोऽयं कस्मिन्नर्थे विद्यत इति पृच्छायां, तन्निर्णायकतया विशेषलिङ्गभूताः संसर्गादयो भवन्ति स विशेषोऽत्राप्यस्तीति भावः। संसर्ग इति, एते संयोगादयः शब्दार्थस्यानवच्छेदे सन्देहे तदपाकरणद्वारेण विशेषस्मृ-30 तिहेतवो निर्णयहेतव इत्यर्थः, उपस्थितानां बहूनामन्यतरमात्रार्थतात्पर्यनिर्णयद्वारा तन्मात्रार्थविषयकान्वयबोधजनका इति . भावः । सवत्सा धेनुः अवत्सा धेनुरिति संसर्गविप्रयोगयोरुदाहरणे, रामलक्ष्मणावित्यादी साहचर्येण, रामा नगतिस्तयोरित्यत्र विरोधेन भार्गवे, अञ्जलिना जुहोतीत्यादौ जुहोत्यादिपदार्थवशात् अञ्जलिपदस्य तत्तदाकाराञ्जलिपरत्वम् , सैन्धवमानयेत्यादौ प्रकरणेन, अक्ताः शर्करा उपदधातीत्यादौ तेजो वै घृतमति स्तुतिलिङ्गेनाक्ता इत्यस्य घृतसाधनाजनपरत्वम् , रामो जामदग्य 2010_04 Page #198 -------------------------------------------------------------------------- ________________ १४८ द्वादशारनयचक्रम् [विधिविध्यरे जुहोत्यर्थस्त्यक्तः कर्तृप्रत्ययान्तकृञ्दर्शने सत्यप्यग्निहोत्रं कुर्यादिति हवनविशेषस्यैव करणस्योपादानात् , घेदित्याशङ्कायाम् एवश्वेन्मन्यसे तदपि न, आसन्नतरश्रुतजुहोत्यर्थत्यागात्, यथाऽऽसन्नश्रुतामिहोत्रसान्निध्यात्तदर्थोपादानं न्याय्यं मन्यसे ततोऽप्यासन्नतरजुहोतिशब्दार्थोपादानं न्याय्यतरं किं न मन्यसे ? स चार्थस्यक्तस्त्वया, तदुपादानेऽपि चाप्रसिद्धतादिदोषास्तवस्थाः, स्वपदार्थ त्यक्त्वा पदान्तरार्थे कथं 5 वर्त्ततेति । उक्तमभ्युपेत्य पदान्तरार्थाभिधाने दोष उच्यते परपदार्थविधानेऽपि च पदान्तरपरिश्रुतहोत्रमात्रवृत्तत्वाजुहुयादर्थमात्रमेवेति कुर्यादर्थोपादानमभेदकम् । (परेति) पदान्तरे-अग्निहोत्रपदे परिश्रुतं-परिगतं ज्ञातं, किं तत् ? होत्रमात्रं न तद्वपतिरि10 क्तमर्थान्तरं गम्यते, अतो जुहुयादित्येतस्य शब्दस्य योऽर्थस्तन्मात्र एव वृत्तः कुर्याच्छब्दः । इतिशब्दो हेत्वर्थे, अस्माद्धेतोर्जुहुयाच्छब्दार्थमात्रत्वाच्च कुर्यादित्यस्यार्थस्योपादानमभेदकम् , नास्ति भेदोऽस्येत्यभेदकमभिन्नार्थम् । कुतो भिन्नार्थं न भवतीति चेत् ? हवनं कुर्यादित्यस्माद्वाक्यार्थात् , तस्मात्त एव दोषाः । स्यान्मतम् ___ मात्रग्रहणासिद्धिः, अग्निपदविशिष्टसमासत्वादित्येतच्चायुक्तम् , तिङ्प्रत्ययार्थैकीभूत1 प्रकृत्यर्थत्वात् , यथा प्रलम्बतेऽध्यागच्छतीति । (मात्रेति) मात्रग्रहणासिद्धिरग्निपदविशिष्टसमासत्वात् न हि होममात्रमेव श्रूयते, किं तर्हि ? अमेरमावमये वा होत्रमनिहोत्रं तत्कुर्यादिति भिन्नोऽर्थ इति, एतच्चायुक्तम् , तिप्रत्ययार्थेकीभूतप्रकृत्यर्थत्वात् , होत्रमात्रवृत्तत्वं सिद्धमेवेत्यर्थः । यत्र तिङ्प्रत्ययार्थनकीभूतः प्रकृत्यर्थस्तत्र प्रकृत्यर्थमात्रवृत्तिता दृष्टा, यथा प्रलम्बतेऽध्यागच्छतीति । 20 इत्यादौ समिधानेन परशुरामपरत्वम् , अभिरूपाय कन्या प्रदेयेत्यादौ सामर्थ्यादभिरूपतरायेत्यर्थः, यश्च निम्बं परशुनेत्यादौ परशुनेत्यस्यौचित्याच्छेदनार्थत्वम् , भात्यत्र परमेश्वर इत्यादौ राजधानीरूपाद्देशात् परमेश्वरपदं राजबोधकम् , चित्रभानुर्भातीत्यादौ रात्रौ वह्निबोधकत्वं दिवा च सूर्यस्य बोधकत्वं चित्रभानुपदस्य मित्रो भाति मित्रं भाति इत्याये लिङ्गव्यक्त्या रविरन्ये सुहृदर्थः । यच्छब्दसन्निधिसंज्ञकमिति, अग्निहोत्रशब्दसन्निधिविशेषक्रियाया व्यवच्छेदको निर्णायकोऽत्राप्य स्वीति जुहुयादिति पदं सामान्य क्रियाबोधकमपि हवन क्रियाविशेषकरणककर्तव्यतामेव ब्रवीतीति न जुहोत्यर्थस्त्यक्त इति पूर्व28 पक्षाशयः । आसन्नतरेति, अमिहोत्रपदापेक्षयाऽप्यत्यन्तासन्नहुधात्वर्थत्यागोऽस्त्येव, आसन्नभूतेनार्थेनार्थवत्त्वे हुधात्वर्थे नैवासनतरेण कुतो नार्थवत्त्वम् ? अर्थवत्त्वेऽपि च पूर्वोक्ताप्रसिद्धत्वादिदोषा दुर्वाराः खार्थपरित्यागेन पदार्थान्तरे वृत्त्यसम्भव. श्वेति भावः । परपदार्थेति, परपदार्थोऽग्निहोत्रपदार्थः तद्विधानेऽभ्युपगम्यमानेऽपि कुर्याच्छब्दो जुहुयादित्येतस्यार्थमात्रे वर्तते पदान्तरपरिश्रुतहोत्रमात्रवृत्तत्वात् तथा च पूर्वोक्ताद्धवनं कुर्यादिति वाक्यार्थादभिन्नार्थ कुर्यात् पदम् , जुहुयादित्यर्थमात्र• वृत्तित्वादिति भावः । नन्वग्निहोत्रखरूपपदान्तरेण न होत्रमात्रस्यैव परिज्ञानम् , अग्निपदवैयापत्तेः, अतस्तत्पदस्याग्निहोत्र30 पदद्वयघटितत्वेनामिहोत्रं कुर्यादिति हवनं कुर्यादिति वाक्यार्थापेक्षया भिन्नार्थमेवेत्याशङ्कते-मात्रग्रहणासिद्धिरिति । होत्रमित्यत्र जलप्रत्ययेन कुर्यादित्यर्थस्योक्तत्वेन प्रकृतिभूतहुधात्वर्थस्य तत्र सम्बन्धादग्निहोत्रपदं होत्रमात्रवृत्ति, यथा लम्बते, आगच्छतीत्याद्यर्थे एव प्रलम्बतेऽध्यागच्छतीतिपदं वर्तते, तथा चाग्निशब्दस्य न कश्चनार्थ इत्याशयेनाह- तिप्रत्ययाथैकीभूतेति, ननु कुम्भं करोतीति कुम्भकार इत्यादावुपपदसमासस्येव काण्डलावशब्दस्य विग्रहाभाववद्वाऽग्निहोत्रशब्दो 2010_04 Page #199 -------------------------------------------------------------------------- ________________ समासानुपपत्तिः] न्यायागमानुसारिणीव्याख्यासमेतम् वैधय॑ण कुम्भकारवत् काण्डलाववत् समासत्वात् कुम्भकारवदेव विशिष्टार्थत्वमिति चेन्न, अग्निसमासत्वात् , न ह्यस्त्यग्निशब्दस्य होत्रशब्देन तिड्प्रत्ययार्थाकांक्षेण समासः, तिडक न्तेन अस्तिक्षीरा अश्रीतपिबतादिषु समासदर्शनाददोष इति चेन्न परिगणितेभ्योऽन्यत्राभावात् तिङन्तप्रतिरूपकनिपातेषूपात्तत्वाच्च तेषाम् । (कुम्भकारवदिति) (समास इति ) 'सुप्सुपा' (पा. २११४) समर्थन सह समस्यत इति वचनात् । (तेषामिति ) 'अस्ति नास्ति दिष्टं मतिः' (पा० ४।४।६०) इति प्रातिपदिकवत् । अन्यथा देवदत्तः पचतीत्यत्रापि समासः स्यात्, न तु भवति । सामर्थ्याभावाञ्च समासानुपपत्तिः, 'समर्थः पदविधिः (पा० २१११) इत्यधिकारात् । असामर्थ्यश्च सापेक्षत्वात् । ननु प्रधानत्वाद्भवति समासः, न, न चानाग्निशब्दस्य होत्रश-10 ब्दस्य वा प्राधान्यमस्ति, कुर्यात् जुहुयादिति तिङन्तस्य क्रियावाचिनः प्राधान्यात् । अपशब्दश्चायमस्मिन्नर्थे । (सामर्थ्यति) सामर्थ्याभावाच समासानुपपत्तिः, समर्थः पदविधिरित्यधिकारात् , असामय॑श्च सापेक्षत्वात् , यथा शङ्कलाखण्डप्रातिपदिकस्य शङ्कुलया खण्ड इति समासानुपपत्तिः, समर्थः पदविधिरित्यधिकारात् , देवदत्तस्य गुरुकुलमित्यनेन तुल्यं तत् । ननु प्रधानत्वाद्भवति समासः, उक्तं 15 हि भवति च प्रधानस्य सापेक्षस्यापि समासः' (महाभाष्ये २।१।१ समर्थसूत्रे) इति, न चात्रानिशब्दस्य होत्रशब्दस्य वा प्राधान्यमस्ति, कुर्याजुहुयादिति तिङन्तस्य क्रियावाचिनः प्राधान्यात् साधनानां साध्यसिद्ध्यर्थप्रवृत्तित्वात् , अपशब्दो हि नामार्थविशेषविवक्षायां तदभिधायित्वरूपातिकमात् यथा गोणीशब्दो हि सानादिमत्यर्थे, सत्त्वाभिधायि गोशब्द एव, तथा गावीशब्दोऽपि गव्यवसेयः सक्तिर्गावीत्यस्मिन्नर्थे, शब्द एव । तथाचोक्तम् 'यस्तु प्रयुङ्क्ते कुशलो विशेषे शब्दान् यथावद्वयवहार-20 काले । सोऽनन्तमाप्नोति जयं परत्र वाग्योगविदुष्यति चापशब्दैः ॥' (महाभाष्ये १११११) तस्मादपशब्दश्वायमस्मिन्नर्थे, कुर्याच्छब्दार्थोंपादानश्चाभेदकमिति साधूक्तम् । भवत्वित्याशङ्कते-कुम्भकारवदिति, । अनिशब्दस्य हुधातुना सुप्सुपेति न समासस्तिप्रत्ययार्थे साकांक्षत्वेनासमर्थत्वात् अस्ति क्षीरा गौरित्सादावस्तिशब्दस्तिङन्तप्रतिरूपकोऽव्ययः, अस्ति क्षीरं यस्याः सा, 'अनेकमन्यपदार्थ'इति बहुव्रीहिः । अनीत पिबतेत्येवं सततं यत्राभिधीयते साऽश्नीतपिबता, 'आख्यातमाख्यातेन क्रियासातत्य' इति मयूरव्यंसकान्तर्गतत्वा-25 तत्पुरुषसमासः । एवमग्निहोत्रपदस्य न समासः, उपसर्गविभक्तिस्वरप्रतिरूपकशब्दाभावात् , परिगणितेष्वनन्तर्भावाच । समर्थः पदविधिरिति, पदसम्बन्धी यो विधिः स समाश्रितो बोध्य इत्यर्थः, समासो विभक्तिविधानश्च पदविधिः । शलाखण्ड इत्यत्र तु yसद्भावात् तृतीया तत्कृतार्थेन गुणवचनेनेति सूत्रेण समासो भवति शंकुलाकृतखण्डगुणको देवदत्त इत्यर्थः । किन्तु तिष्ठ त्वं शङ्खलया, खण्डो धावति मुसलेनेत्यत्र न समासः सामर्थ्याभावात् तिष्ठ त्वं शंकुलया न प्रयोजनम्, मुसलेन कृतः खण्डो धावतीति तदर्थत्वादिति बोध्यम् । असामर्थ्यञ्च सापेक्षत्वादिति, इतरविशेषणत्वेनोपस्थितस्य 30 खविशेषणे आकांक्षाभावादित्यर्थः, न च राजपुरुषो दर्शनीय इत्यत्र वृत्तिर्न प्राप्नोति सापेक्षत्वादिति वाच्यम् सापेक्षस्यापि प्रधानस्य समासात् । अत्र दर्शनीयत्वान्वयः केवले पुरुषे बोध्यः । प्राधान्ये हेतुमाह साधनानामिति, क्रियासिद्ध्यर्थ हि साधनानां प्रवृत्तिरतः क्रियैव प्रधानमिति भावः । अपशब्दो हीति, अर्थविशेषविवक्षयोपात्तं पदं यदा तदर्थाभिधायित्व 2010_04 Page #200 -------------------------------------------------------------------------- ________________ १५० द्वादशारनयचक्रम् [विधिविध्यरे त्यक्तजुहोतिकर्थग्रहे तु निःक्रियाकर्तृत्वात् कुर्यादर्थाभावः । (त्यक्तेति) अथाऽऽचक्षीथा एतद्दोषभयात्त्यक्त्वा जुहोत्यर्थं निःक्रिय कर्बर्थमात्रमेव गृह्यते, कुर्यादिति कर्त्तव्यमात्रचोदनार्थः । एवञ्च सति त्यक्त्वा जुहोतिं कर्बर्थग्रहे तु, तुशब्दो विशेषणे, अत्य तार्थाभावेनैव विशेषयति, करोति कुर्यादित्येवमादिशब्दानां कर्बर्थप्रकृतीनां घटादिकर्मापेक्षामन्तरेण 5 किं करोति किं कुर्यादित्यनिर्णीतार्थत्वात् , कोऽर्थः स्यात् कृअर्थाभावे कर्बर्थस्य ? निःसाध्यकर्तकत्वं स्यादतः कुर्याच्छब्दो निरर्थकः, त्यक्तस्वप्रकृत्यर्थत्वात्तादृग्विधस्य कृत्रादिप्रकृतिरहितस्य यादादिप्रत्ययान्तस्य प्रयोगस्यादर्शनात् । अभ्युपेत्यापि प्रयोगम् जुहोतिप्रयोगासत्त्वञ्च, त्याज्यत्वात् , व्याधिवत् । 10 (जुहोतीति) जुहोतिप्रयोगासत्त्वं ब्रूमः, असत्त्वमप्रशस्तत्वम् । कुतः ? त्याज्यत्वात् , त्याज्यत्वं त्वया त्यक्तत्वात् , अस्मन्मतेनार्थाभावादर्थाभावश्चोक्तविधिना सिद्ध एव । तस्मात् त्याज्यत्वादसत्त्वं जुहुयादित्यस्य प्रयोगस्य । दृष्टान्तो व्याधिवत् , यथा व्याधिस्त्याज्यत्वादप्रशस्तस्तथा जुहोतिशब्दोऽप्यप्रशस्त इति । किञ्चान्यत्15 क्रियानामस्ववृत्तित्यागोपादानाभ्यां धातुप्रातिपदिकभेदोऽपि न, पदभेद एव सः पदान्तरविषयत्वात् । क्रियानामस्ववृत्तीत्यादि, आख्यातस्य क्रियार्थे च रूढस्य स्वार्थ विप्रकीर्णावयवकलाप त्यक्त्वा पिण्डितहोत्रस्य स्वार्थोपादानम् , न च तमप्युपादाय तत्रैवावतिष्ठते किं तर्हि ? पुनरपि सत्त्वार्थ त्यक्त्वा क्रियार्थोपादानम् , एवं नामशब्दस्यापि सत्त्ववृत्तिं स्वां त्यक्त्वा क्रियार्थोपादानं क्रिया 20 त्यक्त्वा सत्त्वोपादानमिति । ताभ्यामेव च त्यागोपादानाभ्यां कुर्याज्जुहुयादित्येतयोरपि शब्दयोः सामान्यविशेषार्थयोरितरेतरार्थवृत्त्या भेदः स्वप्रकृतिबलेन पिण्डनविप्रकरणात् तद्भेदवत्तद्वलेनास्यापि, तथा तद्वाचिन्योः प्रकृत्योरपि भेदः, ताभ्यां त्यागोपादानाभ्याम् , कयोः प्रकृत्योरिति चेद्धातुप्रातिपदिकयोः, मतिकामति तदाऽपशब्दः सः, यथा सास्नादिमदर्थविवक्षयोपात्ता गावी गोणी गोपोतलिकादिशब्दास्तदर्थाभिधायित्वाभावादप शब्दाः, तदर्थाभिधायको हि गोशब्द एव, गवि च साधात् प्रयुक्तो गव्यादिशब्दः साधुर्भवति, जातिप्रयुक्तस्त्वसाधुभवति । 25 शब्द एवेति, साधुरेवेति भावः । स एव शब्दः क्वचिदर्थे केनचिन्निमित्तेन प्रयुक्तः साधुरन्यथाऽसाधुरित्यत्र व्याकरणमहा भाष्यीयं प्रमाणमादर्शयति-यस्त्विति, यः कुशलोऽधीतव्याकरणो व्यवहारकाले लक्षणस्मरणपूर्वकं शब्दान् शक्यलक्ष्यद्योत्यान्यतमेऽर्थविशेष प्रयुक्ते सोऽनन्तं जयमवाप्नोति परत्र अदृष्टद्वाराऽभ्युदयं लभत इति भावः । अपशब्दप्रयोगेण च वाग्योगवित् वाचो योगः प्रकृतिप्रत्ययविभागेनार्थविशेषपरत्वं तद्वत्तीति वाग्योगवित् , दुष्यति-अनर्थसाधनाधर्मभाग्भवतीत्यर्थः। अथ जुहु यादित्यत्र हुधातुं परित्यज्य कर्बर्थप्रत्ययमात्रविवक्षणं न सम्भवतीत्याह-त्यक्तजहोतीति, प्रकृत्यर्थत्यागे क्रियारहितं कर्तव्य30 तामात्रमर्थः स्यादित्याह-अथेति । कर्मरहितः प्रत्ययार्थः स्यात् प्रकृतिमन्तरेण यादिति प्रत्ययमात्रस्य प्रयोगानुपपत्तिश्चेत्याह करोतिकुर्यादित्येवमादीति । कथमसत्त्वं श्रूयमाणत्वादित्यत्राह-असत्त्वमिति । उभयमतेन त्याज्यत्वमाह-त्याज्यत्वमिति । दोषान्तरमाह-क्रियानामेति, क्रियापदेनाऽऽख्यातस्य नामपदेन च प्रातिपदिकस्य ग्रहणम् , तयोः खखार्थपरित्यागेन परस्परार्थोपादानाच भेदोन स्यादित्यर्थः। तमेव भेदाभावं संघटयति-आख्यातस्येति। आख्यातपदं जुहोतिपदं विप्रकीर्णावय 2010_04 Page #201 -------------------------------------------------------------------------- ________________ १५१ श्रुतार्थत्यागः] न्यायागमानुसारिणीव्याख्यासमेतम् तत आह-धातुप्रातिपदिकभेदोऽपि न, पदभेद एव सः, कुतः पदभेद इति चेत् ? पदान्तरविषयस्वात् , पदान्तरस्य विषयोऽस्येति पदान्तरविषयं तत्पदमाख्यातं नाम वा, तद्भावात्-पदान्तरविषयत्वात् कुर्याजुहुयादिति । अथवा वाक्यार्थविचारः प्रधानं मीमांसकस्य, यदुक्तं प्राक् 'अनुवादविधिविषयत्वे वाक्यभेदापत्ते'रिति, स तु न केवलो वाक्यभेदः पदभेद एव वा, किन्तर्हि ? धातुप्रातिपदिकभेदोऽपीत्यभिसम्बध्यते, न त्वनुवदनात् , तत्र को हेतुरिति चेत् ? अज्ञातस्याग्निहोत्रस्य क्रिया- 5 विशेषणत्वेनानुवादात् , अज्ञाताओं विधिः, ज्ञातार्थोऽनुवादः। अग्निहोत्रमज्ञातत्वाद्विधीयते तत्कुर्याजुहुयाद्धवनं कुर्यादिति जुहोतिक्रियया विशेष्य प्रसिद्धस्य विहितस्यैवानुवदनादिति प्रागुदितमर्थमुपपत्तित्वेन दर्शयति । ततश्च किम् ? एवञ्च श्रुतेर्याऽसौ प्रतिपत्तिस्तस्या अभावोऽन्यथाऽर्थाधिगतेः, स्वप्रत्युपेक्षानुमानेन च 10 तत्त्यागात् कर्ताद्यर्थप्रतिपत्तिवशेन शब्दार्थावस्थापनात्तु पुरुषस्य ज्ञानमेव प्रमाणीकृतमतस्ते वादावसानं निग्रहस्थानम् , एष चेतरत्राप्यर्थव्याख्याने भवति । एवश्चेत्यादि, यावत्तस्या अभावः, एवञ्चेत्यनन्तरनिर्दिष्टक्रियानामस्ववृत्तित्यागोपादानाभ्यामेव श्रुतेर्याऽसौ प्रतिपत्तिः-जुहुयादित्यस्याः पदश्रुतेर्हवनक्रियाविधानमर्यो जुहुयाद्धवनं कुर्यादिति, तस्या अभावः,-सा न भवति, अन्यथाऽर्थाधिगतेर्यच्छब्द आह तन्न प्रमाणमिति च हीयते नामाख्यातयो- 15 रर्थभेदत्यागोपादानदोषेभ्यश्च शब्दाव्यवस्थानात् , तदव्यवस्थानात् पुरुषबुद्धिवशेन शब्दार्थावस्थानम् , कुतः ? स्वप्रत्युपेक्षानुमानेन च तत्त्यागात्-स्वयं प्रत्युपेक्षितोऽर्थस्त्वया, अयमस्य शब्दः, अस्यार्थ एवं भवति न वेति, दोषवत्त्वादयं त्याज्योऽयं गुणवत्त्वादाश्रयणीयः इति विचार्य स्वमतिप्रमाणीकरणेन श्रुतिप्रामाण्यत्यागः कृतः, ततस्तत्त्यागात् कर्ताद्यर्थप्रतिपत्तिवशेन शब्दार्थावस्थापनातु पुरुषस्य ज्ञानमेव प्रमाणीकृतम् , तस्यैव विध्यर्थवदवस्थितस्यानुवदनात् , अतश्च ते वादावसानं निग्रहस्थानम् , 20 पुरुषज्ञानप्रामाण्याश्रयेण क्रियोपदेशवाक्यप्रमाणीकरणात् प्रतिज्ञात्यागः प्रतिज्ञान्तरगमनलक्षणः, एष वकलापं क्रियाखरूप खार्थमुत्सृज्य होत्रशब्दार्थ नामार्थे सत्त्वरूपे वर्तते, न केवलं तत्रैवास्ते तमपि नामार्थं विहाय पुनः क्रियार्थे वर्त्तते, एवं होत्ररूपनामपदमपि। यदि धातुप्रातिपदिकमेदो न स्यात्तर्हि किं स्यादित्यत्राह-पदभेद एव स इति । तत्र हेतुमाह-पदान्तरविषयत्वादिति, नामादिपदान्तरस्य यो विषयो वाच्यः सत्त्वादिरूपोऽर्थः स एव क्रियादिपदस्यापि विषय इति कृत्वेत्यर्थः। एवञ्चेति, आख्यातप्रातिपदिकयोः स्वार्थपरित्यागेन परस्परार्थग्रहणेन च जुहुयाच्छन्दो यमर्थमाह हवनं कुर्यादिति 25 तत्रार्थे स शब्दो न प्रमाणमिति तेन तदर्थप्रतिपत्त्यभावः प्राप्तो भिन्नार्थखीकारात् , तत्रार्थेऽपि च न तच्छब्दस्य नैयत्यं, नामार्थधात्वर्थयोविभिन्नत्वात् , क्रियाप्रधानमाख्यातं सत्त्वप्रधानानि नामानीति वचनात् , तदर्थत्यागेन पुनरपि स्वार्थग्रहणाच्च न शब्दः क्वाप्यर्थे व्यवस्थितः, तदव्यवस्थानात् पुरुषबुद्ध्यनुसारेण तस्य व्यवस्था कर्तव्या ततश्च पौरुषेयत्वापत्तिरिति भावः। तदेवाहखप्रत्युपेक्षेति, विचारपूर्वकमनुमानेन श्रुतार्थप्रामाण्यत्यागादित्यर्थः । अयमस्येति, एतदर्थस्य वाचकोऽयं शब्दः, एतच्छन्दस्यायमर्थः स एवं भवति न वेति सन्दियैतदर्थग्रहणेऽयं दोषः, अत एव त्याज्योऽयमर्थः, अयमर्थस्तु गुणवत्त्वा- 30 दाश्रयणीय इति निजमतिप्रमाणीकरणेन श्रुतेः प्रामाण्यं त्यज्यते । लिङ्गादीनां कत्रोद्यत्यर्थवर्णनेन शब्दार्थव्यवस्थानातू पुरुषज्ञानमेव प्रमाणीकृतमित्यपौरुषेयत्वपक्षपरित्यागात् प्रतिज्ञाहानिलक्षणनिग्रहस्थानस्यापत्त्या वादावसानं जातमिति भावः। पुरुषज्ञानेति, खज्ञानप्रामाण्येनामिहोत्रं जुहुयात्स्वर्गकाम इत्यादिवाक्यानां प्रामाण्याङ्गीकारादपौरुषेयत्वप्रतिज्ञात्यागः पौरुषे. 2010_04 Page #202 -------------------------------------------------------------------------- ________________ 5 १५२ द्वादशारनयचक्रम् [ विधिविध्यरे च - प्रतिज्ञात्यागप्रतिज्ञान्तराश्रयणदोषः, इतरत्राप्यर्थव्याख्याने - हवनं कुर्यादित्येतस्मिन् भवति, कस्मात् ? स्वप्रत्युपेक्षानुमानेन च तत्त्यागात् कर्त्राद्यर्थनियतप्रतिपत्तिवशेन शब्दार्थस्थापनात्, एवमेव स प्रकृतिश्रत्यय एवमग्निहोत्रशब्दो वा बोध्यत इति शब्दप्रामाण्यत्यागेन स्वमतिप्रामाण्यावलम्बनात् । आह-न शब्दार्थं त्यजाम्युक्तदोषभयात्, किं तर्हि ? ---- एवं तर्हि यथाश्रुत्यग्निहोत्रवद्धवनमपि ग्रहीष्यते, अत्रोच्यते नन्वर्थद्वयविधानमशक्यवाक्येनाग्निसम्प्रदानकस्य कर्मभूतस्य हवनस्य तद्विशिष्टस्य च कर्तृकत्वस्य । ( एव तहींति) यथा वा श्रुतिर्यथाश्रुति यथाऽग्निहोत्रशब्दश्रवणात्तदर्थों गृह्यते तथा हवनमपि जुहुयाच्छन्दश्रवणाग्रहीष्यते ततो न दोषोऽस्तीति, तदेकत्र हवनमभिसम्प्रदानविशिष्टकर्मकारकतयोच्यतेऽन्यत्र स्वविशिष्ट कर्त्तृकतयेति । अत्रोच्यते नन्वर्थद्वयविधानमशक्यमेकेन वाक्येनाग्निसम्प्रदान10 कस्य कर्मभूतस्य हवनस्य तद्विशिष्टस्य च कर्त्तृकत्वस्य, यथा ब्राह्मणसम्प्रदानकहविर्दानवाक्येन शुगवानयनमपि । इतर आह- नैव हवनं विधीयते किन्त्वग्निहोत्रशब्देन विहितं हवनमनूद्यते विध्यनुवादयोर्भिन्नलक्षणत्वात् प्राप्तमनूद्यते वाक्यान्तरेण, अप्राप्तञ्च विधीयत इत्यत्रोच्यते, नानुवादो हवनस्य 16 युज्यते न हि प्राप्तिरस्ति हवनस्याविहितत्वात् । अस्ति प्राप्तिर्हवनस्य, अग्निहोत्रस्य हवनत्वात्, यदग्निहोत्रं हवनमेतदिति, पुनरुक्तं तवम्, एतच्च नानुवाद उन्मत्तवाक्यवत् । नैव हवनं विधीयत इत्यादि, जुहुयाच्छब्देन नैव हवनं विधीयते, किं तर्हि ? अग्निहोत्रशब्देन विहितं हवनमनूद्यते, विध्यनुवादयोर्भिन्नलक्षणत्वात्, किं तयोर्लक्षणमिति चेदुच्यते प्राप्तमनूद्यते वाक्यान्तरेण, यथा पण्डितस्तिष्ठतीति शास्त्रज्ञः पण्डित इति वाक्यान्तरविहितपाण्डित्यस्य स्थानानुबा20 दात्, अप्राप्तञ्च विधीयते, - यद्वाक्यान्तराप्राप्तिमदविज्ञातं प्रमाणान्तरेण तद्विधीयते, यथा स्वर्गकामो जुहुयादिति, अत्रोच्यते यद्येतद्विध्यनुवादयोर्लक्षणं नानुवादो हवनस्य युज्यते, यस्मान्न च प्राप्तिरस्ति हवनस्याविहितत्वात् । इतर आह-अस्ति प्राप्तिर्हषनस्य, अग्निहोत्रस्य हवनत्वात् तस्य तु विहितत्वा यत्वप्रतिज्ञान्तरगमनात् । अन्यत्राप्येवमेव दोषो बोध्य इत्याह-एष चेति । यथा वेति, श्रुतिमनतिक्रम्येत्यर्थः । तदेकत्रेति, अमये होत्रमग्निहोत्रं तदग्निहोत्रमभिसम्प्रदानकं कर्मभूतं हवनमित्यर्थः । अन्यत्र - जुहुयादित्यत्र हवनविशिष्ट कर्तृकरव26 मर्थः, होत्रमित्यत्र त्रल्प्रत्यय कर्तृकत्वार्थकतयाऽर्थद्वय विधानमिति बोध्यम्, तच्च न तस्य संभवति वाक्यस्यैकत्वात् । ब्राह्मणेति ब्राह्मणाय हविर्दद्यादिति वाक्येन । जुहुयादित्यत्र हवनं न विधीयते किन्त्वनूद्यते, अग्निहोत्रशब्देन हवनस्य विहितत्वादिति खयमा शङ्कते - नैव हवनमिति, वाक्यान्तरेण हवनस्याप्राप्तेर्नानुवादः सङ्गच्छत इत्याह- नानुवाद इति । ननूक्तमेव अग्निहोत्रशब्देन हवनं प्राप्तमिति यद्यग्निहोत्रं तदेव हवनमितीत्याशङ्कते - अस्तीति । समाधत्ते - पुनरुक्तमिति, अग्निहोत्र हवनयोरभिन्नार्थतयाऽर्थपौनरुक्त्यं स्यादित्यर्थः । अर्थादापन्नस्य योऽभिधायकः शब्दान्तरेण स्वशब्देन वा तत्पुनरुक्तम्, अनुवादे त्वपुन30 रुक्तं शब्दाभ्यासादर्थ विशेषोपपत्तेः, यथा हेत्वपदेशात् प्रतिज्ञायाः पुनर्वचनं निगमनमित्यादौ । अनुवादलक्षणसमन्वयं दृष्टान्ते करोति - यथेति पण्डितस्तिष्ठतीत्यनुवादवाक्यम् । पाण्डित्यस्य शास्त्रज्ञः पण्डित इति वाक्यान्तरेणावगतेरिति । यत्तु वाक्याश्तरेण न प्राप्तं प्रमाणान्तरेण न विज्ञातं तदेव विधीयत इत्याह- यद्वाक्यान्तरेति । पौनरुक्यमिदं न शब्दतः किन्त्वर्थत एव । 2010_04 Page #203 -------------------------------------------------------------------------- ________________ जुहोतेरननुवादता] न्यायागमानुसारिणीव्याख्यासमेतम् १५३ दित्यत आह यदग्निहोत्रं हवनमेतत् पुनरुक्तं तर्येवमनयोरग्निहोत्रहवनयोरविशेषात् , एतञ्च-अर्थपुनरक्तश्च नानुवादः उन्मत्तवाक्यवत् । अनुवादलक्षणाभावश्चास्य दर्शयति विधिविहितस्य ह्यनुवचनमनुवाद इति तदत्र न घटते अग्निहोत्रहवनविधेयत्वादनुवादायोग्यता, अथ विधानं वाऽनुवादो वा यथाकथञ्चित् स्यात् ततः पुनरुक्तदोषाभाव एव स्यात् , इष्यते च पौनरुत्यं शब्दतोऽर्थतश्च, उक्तार्थशब्दार्थकथनमविशेषेण पुनरुक्तमन्यत्रानुवादादरादिभ्य इति पौनरुत्यभावादिदं जुहुयादिति पदमनुवादाक्षमं विधीयमानत्वादाख्यायमानपण्डितत्ववत् । विधिविहितस्य ह्यनुवचनमनुवाद इति, हिशब्दो यस्मादर्थे, यस्माद्विधिवाक्यविहि- . तस्यार्थस्य पश्चादर्थविशेषप्रापणार्थानुवादोऽनुवादः, तदन लक्षणं न घटते, अग्निहोत्रहवनविधेयत्वात् , 10 अग्निहोत्रस्य हवनस्य चैकीभूतयोर्विधेयत्वात् , तन्निगमयति-अनुवादायोग्यतेति । अथ विधानं वानुवादो वा यथाकथञ्चित्स्यात् , स्यान्मतं वक्तुर्विवक्षितपूर्विका शब्दप्रतिपत्तिरित्यस्य हवनस्य विधानं विवक्ष्यतेऽनुवादो वा विवक्ष्यत इति, एतदपि यथाकथञ्चित् स्याद्विहितार्थाभावात् , विवक्षेच्छयोरनान्तरत्वादिच्छामात्रतश्च निरुपपत्तिकस्यार्थस्यासिद्धेर्न स्यादित्यभिप्रायः, यद्यपि यथाकथञ्चित् स्यात्ततः पुनरुक्तदोषाभाव एव स्यादिष्यते च पौनरुक्त्यं शब्दतोऽर्थतश्च, उक्तार्थशब्दार्थकथनमविशेषेण पुनरु- 15 क्तमन्यत्रानुवादादरादिभ्य इति पौनरुत्त्यभावः, उक्तं हीति पुनरुक्तापवादमर्थविशेषापेक्षं दर्शयति, अनुवादात्-पण्डितमानयेत्युक्ते पण्डितो देवदत्त इत्यनुवादो न पुनरुक्तम् । एवमादरे स्वामिन् स्वामिनिति । वीप्सायां-ग्रामो ग्रामो रमणीयः। भृशार्थे-छूतं द्यूतम् , मृदु मृदु, शनैः शनैरिति । विनियोगे घटं कुरु घटं कुर्विति। हेतौ-कृतकत्वादनित्यो घटस्तस्मात् कृतकत्वादिति । असूयायाम्-विपर्यस्याऽऽस्यं .. हसति हसतीति, ईषदीषदिति, स्तोकं स्तोकमिति । संभ्रमे-खागतं स्वागतमिति । विस्मये-विद्याधरो 20 विद्याधर इति । गणने-एकमेकं द्वे द्वे इति । स्मरणे-आ! विदितो विदितः पाटलिपुत्रे दृष्टोऽसीति । एवमाद्यर्थविशेषाभावे पुनरुक्तदोषावश्यम्भावान्न चेदनुवादत्वमस्य पौनरुत्यमेव स्यात् , पौनरुक्यभावे नानुवादत्वं तस्मादिदं त्वनुवादाक्षमम्-अयोग्यमित्यर्थः । कतमत् ? जुहुयादित्येतत्पदम् , अतो नानुवादः यथोन्मत्तवाक्यं नानुवादरूपमित्याह-एतञ्चेति । अनुवादत्वासंभवमेवाह-विधिविहितस्येति विध्यनुवचनं विहितानुवचनश्चानुवादः, तत्र प्रथमः शब्दानुवादो द्वितीयोऽर्थानवादः, पुनरुक्तमपि शब्दार्थभेदेन द्विविधम, विहितं किमर्थ-25 मनूद्यत इति चेदधिकारार्थम् , विहितमधिकृत्य स्तुतिर्वा बोध्यते निन्दा वा विधिशेषो वाऽभिधीयते । एतादृशानुवादोऽत्र न घटते इत्याह-तदत्रेति, अग्निहोत्रस्य हवनस्य चाभिन्नार्थतयैकत्वेन विधेयत्वान्नानुवादता संभवतीति भावः । सर्वत्र विवक्षया विधेयत्वानुवादत्वयोः कल्पने पुनरुक्तस्थलेऽपि विवक्षाविशेषेण विधेयत्वस्यानुवादत्वस्य वा कल्पयितुं शक्यत्वेन पुनरुक्तत्वाभाव एव सादित्याह-स्यान्मतमिति । यथाकथञ्चित्स्यादिति, कारणमन्तरेण यादृच्छिकं भवेत् , तथाचान्तरेणोपपत्तिं कस्यापि खीकारो नोचित इति भावः । शब्दतोऽर्थतश्चेति, घटो घट इति शब्दतः पौनरुक्त्यम् , घटः कलश इत्यर्थतः पौनरुक्त्यम् । 30 उक्तानुवादादरादिविशेषाभावे पुनर्वचने पौनरुक्त्यदोषस्य दुर्वारतव, अग्निहोत्रं जुहयादित्यस्य यदि नानुवादत्वं तर्हि पौनरुक्त्यमेव स्यादन्य विशेषाभावात् पुनरुक्तत्वादेव च नानुवादत्वमपि तस्मान्नानुवादयोग्यताऽस्येत्याशयेनाह-एवमाद्यर्थति । जुहु द्वा० न० २० 2010_04 Page #204 -------------------------------------------------------------------------- ________________ द्वादशारनयचक्रम् [विधिषिध्यरे कुतः ? विधीयमानत्वात् , योऽर्थो विधीयते न सोऽनूद्यते, आख्यायमानपण्डितत्ववत् , यथाऽयं पण्डितो देवदत्त इति विधीयमानपाण्डित्यो देवदत्तो नानूद्यते ।। तथा जुहुयादित्येतदपि नानुवादोऽपूर्वोपदेशत्वादनुवादवैधाच्च तल्लक्षणाभावात् विहितमेव त्वनूद्यते विशेषविधानार्थ यथा पटुर्देवदत्तः पयसैनं भोजयेति । यत्र न विशेषो 5 विधीयते मौलविधिरेव सः, एवं तर्हि विशेषविधानादनुवादोऽस्तु तद्वदिति चेत्तन्न, न चात्र कश्चित् जुहोतेः पुनर्वचनेन विशेषो जन्यते ततश्च प्राक्तनमेव सञ्जातम् । एवं यां तां गतिं गत्वा सर्वथाऽग्निहोत्रं जुहुयादित्यस्मिन् वाक्येऽग्निहोत्रकर्मण्येवान्तर्भावितहवने जुहुयाच्छब्दप्रकृत्यर्थे किमतिरिच्यते ? पौनरुत्यदोषव्यपेतो विधिलिङ् कर्त्तर्यास्ते, अग्निहोत्रं कुर्यात् , अग्नि होत्रं जुहुयादित्येतयोर्वाक्यार्थविकल्पयोरक्तदोषत्वात् । 10 (तथेति) किं तल्लक्षणमिति चेत् ? विहितमेव त्वनूयते विशेषविधानाथं यथा पटुदेवदत्तः पयसनं भोजयेति । 'तल्लक्षणाभावात्' किं तल्लक्षणाभावात् ? नानुवादः। यत्र न विशेषो विधीयते मौलविधिरेव सः। एवं तर्हि विशेषविधानादनुवादोऽस्तु तद्वदिति चेत्तन्न भवति, यस्मात् न चात्र कश्चिज्जुहोतेः पुनर्वचनेन विशेषो जन्यते-जुहुयादित्यनेन शब्देनाग्निहोत्रशब्दाभिहितादर्थान्न कश्चिदन्यो विशिष्टोऽर्थोऽभिधीयते यतोऽनुवादः स्यात् , ततश्च प्राक्तनमेव सञ्जातम् , यावदेवाग्निहोत्रं कुर्यादिति 15 वाक्यविकल्पेऽभिहितं तावदेवाग्निहोत्रं जुहुयादित्यत्रापि वाक्ये ततोऽधिकं न किश्चिदस्ति, एवं यां तां गतिं गत्वा-कल्पयित्वाऽपि सर्वथा-सर्वप्रकारेणाग्निहोत्रं जुहुयादित्यस्मिन् वाक्येऽग्निहोत्रकर्मण्येवान्तर्भावितहवने जुहुयाच्छब्दप्रकृत्यर्थे किमतिरिच्यते ? पौनरुत्यदोषव्यपेतो विधिलिङ् कर्त्तर्यास्तेविधौ विहितस्य लिङ्प्रत्ययस्य कर्त्तकारकस्य तन्मात्रोऽर्थ आस्ते, न दूषितः, अन्यत्सर्वं पुनरुक्त्यादिदोष दुष्टमेवेत्यर्थः । अग्निहोत्रं कुर्यादग्निहोत्रं जुहुयादित्येतयोर्वाक्यार्थविकल्पयोरक्तदोषत्वादतो नानुवादः, 20 उक्तदोषसम्बन्धादित्यर्थः, । कथमिति चेत् ? उत्तरविशेषासम्बन्धनाद्विधीयमानपण्डितत्ववदित्येतदनन्तरोक्तार्थसमाहारार्थ साधनं गतार्थम् , तस्मात् कर्बर्थमात्रमवशिष्यते, शेषं पुनरुक्तम् । अथोच्येत विधिलिड्प्रत्ययार्थेऽवश्यवाच्ये प्रकृतिपरव्यवस्थाया आवश्यके प्रकृत्युपायादिति वाक्यस्य हवनविधायकत्वेनापूर्वविधित्वादनुवादवैधयं तल्लक्षणाभावादित्याह-तथेति । ननु यथा पटुर्देवदत्तः पयसैनं भोजयेति, पयोभोजनविधानार्थ देवदत्तोऽनूद्यते तथैव विशेषविधानाय जुहुयादित्यनुवादोऽस्त्वित्याशङ्कते-एवं तहीति । 25 जुहुयादित्येव हि पुनरुच्यते न चात्र हवनकर्त्तव्यत्वापेक्षया किञ्चिदधिकं विधीयते सा च हवनकर्तव्यता अग्निहोत्रशब्देनैव विहितेत्यनुवादासंभवात् पौनरुक्त्यमेवेत्याह-न चात्रेति । जुहुयादित्यन प्रकृतेर्जुहोतेः पौनरुक्त्यमेवोपसंहरति-एवं यां तामिति । प्रत्ययांशभाग एव तु केवलं न दूषित इत्याह-पौनरुक्त्यदोषव्यपेत इति । किंतल्लक्षणाभावादिति, तल्लक्षणाभावात् किं स्यादित्यर्थः । अनुवादो न स्यादित्युत्तरयति-नानुवाद इति । यावदेवेति, अग्निहोत्रं कुर्यादिति वाक्येन यावन्मानं वस्त्वभिहितं तावन्मात्रमेवाग्निहोत्रं जुहयादिति वाक्येनाप्यभिहितमित्यर्थः । कथमिति चेदिति, अनु30 वादाभावः कथमिति चेदित्यर्थः । विशेषविधानायैवानुवादस्य कर्त्तव्यतया हवनातिरिक्तविशेषविधानाभावान्नानुवादः सम्भवति, यथाऽयं पण्डितो देवदत्त इति विदीयमानपाण्डित्यो देवदत्तोऽपरविशेषेणासम्बन्धनान्नानूद्यत इत्याह-उत्तरविशेषासम्बन्धनादिति । अथ विधिलिङ्प्रत्ययार्थोऽवशिष्यमाणोऽवश्यं वाच्यः तदर्थप्रत्ययश्च न प्रकृतिप्रयोगमन्तरेण सम्भवति न केवला प्रकृतिः प्रयोक्तव्या नापि प्रत्यय इति नियमात्, ततश्च प्रकृतिप्रयोगस्यावश्यकत्वे बुद्धावासन्ना जुहोतिप्रकृतिरेवोपादातुं योग्येत्यविवक्षितार्थापि जुहोतिप्रकृतिरुपादीयत इत्याशङ्कते-अथोच्यतेति । प्रकृतिपरव्यवस्थाया इति, प्रकृतिपर 2010_04 Page #205 -------------------------------------------------------------------------- ________________ जुहोतिवैयर्थ्यम् ] न्यायागमानुसारिणीव्याख्यासमेतम् १५५ दाने वरमासन्ना प्रकृतिरुपात्ता, अर्थः पुनरस्या न विवक्ष्यते गतार्थत्वादिति, एवं चेत्तर्हि वरं घरं सहायकं ददामि बुद्धेः, कर्तृप्रत्ययार्थसमर्था प्रत्यासन्नतराऽविवक्षितार्था कृञ्प्रकृतिः किं नोपात्ता वचनस्योपात्तार्थप्रत्यायनार्थत्वात् । अतोऽग्निहोत्रं कुर्यादित्येवास्तु । अथोच्येतेति, परमतमाशङ्कते अथोच्येत विधिलिङ् कर्थः प्रत्ययार्थोऽनुक्तत्वादवशिष्यतेऽवश्यश्च वाच्योऽसौ, तस्मिन् प्रत्ययार्थेऽवशिष्यमाणेऽवश्यवाच्ये प्रकृतिपरव्यवस्थाया इति हेत्वर्थे । पञ्चमी, प्रकृतेः परः प्रत्ययः प्रयोक्तव्य इतीयं व्यवस्था, तस्याः व्यवस्थाया मर्यादायाः स्थितेहेतोः प्रकृत्युपादानमावश्यकम् , तस्मिंश्चावश्यके प्रकृत्युपादाने प्राप्ते कतमा प्रकृतिरुपादातुं योग्येत्येवं विचारयत इदं मे योग्यमिति प्रतिभाति वरमासन्ना प्रकृतिरुपात्ता, अर्थः पुनरस्या न विवक्ष्यते, गतार्थत्वात् तस्मादविवक्षितार्था सा, सत्यपि नान्तरीयकत्वे प्रत्यासन्नप्रकृत्युपादाने विलक्षणामन्यां परित्यज्याविलक्षणा जुहोतिप्रकृतिरेवोपात्तेत्यवसेयम् । प्रयोगोऽग्निहोत्रं जुहुयादिति चोच्यते । एवं तर्हि वरं वरमि-10 त्यादि, चेन्मन्यसे वरमासन्नप्रकृत्युपादानम् , नान्तरीयकत्वादिति । तत्राहमेव ते वरं वरं सहायक ददामि बुद्धेः, कर्तृप्रत्ययार्थसमर्था प्रत्यासन्नतरा पौनरुक्त्यपरिहारार्थमविवक्षितार्थाऽनुक्तार्था कृञ् प्रकृतिः किं नोपात्ता । किं कारणं ? वचनस्योपात्तार्थप्रत्यायनार्थत्वात् , अर्थ प्रत्याययिष्यामीति हि शब्दः प्रयुज्यते स च कर्तृप्रत्ययान्तया कृप्रकृत्या प्रत्याय्यते स्फुटतरमतोऽग्निहोत्रं कुर्यादित्येवास्तु । इतर आह 16 त्वयैव समर्थितत्वादेवमेवास्तु, स्यादेवं यदि सापि चार्थस्थितिर्निर्दोषा स्यात् सापि चापक्षिप्तवाच्यार्थस्थितिरुक्तवत् । (त्वयैवेति,) आचार्य आह-स्यादेवं यदि सापि चार्थस्थितिर्निर्दोषा स्यात् किन्तु सापि चापक्षिप्तवाच्यार्थस्थितिरुक्तवत् , तस्यामप्यवस्थितौ निराकृतो वाच्योऽर्थः जुहोत्यर्थत्यागभेदाभ्यामित्यादिप्रबन्धेनोक्तवत्, यथाश्रुतार्थाभावादिदोषात् पौरुषेयत्वादिप्रसङ्गाच्च । 20 एव प्रत्ययः प्रयोक्तव्यः, प्रत्ययपरैव च प्रकृतिरिति नियमादित्यर्थः । एवञ्चेत्तीति, अहं तव बुद्धः सहायभूतं श्रेष्ठतममासनप्रकृत्युपादानं वितरामीत्यर्थः । तदेवाह-कर्तृप्रत्ययार्थसमर्थति, कर्तृप्रत्ययो विधिलिङ्प्रत्ययः तदर्थे समर्था जुहोत्यपेक्षया प्रत्यासन्नतरा तदर्थस्यैव वाचकत्वात् तथापि पुनरुक्तिभियाऽविवक्षिततदर्था कृप्रकृतिरेव किमर्थ नोपादीयत इति भावः कृञ्धातोः क्रियावाचिनः कर्तृप्रत्ययार्थे कर्तरि समर्थता विज्ञेया । सेति, उपादीयमाना प्रकृतिरित्यर्थः । सत्यपीति प्रत्यासन्नप्रकृत्युपादानस्य प्रत्ययोपादाननान्तरीयकत्वे सत्यपीत्यर्थः । विलक्षणामन्यामिति बुढ्यारूढहवनार्थविलक्षणार्थी 25 यजिपच्यादिरूपां प्रकृतिमित्यर्थः । अविलक्षणेति, तुल्यार्थत्वादिति भावः । पूर्वपक्षी तथैवास्त्विति स्वीकरोति-त्वयैवेति। कृप्रकृत्युपादानस्य त्वयैव समर्थितत्वादग्निहोत्रं कुर्यादित्येवास्त्विति भावः । उत्तरयति-स्यादेवमिति । अर्थस्थिति:अर्थव्यवस्था, कथैव कृप्रकृतिरित्येवं रूपेति भावः । तत्रार्थे तस्या अवस्थितिः पूर्वमेव निराकृतेत्याह-सापि चेति । जुहोत्यर्थत्यागभेदाभ्यामिति, आसन्नश्रुताग्निहोत्रशब्दात्तच्चोदितकर्त्तव्यताया एवात्र सम्बन्धाजुहोत्यर्थत्यागः कुर्याजुहुयाच्छब्दयोरितरेतरार्थवृत्त्या भेदः श्रुतार्थपरित्यागात् खमतिप्रमाणीकरणेन श्रुतिप्रामाण्यत्यागात् कर्नाद्यर्थप्रतिपत्तिवशेन शब्दार्थ- 30 व्यवस्थानात् पौरुषेयत्वमित्याधुक्तदोषादित्यर्थः। इत्थं पुरुषकर्तृकविचारलक्षणन्यायेन विचार्यमाणमग्निहोत्रं जुहयादित्यादि वाक्यमघटितार्थमेवेत्याह-एवंतावदिति । ननु वर्णपदवाक्याश्रयेण पुरुषविचारोद्भावितन्यायानां प्रवृत्तिने वेदे सम्भवति, नित्यत्वादपौरुषेयत्वाच्च, न हि तत्र पुरुषानुप्रवेशो वर्णपदवाक्यद्वारा सम्भवति, तस्मात् पुरुषगतरागादिदोषसंस्पर्शाभावात् _ 2010_04 Page #206 -------------------------------------------------------------------------- ________________ द्वादशारनयचक्रम् [ विधिविन्यरे एवं तावन्यायेन परीक्ष्यमाणमेतद्वाक्यं न युज्यते पुरुषतर्कलक्षणेन, यद्यपि पुरुषतर्कलक्षणं न्यायमतिलंघ्यापौरुषेयो नित्यो वेदाख्यः क्रियोपदेशः पुरुषगतरागादिदोषाऽऽशङ्काहेतुविनिर्मुक्तः प्रमाणं तथापि तद्वचनादेवास्मिंस्तु न्यायेऽतिलंध्यमाने क्रियोपदेशवादोऽपि तत्त्ववादवदेव त्यक्तः स्यात्, तत्रापि यदृच्छाभ्युपगमात् । 5 १५६ ( एवं तावदिति, ) ( प्रमाणमिति ) पुरुषकृतानि हि वाक्यान्यविद्यारागाद्य वियुक्त पुरुषवदप्रमाणानि अफलाशक्यप्राप्तिनित्यानित्यादि वस्तुतत्त्वविचार विषयाणि, सफलशक्यप्राप्तिपुरुषहितोपायक्रियोपदेशात्तु वेदवादः श्रेयानितीष्टं तथापि तद्वचनादेवास्मिंस्तु न्यायेऽतिलंध्यमाने क्रियोपदेशवादोऽपि तवादवदेव त्यक्तः स्यात् किं कारणं ? तत्रापि यदृच्छाभ्युपगमात्, अविद्यrरागाद्य वियोगादेव सर्वपुरुषाणाम्, वक्तृश्रोतृपुरुषाधीनत्वाश्चोपदेशपरम्पराया न कश्चिद्बुद्धिपूर्व उपदेशः, अतः सुप्त10 मत्तादि विप्रलापवद्यदृच्छयाऽभ्युपगतो वेदो वैदिकैः । अत इदमापन्नं को वा तद्वेदाग्निहोत्रं जुहुयात् स्वर्गकाम इत्येतद्वाक्यं सार्थकं निरर्थकं वेति ? बालप्रलापवत्, यथाहि बालैरनियतक्रियाकारकैरसम्बद्धमुक्तं बुद्धिपूर्वत्वाज्ज्ञातुमशक्यं केनार्थेनार्थप्रत्यायनार्थमिदमिति, व्यवस्थापेतत्वात् किं वाऽनेन ज्ञातेन ? यदेतज्ज्ञा एवमुक्तवन्तोऽग्निहोत्रं जुहुयादिति वाक्यमव्यक्तम्, अव्यक्तज्ञाना एव हि ते पुरुषत्वादविद्या1" योगाच्च दश दाडिमादिश्लोकवादिवत् । ( अत इति) किमिव ज्ञायते ? बालप्रलापवत् यथा हि बालैरनियतक्रियाकारकैरसम्बद्धमुतमबुद्धिपूर्वत्वाज्ज्ञातुमशक्यं केनार्थेनार्थप्रत्यायनार्थमिदमिति, किं कारणं ? व्यवस्थापेतत्वात् । व्यवस्थोपेतशब्दप्रयोगो ह्यर्थप्रत्यायनार्थः स्वनिश्चितार्थप्रतिपादन समर्थनियतवर्णानुपूर्वीकः प्रत्युपेक्षितवा - च्यवाचकसम्बन्ध इतीयं लोकशास्त्र व्यवस्था, ततोऽपेतम् ब्रह्मादिसर्ववेदवादिवचनम्, अविद्यारागा20 द्यवियोगात्तेषामित्यशक्यप्राप्तिर मिहवन विधानादिवाक्यार्थस्य, तस्मात् को ह वैतद्वेद बालप्रलापवद्व्यवस्थापेतमुदितम् । किञ्चान्यत्, अफलचैतदित्यत आह- किं वाऽनेन ज्ञातेन ? यदेतज्ज्ञा-वेदज्ञा अग्निहोत्रकर्मज्ञा एवमुक्तवन्तोऽग्निहोत्रं जुहुयादिति वाक्यमव्यक्तमव्यक्तार्थं - अस्फुटार्थं यस्मादव्यज्ञाना " कारणदोषाभावेन वेदनिष्ठं स्वतः प्रापाण्यं नापनोदयितुं शक्यमित्याशङ्कते - यद्यपीति । सङ्केतादिद्वारा पुरुषसम्बन्धीनि वाक्यानि अविद्या रागादियुत पुरुषस्याप्रमाणतावदप्रमाणानि, वर्णपदवाक्यानाञ्च नित्यत्वानित्यत्वादि विचारो दुःशको निष्फलश्चातः क्रियोप26 देश एव श्रेयान् सफलत्वाच्छक्यप्राप्तेश्च ततः क्रियोपदेशरूपो वेदः प्रमाणमित्याह - पुरुषकृतानि हीति । पुरुषतर्क लक्षणन्यायपरित्यागे वेदवाक्यैरर्थप्रत्यायनासम्भवात् तत्त्ववादवदेव क्रियोपदेशवादोऽपि दुःशकत्वाद फलत्वाच्च त्यक्तव्यो भवेत्, याहच्छिकत्वाभ्युपगमे पर्यवसानादित्युत्तरयति - तथापीति । यादृच्छिकत्वमेव समर्थयति - अविद्यारागेति निखिलानां पुरुषाणामविद्यारागाद्य विनिर्मुक्तत्वेनोपदेशपरम्पराया वक्तृश्रोत्रधीनतयोपदेशमात्रस्य दोषवत्पुरुषपूर्वकत्वाद्बुद्धिपूर्वकः कोऽप्युपदेशो न स्यादिति वेदोपदेशो यदृच्छयैव सुप्तमत्तादिप्रलापवद्भवेदिति भावः । बालप्रलापवदग्निहोत्राद्युपदेशोऽबुद्धिपूर्वत्वाज्ज्ञातुमशक्यो • 30 नियतक्रियाकारकसम्बन्धादित्याह - अत इदमापन्नमिति । केनार्थेनेति किं प्रयोजनमुद्दिश्येदं वाक्यमर्थबोधजनकतया बालैरुक्तमिति ज्ञातुमशक्यमित्यर्थः । तत्र कारणमाह-व्यवस्थापेतत्वादिति, व्यवस्था लोकशास्त्रव्यवस्था तयाऽपेतत्वात् रहितत्वात् सर्ववेदवादिवचनानां दोषवत्पुरुष सम्बन्धित्वादिति भावः । कथं लोकशास्त्र व्यवस्थेत्यत्राह - व्यवस्थोपेतेति । 2010_04 Page #207 -------------------------------------------------------------------------- ________________ वेदवाक्याप्रामाण्यम् ] न्यायागमानुसारिणीव्याख्यासमेतम् १५७ एव ते पुरुषत्वादविद्यायोगाच्च, दश दाडिमादिश्लोकवादिवत् । अविद्यायोगं दर्शयति यथज्ञानादिति । रागादियोगश्च दर्शयति-यदि द्वेषादेः । इतर आह- विफलोऽयं प्रयासस्ते, अनभ्युपगमात्, अथवा को वाऽऽह ज्ञवचनमेतदिति ज्ञस्य प्रमाणभूतस्याभावाच्छब्दस्यैव च निर्दोषत्वादिति तन्न, यदि संशयादियोगान्न ज्ञः प्रमाणं 6 तहदमज्ञोकत्वादुन्मत्तवाक्यवदिति क्रियोपदेशसाफल्यवादः क्व गच्छतीति चिन्त्यताम् । ( विफल इति ) विफलोऽयं प्रयासः अनिष्टापादनं तेऽनभ्युपगमात्, को वाऽऽह ज्ञवचनमेतदिति, ननु प्रागुक्तं संशय विपर्ययानध्यवसायसम्पृक्तत्वान्निर्णयस्याप्यज्ञानत्वमेवेति । अथवा को वाऽऽह ज्ञवचनमेतदिति, ज्ञस्य पुरुषस्य सर्वत्र प्रमाणभूतस्याभावात् किं तर्हि ? शब्दस्यैव च निर्दोषत्वादिति । अत्राचार्य आह- यदि संशयादियोगान्न ज्ञः प्रमाणं तर्हदमज्ञोक्तत्वादुन्मत्तवाक्यवदिति 10 क्रियोपदेशसाफल्यवादः क्व गच्छतीति चिन्त्यताम् । एवं तावदबुद्धिपूर्वकमकारादिवर्णानुपूर्व्या शब्दोचारणं चेतनोदीरितं काकभाषितं पुरुषभाषितं वा तुल्यम् । अथाऽऽचक्षीथाः काष्ठशब्दवत्सर्वमचेतनं तथाप्यचेतनत्वात् कुतोऽस्य प्रामाण्यमाकाशवत् कुतोऽस्य वचनम् ? यच्छन्द आह तन्नः प्रमाणमितीष्टं भवताम्, अज्ञोदीरितत्वादेव च वचनत्वमस्य नास्ति, वाच्यार्थप्रतिपादनाभिसन्धिपूर्वकं हि तत् । काष्ठशब्दवदित्थं न घटते 15 वेदवाक्यप्रामाण्यम् । (अथेति) (काष्ठशब्दवदिति ) काष्ठपाषाणादिसंघट्टजनिताचेतनशब्दवत्, (आकाशवदिति ) एवञ्च कृत्वाऽचेतनत्वात् कुतोऽस्य वचनम् । ( भवतामिति) भाषणं वचनमुक्तिः शब्दोच्चारणं भावसाधनत्वाद्वचनशब्दस्य, अचेतनत्वाद्वकृत्वमस्य नास्तीत्यर्थः । कथं ? अज्ञोदीरितत्वादेव च वचनत्वमस्य यद्यज्ञानादिति, अत्र मूलं न सम्यग्विदितं गमकाभावादतो नोद्धृतम् । अग्निहोत्रादिवचने दोषापादनार्थं तव प्रयासो व्यर्थ 20 एव बुद्धिपूर्वकं वचनमिदमित्यनभ्युपगमात् प्रमाणभूतपुरुषाभावादित्याशङ्कते - विफलोऽयमिति । सर्वमिदमज्ञानप्रतिबद्धं जगत् नास्ति कश्चिज्ज्ञानाज्ञानयोर्विशेषः सर्वेषां संशय विपर्ययानध्यवसायनिर्णयानामवबोधार्थत्वेनाविशिष्टत्वादित्याह-ननु प्रागुक्तमिति, विध्यरे प्रान्तभागे उक्तमित्यर्थः । प्रकारान्तरेण व्याचष्टे प्रकरणानुरोधात् - अथवेति, अग्निहोत्रादिवचन न ज्ञातुः सर्वत्र प्रमाणभूतपुरुषाभावात् सर्वेषां दोषवत्त्वात् किन्तु नित्यत्वेन निर्दोषत्वाच्छब्द एव खतः प्रमाणमिति पूर्वपक्षाभिप्रायः । ननु यद्यग्निहोत्रादिवाक्यं न ज्ञस्य वचनं तर्ह्यज्ञोक्तं स्यात् तथा चोन्मत्तवाक्यवद्यादृच्छिकत्वात् क्रियाया एवोप- 26 देशः श्रेयान् शक्यप्राप्तेः सफलत्वाच्चेत्यभ्युपगमो भज्येतेत्याह-यदि संशयादीति । वर्णानुपूर्व्याऽबुद्धिपूर्वकं चेतनेनोचरितं शब्दोच्चारणमविशेषेण काकादिभाषितवत्स्यात् न यस्ति काको कपुरुषोक्तयोः शब्दोच्चारणयोर्विशेषः कश्चिदित्याह - एवं तावदिति । ननु काष्ठादिजन्यशब्दवत् सर्वमपि शब्दजालमचेतनं न तु चेतनोश्चरितमतो नोक्तदोष इत्याशङ्कते - अथाचक्षीथा इति । एवं तर्हि वेदवचनस्याकाशादिवदचेतनत्वादेव प्रामाण्यं शब्दस्य च वचनत्वं न स्यात्, इष्टञ्च भवतां प्रामाण्यं शब्दस्य वक्तृत्वश्च यच्छन्द आह तन्नः प्रमाणमित्युक्त्या शब्दस्य प्रमाणत्व वक्तृत्वयोरङ्गीकृतत्वादित्युत्तरयति - तथापीति 30 उच्यत इति वचनमिति कर्मणि ल्युटि सति वचनं शब्दपर्यायः स्यात् तथा चास्य वचनमित्य सङ्गतार्थ कम्, इदं शब्देनापि शब्दस्य विवक्षितत्वात्, अतो भावसाधनत्वमाह-भाषणमित्यादिना । शब्दोऽयममुमर्थं बोधयत्वित्यभिसन्धिपूर्वकं हि भाषणं भवति तदभावे तु भाषणमेव न स्यात् केवलं काष्टादिजनितशब्दवदेव स्यात्ततश्च वेदवाक्यं न प्रमाणं भवेदित्याह -- 2010_04 Page #208 -------------------------------------------------------------------------- ________________ १५८ द्वादशारनयचक्रम् [विधिविध्यरे नास्ति वाच्यार्थप्रतिपादनाभिसन्धिपूर्वकं तत् । तदभावे तूक्तमित्यत आह-काष्ठशब्दवत् , इत्थमचे. तनत्वेऽपि न घटते वेदवाक्यप्रामाण्यम् ॥ अत्राह यदुक्तं प्राक् को वा ह ज्ञवचनमेतदिति न ब्रूमः सर्ववक्तृवचनाप्रामाण्यमिति, किन्तर्हि ? 5 सर्वज्ञवीतरागाद्यभावागन्थस्य सर्वभावस्वभावविषयस्य कर्तुरप्रामाण्यं न तु वक्तुरनादिनिधनस्य वक्तृपरम्परागतस्य वचनस्य च, क्वचित्प्रामाण्यादित्यत्रोच्यते, आदिवत्तृवच्चोत्तरवक्तर्यपि धातुकमंत्रादिवद्वचनानाश्वासतुल्यतेत्यलमतिप्रसङ्गिन्या कथया। (यदुक्तमिति) यदुक्तं प्राक् को वाऽऽह ज्ञवचनमेतदिति द्वितीये विकल्पे न ब्रूमः सर्ववक्तृ. वचनाप्रामाण्यमिति, स्ववचनविरोधदोषात् , किं तर्हि ? सर्वज्ञवीतरागाद्यभावाद्न्थस्य सर्वभावस्वभाव. 10 विषयस्य कर्तुरप्रामाण्यम् , न तु वक्तुरनादिनिधनस्य वक्तपरम्परागतस्य, वचनस्य च, वक्तृवचनयोः कचि. प्रामाण्यात्, अत्रोच्यते आदिवक्तवञ्चोत्तरवक्तर्यपीति, यथाऽऽदिवक्तारोऽप्रमाणमसर्वज्ञत्वादवीतरागत्वाच, शास्त्राणां सर्वभावस्वभावविषयाणां ते यथार्थज्ञानवचनहीनाः, तथा अनादिप्रसिद्धानां शास्त्राणामध्येतारो यथार्थज्ञानवचनहीनाः, तस्मादुभयेषां ज्ञातृत्ववक्तृत्वयोर्यथार्थयोरनाश्वासस्तुल्यः । किमिव ? धातुकमश्रादिवक्तवत् , यथा धातुविषयबलादिवादिकानां ज्ञानानि मन्त्रवचनानि च विप्रलम्भभूयिष्ठ. 15 त्वादनाश्वास्यानि, आदिग्रहणाद्वशीकरणमन्त्रयोगादिवत् , तत आह-आदिवक्तवञ्चोत्तरवक्तर्यपि धातुकमत्रादिवचनानाश्वासतुल्यतेत्यलमतिप्रसङ्गिन्या कथया । किञ्च अविवक्षितार्थाया नान्तरीयकत्वात् प्रकृतेः प्रयोगो जुहुयाच्छब्दस्येत्येतदपि न न्याय्या क्वचिच्च सार्थकयोरेव स्वार्थाविवक्षा न्याय्या नानर्थकस्यैव, यथा नक्षत्रं दृष्ट्वा वाचो विसृजन्ति, 20 कतरद्देवदत्तस्य गृहम् ? अदो यत्रासौ काक इति तथा तयोर्नार्थवत्त्वेन दृष्टयोस्तदविवक्षया सार्थकत्वं दृष्टम् , प्रयुक्तस्यानर्थकत्वाभावप्रसङ्गात् ।। (अविवक्षतार्थाया इति) यदुक्तमविवक्षितार्थाऽनर्थिकापि कर्तृप्रत्ययसहायकारिणी जुहोतिप्रकृतिरुपात्तेत्येतदपि न्यायविरोधादयुक्तम् । कथं ? कचिच्चेत्यादि, कचिच्चेति सर्वत्र, यथा नक्षत्रं दृष्ट्वा वाचो विसृजन्तीति, कतरदेवदत्तस्य गृहं ? अदो यत्रासौ काक इति, नक्षत्रे काकपक्षिणि चोप 25 वाच्यार्थेति । अथवा को वाऽऽह ज्ञवचनमेतदिति पूर्वोक्तद्वितीयकल्पाश्रयेण पूर्वपक्ष्याह-यदुक्तं प्रागिति । को वाऽऽहे. त्यनेन वयं वक्तृवचनमात्रस्याप्रामाण्यं न ब्रूमः किन्तु निरस्तनिखिलदोषस्य निखिलपदार्थसार्थवेत्तुः कस्याप्यभावात् निखिलभावखभावावबोधकग्रन्थविशेषस्य वेदाख्यस्य न कोऽपि कर्ता विद्यते यदि कश्चित्कल्प्यते न स प्रमाणमित्युच्यते न तु तद्वतुर्न वाऽनादिपरम्पराऽऽगतवत्तृवचनस्याप्रामाण्यमुच्यत इति पूर्वपक्ष्यभिप्रायः । वेदस्यादिवतरि भ्रमादिसम्भवेन यथाऽनाश्वास स्तथोत्तरवक्तर्यपीति वक्तृवचनसामान्यस्याप्रामाण्यं दुर्वारमित्याशयेनोत्तरयति-आदिवक्तवदिति । आदिवक्तर्यनादिवतरि 30 चाविशेषतां दर्शयति-यथेति । क्वचित् खार्थे प्रसिद्धस्यैव शब्दस्यान्यत्राविवक्षितार्थत्वं न तु क्वाप्यप्रसिद्धार्थस्य शब्दस्याविवक्षितार्थतेत्याशयेनोत्तरयति-कचिच्चेति, नक्षत्रे नक्षत्रशब्दः काकपक्षिणि च काकशब्दो रूढः, अत एव नक्षत्रं दृष्ट्वा वाचो विसृजन्तीत्यत्र स्वार्थाविवक्षया कालविशेषोपलक्षकत्वं सम्भवति, एवं अदो देवदत्तस्य गृहं यत्रासौ काक इत्यत्रापि काकशब्दस्योपलक्षकत्वम् , तथा नाग्निहोत्रहवनयोः अर्थवत्त्वं वापि दृष्टमिति न कर्तृप्रत्ययार्थसहकारित्वेन जुहोतिप्रकृतेः स्वार्थपरित्यागे 2010_04 Page #209 -------------------------------------------------------------------------- ________________ अन्यायविवक्षापत्तिः] न्यायागमानुसारिणीव्याख्यासमेतम् युक्तार्थयोरेव दृष्ट्वा नक्षत्रकाकशब्दयोः सार्थकयोः कालगृहोपलक्षणेऽर्थे सत्येव नक्षत्रदर्शनकाकार्थाsविवक्षा न्यायादनपेता-न्याय्या दृष्टा, नानर्थकस्यैवोन्मत्तप्रलपितादेस्तथा, तयोरग्निहोत्रवनयो र्थवत्त्वेन दृष्टयोस्तदविवक्षया च सार्थकत्वं दृष्टमतो न्यायापेतमेतदुक्तमविवक्षितार्थाया नान्तरीयकत्वात् प्रकृतेः प्रयोगो जुहुयाच्छब्दस्येति, किं कारणं ? प्रयुक्तस्यानर्थकत्वाभावप्रसङ्गात् । यद्येष न्यायः शब्दानां प्रयोगे नियतो न स्यात् , नान्तरीयकत्वादपि प्रयोगे साधुत्वमेव स्यात् , ततश्च प्रमादाद- 5 प्रमादाद्वा प्रयुक्तस्य शब्दस्यानर्थकत्वाभाव एव स्यात्, प्रमत्ताप्रमत्ताविशेषश्च स्यान्न त्वेवं भवति, दृष्टशिष्टेष्टविरुद्धत्वात् । स्यान्मतम् उपलक्षणादिप्रयोजनायां विशेषविवक्षायां किमनयाऽविवक्षाविवक्षयेत्येतदयुक्तम् , विवक्षाविवक्षयोरनियमेन शब्दप्रवृत्तौ सत्यामप्रयोजनायाश्चाविवक्षायामन्याद्यविवक्षाभावे विशेष- 10 हेतुर्वाच्यः। उपलक्षणादीति, उपलक्षणादिप्रयोजनायां विशेषविवक्षायां किमनया स्वार्थाविवक्षया सर्वस्य शब्दप्रयोगवक्तुर्विवक्षितपूर्वकत्वात् प्रवृत्तेरविवक्षाविवक्षयेत्येतदयुक्तम् , विवक्षाविवक्षयोरनियमेन शब्दप्रवृत्तौ सत्यामप्रयोजनायाञ्चाविवक्षायामन्याद्यविवक्षाभावे विशेषहेतुर्वाच्यः। अग्निशब्दस्यापि जुहोतिप्रकृत्युपादानवन्नान्तरीयकत्वात् प्रयोगोऽर्थोऽस्याविवक्षित इति प्राप्तम् , ततश्च भस्महोत्रं जुहु- 15 यादित्येतद्वाक्यं न साधीयः, अमिहोत्रं जुहुयादित्येतत्साधीय इति केन हेतुना परिच्छेद्यम् ? किश्चान्यत्युक्ततरी तु तदविवक्षा, वक्ष्यमाणन्यायदर्शनात् , अर्थतत्त्वतत्रत्वात्तस्याः। (युक्ततरीति,) तदविवक्षा-अन्याद्यविवक्षा, किं कारणं १ वक्ष्यमाणन्यायदर्शनात् , वक्ष्यमाणो हि विधिविधिनयेऽयं न्यायो द्रक्ष्यते भवता 'पुरुष एवेदं सर्व'मित्यादि, तद्दर्शनाच्चेदमन्यादिवि-20 कल्पासत्त्वान्नाग्निहोत्रं न होतेत्यर्थाभावादेवाविवक्षा न्याय्या, किं कारणं ? अर्थतत्त्वतत्रत्वात्तस्याः, . अर्थवशाद्वा विवक्षा भवितुमर्हति नान्यथेति । नोपादनं सार्थकं सम्भवतीति भावः । नानर्थकस्यैवेति, सर्वथा क्वचिदप्यर्थेऽप्रसिद्धस्य शब्दस्य विवक्षितार्थत्वं न युज्यते वाच्यस्यैवाभावात् कस्याविवक्षेति भावः। प्रयुक्तस्येति, यदि शब्दस्य प्रयोगमात्रेणैव साधुता स्यात्तर्हि कोऽपि शब्दोऽनर्थको न स्यात् प्रयुक्तत्वादेव, तथा चायं शब्दः प्रमत्तप्रयुक्तोऽसङ्गतार्थत्वात् अयश्च शब्दोऽप्रमत्तप्रयुक्तः सङ्गतार्थत्वादिति विशेषो 25 न स्यात. अतश्च दृष्टविरोधः शब्दानां सार्थकत्वनिरर्थकत्वयोर्दर्शनातू, तथैव शिष्टानामभिमतत्वात्तद्विरोधश्चेति भावः। नन सप्रयोजनं विशेषविवक्षयैव शब्दप्रयोगः न त्वर्थवतः सति प्रयोजने खार्थाविवक्षा, विवक्षयैव शब्दप्रयोगे प्रवृत्तरित्याशङ्कतेउपलक्षणादीति, केनापि प्रयोजनेनैव खार्थस्याविवक्षा शब्दप्रयोक्त्रा विवक्ष्यते, अन्यथाऽग्निशब्दस्याप्यविवक्षा कुतो न.. कृता कुतो वा भस्मादिशब्दस्य विवक्षा न कृता, तस्मात् खार्थाविवक्षापि सप्रयोजनैवेत्याशयेन समाधत्ते-विवक्षाविवक्षयोरिति । नान्तरीयकत्वस्यैव शब्दप्रयोगनिबन्धने दोषमाह-अग्निशब्दस्यापीति । ननु विवक्षाया अप्यर्थाधीनतयाऽर्था- 30 भावादेवाध्यादेरविवक्षा न्याय्या, अग्न्यादेरभावश्च पुरुष एवेदं सर्वमिति वक्ष्यमाणत्वात् पुरुषव्यतिरिक्तार्थाभावादित्यभिप्रा. येणाह-युक्ततरीति । न केवलमविवक्षितखार्थस्य जुहोतेरुपादानं न्याय्यमपि तु सर्वेषामेवान्यादिपदानामिति भावः । जुहो 2010_04 Page #210 -------------------------------------------------------------------------- ________________ 5 १६० तदुपसंहृत्याह एवं तावद्दोषान्तराभिधानमपि, अप्रत्यायकत्वमस्य वाक्यस्य, अप्रत्यवेक्षितार्थयाथातथ्योक्तेर्बालप्रलापवदनुपदेशत्वम् । एवं तावदित्यादि, एवं - अनन्तरोक्तोपपत्तिविधिना, अग्निहवनं कुर्यादित्येतस्मिन्नर्थे प्रदर्शितदोषत्वात्, अथवा अग्निहोत्रं कुर्यादग्निहोत्रं जुहुयाद्धवनं कुर्यादग्निहोत्रं हवनं कुर्याज्जुहुयादित्येवमाद्यर्थेषु प्रदर्शितदोषत्वात्, तावच्छब्दः क्रमार्थः । दोषान्तराभिधानमपि भविष्यत्येष तावदोष इत्यप्रत्याथकत्वमस्य वाक्यस्य । कुतः ? अप्रत्यवेक्षितार्थयाथातथ्यो क्तः, बालप्रलापवत् यथातथाभावो याथातथ्यं, अप्रत्यवेक्षितस्याविचारितस्य अर्थस्य याथातथ्यमप्रत्यवेक्षितार्थ याथातथ्यम्, तस्मादप्रत्यवेक्षितार्थयाथातथ्यादुक्तिस्तस्या अप्रत्यवेक्षितार्थयाथातथ्योक्तेः । किं स्वरूपोऽयमर्थः, केन वा रूपेण प्रमाणं 10 प्रमेयो वेत्यप्रत्यवेक्षितस्यार्थस्योक्तः, शब्दस्यार्थस्य वा प्रत्यायक स्वरूपमप्रत्यवेक्ष्योक्तत्वात्तस्याप्रत्यायकत्वम्, अर्थत्वाच्च शब्दस्तदभिधेयो वाऽप्रत्यवेक्षितार्थयाथातथ्योक्तेरेवाप्रत्यायकः प्रधानादिवत् वैधर्म्येण । तस्मादप्रत्यवेक्षितार्थयाथातथ्योक्तेः । यदि शब्दद्वारेण यद्यर्थद्वारेणोभयथाऽप्यप्रत्यायकत्वं सिद्धमतश्चाप्रत्यायकत्वादनुपदेशत्वं बालप्रलापवदेव । 15 द्वादशारनयचक्रम् किचान्यत्, अग्निहोत्रं हवनं कुर्यादित्येतस्मिन्नेवान्तरोक्तेऽर्थे दोषान्तरं ब्रूमः त्वदभिप्रायवदग्निहोत्रं हवनं कुर्यादित्येतस्मिन्नर्थे हवनानुवादेन विशिष्टेऽग्निहोत्रे तस्य कर्मणः परपरिकल्पिताऽऽत्मादिवदलौकिकत्वादप्रसिद्धखरूपत्वात् करणासिद्धिः । त्वदभिप्रायवदित्यादि, त्वदभिप्रायेण तुल्यं त्वदभिप्राय इव त्वभिप्रायवत् यथात्वदभिप्रेतेऽग्निहोत्रं हवनं कुर्यादित्येतस्मिन्नर्थे हवनानुवादेन विशिष्टेऽग्निहोत्रे ऽभ्युपगम्यमानेऽग्निहोत्रस्य कर्मणस्त्वदिष्टस्य सांख्यादिपरपरिकल्पिताऽऽत्मादिवस्तुतस्त्वस्या लौकिकस्याप्रसिद्धस्य दुर्ज्ञानत्ववदलौकिकत्वात् 20 अप्रसिद्धस्वरूपत्वाद्दुर्ज्ञानत्वमविज्ञातस्य च करणासिद्धि:- सा हवनक्रिया न सिद्ध्यतीत्यर्थः । अत्र परेणाथोच्येत परिहारः अथोच्येत विध्यन्तरविधानशैल्या तत्सिद्धिः, यथा यूपं छिनत्तीत्यादि पूर्व विधाय पश्चात् पलाशमष्टास्त्रमित्यादीनीति, एतदपि न, वैषम्यात्, न हि सछेदनक्रियाकाल एव तिशब्दवत्सर्वेषां शब्दानामविवक्षितार्थत्वे दोषमाह - एवन्तावदिति । एतस्मिन्नर्थ इति, अग्निहोत्रं कुर्यादिति वाक्यस्ये25 तिशेषः । अग्निहोत्रं जुहुयात् स्वर्गकाम इति वाक्यस्यैतावत्पर्यन्तं यावन्तोऽर्थाविहितास्तावदर्थेषु प्रदर्शित दोषत्वादित्यभिप्रायेणाह - अथवेति । दोषान्तरेति अप्रत्यायकत्वमस्य वाक्यस्येत्येष तावदोषो भविष्यतीति दोषान्तराभिधानमपीति सम्बन्धः । अप्रत्यवेक्षितेति, अर्थस्वरूपमविचार्य वाक्यस्योतेरप्रत्यायकं तत्, शब्दस्यापि यथा तथा भावेनोतर्न विवक्षितार्थवाचकं तत् । शब्दार्थयोरपि प्रत्याध्यप्रत्यायक भावमविगणय्याभिधानादप्रत्यायकं तदिति भावः । बालप्रलापो यथा शब्दार्थोभयद्वारेणाप्रत्यायकत्वादनुपदेशरूपस्तथेदमपि वाक्यमित्याह - बालप्रलापवदिति । ननु हवनानुवादेनाग्निहोत्रविधानेऽग्निहोत्र खरु30 पस्यैव पूर्वमप्रसिद्धेः कथं तस्य विधानं सम्भवति नहि सर्वथाऽनिर्ज्ञातं विधातुं युज्यत इत्याशयेनाह - त्वदभिप्रायवदिति । अयं क्रियाकलापोऽग्निहोत्रशब्देनोच्यत इति विधानात् पूर्वं विज्ञानाभावात् परपरिकल्पितात्मा दिवस्तुतस्ववदलौकिकत्वादप्र सिद्धार्थोऽग्निहोत्रशब्द इति भावः । ननु प्रथममनिर्णयरूपेण सामान्यतो विधाय तत इतिकर्तव्यतां प्रदर्शयित्वा पूर्वोदितं कर्म निर्णीयते, यथा सामान्येन प्रथमं यूपं च्छिनत्तीति यूपं विधाय तत् पलाशसम्बन्धि बिल्वसम्बन्धि वाऽष्टकोणात्मकमित्येवमिति - कर्त्तव्यतां प्रदर्श्य यूपस्वरूपं व्यवस्थाप्यते तथा प्रकृतेऽपीत्याशङ्कते - अथोच्येतेति । वाक्यैकवाक्यतया कर्मणो हि विशेषस्व 2010_04 [ विधिविध्यरे Page #211 -------------------------------------------------------------------------- ________________ शैलीवि ] न्यायागमानुसारिणीव्याख्यासमेतम् यूपः, किं तर्हि ? संस्कृतः सन् भविष्यति यूपः इत्थंस्वरूपस्य तस्य काष्ठस्य तदा यूपत्वं नामतो युक्तम् , न पुनरग्निहोत्रस्य तदैव सतः संस्कारनिरपेक्षस्य । __अथोच्येत विध्यन्तरविधानशैल्या तत्सिद्धिरिति, अग्निहोत्रं जुहुयादित्येतस्माद्विधेरन्यो विधिर्विध्यन्तरं यूपं छिनत्तीत्यादि, तस्य विधानं विवक्षितनिरूपणं पूर्व, पश्चादितिकर्तव्यतामिनिरूपणं शैली-स्वभावः तया शैल्या दृष्टया विहितत्वादस्यापि विधेः सा शैलीत्यनुमानात् सिद्धिर्भवति, 5 कस्य पुनर्विधेः विध्यन्तरविधानशैल्या सिद्धिदृष्टा ? यथा यूपं च्छिनत्तीत्यादि यावत् फ्लाशमष्टास्रमित्यादीनि शैल्यनुमान्ने दृष्टान्तमाह । यथाऽत्र पूर्वमविवक्षितनिश्चयावधारणात्मिका कर्तव्यता चोदिता पश्चादष्टास्त्रं पलाशं बैल्वञ्चेत्यादीतिकर्तव्यताचोदनया स्वरूपं व्यवस्थाप्यते तथेहापि । आचार्य आहएतदपि न वैवम्यात् , दृष्टान्तदा_न्तिकयोः शैलीवैषम्यात् , तद्वैषम्यं कालतः प्रसिद्धितोऽवधारणतश्च । तत्र कालतस्तावन्न हि स छेदनक्रियाकाल एव यूपः, भवतीति वाक्यशेषः, छेदनाद्यानर्थक्यप्रसङ्गात् । 10 किं तर्हि ? छेदनादिक्रियाभिः संस्कृतः सन् भविष्यति यूपः, इत्थं स्वरूपस्य तस्य काष्ठस्य तदा यूपत्वं नामतो युक्तम् , यूपस्वरूपं कालान्तरभाव्यर्थापेक्षितं न पुनरग्निहोत्रस्य तदैव सतः संस्कारनिरपेक्षस्य कालान्तरभाव्यर्थापेक्षणमिति वैषम्यम् । इतर आह ननु वत्सो दत्तक इत्यादि यावत् स्थूणेन्द्र उच्यते तादात् , एवं यूपार्थ दार यूप- 10 स्तत्कालत्वादत्रोच्यते, छेदनस्य संस्कारता न विहिता स्यात् , यूपस्य निर्वृत्तत्वात् तस्यामसत्याश्चछिदिरविवक्षितार्थः स्यात् तस्माद्याक्देव यूपं स्वीकरोति तावदेव छिन्त्तीत्युक्तं भवति, छिनत्तेः संस्कारार्थरहितत्वात् , अदृष्टार्थो वा। ननु वत्सो दत्तक इत्यादि, यावत् स्थूणेन्द्र इति, यथाऽत्र तादर्थ्यात्ताच्छब्द्यमेवं यूपार्थ दारू यूप इक्ति तत्कालत्वात् , अत्रोच्यते छेदनस्य संस्कारता न चिहिता स्थात् , यूपस्य नित्तत्वात् तन्नि- 20 वर्त्तनार्थो हि छेदनसंस्कारः। तस्यामसत्याञ्च संस्कारतायां छिदिरविवक्षितार्थः स्यात्-असंस्कारा रूपनिर्णयः यत्र पदाभिहितपदार्थयोराकांक्षादिभिः सम्बन्धो ज्ञातः पुनश्च शेषशेषिभावाद्याकांक्षायां वाक्यार्थयोरन्वयो भवति तत्र वाक्यैकवाक्यतेति । तथा च वाक्यैकवाक्यतया पदैकवाक्यतया वाऽङ्गाङ्गिभावमापन्न क्रियाकलापस्याग्निहोत्रसंज्ञकस्य खर्गसाकात्वमग्निहोत्रं जुहुयात् स्वर्गकाम इति वाक्येन विधीयते इति मीमांसकाः । यथा यूपमिति । यथा यूफे पशुं बनातीति बन्धनाय विनियुक्ते यूपे तस्यालौकिकत्वात् कोऽसौ यूप इत्यपेक्षिते खादिरो यूपो भवति, यूपं तक्षति, यूपमष्टास्त्रीकरोति, इला-25 दिभिर्याक्कैस्तक्षणादि विधिपरैरपि संस्काराऽऽविष्टं विशिष्टसंस्थानं दारु यूपो गम्यत इति भावः। ननु वत्स इति, पुच्छया स्वीकृतो दत्तको बालो वत्स उच्यते, इन्द्रोद्देशेन कृता स्थूणा इन्द्र उच्यते तदर्थत्वात्तथा यूपार्थं दारु यूप उच्यत इति भावः प्रतिभाति, तादात्ताच्छन्द्यमित्युक्तेः, अत्र मूलं गमकाभावान्नोद्धृतं वेदितव्यम् । यूपं च्छिनत्तीत्यादौ मीमांसकाः छेदनादिसंस्कृताना दार्मदीनां पूर्वमवगमे संस्कारविधिवैयादनवगमे तूद्देश्यत्वायोगात् तद्विधानानुपपत्तिरिति यूपत्वादिजातिकाचित्वमेवा यूपादिशब्दानाम् , संस्काररहितेऽपि प्रयोगदर्शनात् , यत्र तु तथा प्रयोगो न दृश्यते तत्र स्वीक्रियत एक संस्कारवाचकत्वान-30 लाहुः । तत्कालत्वादिति, छेदनक्रियाकालत्वमेव यूपस्य न तु च्छेदनोत्तरकालभाव्यथापेक्षित्वं यूपस्वरूपस्यातो न वैषम्य मनिहोत्रयूपशब्दयोरिति भावः । समाधत्ते-छेदनस्येति यदि छेदनकाल एव यूपः सिद्धस्तहि संस्कारविधानवैयर्थ्य यूपल निष्पनत्वात् , ततश्च छिदिधात्वर्थोऽविवक्षितः स्यातू, यूपखीकरणकाल एक छेदनमपि स्वीकृतत्वात् । आनर्थक्यदोषव्याकृतये द्वा० न० २१ 2010_04 Page #212 -------------------------------------------------------------------------- ________________ १६२ द्वादशारनयचक्रम् [विधिविध्यरे त्वेऽनर्थक एव छिदिः स्यादित्यर्थः, तस्माद्यावदेव यूपं स्वीकरोति स्वत्वेन परिगृह्णातीत्युक्तं भवति तावदेव छिनत्तीत्युक्तं भवति, छिनत्तेः संस्कारार्थरहितत्वात्। मा भूदयं दोषो दृष्टविरुद्धत्वादत आह-अदृष्टार्थों वा, स्यादिति वर्तते नैवादृष्टार्थः तत्फलत्वात् । एवं तावत् कालतः शैलीवैषम्यादयुक्तमुक्तं विध्यन्तरविधानशैल्या तत्सिद्धिः यूपं छिनत्ति पलाशमष्टास्रमित्यादिवदिति । अवधारणवैषम्येऽपि अत इयं या तत्र भावना यूपं छिनत्ति छेदनेन यूपं स्वीकरोतीति तत्र न छेदनमेवावधार्यते अष्टास्रकरणादीनामसंस्कारत्वप्रसङ्गात् , किन्तु स्वीकरोत्येवेत्यवधार्यते सेह हवनविधिवाक्येन न शक्याऽऽश्रयितुम् , अवधारणासम्भवाद्धवनेनाग्निहोत्रं करोतीति हवनाद्य न्यस्याग्निहोत्रस्याभावात् । 10 अत इयमित्यादि, अनन्तरोक्ता येयं भावना तयैव भावनयाऽवधारणवैषम्यमपि भावयिध्यामि अत आह-या तत्र भावना यूपं छिनत्ति छेदनेन यूपं स्वीकरोतीति, छिदेः संस्काराभावे यूपखीकरणार्थताया उक्तत्वात् , तत्र च कथमवधार्य ? उच्यते, न च छेदनमेवावधार्यते, यतः स्वीकरोतीति वर्त्तते, कस्तत्र दोष इति चेत् ? यत एवकारस्ततोऽन्यत्रावधारणमष्टाम्रकरणादीनामसंस्कारत्वप्र सङ्गः, तदत्र प्रसक्तम् । तत्तु नेष्यते किन्तु स्वीकरोत्येवेत्यवधार्यते स्वत्वेनापरिग्रहप्रतिषेधार्थमेषाऽव15 धारणभावना यूपे, सेह हवनविधिवाक्येन न शक्याऽऽश्रयितुम् । किं कारणमशक्येति चेदवधारणा सम्भवाद्धवनेनाग्निहोत्रं करोतीति, कथं पुनरसम्भवः ? यस्माद्धवनेनाग्निहोत्रं करोति न प्रव्रज्यादिना, न च करोयेवेत्यवधार्यते स्वर्गादिकामाभावे करणाभावादित्यवधारणवैषम्यम् , हवनेनाग्निहोत्रं करोतीति हवनाद्यन्यस्याग्निहोत्रस्याभावात् । अत एव प्रसिद्धिवैषम्यमपि20 तस्याग्निहोत्रस्याप्रसिद्धस्य क्रियाकलापाभिमतार्थनामधेयमानत्वात् प्रसिद्धयूपद्रव्यछेदनादिवैषम्यम् । (तस्येति,) मात्रग्रहणेन नामधेयत्वसामान्यमेवानुमीयेत नार्थविशेषम् , इदं तदग्निहोत्रं नामास्त्विति, तस्मात् प्रसिद्ध्यप्रसिद्धिभ्यामपि वैषम्यमिति । छेदनमदृष्टार्थ वा भवेदिति भावः। छिदेरदृष्टार्थता च नेष्टा यूपफलकत्वाभ्युपगमादित्याह-नैवादृष्टार्थ इति। ननु छेदनस्य 25 संस्कारत्वाभावे यूपं छेदनेन खीकरोतीति भावना कार्या तस्यां भावनायां न छेदनमेवावधार्यते, स्वीकरोतीति वर्तनात् , अष्टास्रकरणादीनामसंस्कारत्वप्रसङ्गाच्च ततोऽन्यत्रावधारणं कार्यम् , खीकरोत्येवेति खत्वेनापरिग्रहप्रतिषेधार्थम् , हवनविधिवाक्ये त्ववधारणमाश्रयितुं न सम्भवति करोतीत्येवेति न शक्यतेऽवधारयितुम् , कामनाभावेऽकरणात् , नापि हवनम् , हवनादन्यस्याग्निहोत्रस्याभावादित्यवधारणवैषम्यमित्याह-अत इयमित्यादिना. मीमांसकमते तु यूपं छिनत्तीत्यादीनां विधायकत्वेन नियामकत्वाभावादवधारणावकाश एव नास्ति । हवनेनाग्निहोत्रं करोतीत्यपि नाग्निहोत्रं जुहुयादिति वाक्यस्यार्थ इति । अत 30 एवेति, हवनाद्यन्यस्याग्निहोत्रस्याभावादेवेत्यर्थः । अग्निहोत्रमप्रसिद्ध क्रियाविशेषसमुदायस्यैव नामत्वात् क्रियाणाश्चाप्रसिद्धः, यूपन्तु द्रव्यविशेषनामत्वात् प्रसिद्धमिति प्रसिद्ध्यप्रसिद्धिभ्यां शैलीवैषम्यमाह-तस्येति।छेदनादिसंस्कृतपलाशनामत्वं हि यूपशब्दस्य नतु च्छेदनादि क्रियाकलापमात्रनामत्वम् , अग्निहोत्रनाम तु केवलं क्रियाकलापस्येति भावः । नन्वग्निहोत्रशैल्याः प्रमाणत्वे कालप्रसिसवधारणवैषम्यादेव यूपक्रियासादृश्याभावात् कथं यूपच्छेदनादिविध्यन्तरविधानशैल्याऽसमानयाऽग्निहोत्रशैलीसिद्धि 2010_04 Page #213 -------------------------------------------------------------------------- ________________ १६३ सेवावैषम्यम् ] न्यायागमानुसारिणीव्याख्यासमेतम् अतस्तदर्थत्रयमुपसंहृत्य हेतुत्रयनिगमनार्थमाहशैलीप्रामाण्ये चास्य शैल्या यूपक्रियाऽयाथार्थ्यात् तत्सिद्धिरयुक्तैव । (शैलीप्रामाण्य इति) शैलीप्रामाण्यश्चावलम्ब्यमानस्याग्निहोत्रस्य यूपक्रियाया उक्तविधिनैवायाथार्थ्यात् , यथार्थस्य भावो याथाय न याथार्थ्यमयाथार्थ्यं तस्मादयाथार्थ्यात् यूपक्रियाया अग्निहोत्रक्रियायाः शैलीसाम्यं नास्ति, अतो न युक्तं विध्यन्तरविधानशैल्या तत्सिद्धियूपछित्त्यादिवदिति ।। अथवा शैलीप्रामाण्यं-शैल्यनुमानं तस्मिंश्च शैलीप्रामाण्येऽभ्युपगम्यमाने चाग्निहोत्रस्य शैल्या यूपक्रियाया अयार्थाथ्यात् कथङ्कारं विधिविध्यन्तरशैल्योस्तुल्यार्थताऽप्रसिद्धेरलौकिकत्वादनुमानानुपपत्तेः, लोके हि दृष्टमनुमीयते न तु यूपकरणमष्टास्रादिरूपमग्निहोत्रकर्मधर्मिस्वरूपं पृथग्भूतं प्रसिद्धमस्ति यतस्तच्छैल्याऽग्निहोत्रशैल्यनुमीयेत तस्माच्छैलीप्रामाण्ये चास्य शैल्या यूपक्रियाया अयाथार्थ्यात् तत्सिद्धिरयुक्तैव । हवनाग्निहोत्रयोर्भेदेऽपि हवनानुवादविशिष्टाग्निहोत्रविधित्वे चोक्तन्यायेन दृष्टान्तवैषम्यान- 10 शैल्यनुमानमिति । आह ननु सेवादिवत् क्रियामात्रत्वादितिकर्तव्यताभ्यः प्रतिपत्तिस्तन्न, भजनार्थसेवायाः ज्ञातत्वे तासां सेवार्थत्वात् अज्ञातत्वे तदर्थाप्रतिपादनात्, न त्वेवमग्निहोत्रावयवक्रियाः ज्ञाताः अवश्यश्चैतदेवमितरथा प्रतिक्रियं पृथक्त्वापत्तेः।। __(नन्विति) यद्यप्यग्निहोत्रक्रियामात्रत्वे यूपच्छेदादिशैलीवैषम्यं तथापि सेवादिक्रियावदेव तद्भविष्यति यथाहि सेवेत्युपस्थानाञ्जलिकरणादिस्वाम्याज्ञानुवृत्तिभजनार्थाविशेषेण मनोवाकायपरिस्पन्दभेदात्मिकैकैव स्वामिचित्तानुरोधलक्षणा, एवमग्निहोत्राख्या एका क्रिया न सा स्वावयवकलापव्य. तिरिक्ता काचिदस्ति, तस्मात्ता एव पश्वालम्भनप्रोक्षणादिक्रिया अग्निहोत्रमित्यभेदेनोच्यन्ते, आदिग्रहणात् कृषिवाणिज्यादिक्रियामात्रत्वम् , ताभ्य एवेतिकर्तव्यताभ्यः प्रतिपत्तिस्तथेहापि । अत्रोच्यते तन 20 भजनार्थसेवाया ज्ञातत्वे तासां सेवार्थत्वात् , अत्रापि दृष्टान्तदान्तिकयोवैषम्यादित्यभिसम्बन्धः । तदर्शयति-भजनं भक्तिः सैवार्थः सेवाया इति भजनार्थसेवा तस्याः सेवायाः ज्ञातत्वे तासां तदवयवाभिमतानामुपस्थानाञ्जलिकरणादीनां सेवार्थत्वात् , अज्ञातत्वे तदर्थाप्रतिपादनात् । ज्ञाता एव हि ताः 15 रुक्तेत्याह-शैलीप्रामाण्ये वेति, अमिहोत्रशैलीप्रामाण्ये चेत्यर्थः, यूपक्रियाऽयाथार्थ्यात्-यूपक्रियाया अग्निहोत्रशैल्या सादृश्याभावादित्यर्थः । अथाग्निहोत्रयूपक्रियाशैल्योरप्रमाणतामुक्त्वा सम्प्रति शैलीत्वहेतुनाऽग्निहोत्रशैल्या यूपक्रियाशैलीदृष्टा-25 न्तेनाऽनुमानं न सम्भवतीत्याह-अथ वेति । साध्याप्रसिङ्याऽनुमान न सम्भवतीत्याह-तस्मिंश्चेति । हवनाग्निहोत्रयो. भेदेऽपि शैल्यनुमानासम्भवमाह-हवनाग्निहोत्रयोरिति । ननु यथोपस्थानाञ्जलिकरणादिक्रियाकलाप एकैकसेवेत्यभेदेनोच्यते तथा पश्वालम्बनाद्यवयवक्रियाकलाप एवाभेदेनाग्निहोत्रमुच्यते ताश्चावयवक्रिया इतिकर्तव्यताभिः प्रतिपद्यन्त इति सेवादिक्रियावदेवाग्निहोत्रक्रियेत्याशङ्कते-यथाहीति । ज्ञातैव सेवा भजनार्था भवितुमर्हति नाज्ञाता, तथा तदवयवक्रिया अपि, अग्निहोत्रं तदवयवक्रिया वा अज्ञाता एवेति सेवातो वैषम्यमित्याह-अत्रोच्यत इति । इदमत्रावधेयम् , मीमांसकैरनितिं 30 विधेयं निर्जातमुद्देश्यम् , निर्ज्ञानञ्च श तिमुद्देश्यम् , निर्ज्ञानञ्च शास्त्रतो लोकतो वा. पश्वालम्बनायवयवक्रियाणां तत्तद्वाक्यान्तरैः शेषभूतैः प्रसिद्धिरस्ति, अग्निहोत्रन्तु अवयवार्थनिरपेक्षं डित्थडवित्थादिवन्नाम, न तूद्धिदादिवत् . अवयवार्थस्याग्निदेवताया अग्नेवो वाक्यान्तरेण ज्ञातत्वादित्युच्यत इति । तासां सेवार्थत्वादिति, इयं सेवेति सेवापदार्थज्ञाने सत्यञ्जलिकरणादीनां तदनुकूलानां तदर्थत्वं _ 2010_04 Page #214 -------------------------------------------------------------------------- ________________ द्वादारनयचक्रम् [विधिविध्वरे सेवेति प्रतिपत्तिं जनयन्ति नान्यथा, न त्वेवमग्निहोत्रावयवक्रियाः ज्ञाताः तस्माद्वैषम्यम् , अवश्यं चैतदेवं, इतरथा प्रतिक्रियं पृथक्त्वापचेः, यथा कृषिसेवयोः परस्परं तदङ्गक्रियाणाञ्च पृथक्त्वम् , तदङ्गत्वेनाज्ञातत्वात् , एवमग्निहोत्रस्य तदङ्गक्रियाणां स्यात्-न तु भवति तदङ्गत्वेनाज्ञातत्वादग्निष्टोमादीनामिति । आह नात्रापि हवनादीनां दानाद्यर्थत्वाद्वैषम्यम् , उत्तरक्रियामात्रत्वाच्चैतदपि न, लोकविदितदानाद्यर्थानुबद्धेतिकर्तव्यतामात्रार्थतापत्तेः, न चैतदिष्टं दृष्टं वा, अग्निसम्प्रदानत्वविरोधात् । (नात्रापीति) नात्रापि दानाद्यर्थत्वाद्वैषम्यम् किं कारणं ? अत्रापि हुदानादनयोरिति दानाद्यर्थत्वाद्धवनादीनां नाज्ञातत्वमतोऽग्निहोत्रस्यापि ज्ञातदानाद्यङ्गक्रियात्वात् साम्यमेव सेवादिभिः । किश्चान्यत्-उत्तरक्रियामात्रत्वाच, यथा सेवाया उत्तरक्रियामात्रत्वमुपस्थानादीनामेवमग्निहोत्रस्थाग्निष्टो10 मादीतिकर्तव्यतानामित्येतदपि न, लोकविदितदानाद्यर्थानुबद्धेतिकर्तव्यतामात्रार्थतापत्तेः, एवमपि लोकविदितैर्दानाद्यर्थैरनुबद्धाया इतिकर्तव्यताया योऽर्थस्तन्मात्रार्थत्वमापन्नमग्निहोत्रस्य, लोके ह्यनुग्रहार्थ खस्य निसर्गो दानम् , सङ्गत्य प्रीत्या दानमस्मिंस्तत्सम्प्रदानम् , तस्मै दानं यत्र स्वपरानुग्रहो विद्यते तारशे त्यामो दानं, न तु यत्र कचन मूत्रपुरीषादिविसर्गवद्रव्यविसर्गो भस्मनि वा सर्पिःप्रक्षेपवत्, तस्मात् स्वपरोपकारकमेवानौ सर्पिरादिविसर्जन सर्व स्यान्न चैतदिष्टं दृष्टं वा, किं कारणम् ? अग्निसम्ब10 दानत्वविरोधात् , तस्याग्नेर्दहनात्मकस्य सर्वद्रव्याणां विनाशकस्य सम्प्रदानत्वविरोधात् , छिन्नमाणेलामवदानवत् , मुषितस्य वा चौराभयप्रदानवत् । यदि चाग्नय इति सम्प्रदानविशेषो लौकिक एव, ननु लौकिक एव गृह्यमाण इत्याधुक्तदर्शनवदनर्थकः । नैवं सा तदाभत्वात् , अदानात्मकत्वात् , यथा बालरमणकादिक्रियायायुज्यत इति भावः । अवश्यञ्चैतदेवमिति, ज्ञातानामेव तासामवयवक्रियाणां तदर्थत्वमित्यवश्यं स्वीकार्यमिति भावः । 20 इतरथेति, अवयवावयविविज्ञानवैधुर्ये यथा कृषिसेवयोरन्योऽन्यमहाङ्गिभावाभावाद्भिन्नत्वं यथा वा तत्तदङ्गक्रियाणाञ्चागिनो भेदस्तथैवाग्निहोत्रस्य तदङ्गक्रियाणाश्च भेदः स्यान्नेष्टः सः, तस्मात् सेवातो वैषम्यम् , तदङ्गत्वेन क्रियाणामज्ञातत्वादिति भावः । मीमांसका अग्निहोत्रं जुहुयात् वर्गकाम इत्यादीनां विनियोगविधित्वं खीकुर्वन्ति । विनियोगो नामाङ्गाङ्गिभावः, अङ्गप्रधानबोधको विधिविनियोगविधिरिति लक्षणात्, एतस्य विधेः सहकारिभूतानि षट् प्रमाणानि, श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्याभेदात्, एतत्सहकृतेन विधिनाऽङ्गत्वं परोद्देशप्रवृत्तकृतिव्याप्यत्वरूपं पारार्थ्यापरपर्यायं ज्ञाप्यत इत्याहुः । ननु हवनस्यार्थो दानं दाना25 यर्थेन हुधातुना निष्पन्नत्वात् , दानञ्च लोके ज्ञातमेव न त्वज्ञातम् , तदङ्गक्रियत्वाच्चाग्निहोत्रस्य सेवादिभिस्तुल्यतैवेत्याशङ्कतेमात्रापति । साम्ये हेत्वन्तरमप्याह-उत्तरक्रियेति, उपस्थानादीनां यथा सेवा उत्तरक्रियामात्रं तथाऽग्निहोत्रमपि अमिष्टोमादीनामुत्तरक्रियामात्रमिति तुल्यमित्यर्थः । अथ सेवादितुल्यत्वेऽग्निहोत्रस्य लोकप्रसिद्धदानाद्यर्थक्रियावदेव तन्मात्रार्थतैव स्यादित्युत्तरयति-लोकविदितेति । कथं लोके दानं प्रसिद्धमित्यत्राह-लोके हीति, स्वपरानुग्रहाय द्रव्यादेस्त्यागो दानमित्यर्थः । सोऽपि त्यागो न यत्र कुत्रापि किन्तूचिते स्थान इत्याह-सङ्गत्येति, दानपात्रतामात्रमनेन दर्शितम् , नेयं 30 चतुर्थीनिमित्ता संप्रदानता, सम्यक् प्रदीयतेऽस्मै तत्सम्प्रदानमिति व्युत्पत्तिसिद्ध स्यैव सम्प्रदानत्वात् , दानक्रियाकर्मणा कत्तो यमभिप्रेति सम्बध्नाति सम्बद्धुमीप्सते वा तथाविधकारकस्यैव सम्प्रदानत्वात् , तथाचोक्तम् 'अनिराकरणात् कर्तुरत्यागाझं कर्मणेप्सितम् । प्रेरणानुमतिभ्याञ्च लभते सम्प्रदानताम्' इति । महाभाध्यकृताऽन्वर्थताया अविवक्षितत्वाच्च, अत एव खण्डि. कोपाध्यायः शिष्याय चपेटां ददातीत्यादि प्रयोगः । ननु हवनदानक्रियाकर्मणा हविरादिना होत्रा सम्बद्धमिष्यमाणत्वादग्नेलौकिक सम्प्रदानत्वमस्त्येवेत्याशङ्कते-यदि चेति । एवं तर्हि पूर्ववल्लौकिक एव गृह्यमाणेऽर्थ विचारानर्थक्यं लोकप्रामाण्यात् । ____ 2010_04 Page #215 -------------------------------------------------------------------------- ________________ 15 अपूर्वार्थताभङ्गः] न्यायागमानुसारिणीव्याख्यासमेतम् मन्योऽन्यदानभोजनादिक्रियाः । प्रधानादिवादसाधुता वा, प्रसिद्धिविपरीततत्त्वस्थितार्थत्वात् , वेदवादासाधुता वा तेषां स्यात् । (यदि चेति) अग्नय इति सम्प्रदानविशेषो लोकयज्ञतुल्यत्वाल्लौकिक एव, ननु लौकिक एव गृह्यमाणेऽर्थे इदमेवं नैवं वेति विचारोऽर्थवान् न भवेत् , यदि भवेच्चतुष्पात्त्वे सत्युत्प्लुत्य गमनाल्लोमवान् हरिणवन्मण्डूकः, तत एव वा निर्लोमा हरिणो मण्डूकवत्स्यादिति प्रसिद्धिविपरीतं सिद्धयेल्लोकाप्रामा- 5 ण्यकरणत इति तत्प्रसक्तमिहापीत्याह-ननु लौकिक एव गृह्यमाण इत्याद्युक्तदर्शनवदिति । नैवं सेत्यादि, अत्राप्यनिष्टापादनसाधनम् , नैवं सा तथाभूतार्था हवनक्रिया, तदाभत्वात् , तदाभत्वमस्याः परमार्थेनादामात्मकाऽऽपादनात् , सच्च सिद्धम् , यथा बालरमणका दिक्रियायां स्वाद्वन्नादिसंज्ञादिक्रियायामन्योऽन्यदानभोजनादिक्रियास्तदाभाः एवमिदमपि दानमग्नौ प्रक्षेप इति, इदन्त्वनिष्टापादनं प्रधानादिवादसाधुवा च प्रसिद्धिविपरीतेत्यादि, प्रसिद्धविपरीतं तत्त्वं तद्भावस्तत्त्वं प्रसिद्धिविपरीते तत्त्वे स्थितोऽर्थोऽस्य 10 बादस्य नावात् प्रसिद्धिविपरीततत्त्वस्थितार्थत्वात् , वेदनादवत् साधुता स्यात् प्रधानसंसर्गक्षण. भङ्गाद्यात्मकादिवादानां प्रधानादिवादानां वाऽसाधुताऽभ्युपगमवदुक्तहेतोर्वेदवादासाधुता वा स्यादित्युभयथाऽप्यनिष्टापादनम् । अथाऽग्निहोत्रमित्यस्यापूर्वविशेषाभिधानार्थतैव कल्प्यते तथा सत्यपूर्वाभिधाने कोऽर्थः कृतः स्यात् ? अथाग्निहोत्रमित्यादि, अथेत्यधिकारान्तरे, अथ तेषु विकल्पेष्वग्निहोत्रशब्दस्य क्रियावाचित्वे सर्वथा दोषोत्यादभीतेन परेणाग्निहोत्रमित्यस्यापूर्व विशेषाभिधानार्थतैव कल्प्यते न पूर्वोऽपूर्वोsदृशे धर्मविशेषः, तदभिधानमर्थः प्रयोजनं व्यापारस्तावोऽपूर्वविशेषाभिधानार्थतैव कल्प्यते । विशेषशब्दः परस्परविशिष्टाभिर्यज्ञसंस्थानादिभिरग्निष्टोमादिभिरिष्टिभिरभिव्यज्योऽपूर्वोऽपि विशेष्यते, द्रव्यमंत्रदेवतादिविशिष्टाभिर्मा भूद्यज्ञसंज्ञायाः क्रियाया एव धर्मत्वमिति । यथा कैश्चिन्मीमांसकैरेवं 20 लोकाप्रामाण्ये वा प्रसिद्धिविपरीतसिद्धिरित्युत्तरयति-ननु लौकिक एवेति । अत्रापीति, लौकिकत्वपक्षेऽप्यनिष्टमापद्यत इति तत्साधनमाहेति भावः । तामेव साधयति-नैवमिति, सा हवनक्रिया न लोकप्रसिद्धदानात्मिका, तदाभत्वात् , यथा बालरमणक्रियायामन्योऽन्यदानभोजनादिक्रियाः इति प्रयोगः, यथा बालकैः क्रीडायै कृतक्रियामध्ये क्रीडारूपा एव परस्परमन्नादिदामभोजनादिक्रिया वास्तविकान्नदानभोजनादिक्रियासादृश्येन भासमाना अपि न प्रसिद्धदानभोजनादिवरूपास्तथैव हवनक्रियापीति भावः । तस्यास्तदाभत्वमपि परमार्थतोऽदानात्मकत्वस्यापादितत्वात् सिद्धमित्याह-तदाभत्वमस्या इति। 25 लौकिकत्वेऽपरमप्यनिष्टापादनमाह-इदन्विति । प्रधानादिवादः साधुः प्रसिद्धिविपरीततत्त्वस्थितार्थत्वात् , वेदवादवत् । अथ वा वेदवादोऽसाधुः, प्रसिद्धिविपरीततत्त्वस्थितार्थत्वात् प्रधानादिवादवदित्युभयथाप्यनिष्टप्रसङ्ग एव लोकप्रसिद्धिविरुद्धार्थप्रकाशकत्वादिति भावः । सांख्यमतापेक्षया प्रधानेति, वैशेषिकापेक्षया संसर्गेति, बौद्धापेक्षया क्षणभङ्गेति । अथाग्निहोत्रादिशब्दानां क्रियावाचित्वे दोषमभिधायापूर्वविशेषाभिधायकत्वे दोषप्रदर्शनायाधिकारान्तरमारचयति-अथेति । नैयायिकादिभिर्विहितयागादिक्रियासाध्यापूर्वस्यैव धर्मत्वाङ्गीकारात्तस्य चावान्तरव्यापारमात्रत्वाच्छ्रेयःसाधनत्वाभावेन याग-30 होमादिरेव धर्मो न त्वपूर्वमिति मीमांसकाः, यागादिकर्तर्येव धार्मिकपदप्रयोगदर्शनात्तथा चाग्निहोत्रशब्दस्यापूर्वविशेषस्य धर्माख्यस्याभिधानमेव प्रयोजनं तदभिधाने वा तच्छब्दस्य व्यापारः कल्प्यते इति पूर्वपक्षाभिप्रायः। विशेषशब्द इति, अपूर्वविशेषेत्यत्र विशेषशब्द इत्यर्थः । अङ्गक्रियाभिः द्रव्यमंत्रदेवतादिविशिष्टाभिरग्निष्टोमादिभिरिष्टिभिरभिव्यज्योऽपूर्व एव धर्मशब्दवाच्यो भवेत् , किन्तु प्रधानभूतयज्ञादिक्रियैव धर्मो मा भूदिखेतमर्थ सूचयितुं विशेषशब्द इति भावः । यथा कैश्चिदिति, 2010_04 Page #216 -------------------------------------------------------------------------- ________________ १६६ द्वादशारनयचक्रम् [विधिविध्यरे व्याख्यायते 'यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन्' (ऋ. १०,९०, १५) इति, किं कारणम् ? तस्मिन्नर्थे प्रत्यक्षत एवानित्याः क्रियाया अनन्तरं फलसम्बन्धादर्शनात् क्रियावैफल्यदोषप्रसङ्गादग्निहोत्रमिति धर्मः क्रियाभिव्यङ्ग्यः इत्युच्यते, कार्यकारणोपचारादग्निहोत्राभिव्यङ्ग्योऽग्निहोत्रमिति ततोऽग्निहोत्रं धर्मं जुहुयाद्भावयेत् स्वर्गकाम इत्येष वाक्यार्थी निर्दोष इत्येवमर्थ स्पष्टीकार5 यितुं विधिविधिनयः पृच्छति-तथा सत्यपूर्वाभिधाने कोऽर्थः कृतः स्यात् ? अर्थशब्दस्य प्रयोजनाभिधेययोईष्टत्वात् कोऽर्थः साधितः ? किं प्रयोजनम् ? कथं स्यात् ? कोऽभिधेयः समर्थितः स्यात् । विधिनयो ब्रवीति यः स्वर्गकामः स हवनेनेतिकर्तव्यताविशेषेण स्वर्ग भावयेदिति कृतः स्यात् , न, विद्यापर्यायतत्त्वज्ञानोत्पादनार्थत्वादविद्यानिराकरणार्थत्वाच्च शब्दप्रयोगः, तेन किमूनीकृतं? याव10 देवोक्तं भवति यः स्वर्ग कामयते स जुहुयादिति तावदुक्तं भवत्यपूर्व जुहुयात्स्वर्गकाम इति, ततो भावनस्य गतार्थत्वान्नार्थः कश्चिदग्निहोत्रमित्यनेन । प्रसिद्धिविरुद्धा चेयं कल्पना तस्य तदथोभावात् । (य इति) यः स्वर्गकामः स हवनेनेतिकर्तव्यताविशेषेण स्वर्ग भावयेदित्ययमर्थः कृतःसाधितः स्यादित्यर्थः । विधिविधिनय आह-विद्यापर्यायतत्त्वज्ञानोत्पादनार्थत्वादविद्यानिराकरणार्थ15 त्वाच्च शब्दप्रयोगः, तेन किमूनीकृतमर्थादविद्याया इति न किंचिदूनीकृतमित्यभिप्रायः, तत्समर्थयति यावदेवेत्यादि, यावदुक्तं भवति यः स्वर्ग कामयते स जुहुयादिति तावदुक्तं भवत्यपूर्व जुहुयात्स्वर्गकाम इति नापूर्वोऽर्थोऽधिकोऽग्निहोत्रशब्देन लभ्यते हवनेनैव तस्याभिव्यङ्ग्यत्वात् , जुहुयात् स्वर्गकाम इत्येतावतैव गतार्थत्वात् , जुहुयात्-धर्म भावयेत् स्वर्गकाम इत्येतस्यां वाक्यार्थव्यक्तौ कोऽग्निशब्देन केचिन्मीमांसका आहुः य एव श्रेयस्करः स एव धर्मशब्देनोच्यते, यो हि यागमनुतिष्ठति तं धार्मिकमिति समाचक्षते, यश्च 20 यस्य कर्त्ता स तेन व्यपदिश्यते यथा पाचको लावक इति, तेन यः पुरुषं निःश्रेयसेन संयुनक्ति स धर्मशब्देनोच्यते न केवल लोके, वेदेऽपि 'यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन्' इति यजतिशब्दवाच्यमेव धर्म समामनन्तीति भावः। किमर्थ यज्ञादि क्रिया धर्मो न भवतीत्यत्राह-तस्मिन्नर्थ इति, ननु न तावद्यागादीनां खरूपमेव धर्मः, क्रियायाः क्षणिकत्वेन कालान्तरभाविस्वर्गसाधनत्वासम्भवात् क्रियावैयात् । किन्तु यागादिक्रियाभिव्यङ्ग्यो व्यापारविशेषो धर्मः, कार्ये धर्मेऽग्निहोत्रादिकारणस्योपचारादग्निहोत्रादिक्रियाभिव्यङ्ग्यो धर्मविशेषोऽपि अग्निहोत्रादिशब्देनोच्यत इति न यज्ञादिक्रियाधर्म 25 इति भावः । मीमांसकास्तु यागादिक्रियाया एव धर्मत्वमाहुः, न त्ववान्तरव्यापारखरूपापूर्वस्य, तद्रूपस्य वेदादनवगमात्, साध्यसाधनभावान्यथानुपपत्त्या हि तत्कल्पनम् , फलकालेऽपि धर्मवानयमिति व्यवहारात् तदानीमपि शक्तिरूपेण यागस्य सत्त्वान्नापूर्वकल्पना तद्धि न फलसाधनत्वेन यागसाध्यत्वेन वा कल्पयितुं शक्यते श्रुतहान्यश्रुतकल्पनाप्रसङ्गात् , तस्माद्यागस्य फलोत्पादिका शक्तिः आत्मनो वा फलभोगयोग्यताऽवान्तरव्यापारो न धर्मपदवाच्य इति यागादिक्रियैव श्रेयःसाधनत्वाद्धर्म ति वदन्ति, अत एव चोदनालक्षणोऽर्थो धर्म इत्युक्तम् । ननु शब्दप्रयोगस्तत्त्वज्ञानार्थमविद्यानिराकरणार्थञ्च क्रियते तथा 30 चानेन शब्दप्रयोगेण तथाविधेन भवितव्यम् न चैवमस्ति तेन शब्दप्रयोगेणाविद्याया ईषदप्यनिराकरणादित्याशयेनाह-विद्यापर्यायेति । जुहुयात् वर्गकाम इत्येतावच्छब्दप्रयोगेणैवाभिलषितार्थलामे किमग्निहोत्रशब्देनेत्याह-यावदुक्तं भवतीति । नन्वग्निहोत्रशब्देन धर्मो विवक्षितः स च हवनेनैव लभ्यते हवनाग्निहोत्रयोरेकार्थत्वात् तथा चाग्निहोत्रपदाभिव्यङ्ग्यो धर्मो हवनपदेनैवाभिव्यज्यत इति नाग्निपदेन न वा होत्रपदेन प्रयोजनमस्तील्याह-हवनेनैव तस्याभिव्यङ्ग्यत्वादिति । अत्र मीमांसकाः हुधातुना हवनसामान्यबोधनात्तत्र च निर्विशेषं न सामान्यमिति न्यायेन वनविशेषज्ञानं नियमेनापेक्षितं तच्च 2010_04 Page #217 -------------------------------------------------------------------------- ________________ निरूपणासंभवः ] न्यायागमानुसारिणीव्याख्यासमेतम् १६७ होत्रशब्देन चार्थ : ? इति । अत आह- ततो भावनस्य गतार्थत्वात्, भवन्तं धर्मं भावयतो हेतुकर्मसाधनसाध्यस्य धात्वर्थस्य भावनस्य जुहुयाच्छब्दप्रयोगादेव गतार्थत्वान्नार्थः कश्चिदग्निहोत्रमित्यनेन, एवं तावदग्निहोत्रशब्दस्य प्रयोगो निरर्थकः । प्रसिद्धिविरुद्धा चेयं कल्पना लोके वेदे वा, तस्य तदर्थाभावात् । अभ्युपेत्याप्यपूर्व विशेषाभिधानमप्रत्यक्षत्वान्निरूपणं हवनेन नोपपद्यत इति ब्रूमः - निरूपणवैधर्म्यात्, न च स प्रत्यक्षोऽपूर्वो यतस्तेन निरूपणमारभ्येत । (निरूपण वैधर्म्यादिति ) इह हि यद्वटादिवस्तु मृदानयनमर्दनादिक्रियया निरूपणार्थं प्रत्यक्षत उपलब्धेर्वरं व्यपदिश्यते अनया क्रियया घटो निर्वर्त्यते, अस्यास्तत्कार्यमिदं कारणमिति, दृष्टकारणकार्य सम्बन्धत्वात्, न जात्वदृष्टपूर्वस्य साधर्म्यदृष्टान्ताभावेऽनुमानाभावादत आह-न च स प्रत्यक्षोsपूर्वो यतस्तेन निरूपणमारभ्येत - हवनस्य कार्यं सः इदञ्चास्य कारणमिति निरूपणं व्याख्येत्यर्थः, सा कथं व्याख्येति चेदुच्यते येन हवनेन दृष्टापूर्वनिर्वर्त्तनशक्तिना निर्वर्त्योऽग्निहोत्राख्योऽपूर्वो- 10 निर्वर्त्यते तत्तथानुष्ठातव्यं हवनम्, यथा मृदानयनक्रियाघटनिर्वर्त्तनार्थमिति, तच्च न युज्यते, अत्यन्तमदृष्टकारणकार्यसम्बन्धत्वादनयोः सम्भावनयैवमपि कृत्वा कल्पनात्मिकयोक्तमपि न सम्भवतीति । safear दोषास्तत्परिहारमनादृत्य परेण प्रसिद्धि मात्रप्रतिपादनार्थम् — अथोच्येत अस्यास्तावत्प्राप्तेः वाक्यान्तरप्रापिता प्रसिद्धिर्भविष्यत्यनये होत्रमग्निहोत्र - मिति, वाक्यान्तरानुबन्धाच्चेतिकर्त्तव्यताप्रसिद्धेः । 15 ( अथेति ) अथोच्येत - अस्यास्तावत् प्राप्तेः प्रसिद्धिर्भविष्यतीति, ततो दोषपरिहारो भविष्यतीति, प्राप्तिरिति 'स्त्रियां क्तिन् ' ( पा. ३।३।९४ ) इत्यत्राऽऽबादीनाश्चेति वक्तव्यम्, 'गुरोश्च हलः ' (पा. ३ | ३ | १०३ ) इत्यप्रत्ययेनापवादेन मा भूद्वावेति । प्रापणात् प्राप्तेः वाक्यान्तरप्रापिता प्रसिद्धिर्भविष्यति अग्नये होत्रमिति चतुर्थीसमासः योगविभागादश्वघासाद्युपसंख्यानाद्वा रूपसिद्धिः । तदर्थप्रसिद्धिश्च ततः करणं तत्फलसम्बन्धश्च कर्तुरिति सर्वमुपपन्नम्, कतमस्माद्वाक्यात् प्रापिता प्रसिद्धि 20 रिति चेत् ? वक्ष्यमाणे वाक्यान्तरे 'यमये च प्रजापतये च सायं जुहोति घृतेन पयसा दध्ना जुहुयादिति' तदनुबन्धाश्चेतिकर्त्तव्यतैव कर्त्तव्यता तस्याः प्राप्तेः, वाक्यान्तरप्रापिताया अनुबन्धात्सम्बन्धादनुपरताकांक्षादुत्तराः सर्वा इतिकर्तव्यता एव कर्तव्यतास्तासां चेतिकर्त्तव्यतानां प्रसिद्धि - रग्निहोत्रस्य प्रसिद्धिस्तदात्मकस्येति । 5 नामधेयेन सम्भवति तदर्थमेव च नामधेय समर्पकोऽग्निहोत्रशब्दः, एवं हवनस्य क्रियाकलापरूपस्य संकल्पादावुच्चारणे गौरवाला- 26 घवेन तादृशक्रियाकलापबोधकनामधेयस्यावश्यकत्वे तद्बोधकमग्निहोत्रपदमित्याहुः । अपूर्वविशेषाभिधायकत्वमग्निहोत्रशब्दानां न क्वापि प्रसिद्धमिति तदर्थंकल्पनाविरुद्धेत्याह- प्रसिद्धिविरुद्धेति । तुष्यतु दुर्जन इति न्यायेन तदभ्युपगमेऽपि दोषं वक्तुमाहअभ्युपेत्यापीति । इह हीति, हवनेन धर्मस्य निरूपणं न सम्भवति, निरूपणस्वरूपवैधर्म्यात्, प्रत्यक्षयोरेव हि निरूपणं भवति, घटादीनां प्रत्यक्षत उपलब्धेर्घटादिवस्तु मृदानयनादिक्रियया निर्वत्र्त्यं, तत्क्रियाकार्यं घटादि सा च तत्कारणमिति व्यपदेष्टुं शक्यते, न जात्वदृष्टपूर्वस्येति नापूर्वहवनयोः साध्यसाधनभावान्निरूपणं सम्भवति । साधर्म्यदृष्टान्ताभावान्नानुमानेनापि निरूपणम्, 30 गृहीतेऽपूर्वे तेन सह कस्यचित्सम्बन्धग्रहणं सम्भवतीति भावः । अत्र मीमांसकां आगमादप्यदृष्टयोः कार्यकारणसम्बन्धावगम इति वदन्ति । सम्भावनयेति, कार्यकारणभावसम्भावनयाप्यनयोर्निरूपणं न सम्भवति, कल्पनात्मकत्वप्रसङ्गादिति भावः । 2010_04 Page #218 -------------------------------------------------------------------------- ________________ १६८ द्वादशारनयाचक्रम् अत्रोच्यते न तर्हि पुनर्जुहुयादिति वाच्यं स्यात् , अग्निहोत्रशब्देनैवाग्निप्राजापत्यादिसम्प्रदानजुहोतीत्यादीतिकर्तव्यतायुक्तार्थत्वात् पुनरपि स एव दोषप्रपञ्च उपस्थितः।। (नेति) पुनरपि प्रागभिहितो यो 'न हि कश्चिजुहोतिपुनर्वचनेने'त्यादि ग्रन्थार्थः स एव 5 दोषप्रपञ्चोऽस्मिन्नपि व्याख्याध्वन्युपस्थितः ।। अपि चैवमत्रापि पुरुषप्रमाणकवादापत्तिः, उत्तरोत्तरविरोधपरिहारविचारप्राप्यार्थपरिग्रहात्तर्क आश्रितो भवति सामान्याद्यर्थैकान्तवदेव, स च दोषत्रयादप्रतिपूर्णः पौनरुक्तयादेरसत्कार्याभ्युपगमात् पुनस्तत्त्यागाच्च । अपि चैवमित्यादि, किच्चान्यदत्रापि पुरुषप्रमाणकवादापत्तिः किं कारणं ? उत्तरोत्तरविरो10 धपरिहारविचारप्राप्यार्थपरिग्रहात् , अग्निहोत्रहवनयोः पौनरुक्त्यादिदोषाद्विरोध इत्युक्तेऽनुवादविधि त्वान्नति परिहारः पुनरप्रसिद्धत्वाद्विरोध इत्युक्ते कुर्यादर्थे जुहुयाच्छब्द इत्येवमादिविचारैः प्राप्योऽर्थस्त्वया परिगृहीतोऽतः स्वबुद्धिप्रामाण्यावलम्बनात् पुरुषप्रमाणकस्तर्क आश्रितो भवति, तर्कलक्षणञ्च अविज्ञाततत्त्वेऽर्थे कारणोपपत्तितस्तत्त्वज्ञानार्थमूहस्तर्कः' (गौ० अ-१आ-१-सू. ४०) इति । किमिव ? सामान्याद्यर्थैकान्तवदेव, यथा सामान्यमेव विशेषा एक सामान्यविशेषश्चेत्येकान्तार्थपरि15 ग्रहः प्रागुक्तविधिना पूर्वोत्तरविरोधपरिहारप्राप्योऽर्थोऽशक्यप्रालिरफला पुरुषमाणत्वालायायामक प्राप्तिरितीति, प्रोपसर्गादापू व्याप्ताविति धातोः स्त्रियां क्तिन्नित्यस्यापवादभूतेन गुरोश्च हल इति सूत्रेणाप्रत्ययो मा भूदिति स्त्रियां क्तिन्निति सूत्रे आबादीनाश्चेति वक्तव्यमिति भाष्ये उक्तत्वात् क्तिन्प्रत्यये प्राप्तिरूपमिति भावः । अग्नये होत्रमिति, 'चतुर्थी तदर्थार्थवलिहितसुखरक्षितैः इति सूत्रस्य चतुर्थी, तदर्थार्थबलिहितसुखरक्षितैरिति योगविभागं कृत्वा प्रथमयोगेन चतुर्थ्यन्तं समर्थन समस्यत इत्यर्थकेनाग्नये होत्रमित्यत्र समासो बोध्यः। यद्वा योगविभागो न कर्त्तव्यः, तर्हि प्रकृते कथं समास इति चेदश्वघासाधुप20 संख्यानमित्युक्तत्वात् समासः, भाष्यकृन्मतेऽश्वघासादीनां न चतुर्थीसमासः किन्तु पष्ठीतत्पुरुष एव। अत एव मीमांसकः खण्ड देवो होत्रशब्दं भावे व्युत्पाद्यामेर्होत्रमिति षष्ठीसमासमुक्तवान् , अत्रैव स्वस्लक्षणं सङ्गच्छते, चतुर्थीतत्पुरुषे तु कर्तृकरणे कृता बहुलमित्यत्र बहुलग्रहणात् तस्य च सर्वोपाधिव्यभिचारार्थत्वाचतुर्थ्यन्तमपि कृता समस्यत इति तेन समासः कार्यः, सचानन्यगतिकत्वाद्धीनः वरलक्षणाननुगतश्चेति तं समासं त्यक्तवान् , शाबरभाष्ये तु यस्मिन्नग्नये होत्रं होमस्तदग्निहोत्रमिति व्यधिकरण चतुर्थीबहुव्रीहिराश्रितः, समासान्तरासम्भवात् , षष्ठीतत्पुरुषे जुहोतिसामानाधिकरण्यानुपपत्तेश्चेति । तदर्थप्रसिद्धिश्चति। 25 अग्निहोत्रशब्दार्थप्रसिद्धिश्चेत्यर्थः, सा च वाक्यान्तरात् । वाक्यान्तरादेव च करणस्य कर्तुः फलसम्बन्धश्व, यदग्नये चेत्यनेन वाक्यान्तरेणाग्निसम्प्रदानकहवनस्य घृतेन पयसा दनेत्यनेन च करणस्य प्रसिद्धिः, तथा च वाक्यान्तरेरितिकत्तव्यताः प्राप्नुवन्ति तासां परस्पराकांक्षावतां सम्बन्ध एव कर्तव्यताऽग्निहोत्रात्मिकेति तदर्थप्रसिद्धिरिति भावः । अमुमर्थमेव स्फुटयतिवाक्यान्तरप्रापिताया इति । एवं तर्हि वाक्यान्तरप्रापितेतिकर्तव्यताभिरेवाग्निसम्प्रदानकहक्नादिप्राप्तेः पूर्ववत् पुनरुक्ति प्रसङ्ग इत्याह-न तर्हि पुनरिति । अपि चैवमित्यादि, पुरुष एव प्रमाणं यस्य नादस्येति पुरुषप्रमाणको कादस्तदापत्तिः 30 पुरुषकृतविचारप्राप्तार्थपरिग्रहात्तदनुसारेण वाक्यार्थनिर्णयात् पौरुषेयत्वं वेदस्यापन्नम, सोऽपि तर्कलक्षणो विचारोऽपरिपूर्ण एव, एकान्तेन सामान्याद्यात्मकवस्तुवादवदिति भावः। विचारप्रकारं दर्शयति-उत्तरोत्तरेति । तर्कलक्षणश्चेति, सामान्यतो ज्ञाते विशेषतोऽज्ञाते वस्तुनि जिज्ञासा भवति जानीयेदमिति सदेवमविज्ञाततत्त्वेऽर्थे व्याहतधर्मविमर्शनेन किं खिदेवमाहोखिन्नैवमिति संशयो जायते तथाभूते वस्तुनि तत्त्वज्ञाना । कारणोपपत्तिपूर्वकं योऽयमूहो ज्ञानविशेषः स तर्क इति सूत्रार्थः । तस्याश्रयो को दोष इत्यत्राह-प्रागुक्तविधिनेति । अत्र तर्काश्रयणेऽपि पुनरुक्तत्वादिदोषसम्भवेनापरि 2010_04 Page #219 -------------------------------------------------------------------------- ________________ असत्कार्यस्वीकारः] न्यायागमानुसारिणीव्याख्यासमेतम् तर्कः, स चानिष्ट इति, अपि च तर्कोऽप्रतिपूर्णो यदि न भवेदाश्रीयेत किन्त्वप्रतिपूर्णः, कस्मात् ? दोषत्रयात, कतमस्माद्दोषत्रयात् ? पौनरुत्यादेरसत्कार्यवादाभ्युपगमात् पुनस्तत्त्यागाच । जुहुयादुक्तः पौनरुक्तयादिदोषाः प्रागुक्तवत् । असत्कार्याभ्युपगमप्रदर्शनार्थमाह एकावस्थामात्रविच्छिन्नपूर्वापरत्वाग्न्यादिभिन्नवस्तुत्वाभिनिवेशविधानाच्च हवनक्रिया-5 नुष्ठानं तत्फलाभिमतः स्वर्गस्तयोश्च सम्बन्ध इति परस्परं विघटितत्वानोपपद्येत, कारणे कार्यस्यासत्त्वैकान्ताभ्युपगमात् । एकावस्थामात्रविच्छिन्नेत्यादि, यावत्कुर्यादिति कारणे कार्यस्यासत्वैकान्ताभ्युपगमात् । एकावस्थामात्रविच्छिन्नपूर्वापरत्वान्यादिभिन्नवस्तुत्वाभिनिवेशविधानाच्चेति तच्छब्दाजुहुयादुक्तेश्चैकस्यैवाऽवस्था एका च साऽवस्था चैकावस्था तत्परिमाणमेकावस्थामात्रं स्तिमितसरःसलिलवदविच्छिन्नं तस्यैव 10 पुनस्तत्त्वं विच्छिन्नं पूर्वस्यापरस्येन्धनादेरन्यादेर्भस्मादेर्घटपरादेश्व परविषयसामान्यवादिमतवत् सर्वेक्यापन्नस्य सतोऽम्यादेर्मिन्नवस्तुत्वेनाभिनिवेशः, तदभ्युपगमेऽग्निरिति परमाणुद्यणुकादिभूम्यवादिसंयोगसम्भूतवनस्पतीभूताग्निभस्मत्रुटितपरमाण्वादिविच्छिन्नावस्थामात्रत्वे सत्यग्निरिति भवति क्रमेण परिणामभेदाभ्युपगमात् तस्य विधानादग्निहोत्रं जुहुयादिति च हवनक्रियानुष्ठानं तत्कलाभिमतः स्वर्ग: तयोश्च सम्बन्ध इति परस्परं विघटितत्वान्नोपपद्येत पूर्वापराभ्युपगमयोः, किं कारणं विघटितमिति 15 चेदुच्यते, कारणे कार्यस्यासस्वैकान्ताभ्युपगमादिति विघटन प्रदर्शनम् । एवं हि कारणे धृतादीकार्यस्यामिहवनकर्मणस्तत्कार्यस्य च स्वर्गादेरसत्त्वे सति करणमुपपद्यते, तच्च सति नोपपद्यते, सिौदनपचनवत् । विशिष्टैकाम्याद्यवस्थाभ्युपगमश्च पुरुषादिकारणात्मकसवैक्याभ्युपगमविरोधिनि सत्युपपद्यते नान्यचेत्याह 20 सर्वगतसत्कार्यकारणवृत्तित्वेन भेदविधिनिर्विषयत्वादतः सर्ववस्तुसन्निधिसभूताऽपि सा भेदसाधनसम्बन्धाभिनिर्वाति विधीयते तदन्वनुष्ठात्रापि तदुपदिष्टभेदसाधननिष्पाद्यत्वेनाभ्युपगम्य यथाभागकारकविन्यासात्मकेतिकर्तव्यतयाऽनुष्ठीयतेऽतोऽसौ प्राङ्नासीदिपूर्णत्वान्न शक्यमित्याह-अपि चेति । प्रागुक्तवदिति, विज्ञेया इति शेषः । अथैकात्मस्वरूपात् सतोऽन्यादेभिन्नवस्तत्वामिसन्धिनाऽग्निहोत्रं जहयादित्यादिक्रियाविधानादसत्कार्यवाद आश्रित इत्याचष्टे-एकावस्थेति। तच्छब्दादिति.कुर्याच्छब्दा-25 दिव्यर्थः, कुर्याजुहुयादित्येकस्यैवावस्त्रोच्यत इति भावः । एका च सेति, पूर्वापरावस्थापरिहारेणैकावस्थामात्रतस्वाभ्युपगमेनाम्यादिविधानात् परविषयसामान्यवादिवदसत्कार्यवादस्स्थयाभ्युपगत इति भावः । परमाण्विति, परमाणुलणुकादिक्रमेणाम्यादिभूत्वा पुगः परमाणुपर्यन्तं वियोगो भवति, तत्र यावदमि पूर्वावस्थाः ततो यावत् परमाणूतराषस्थाः तेषामत्यन्तमेदाभ्युपगमाद्विघटितार्थता, असत्कार्याभ्युपगमात् , सत्कार्याभ्युपगमे तु सिद्धोदनस्य रधनवनिरर्थकं करणमिति भावः । ननु निखिलावस्थाविषिष्ट एकोऽनिरभ्युपगम्यते न तु परिहतपूर्वापरावस्थो वर्तमानकावस्थोऽमिरिति यदि स्वं ब्रूयात्तथापि सोऽभ्युपगमः सर्वात्म-30 कैककारणपुरुषाद्यभ्युपगमविरुद्ध एव सन् सम्भवति न त्वविरुद्धः समित्याह-विशिष्टैकेति । सर्वगतेति, सत् कार्य यस्मिमिति सत्कार्यम् , सर्वगतच तत् सत्कार्यश्च सर्वमतसत्कार्य तञ्च तत्कारणञ्च सर्वगतसत्कार्यकारणं तहत्तित्वेऽभ्युपगम्यमानेऽम्यादि. विशेषाभावादमिहोत्रं कर्यादिति मेदविधिनिर्विषया स्थाविति भाषः। पूर्व कार्य मासीत्ततः पवादुत्पममिति दर्शयति-अत इति। द्वा० न० २२ ___ 2010_04 Page #220 -------------------------------------------------------------------------- ________________ द्वादशारनयचक्रम् [विधिविध्यरे त्याश्रिता, कार्यत्वेन परिगृहीतत्वात् कुर्याजुहुयादित्यादिवचनाद्विशेषकान्तवस्तुवत् , एवमनेन तर्केणासत्कार्यवादोऽभ्युपगतस्त्वया, स चाप्रतिपूर्णः, असिद्धहेतुकत्वात् प्रतितर्केण बाध्यत्वाच्च । (सर्वगतेति) सुप्तसुषुप्तजागरितत्वाद्यवस्थं क्रमेणैकमेव युगपद्वा सर्वगतं पुरुषाख्यं कारणं 5 तच्च सत्कार्य, सर्वगतं च तत् सत्कार्यकारणश्च तदिति विग्रहात् । वक्ष्यमाणविधिविधिनयदर्शनेन तद्वृत्तित्वेनाग्निहोत्रं कुर्यादिति भेदविधेनिर्विषयत्वमन्याद्यभावात् , यथोक्तम् 'न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः । परेण नाकं निहितं गुहायां विभ्राजते यद्यतयो विशन्ति ॥' (कैवल्योपनिषत् खं-१-का-३) तथा 'पुरुष एवेदं सर्वं यद्भूतं यच्च भाव्यम् , उतामृतत्वस्येशानो यदन्ने. नातिरोहति' (ऋ० मं० १० सू० ९०) इत्यादि । एतद्दर्शनं प्रतिपादयिष्यते । अतः सर्ववस्तुसन्नि10 धीत्यादि, सर्ववस्तूनां सन्निधौ सद्भूतैव सा हवनक्रिया, तथापि भेदाः साधनान्यस्याः, घृतेन पयसा जुहुयादित्यादिभेदक्रिया एवाग्निहवनक्रियायाः साधनानि, तान्यन्तरेण तदभावात् , तत्साधनसम्बन्धाभिनिर्वत्येति विधीयते, तदन्वनुष्ठात्रापि तदुपदिष्टभेदसाधननिष्पाद्यत्वेनाभ्युपगम्य यो यो भागो यथा भागं कारकाणां विन्यास आत्मा यस्या इतिकर्तव्यतायाः सा यथाभागकारकविन्यासात्मिका तयेतिकर्तव्यतया गवालम्भनप्रक्षेपादिप्रकाररूपयाऽनुष्ठीयते सामर्थ्यादतोऽसौ प्राङ्नासीदित्याश्रिता, कस्मात् ?. 18 कार्यत्वेन परिगृहीतत्वात् , कुर्याज्जुहुयादित्यादिवचनात् कार्यत्वेन- निर्यत्वेन परिगृहीतैव सा, दृष्टान्तो विशेषकान्तवस्तुवदिति, यथा विशेषैकान्तवादिना कार्यमेव न कारणमिति, प्रतिक्षणोत्पत्तिविनाशात्मकस्वात् प्रतिपन्नं वस्तु प्राङ् नास्ति तच्च त्वयाऽभ्युपगतं क्रियाभ्युपगमादिति त्वां प्रति साध्यसाधनधर्मान्वितो दृष्टान्तः, मयापि च त्वदभ्युपगमेनोक्तत्वादिति साध्यसाधनम् । एवमनेन तर्केणासत्कार्यवादस्त्वयाऽभ्युपगतो भवति, स चाप्रतिपूर्णस्तर्कोऽसिद्धहेतुकत्वात् प्रतितर्केण बाध्यत्वाच्च । 20. नतु तत्त्वमेव वस्तुनोऽसत्कार्यत्वं व्यङ्ग्यत्वात् , व्यङ्गया हि सा क्रिया, न कार्या, अवि वक्षितप्रत्येकसमुदितघृतादिद्रव्यधर्मत्वेनाभिव्यक्तेः पिण्डकालघटवत् , शुक्रशोणितावस्थायामिव वा देवदत्तस्तदवस्थाविशेषान्तरत्वे सत्युत्तरकालमुपलभ्यत्वात् , कार्यत्वादेव वा प्रकाश्यघटवदभिव्यञ्जनस्यैव कार्यत्वाख्यत्वात् , एवं तर्हि सत्त्वरजस्तमसां साम्यवैषम्यवव्यक्ताव्य कता एककारणत्वस्य बाधिका स्यादिति चेन्न, तत्त्व एवान्यथाभूते व्यक्तता नाम काचि20 दस्ति घटस्वात्मवत् । सस्कार्यवादाङ्गीकारे मेदविधिनिर्विषयत्वादेवासत्कार्यवाद आश्रितः, कथमित्यत्राह-सर्ववस्त्विति, सन्निहितेषु सर्वेषु वस्तुषु अमिहोत्रक्रियायाः सद्भावेऽपि तत्साधनविधानात् घृतेन पयसा जुहुयादित्यादि, अनुष्ठातापि तामुपदिष्टसाधनसम्पाद्यत्वेनाभ्युपगम्य यथाक्रममितिकर्तव्यताभिस्तामाचरति, ततो विज्ञायते सा पूर्वं नासीत् कार्यत्वेन तां परिगृहीतत्वादतोऽसस्कार्यवाद आश्रित एवेति भावः । तथा च प्रयोगः, अमिहवनक्रिया प्राङ् नासीत् कार्यत्वेन परिगृहीतत्वात् , विशेषकान्तअसवदिति, अत्र हेतोरसिद्धिं वारयति-कुर्यादिति । तत्र साधर्म्यदृष्टान्तं प्रकाशयति-दृष्टान्त इति । मीमांसकास्तु भरणे कार्य शक्त्यात्मना विद्यमानं कारणैरभिव्यज्यते न हि बीजादौ सर्वात्मनाङ्कुरायभावोऽस्ति, मूषिकाघ्रातबीजादितोऽङ्कुराअनुत्पतेः तस्माच्छक्त्यात्मना कार्यमाबिभ्रतो बीजादेरेव कार्योदय इति न सा धनव्यापारानर्थक्यमित्याहुः । अथासत्कार्यवादाभुपमसाधनतर्कस्य कार्यत्वेन परिगृहीतत्वलक्षणस्यासिद्धत्वं प्रतितर्कबाधितत्वश्वाचष्टे-न तु तत्वमेवेति असत्कार्यत्वं वस्तुनो 2010_04 Page #221 -------------------------------------------------------------------------- ________________ तस्यैवान्यथाभवनम् ] . न्यायागमानुसारिणीव्याख्यासमेतम् १७१ ..(न विति) न तु तत्त्वमेव वस्तुनोऽसत्कार्यत्वं किं कारणं ? व्यङ्ग्यत्वात् , व्यङ्ग्या हि सा क्रिया न कार्या, अविवक्षितप्रत्येकसमुदितघृतादिद्रव्यधर्मत्वेनाभिव्यक्तः, को दृष्टान्तः ? पिण्डकालघटवत्, यथा मृत्पिण्डकाल एव घटो विद्यमानोऽपि साधनान्तरापेक्षाभिव्यक्तत्वान्नोपलभ्यते, शुक्रशोणितावस्थायामिव वा देवदत्तस्तवस्थाविशेषान्तरत्वे सत्युत्तरकालमुपलभ्यत्वात् । कार्यत्वादेव वा प्रकाश्यघटवदभिव्यञ्जनस्यैव कार्यत्वाख्यत्वात् , इतरथा वन्ध्यापुत्रोऽपि क्रियतामसत्कार्यत्वात् , घटवत् । । एवं तर्हि सत्त्वरजस्तमसां साम्यवैषम्यवद्व्यक्ताव्यक्तता एककारणत्वस्य बाधिका स्यादिति चेन्नेत्युच्यते । कुतः ? तत्त्व एवान्यथाभूतेः, न व्यक्ता नाम काचिदस्ति, किन्तर्हि ? तत्व एवान्यथाभावोऽस्ति तस्य भावस्तत्त्वं तस्मिंस्तत्त्व एव-तद्भावावस्थायामेवान्यथाभवनातू , तदेव हि वस्तु स्वरूपावस्थायामेवान्यथा भवति, यद्यन्यदन्यथा भवेन्मृत्पिण्डोऽपि पटो भवेत् , न तु भवति, साधर्म्यदृष्टान्तश्च घटखात्मवत् , यथा घटो घटस्वात्मन्येव स्थितो नवः पुराणतयोत्पद्यते तथा स एव मृत्पिण्डोऽन्यो घटो 10 भवति, न तु सांख्याभिमताऽव्यक्तता नाम काचिदस्ति, यदि स एव घटो नवः पुराणतयाऽन्यो न भवेन्न पुराणः स्यात् नव एव स्यात् , ततोऽन्यो वा घटादिः पुराणघटः स्यात् , नैव वा कश्चिदपि भवेत् , तस्मात्तत्त्व एव तथाभूते व्यक्तता नाम काचिदस्ति । अत्राह घटस्वात्मवदित्ययं दृष्टान्त उपपद्यते, मृत्पिण्डकालघटवदिति तु न युज्यते तत्त्व एवा-15 न्यथाभावात् , पिण्डानन्तरं हि शिबको भवति न घटो न स्तूपकछत्रकस्थालककोशककुशूलका इति, अत्रोच्यते तुल्यप्रत्यासत्तित्वात् , मृत्पिण्डघटवत् पिण्डावस्थायामेव घटस्य भावात् । (घटखात्मवदिति) घटस्वात्मवदित्ययं दृष्टान्त उपपद्यते नवत्वावस्थानन्तरं पुराणत्वावस्थानुभवात् , मृत्पिण्डकालघटवदिति तु न युज्यते तत्त्व एवान्यथाभावात् , पिण्डानन्तरं हि शिबको भवति न घटो न स्तूपकछत्रकस्थालककोशकुशूलका इत्यत्रोच्यते, तुल्यप्रत्यासत्तित्वात्, यथा घटो भवति कुशू-20 न खभाव इति भावः । अविवक्षितेति हवनक्रियाया अभिव्यक्तिः किं प्रत्येकद्रव्यधर्मत्वेन किं वा समुदितद्रव्यधर्मत्वेनेति विकल्पमुपेक्ष्य घृतादिद्रव्यधर्मतयाऽभिव्यक्तरित्यर्थः। एवञ्च व्यङ्ग्यत्वादेव सा घृतादिद्रव्येषु वर्तत एव, साधनान्तरापेक्षया प्रकाशात् साधनान्तरानुपलम्भकाले नोपलभ्यते तत्र दृष्टान्तमाह-पिण्डकालघटवदिति । एवञ्च पिण्डकाले या घटावस्था साकारणमभिव्यक्तश्च घटः कार्यमिति व्यङ्ग्यत्वकार्यत्वयोरमेदमभ्युपगम्याह-कार्यत्वादेव वेति. पूर्व विद्यमान एव घटो यथा प्रतिपादितः प्रकाश्यतामापद्यत इत्यर्थः। ननु यथा सत्त्वरजस्तमसां साम्यवैषम्यलक्षणौ विरुद्धौ धर्मावेकस्य कारणतायां 25 बाधको तथैवैकस्य घटाळक्ताव्यक्तते बाधिके भवत इत्याशङ्कते-एवं तहीति । तद्धावावस्थायामेवेति, मृदूपतया वर्तमानस्य मृत्पिण्डस्यैव घटरूपतया परिणते व्यक्ता नाम काचिदवस्था विद्यते, उभयत्र मृदूपताया अविशेषेण प्रतीयमानत्वात्, भिनखरूपादपि यदि स्यात्तर्हि मृत्पिण्डादितः पटादिरपि स्यादिति भावः । अत्रार्थे दृष्टान्तमाह-घटखात्मवदिति। ननु नूतनतया विद्यमान एव घटाः पुराणतयाऽन्यो भवति, यदि पुराणतयाप्यन्यो न स्यात्तर्हि नव एव स्यात् पुराणो न स्यात् ततो वा भिन्न एव घटः पुराणः स्यात् अन्येषामपि घटानां नवत्वे पुराणः कोऽपि न स्यादित्येकस्यैवैकपरिणामात् परिणा-30 मान्तरगमनानाव्यक्तता नाम काचिदवस्था विद्यत इत्याशयेनाह-यदि स एवेति।ननु नवपुराणाद्यवस्थासु घटस्यैकप्रकारेण सत्त्वात् स एव दृष्टान्तो युज्यते सत्कार्यवादस्य, मृत्पिण्डकालघटस्तु न युज्यते घटकाले मृत्पिण्डस्याभावात्, नूतनावस्थाव्यवहितोत्तरं पुराणावस्थेव मृत्पिण्डानन्तरं घटावस्थाया अभावाचेत्याशङ्कते-घटखात्मवदिति । मृदेव तदीयसर्वावस्थासु खखरूपेणावस्थिताऽन्यथा भवतीति न वैषम्यमित्याह-तुल्यप्रत्यासत्तित्वादिति । तद्रूपेण स्थितादेव मृत्पि 2010_04 Page #222 -------------------------------------------------------------------------- ________________ १७२ द्वादशारनयचक्रम् [ विधिविष्यरे लकात् तथा कुशूलकः कोशकास्, कोशक: स्थालकात्, स्थालकः छत्रकात् छत्रकः स्तूपकात्, स्तूपकः शिवकात् शिवकः पिण्डात् पिण्डो मृद इति मृद एव तथा तथा भूतेः, अथवा किमनया सांख्यसृष्टिक्रमिकवचनानुमत्या ? तस्यामेव पिण्डावस्थायां घटो भवतीति प्रतिपद्यस्व स्तिमितसरः सलिलवचरङ्गवत्तत्त्व एवान्यथा भवनान्नास्त्यत्रापि क्रम इत्यतस्तदुपदर्शनार्थमाह- मृत्पिण्डघटवदिति । अथवा 6 तत्व एव तथाभूतेरिति पाठः, तत्त्व एव तद्भाव एव सति तेन तेन प्रकारेण भवनातू, पिण्ड एव मूर्त्तिस्वभावरूपाद्यात्मके शिवकाद्यात्मना नीलरक्ताद्यात्मना च भवनादिति । अत एव कारणमात्रमसौ, तदात्मत्वात्तन्निर्वृत्तत्वाच्च, घटमृत्त्ववदेवश्चाप्रतिपूर्णस्तर्कः, स्वयमेव त्वया परित्यक्तत्वाच्च, एकान्तवादस्वाभाव्यात्, पूर्वोक्तमृषात्ववादवत् । ( अत एवेति ) अत एव तत्त्व एवान्यथाभूतेस्तथाभूतेर्वा कारणं प्रमाणमसौ-हवनक्रिया 10 घृतादिकारणेभ्यो न व्यतिरिक्ता, उक्तहेतोरसत्कार्याभावात्कारणमात्रमसौ क्रियेति प्रतिपत्तव्यमवश्यम्, न केवलं क्रियैव कारणमात्रं, सह फलेनापि सा कारणमात्रम् फलमध्यस्या:- स्वर्गाख्यं सुखादि, घृतादिकारणान्यथाभवनमात्रम् । अत्रोपनय हेतू प्रतिपादितार्थावेव तदात्मत्वात्तन्निर्वृत्तत्वाचेति, तस्य आत्मा स आत्माऽस्येति वा तदात्मा तेन तस्मिंस्तस्य स एव वा निर्वृत्तस्तद्भावस्तन्निर्वृत्तत्वं तदात्मत्वश्च तस्मातदात्मत्वात्तन्निर्वृत्तत्वात् घटमृत्त्ववत्, घटस्य मृत्त्वं घटमृत्त्वं, मृदेव घट घट एव मृद्यथा प्रति15 पारितं तत्त्व एवान्यथाभूतेस्तथाभूतेर्वेति तद्वत् तस्मात् कारणमेव क्रिया क्रियाफल । एवं तावद - प्रतिपूर्णस्तर्कः प्राङ्नासीत्तत्क्रिया, कार्यत्वेन परिगृहीतत्वादित्यसिद्धहेतुत्वात् प्रतितर्केण बाध्यत्वाचेति सुष्टुच्यते । किञ्चान्यत् स्वयमेव त्वया परित्यक्तत्वाचाप्रतिपूर्ण एव, कस्मात् ? एकान्तवादस्वाभा एवंस्वभावा ह्येकान्तवादाः पूर्वोक्तमृषात्ववादवत् । व्यात्, यथोक्तं त्वया तदनुबन्धाश्चेतिकर्त्तव्यतेति ब्रुवता कारणे कार्यस्य सत्त्वमभ्युपगम्य त्यक्तं भव20 त्यतो ग्रूमः -- इतिकर्त्तव्यता कर्तव्यताभ्युपगमात्तु पूर्वोत्तरावस्थानुबन्धात् कारणमेव कार्यम्, सर्पस्फटाटोपमुकुलप्रसारणकुण्डलीकरणवत् यज्ञोपवीतसूत्रतन्तुपटत्ववद्वा संस्थानमात्रभिन्नस्य कारणस्यैव कार्यत्वमित्यभ्युपगम आपद्यत इति कार्यस्य त्यागः कुर्यादिति, स्वशब्दार्थापत्तिविषयविपरीतार्थत्वाद्विवक्षाभेदव्याघातः स च त्वया तत्त्वानपेक्षणदोषान्नेक्ष्यते । 25 डा. कुशलकादिक्रमोपेक्षादेव घटो भवतीत्याह- अथ वेति । अत एवेति, तद्भावावस्थायामेवान्यथा भवनस्य तद्भावे सति वा तेन तेन प्रकारेण भवनस्याभ्युपगम एव कारणं प्रमाणश्च भवितुमर्हति नान्यथा, तथा चासत्कार्याभावात् घृतादिकारणरूपैव सा हवनक्रियेति भावः । अत्रोपनय हेतू इति, अत्रार्थे उपनयरूपेण प्रतिपादितौ तदात्मत्वात्तन्निर्वृत्तत्वाचेति हेतू तत्त्व एवान्यथाभूतेः तत्त्व एव तथाभूतेरित्यनेन प्रतिपादितार्थावेव, न भिन्नार्थाविति भावः । तदात्मत्वादिति तत्त्व एवान्यथाभूतेरित्यनेन तनिवृत्तत्वादिति तत्त्व एव तथाभूतेरित्यनेन च प्रतिपादितार्थः । तस्यात्मेति, घटस्यात्म मृत्त्वं, मृदेवात्मा घट 30 प्रति वा तदात्मा तस्य भावस्तत्त्वमित्यर्थः मृदा मृदि मृदो निर्वृत्तो मृदेव न घट इति तन्निवृत्तस्तद्भावात्ततन्निर्वृत्तत्वादिति विग्रहार्थः । अथ कार्यत्वेनाभिहवनक्रियायाः परिगृहीतत्वात् प्राक् सा नासीदिति सिद्धः, इतिकर्तव्यतैव कर्त्तव्यतेत्युक्ते श्वासत्कार्यवादस्त्यतस्तेन कार्यश्वेन परिगृहीतत्वादिति हेतुरसिद्ध इत्याह-एवं तावदिति प्रतितर्कश्च सत्कार्यवादसमर्थनलक्षमस्वस्व एवान्यथाभूते खत्त्व एव तथाभूतेरित्येवं रूपो बोध्यः । सत्कार्यवादाङ्गीकारमेव पुनरुपदर्शयति- इति कर्त्तव्यतेति । 2010_04 Page #223 -------------------------------------------------------------------------- ________________ व्यायातदोषः] न्यायागमानुसारिणीव्याल्यासमेतम् इतिकर्तव्यताकर्तव्यताभ्युपगमास्वित्यादि, इतिशब्दस्य प्रकारार्थवाचित्वादिस्थमिस्थश्च कर्तव्यं घृतेन जुहुयात् पयसा जुहुयादित्यादि कर्त्तव्यताप्रकारा इतिकर्तव्यताः कारणभूताः, सैव कर्तव्यता, ता एव प्रोक्षणादिक्रिया अमिहोत्रमित्यभ्युपगमात् । पूर्वोत्तरावस्थानुबन्धात् विच्छिन्नपूर्वोसरावस्खस्य कस्यचिदभावात् कारणमेव कार्यम्, सर्पस्फटाटोपमुकुलप्रसारणकुण्डलीकरणवत्, यज्ञोपवीससूत्रतन्तुपटत्ववद्वा, सूत्रमेव यथायज्ञोपवीताख्यां लभते तथा समवस्थानात्तथा वन्तव एव पटस्तद्वत् । संस्थानमात्रभिन्नस्य कारणस्यैव कार्यत्वमित्ययमभ्युपगम आपद्यते इतिशब्दो हेत्वर्थे, एतस्मात् संस्थानमात्रभित्रकारणकार्यत्वाभ्युपगमापत्तेर्हेतोः कार्यस्य त्यागः कुर्यादिति, अयं हि शब्दः कार्यार्थे सत्यर्थवान् भवति नान्यथा, पुनरितिशब्दो हेत्वर्थे, ततश्च कुर्यादर्थत्यागात् स्वशब्दार्थापत्तिविषयविपरीतार्थत्वाद्विवक्षाभेदव्याघातः, अग्निहोत्रं जुहुयादित्यनेन स्वशब्देनैवासत्कार्यवादोऽभ्युपगतस्तदनुबन्धादेतिकर्तव्यदैव कर्तव्यतेत्यर्थापत्त्या कारणात्मककार्यवादोऽभ्युपगतः, तयोरन्योऽन्यविपरीतार्थत्वात्-विरुद्धत्वाद्विव- 10 क्षाभेदो व्याघातश्च । विवक्षाभेदस्तावदसत्कार्यवाचिनः शब्दस्य कारणात्मककार्याभिधानाभ्युपगमात्, कारणात्मककार्यवाचिनश्चासत्कार्याभिधानाभ्युपगमात् , अत एव च परस्परतो विरोधाव्याघातोऽनयोरर्थयोः, अर्थद्वयस्य स्वशब्दार्थापत्तिविषयस्याभ्युपगमाद्विवक्षाभेदोऽयं पुरुषबुद्धिवशादप्रामाण्यमपौरुषेयत्वं व्याइन्तीति विवक्षाभेदव्याघातः, स च त्वया तत्त्वानपेक्षणदोषान्नेक्ष्यते । वस्तुतत्त्वविचारप्रवेषिणो वा कार्यकारणखरूपानपेक्षिणोऽपि बलादयं कारणकार्यतत्त्ववाद आपद्यतेऽनेकान्तरूपो वस्तुनस्तादा-15 म्यादनपेक्षमाणोऽपि स्वमतव्याघातीति । एवं कारणात्मकत्वेऽभ्युपगतेऽपि यदीतिकर्तव्यता जनयतीतीष्यते ततो न सा कर्त्तव्यता काचिदस्तीति सातजन्या न भवति, जनकत्वात् कारणत्वात् पूर्वत्वाद्विधायकत्वान्मातृवचनवत् । पूर्वोत्तरभावेन नियतक्रमवतामितिकर्तव्यतानामेवामिहोत्रकर्तव्यतात्वान्निरन्वयविनाशिपूर्वोत्तरावस्थस्य कस्यचिद्वस्तुनोऽभावात् 20 कारणभूतं वस्त्वेव सर्पस्फटाटोपादिवत् प्रवर्तत इति भावः । ता एवेति, कारणभूताः पूर्वोत्तरभावमापन्नाः घृतहवनपयोहवनप्रोक्षणादयोऽग्निहोत्रमित्युच्यन्त इति भावः। संस्थानमात्रेति विलक्षणावयवविन्यासविशिष्टकारणस्यैव कार्यत्वाभ्युपगमेन कार्य त्यकमेवेति भावः । अयमभ्युपगमो विचारात् सम्प्राप्तो न मीमांसकसिद्धान्तः, तैरितिकर्तव्यतानां कर्त्तव्यतानगीकारात्, प्रधानविध्यभिहितभावनायाः कथंभावाकांक्षायां नियतायां यत्सन्निधौ पठितमभूयमाणफलकश्च क्रियाजातं तदेवोपकार्याकांक्षयेतिकर्तव्यतात्वेनान्वयमनुभवतीति स्वीकारादिति ध्येयम् । अयं हि शब्द इति, कुर्यादिति शब्दः कार्यरूपे द्रव्ये 25 सत्येव सम्भवति कारणस्यैव च तथा तथा भावात् कार्याभावेन कुर्यात् पदार्थस्त्यक्त एवेति भावः । असत्कार्यवाद इति, कुर्याजुहुयादित्यादिवचनादितिकर्तव्यताभिर्हवनक्रियायाः कार्यत्वेन परिगृहीतत्वादसत्कार्यवादोऽभ्युपगत इति भावः । कारणा त्मककार्यवाद इति, परस्पराकांक्षधृतहवनपयोहवनादीतिकर्तव्यता एव कर्तव्यतेत्यभ्युपगमेन कारणात्मककार्यवादोऽभ्युपगत इति भावः । एवमभ्युपगमयोर्दोषमादर्शयति-तयोरिति । स्वशब्देति, जुहुयात् कुर्याच्छब्देनासत्कार्यवादस्य इतिकर्तव्यतैव कर्त्तव्यतेत्त्युक्त्याऽर्थापत्त्या कारणात्मककार्यवादस्य प्राप्तेः खीयबुद्धिबलसम्पन्नोऽयं विवक्षामेदो वेदस्य प्रामा- 30 ण्यवादमपौरुषेयत्ववादश्च व्याहन्तीति न पश्यसि, वस्तुतत्त्वविचारणस्योपेक्षणात्, तत्र वा द्वेषात् , तथापि त्वां बलादयं वादः प्रामोत्येवेति भावः । अथ कार्यस्य कारणात्मकत्वे दोषमाह-एवमिति । यत्कारणं न तज्जायते कारणत्वात् पूर्वत्वात् विधायकत्वात् मातृवद्वचनवद्वा, न हि यदेव कारणं तदेव कार्यम् , एकस्यैव कार्यत्वकारणत्वयोरसम्भवात्, न वा यदेव पूर्वमेवास्ति कारकव्यापारात् तदेव पश्चाद्भवति, नापि यदेव विधायकं तदेव विधेयमसम्भवादेवेति भावः । 2010_04 Page #224 -------------------------------------------------------------------------- ________________ १७४ द्वादशारनयचक्रम् [विधिविध्यरे (एवमिति) एवं कारणात्मकत्वेऽभ्युपगतेऽपि यदीतिकर्तव्यता जनयतीतीष्यते ततो न सा कत्तव्यता घृतादिकारणे इतिकर्तव्यताव्यतिरिक्ता काचिदस्ति ततः सा तजन्या न भवति, क्रिया नात्मनैवात्मानं जनयतीत्यर्थः । कस्मात् ? जनकत्वात् कारणत्वात् , पूर्वत्वात् विधायकत्वात् मातृवत् यथा मातानात्मानं जनयति किन्तर्हि ? ततोऽन्यां दुहितरं जनयति एवमियमितिकर्तव्यता जनिका सती 5 तथा कारणत्वात् पूर्वत्वाद्विधायकत्वादिति व्याख्येयानि । वचनवदिति, अत्र यथा वचनमपि नात्मानं जनयति बुद्धिं तु ततोऽन्यां वाच्यविषयां जनयति तथेतिकर्तव्यतेति । अथ मा भूदेष दोष इति जनकत्वमसिद्धं तस्या जन्यत्वात् , जन्या हि सेत्यत्रोच्यते अथ जन्या सा, एवं तर्हि न जनिका न कारणं जन्यत्वादित्यजनकत्वात् कार्यत्वात् अपूर्वत्वाद्विधेयत्वात् पुत्रादिवत् । 10 (अथेति) पुत्रादिवत्-आदिग्रहणाद्वाक्यार्थज्ञानवत् , तस्मात् स्वविहितदोषत्वाजन्यत्वे जनकत्वे वा दोषानतिवृत्तेरयुक्तमितिकर्तव्यतैव कर्तव्यता तदनुबन्धादिति । किश्चान्यत्____ कारणमात्रत्वे सति कर्त्तव्यता प्रतीतिकर्तव्यतां परिसमाप्ता वा स्यादपरिसमाप्तावा? तत्र यदि प्रत्येकमितिकर्तव्यतासु कर्त्तव्यता परिसमाप्ता ततः प्रतीतिकर्तव्यतासमातेरितिकर्तव्य15 तान्तरानारम्भः, अनारम्भ एव वा तस्या अपि, कारणमात्रत्वात् । कर्त्तव्यतायाः प्रत्येकमसमाप्तौ च कारणाभावादतथा तावत्प्राप्नोति, समुदायस्यापि च तन्मात्रत्वादुक्तवत् । (कारणमात्रत्वे सतीति) तत्र तावद्यदि प्रत्येकमितिकर्तव्यतासु कर्त्तव्यता परिसमाप्ता ततः प्रतीतिकर्तव्यतासमाप्तेरितिकर्तव्यतान्तरानारम्भः-एकया घृतेन जुहुयादित्यनयैवेतिकर्तव्यतया तन्मात्रपरिसमाप्तायाः कर्त्तव्यतायाः कृतत्वात् पयसा जुहोत्यादीनामितिकर्तव्यतान्तराणामारम्भो निर20 र्थकः प्राप्तः । अनारम्भ एव वा तस्या अपि, किं कारणं ? कारणमात्रत्वात् कर्त्तव्यताया इति त्वयैवाभ्युपगतत्वात् , न्यायतश्च घृतादिकारणद्रव्यमानत्वस्य क्रियायाः प्रतिपादितत्वात् सिद्धौदनपचनवदनारम्भ एव प्राप्तः, एवं तावत्प्रत्येकपरिसमाप्तौ दोषः । प्रत्येकमसमाप्तौ च कारणाभावादतथा तावत् प्राप्नोति-यदि शिबिकावाहककारणत्ववत् प्रत्येकमसमाप्ता च कर्त्तव्यतेतिकर्तव्यतासु तथाप्यकारणता प्रत्येकम कारणत्वात् , सिकतातैलवत्, इतिशब्दस्यैवमर्थत्वादेवं शब्दस्य च प्रकारार्थत्वादेवं कर्त्तव्यं-इतिकर्त25 व्यम्-घृतादिप्रक्षेपस्वरूपकर्त्तव्यता। अतथा तावत् , न तथा अतथा, तत्तथात्वं न प्राप्नोति प्रत्येकमकारणत्वादिति, ननूक्तं शिबिकावाहकवहनशक्तिवत् समुदाये सति कर्त्तव्यता शक्तिरिति अत्रोच्यतेसमुदायस्यापि च तन्मात्रत्वादद्वयवमात्रत्वात् उक्तवदिति, उक्तं हि तत्त्व एवान्यथाभूतेस्तथाभूतेति, अवयवा एव समुदायीभवन्तः, नो चेत् सिकतातैलवदेव न स्यात्तिलसमुदाये तैलमपि । अथेतिकर्तव्यताया जनकत्वमुपेक्ष्य जन्यत्वाभ्युपगमे दोषमुद्भावयति-अथेति । कारणेषु कार्यस्य सत्त्वे दोषान्तरमाह-कार30 णमात्रत्वे सतीति, अनारम्भ एवेति, तदितिकर्तव्यतायाः सिद्धत्वादेव तत्स्वरूपकर्त्तव्यताऽपि सिद्धैवेति तदारम्भोऽपि वृथैवेति भावः । ननु इतिकर्तव्यतासमुदाय एव कर्तव्यता न तु प्रत्येकपरिसमाप्ता ततो न दोष इत्याशङ्कायामाह-समुदाय स्यापीति । अत्र मीमांसकः, सर्वात्मना कारणमेव न कार्य न ह्यधिश्रयणोदकासेचनतण्डुलावपनधोपकर्षणक्रियाः विक्लित्ति 2010_04 Page #225 -------------------------------------------------------------------------- ________________ १७५ विध्यनुवादः] न्यायागमानुसारिणीव्याख्यासमेतम् किश्चान्यत् अभिमतविध्यनुवादवैपरीत्यदोषप्रसङ्गश्च, अनुवादकता च घृतादेः कारणमात्रवृत्तित्वाद्धवनवत् , घृतादिवद्धवनस्य वा विधायकता, एवञ्च न विधिर्नानुवादो वाऽस्ति, अतोऽवाक्यत्वम्, अनुवादविधायकत्वाद्विच्छिन्नार्थपदवत् , काकरतवद्वा । (अभिमतेति) अभिमतविध्यनुवादवैपरीत्यदोषप्रसङ्गश्च, तत्र तावद् घृतेन जुहुयात् पय- 5 सा जुहुयादित्यादिवाक्येषु घृतादेर्विधेयत्वाभिमतस्य कारणमात्रस्य हवनकार्यानन्यस्य तन्मात्रेतिकर्तव्यतामात्रहवनार्थत्वादग्निहोत्रं जुहुयादित्यत्र श्रुतहवनानुवादाभावोऽपि, हवनस्य घृतादिव्यतिरिक्तस्याभावात् , ततश्च घृतादिविधानवत् ज्ञातार्थाभिमतस्य हवनस्य विधायकतैव स्यान्नानुवादकता, अनुवादकता च घृतादेरज्ञातार्थविधायकाभिमतस्यापि कारणमात्रवृत्तित्वाद्धवनवदिति, कारणमात्रे वृत्तिरस्य तत् कारणमात्रवृत्ति घृतादिहवनम् , प्रोक्तविधिना कार्याभावस्य प्रतिपादितत्वात् , तस्मात् कारणमात्रवृत्ति-10 त्वाद्धवनवद्धतादेरनुवादकता, घृतादिवद्धवनस्य वा विधायकतेति, एवञ्चेति, विध्यनुवादयोरन्योऽन्यखभावसङ्कराव्यवस्थितात्मस्वभावत्वान्न विधिर्नानुवादो वाऽस्ति, अतः-एवमुक्तप्रकारेणावाक्यत्वम् , अनुवादविधायकत्वाद्विच्छिन्नार्थपदवत् , यथा विच्छिन्नार्थमेकं पदमधिकृतपदार्थान्तरसम्बन्धं गामित्येतन्न वाक्यम् , अत एव विध्यनुवादत्वाकांक्ष्यार्थाभावात् , तथाऽग्निहोत्रं जुहुयात् स्वर्गकामो घृतेन पयसा जुहुयादित्यादीनि । यस्यापि पदार्थों नास्त्येव तं प्रति काकरतवदिति दृष्टान्तः, यथा काकरुतमर्थान्तरा-15 कांक्षारहितमवाक्यमविध्यनुवादत्वात्तथेदमपि । ज्ञाताज्ञातविशेषाञ्चैवं पदवाक्यशब्दानां घटज्ञानवत् साधुतासाधुते न घटेते, अर्थाः रित्युच्यन्ते किन्तु ताभिनिष्पाद्या, सापि तासु शक्तिरूपाऽस्ते शक्तयोऽपि यावत्य इतिकर्तव्यतास्तावत्यो भवन्ति, प्रकृतेऽपि तथैव, तस्मादेकयेतिकर्तव्यतया प्रधानविधेर्निष्पत्तावप्यपरेतिकर्तव्यतायां शक्तितः सत्यप्यनुत्पन्नत्वात्तदुत्पत्तये तदनुष्ठानमिति न वैयर्थ्यमितिकर्तव्यतायाः लोके तथैव दृष्टत्वादिति शक्तिनिरूपणे प्राहुः । अभिमतेति, अत्रायमाशय इति प्रतिभाति तथाहि 20 इतिकर्तव्यताया एव कर्तव्यतात्वादग्निहोत्रकर्त्तव्यतामृतादीतिकर्तव्यताया अभेदेन घृतेन जुहुयादित्यत्र यदि घृतादेविधेयत्वं तदाऽग्निहोत्रं जुहयादित्यत्रापि घृताधभिन्नहवनादेविधेयत्वमेव स्यात्, न त्वनुवादत्वमित्यग्निहोत्रं जुहयादिति वाक्यं न श्रुतहवनानुवादकं स्यात् , अथापि हवनस्यात्र वाक्येऽनुवादत्वे घृतेन जुहुयादित्यत्रापि घृतादेरनुवादता स्यात् , अतोऽज्ञातार्थविधायकत्वेनाभिमतमप्यनुवादकं घृतेन जुहुयादित्यादिवाक्यम्, ज्ञातार्थाभिधायकत्वेनाभिमतमप्यग्निहोत्रं जुहुयादिति वाक्यं विधायकमिति प्राप्तत्वेन विधेरज्ञातज्ञापकत्वलक्षणस्यानुवादस्य च ज्ञातानुवचनलक्षणस्य खभावस्य साङ्कर्येण व्यवस्थाविर-25 हान कोऽपि विधिर्न वाऽनुवादोऽस्तीत्यग्निहोत्रं जुहुयादित्यादिवाक्यानामवाक्यत्वमेव स्यात् , विधायकत्वाभावादनुवादकत्वाभावाच्च, न हि किञ्चिद्वाक्यमन्तरेण विधायकत्वानुवादकत्वाभ्यां वाक्यं भवितुमर्हतीति । कारणमात्रवृत्तित्वाद्धवन- . पदिति, यथा हि घृतादिलक्षणे कारणे एवामेदेन वर्तमानमपि हवनमनुवादकं तथैव कारणमपि घृतादिहवनाभिन्नत्वादनुबादकमेव स्यादिति भावः । अनुवाद विधायकत्वादिति, यथा गामानयेति वाक्यागवानुवादेनानयनविधायकात् पृथक्कृत्योक्तस्य गामितिपदस्य पदार्थान्तरसाकाङ्क्षार्थबोधकस्यापि विधित्वेनानुवादत्वेनाकांक्षणीयार्थाभावान वाक्यत्वं तथैवामिहोत्रं 30 जुहुयादित्यस्य वा घृतेन जुहुयादित्यादेर्वा न वाक्यत्वम् , विधित्वेनानुवादत्वेन वाऽऽकांक्षणीयार्थाभावादेवेति भावः । येषां मते .. पदेभ्यो भिन्नं वाक्यमेव पदार्थव्यतिरिक्त वाक्यार्थं साक्षादेव बाचकतया बोधयति तन्मते पदार्थज्ञानस्यानुपयोगात् वाक्यार्थ बुबोधयिषतां पदार्थ व्युत्पत्तिय॑थैव, न हि पदार्थाद्वाक्यार्थावगतिरसम्बन्धात् , यथा च पदपदार्थयोः सम्बन्धोऽस्ति न तथा पदार्थवाक्यार्थयोरिति तन्मताश्रयेण दृष्टान्तान्तरमाह-यस्यापीति । ननु कारणमात्रकार्यत्वाभ्युपगमे पदानां वाक्यानाच ज्ञाताजातरूपत्वासम्भवेन साधुत्वमसाधुत्वं घा न सम्भवतीत्याह-शाताज्ञातविशेषाञ्चेति । साधुतासाधुतयोर्मध्ये साधुता 2010_04 Page #226 -------------------------------------------------------------------------- ________________ बादशारनयचक्रम् [विविविध्वरे न्तराभावात् ज्ञाताज्ञातालम्बनविध्यनुवादार्थयुगपद्विवक्षावृत्तिवाक्यभेददोपरिकल्पनापरिश्लथता, व्यथैवं साधुत्वासाधुत्वाभ्याम् , एकार्थत्वाद्धटकुटवत् । (ज्ञाताज्ञातविशेषत्वादिति) एवमिति, कारणमात्रकार्यत्वाभ्युपगमे, साधुतासाधुवयोः साधुता तावद्गौरित्यादेः पदस्य, अग्निहोत्रं जुहुयादित्यादेर्वाक्यस्य, विधेयत्त्रमनुवादत्वश्च नोपपद्यते, 5 अब्दो हि ज्ञातार्थोऽज्ञातार्थो वा प्रयुज्यते ज्ञातार्थोऽनूचाशातार्थविधानार्थ प्रयुज्यते स पुनातार्थः खत एव प्रत्यक्षादिना प्रमाणेन ज्ञातेऽर्थे प्रयुज्यते वाक्यान्तरेण वा परेण प्रापितार्थे, यथाऽयं देवदत्तइति अयंशब्दस्य प्रत्यक्षदृष्टार्थवाचित्वादनूध देवदत्तत्वं विधीयते, वाक्यान्तरवेदितार्थानि पदान्यनूद्याभ्याजनं विधीयते देवदत्त ! गामभ्याज शुक्लामिति । ज्ञाताज्ञातार्थता पदानां वाक्यानाञ्च साधुत्वामिमताना प्रत्येकं सर्वेषां व्यर्थता दृष्टा, को दृष्टान्तः ? घटज्ञानवत् , यथा घटज्ञानस्यारातीया भागा10 अक्षुरायुपलभ्या ज्ञाताः, परान्तर्बुनादिभागा न ज्ञाताः शेषाः लोकप्रसिद्धाः । साधुता पदवाक्य. शब्दानां कारणात्मकार्यवादेऽस्मिन् न घटते, सर्वस्यैकात्मकत्वे ज्ञाताहातभेदानुपपत्तेः, एकस्यैव वा तदुभयाभावाद्विध्यनुवादात्वाभावस्योक्तेः काकरुतादिवदिति । नाप्यसाधुता वाक्यभेदानर्थक्याविदोषसम्बद्धा घटते, यस्मात् कारणात्मकार्यवादेऽर्थान्तराभावात् , ज्ञाताज्ञातालम्बनविध्यनुवादार्थयुगपहिवक्षावृत्तिवाक्यभेददोषपरिकल्पनापरिश्लथता, अयथासंख्येन ज्ञातालम्बनोऽनुवादः, अज्ञातालम्बनो 18 विधिः, तयोरर्थयोर्युगपद्वक्तुमिच्छा-युगपद्विवक्षा, एकस्मिन्नर्थे तस्यावृत्तिरसौ व्यर्थता वाक्यभेदः । देव दत्ताख्यानवाक्यस्यैव गवानयनचोदनायां देवदत्तान्वाख्यानवदनुवादः, गवानवनविधानवाक्यस्य वा देवदचाख्यानवाक्यवदेवदत्चविधानमिति । येक्मेकस शब्दस युगपदवामिषानधस्वभावात् वाक्यभेददोषपरिकल्पना तस्याः परिश्लथता, अर्थभेदाभावात् , अतोऽसाधुतापि शब्दानां नास्ति सर्वे साधवोऽसाधवो वा शब्दाः प्रसक्ता इति । किश्चान्यत् न केवलं वाक्यभेददोषो भेदाभावदोषश्वापदा26 र्थात्मकश्रुतिभेदोऽपि, व्यथैवं साधुत्वासाधुत्वाभ्याम् , एवमिति कारणात्मककार्यवादाभ्युपगमप्रकारे णोक्तमतिदिश्य संक्षिप्य साधनमाह सोदाहरणं-एकार्थत्वावटकुटवदिति, यथा प्रतीतार्थयोर्घटकुटशन सम्भवतीत्याह-साधुतासाधुतयोरिति । गौरिति लौकिकमुदाहरणम् , अग्निहोत्रं जुहुयादिति वैदिकवाक्योदाहरणम् । ज्ञातार्यशब्दप्रयोगकारणमाह-शातार्थ इति, ज्ञातार्थमनूद्याशातार्थस्य विधानार्थ ज्ञातार्थशब्दः प्रयुज्यत इत्यर्थः । शाताथता कवमित्यत्राह-स पुनरिति । प्रत्यक्षादिनाऽवगतार्थस्य दृष्यन्तमाह-यथायमिति । वाक्यान्तरेणावगतार्थस्य दृष्टा 1 तदेवं साधुत्थाभिमतानां पदानां वाक्यानाच साताशातार्थत्वमुद्देश्यविषयार्थबोधकत्वरूपं दृष्टम् , तच कारणात्मककार्यवादे सर्वस्व वस्तुन एकरूपत्वाज्ज्ञातता वाऽशातता वा स्थान तूभयरूपतेत्याह-शाताशातार्थतेति । उभयरूपतायां निदर्शनमादर्शयति-घटज्ञानवदिति, घटादेर्शाताजातरूपत्वात्तत्प्रकाशकं ज्ञानमपि शाताशातरूपमिति भावः। वस्तुनो द्वैविध्यासम्भवेब पदानां वाक्यानाश्चानुवादकविधायकवाभावमुक्त्तवा सम्प्रति साक्षादेव तेषां लदभावमाहएकस्यैव वेति, पदस्य वाक्यस्य वैकस्वेत्यर्थः, अनुवादत्वविधायकत्वाद्विच्छिमार्थपवत् , काकरुतवद्वेति पूर्वप्रन्थेनोक्तस्वा 30 दिति भावः । अथासाधुता न सम्भवतीत्याह-नाप्यसाधुतेति । एकस्यैव पदस्य वाक्यस्य वैकदा विध्यनुवादलक्षणाद्वव. वृत्तित्वासम्भवेन वाक्यमैदसम्बद्धाऽसाधुता न घटते, अर्थद्वये वृत्ती सत्यां हि तस्य वाक्यमेदः स्यान्नान्यथेत्याशयेमाहशाताशातालम्बनेति विधिश्वानुवादत्वयोरेकदैकस्मिन्नर्थे विवक्षायां सत्यां व्यर्थतालक्षणो वाक्यमेदः स्यान्न स्वेवं ते सम्भवत्यर्थभेदाभावादिति भावः । देवदत्ताख्यानवाक्यस्यैवेति, यथा देवदत्त गामभ्याजेयेकस्यैव वाक्यस्य सकृद्देवदत्तविधानगवानयनानादगवानयनविधानदेवदत्तानवादयोरेन शब्देनाभिधायकत्वं न सम्भवतीति तात्पर्य भाति । परिश्वषता _ 2010_04 Page #227 -------------------------------------------------------------------------- ________________ पाक्छलत्वप्रसङ्गः] न्यायागमानुसारिणीव्याख्यासमैतम् ब्दयोरेकार्थत्वादन्यतरप्रयोगो वृथा साधुत्वासाधुत्वाभिमतयोः असाधुत्वाभिमतस्य गोशब्दमात्रस्य बागादिसानादिमदर्थे युगपत् प्रयुक्त चैकार्थत्वादर्थभेददोषपरिकल्पनापरिश्लथतेति वर्तते । तस्मात् पदवाक्यशब्दयोः साधुत्वासाधुत्वाविशेषाच्छिष्टेतरलोकव्यवहाराविशेषः । एवं ते जुहुयादुक्तेः पौनरु. त्यस्ववचनविरोधौ स्वशब्दोक्तासत्कार्यवादत्यागः कारणात्मकसत्कार्यवादाभ्युपगमश्चेत्यप्रतिपूर्णतर्कता सदोषत्वादित्युक्तम् । यद्यप्येतत्त्वयाऽभ्युपगतं कारणात्मकं सत् कार्यमिति तदप्यसमीक्ष्याबुद्धिपूर्वकमेवोक्तमित्यतस्तदर्शनार्थमाह इदञ्चाज्ञातमपि सत्त्वया तत्त्वमेवैवं विवेत्तारं प्रति प्रदर्शितं घुणाक्षरवत् । (इदश्चेति) यथा घुणः काष्ठमुत्किरन्नक्षराकारामपि रेखामुत्किरति यदृच्छया तथा त्वयेदं .. तत्त्वमेवैवं कारणात्मकसत्कार्यत्वं प्रदर्शितमितिकर्तव्यतैव कर्तव्यतेति ब्रुवता । तत्पुनर्विवेत्तारं प्रति प्रद- 10 र्शितं-इत्थमसत्कार्य भवति, इत्थं सत्कार्यमिति यो वाच्यवाचकसाधनस्वरूपविधिविज्ञस्तं प्रत्येव दर्शितं नात्मतुल्यबुद्धीन प्रति दर्शयन्नपि स्वयं तद्विवेकं नैवेच्छति ।। ___ अथोच्येत कारणमात्रकार्यदर्शनमिह सदपि निर्मूलापविद्धक्रियावाक्यप्रबन्धं कार्यासत्त्वमेवात्र विवक्ष्यते, अलब्धवृत्तित्वात्, खपुष्पवत्, अतोऽसत्कार्यमागृह्य स्वर्गादिप्राप्त्यर्थ क्रियाऽऽश्रीयतेऽग्निहोत्रं कुर्यादिति । तद्विविधमनितिकर्तव्यतात्मकमितिकर्तव्यतात्मकञ्च तत्रा- 15 नितिकर्तव्यतात्मकं च कार्य घटादि यूपादि लोके वेदे च दृष्टमितिकर्तव्यतात्मकं न भवति तदुपरमेऽपि पृथगुपलब्धेः, इतिकर्तव्यतात्मकन्तु प्राप्तिसंवादि यथा सेवादि, तत्कार्य न कारणमात्रं घटादियूपादिवत् । घटं कुर्यादिति प्रतिपादितासत्कार्यार्थवाक्यवत् कुर्याच्छन्दप्रतिपादितमिदमपि वाक्यं स्फुटतरासत्कार्यार्थम् , आदौ मध्येऽन्ते च कर्त्तव्यताभ्युपगमात् । अतोऽसत्कार्यवादस्यैवाभ्युपगतत्वाद्यदुच्यते त्वया दोषजातं तत् त्वद्वचनच्छलादिति। 30 __ अथोच्येत कारणमात्रकार्यदर्शनमिहेत्यादि यावद्वचनछलादिति । अथ त्वयैवमुच्येत न मया कारणमात्रकार्यदर्शनैकान्तोऽभ्युपगम्यते यतस्त्वयैते दोषा मां प्रत्यापाद्यन्ते, किं तर्हि ? मयाऽभ्युपगम्यते न कारणमेव न कार्यमेव नोभयमेव न वाऽनुभयमेवेत्यविचार्य वस्तुतत्त्वैकान्तपरि-' त्यागः तिरस्कारो वा । अथार्थभेददोषपरिकल्पनापि नास्तीत्याह-यथेति, अर्थभेदाभावादेव गोशब्दस्यैकदा वागादिसानादिमर्थे प्रयुक्तस्यासाधुत्वादर्थमेददोषो न सम्भवति, अर्थद्वयस्याभावेनार्थमेददोषप्रसक्त्यभावात् , सति ह्यर्थद्वये तद्वाचकत्वेन सकृदेकस्य 25 पदस्य प्रयोगे एकस्यैकदाऽर्थद्वयाभिधानशक्त्यभावादर्थभेददोषपरिकल्पना भवेन चैवं तस्मादर्थभेददोषप्रसङ्गेन पदस्थासाधुता न सम्भवतीति भावः। निगमयति-तस्मादिति । विवेक्तारं प्रति प्रदर्शितमिति, तथा घुणः खयमजाननेव यदृच्छयाऽक्षराकारमुत्किरति तथा भवानपि इतिकर्तव्यतैव कर्तव्यतेति वदन् कारणात्मकसत्कार्यतां प्रदर्शयति तदपि प्रदर्शनं विवेक्तार त्येव नान्यं प्रति तथा प्रदर्शयन्नपि तद्विवेकं त्वं नैवेच्छसीति भावः। अथोच्येतेति, कारणमात्रकार्यदर्शनमपि स्वीक्रियते, निर्मूलापविद्धक्रियावाक्यप्रबन्धमपि असत्कार्यवादमपि खीक्रियते एकान्तपक्षेऽस्माकमाग्रहाभावादिति भावः । कारणमेव कार्य-80. मिति सत्कार्यवादममिहोत्रवाक्ये त्यक्त्वा कारणे कार्यासत्त्वं कुत आश्रीयत इत्यत्राह-अलब्धवृत्तित्वादिति, यदलब्धवृत्ति तदसत्, यथा वपुष्पमलब्धवृत्ति च क्रियादिकार्य कारणेऽतस्तदसत् कारणे इति भावः। कुत्र कारणात्मकं कार्य कुत्र च कारणेसत्कार्यमिति विवेचयतितद्विविधमिति । अग्निहोत्रं जहयादिति बाक्यं घटं कुर्यादिति वाक्यवदसत्कार्यप्रतिपादकमिलाह द्वा० न० २३ 2010_04 Page #228 -------------------------------------------------------------------------- ________________ ૭૮ द्वादशारनयचक्रम् [विधिवियर प्रहमकृत्वा कारणं कार्यमुभयमनुभयं वाऽभ्युपगम्यते, अस्मिन्नग्निहोत्रं जुहुयात् स्वर्गकाम इति वाक्ये यत्कारणमात्रकार्यप्रदर्शनमनु यात्वा परित्यक्तमिह विधिनये सदपि तन्निर्मूलापविद्धक्रियावाक्यप्रबन्ध-निर्मूलमपविद्धः क्रियाप्रबन्धो वाक्यप्रबन्धश्च यस्मिंस्तदिदं निर्मूलापविद्धक्रियावाक्यप्रबन्धं तस्मात् कारणमात्रकार्यदर्शनस्य तदोषपरिहारार्थमिष्टमतो विवक्ष्यतेऽनवधारितैकान्तदर्शनत्वात् , कारणमात्रत्वं प्रत्यक्त्वा यत्कार्यासत्त्वं तदेवाग्निहोत्रं जुहुयादिति वाक्ये कारणमात्रकार्यदर्शनमेव सदसत्कार्यमिति विवक्ष्यतेऽभ्युपगम्यते च, किं कारणं ? अलब्धवृत्तित्वात्-अलब्धा वृत्तिरनेनेत्यलब्धवृत्ति कार्य तस्मादलब्धवृत्तित्वात् खपुष्पवत् , यथा खपुष्पमलब्धवृत्तित्वादसत्तथा कार्य स्वर्गापूर्वाद्यलब्धवृत्तित्वादसत् । लब्धवृत्ति चेत् कुर्याज्जुहुयादिति न चोद्येत, सिद्धौदनार्थ पचेदित्यचोदनवत् , अतोऽसत्कार्यमागृह्य स्वर्गादिप्राप्त्यर्थं क्रियाऽऽश्रीयतेऽग्निहोत्रं कुर्यादिति । तद्विविधम्-तच्च कार्य द्विविधमनितिकर्तव्यतात्मक10 मितिकर्तव्यतात्मकञ्च, तत्रानितिकर्तव्यतात्मकञ्च कार्य घटादि यूपादि च लोके वेदे च दृष्टम् , मृदानयनमर्दनदण्डग्रहणचक्रभ्रमणादीतिकर्तव्यतात्मकं घटाख्यं न भवति तदुपरमेऽपि पृथगुपलब्धेः, तथाष्टास्रकरणादीतिकर्तव्यात्मको न भवति यूपः । इतिकर्तव्यतात्मकं पुनः कार्य प्राप्तिसंवादि, प्राप्त्या संवादितुं शीलमस्येति प्राप्तिसंवादि, यथा सेवादि, उपस्थानाञ्जलिकरणादिरूपैव सेवा ताभ्यः पृथगनुपलब्धेः । तत्कार्य न कारणमात्रं-नेतिकर्तव्यतात्मकं घटादियूपादिवत् । घटं कुर्यादिति प्रतिपादितादसत्कार्य1B वादात् कुर्याच्छब्दप्रतिपादितमग्निहोत्रं कुर्यादित्यत्र कुर्याच्छब्देन प्रतिपादितं घटं कुर्यादिति प्रतिपादित घटासत्कार्यार्थवाक्यवदिदमपि वाक्यं स्फुटतरासत्कार्यार्थम् , किं कारणं ? आदौ मध्येऽन्ते च कर्त्तव्यताभ्युपगमात् । अतोऽसत्कार्यवादस्योपक्रमप्रभृत्यपवर्गपर्यवसानेषु क्रियाविशेषेष्वभ्युपगतत्वाद्यदुच्यते त्वया दोषजातं तत् त्वद्वचनात् प्राप्तिप्रापितेतिकर्तव्यतैव कर्त्तव्यतेति वचनछलात् कारणमात्रकार्यत्वापत्तिस्ततो विध्यनुपपत्तिरित्यादिदोषजातं सर्व नास्तीति । 20 एतदपि नोपपद्यते विधिविधिनयदर्शनोपपादयिष्यमाणकारणमात्रत्ववादात् । अभ्युपेत्यापि नैवास्य वाक्यता इतिकर्तव्यतावाक्यासिद्धौ तदसिद्धेः, तदवाक्यत्वे तद्बलप्रतिष्ठाप्यकर्तव्यतावाक्यमप्यवाक्यम्, जुहुयादित्यस्योक्तवदेवेतिकर्तव्यतावाक्यप्रत्ययापि न कर्तन्यतागतिः। (एतदपि नोपपद्यत इति) विधिविधिनयदर्शनोपपादयिष्यमाणकारणमात्रत्ववादात् , 25 अभ्युपेत्यापि-असत्कार्यवादोक्तावपि नैवास्य वाक्यता-प्राप्त्यनुबन्धप्रापितेतिकर्तव्यताकर्त्तव्यत्वार्थस्या घटं कुर्यादिति । आदाविति, उपक्रमप्रभृत्यपवर्गपर्यन्तक्रियाविशेषेषु कर्तव्यताऽभ्युपगमादित्यर्थः । तत्कार्यमिति, अमिहवनक्रियालक्षणं कार्य नेतिकर्तव्यतामात्रमित्यर्थस्यासत्कार्यवादत्वमुक्तम् । अथामिहोत्रं कुर्यादिति वाक्यस्य घटं कुर्यादिति घटासत्कार्यार्थवाक्यवदसत्कार्यार्थत्वमादर्शयति-घटं कुर्यादिति । वचनछलादिति, अविशेषाभिहितेऽर्थे वक्तुरभिप्रायादर्थान्तरकल्पना वाक्छलम् , प्राप्तिप्रापितेतिकर्तव्यतैव कर्त्तव्यतेति त्वदीयमेव वचनम् , नास्माकमत एतद्वाक्यमवलम्ब्य 30 प्रदर्शिता दोषा नास्माकं सम्भवन्तीति भावः । विधिविधीति. अग्रे विधिविधिनयदर्शने कारणमात्रत्वमुपपादयिष्यतेऽतो न कार्यवाद उपपद्यत इति भावः। प्राप्त्यनुबन्धेति, अग्निहोत्रहवनकरणप्रतिपादकं वाक्यमितिकर्तव्यतात्मककर्त्तव्यताप्रतिपादकम् , ताश्चेतिकर्तव्यता वाक्यान्तरप्रापिताः। अनुपरताकांक्षाणामितिकर्तव्यतानां परस्परमनुबन्धः सम्बन्ध एव कर्तव्यता तथा चेतिकर्तव्यताप्रसिद्धः कर्तव्यताप्रसिद्धिर्भवेत् न तु तथा सम्भवति, इतिकर्तव्यतावाक्यस्यैवासिद्धेरिति भावः । इति ____ 2010_04 Page #229 -------------------------------------------------------------------------- ________________ तिकर्त्तव्यतावाक्यासिद्धिः ] न्यायागमानुसारिणीव्याख्यासमेतम् १७९ ग्नेहोत्रहवनकरणार्थस्य वाक्यस्य वाक्यता, कुतः ? इतिकर्तव्यतावाक्यासिद्धौ तदसिद्धेः, तत्सिद्धौ तत्सिद्धेः, तत् पुनरितिकर्त्तव्यतावाक्यम्, तदवाक्यत्वे तद्बलप्रतिष्ठाप्य कर्त्तव्यतावाक्यमप्यवाक्यम्, तत्र तावद्भृतेन जुहुयादित्येतदितिकर्त्तव्यतावाक्यमवाक्यं प्रसिद्धार्थाननुवादत्वादुन्मत्तप्रलापवत्, यथा कामोन्मत्तस्य पक्षीति दर्शनभ्रान्तेः हा प्रिये ! इत्यादि प्रलापो न वाक्यं प्रसिद्धार्थानुवादाभावात्, एवं घृतेन जुहुयादित्यस्यापि तदभावादिति कर्त्तव्यतावाक्याभावः । अननुवादत्वञ्चास्य घृतसम्प्रदानकहवनविधानविधिवाक्यस्य विध्यनुवादयोश्चान्योन्यनिराकांक्षयोरन्यतराभावात् । स्यान्मतं विधिमात्रस्य द्वारमित्यनुवादमात्रस्योद्धाट्यतामिति दृष्टत्वात्सापेक्षतेति चेन्न, तत्रापि बहिरङ्गस्थितप्रकरणादिभ्यस्तत्सिद्धेरनपेक्षैव । तस्मादिह इतिकर्त्तव्यतैव कर्त्तव्यतेति वचनात् कर्त्तव्यतावाक्यस्यैवासिद्धेर्धृतेन जुहुयादित्यस्य प्रसिद्धार्थस्यानुवादत्वाभावादवाक्यत्वम् । तदवाक्यत्वात्तद्बलप्रतिष्ठाप्याग्निहोत्र हवन कर्त्तव्यताविधिवाक्यासिद्धिः । अत आह— जुहुयादित्यस्योक्तवदेवेत्यादि, जुहुयात्, अग्निहोत्रं कुर्यात्, हवनं 10 कुर्यात्, अग्निहोत्रं हवनं कुर्यात्, प्रात्यनुबन्धप्रापितघृतादीति कर्त्तव्यतात्मककर्त्तव्यताग्निहोत्रं कुर्यात्, अग्निहोत्रमपूर्वं कुर्यादित्युक्तविकल्पेषु प्रागभिहितदोषसम्बन्धादेतैः सर्वैः प्रकारैः प्रयोगैः परीक्षायां निर्मूलार्थत्वमविषयत्वात्, अविषयत्वमपूर्वार्थत्वात्, अपूर्वार्थत्वमज्ञातार्थत्वात्, अज्ञातार्थत्वं प्रमाणान्तरेण प्रागविहितत्वादिति, तमुपसंहृत्याह - इतिकर्त्तव्यतावाक्यप्रत्ययापि न कर्त्तव्यतागतिः । 3 वेदमभिहितं जुहुयादिति हवनमनूद्य घृतादिना तद्विधानं क्रियत इति, तद्धि न 15 प्रसिद्धम्, कथं न प्रसिद्धमग्निहोत्रं जुहुयादित्यत्र हवनस्योक्तत्वादिति चेन्न तस्यैव सर्वप्रयोगपरीक्षायामर्थाभावात् तत्र तावद्भवनापूर्वकरणार्थतायां प्रधानाग्निहोत्र श्रुतित्यागाद्यापत्तिः । (केदमिति) केदमभिहितं जुहुयादिति यदुच्यते त्वया यज्जुहुयात्तद्धृतादिनेति हवनमनूय घृतादिना तद्विधानं क्रियते यथा घटं कुर्यादिति प्रसिद्धं घटमनूद्य तत्करणविधानम्, तत्तु न प्रसिद्धम् । 2010_04 6 कर्त्तव्यतावाक्यासिद्धिमाह-तत्र तावदिति, घृतेन जुहुया दितीति कर्त्तव्यतावाक्येन हवनानुवादेन घृतो विधेयः स च न 20 सम्भवति, हवनस्याप्रसिद्धार्थत्वात् प्रसिद्धो ह्यनूद्यते, तथा चोन्मत्तप्रलापवदेतद्वाक्यम् अप्रसिद्धार्थत्वात्, यथा हि कामान्धः पाक्षं दृष्ट्वा दर्शनभ्रान्त्या हा प्रिये ! इति प्रलपति तच्च वाक्यं न प्रसिद्धार्थानुवादकमेवमिदमपि वाक्यमिति भावः । अननुवादकत्वं कथमित्यत्राह-अननुवादत्वश्चेति । घृतसम्प्रदानकेति, घृतकरणकेत्यर्थः सम्प्रदाने तृतीयाभावात्, हवनानुवादेन घृतस्य विधानं घृतेन जुहुयादिति वाक्येनावगम्यते तत्र घृतहृवनयोर्विध्यनुवादयोः परस्परमाकांक्षाभावः न हि हवनविधायकस्याग्निहोत्रं जुहुयादिति वाक्यस्य हवनानुवादेन घृतेन जुहुयादित्यनेनाकांक्षाऽस्ति खखार्थबोधनेन निराकांक्षत्वात्, यद्वा 26 कारकाणां क्रियाणां वा नास्ति परस्परं सम्बन्धः तादात्म्याद्यसम्भवात्, न वा द्रव्यादिकारकाणां क्रियया सम्बन्धः, खरूपेण द्रव्यादीनां क्रियासम्बन्धाभावात् तथा च पदानां वाक्यानाश्च स्वस्वार्थबोधनेन निष्पन्नत्वान्न परस्पराकांक्षाऽस्ति, निराकांक्षाणाश्व कथं परस्परसम्बन्धः एकवाक्यता चेति भावः । ननु द्वारमित्युक्तौ उद्भाव्यतामित्यंशस्य उद्धाव्यतामित्युक्तौ वा द्वारमित्यंशस्यापेक्षणीयताया लोके दर्शनात्कथं विध्यनुवादयोर्निराकांक्षतेत्याशङ्कते - स्यान्मतमिति । द्वारमित्युक्तौ प्रकरणादित एवोद्घाटनाथर्थप्रतीतेर्न तद्वाचकपदाकांक्षेत्युत्तरयति - तत्रापीति । घृतेन जुहुयादिति वाक्यं नाग्निहोत्रं जुहुयादिति वाक्यविहितहवनानुवा - 30 दकम् इतिकर्तव्यताया एव कर्तव्यतात्वेन हवन विधायकवाक्यासिद्धेरतो न हवनस्य प्रसिद्धार्थता यदनूद्य घृतविधानं स्यादि • त्याह-तस्मादिति । तदवाक्यत्वादिति, घृतेन जुहुयादित्यस्यावाक्यत्वात्तद्बलेन प्रतिष्ठाप्यमग्निहोत्रं जुहुयादित्यपि वाक्यं न वाक्यम्, इतिकर्त्तव्यतावाक्या सिद्धेरित्यर्थः । अग्निहोत्रवाक्ये हवनस्य विहितत्वेन प्रसिद्धत्वादिहानुवदनं सम्भवतीत्याशङ्कते - Page #230 -------------------------------------------------------------------------- ________________ द्वादशारनयचक्रम् [विधिविध्यरे कथं न प्रसिद्धम्, अग्निहोत्रं जुहुयादित्यत्र हवनस्योक्तत्वादिहानुवदनं ननूपपन्नमिति चेन्न, तस्यैव सर्वप्रयोगपरीक्षायामर्थाभावात् । तत्र तावद्धवनापूर्वकरणार्थतायां प्रधानाग्निहोत्रश्रुतित्यागाद्यापत्तिा, अर्थाभावादित्ययमभिसम्बद्ध्यते, क्रमोल्लंघनेन विकल्पद्वयोपन्यासः तुल्योत्तरत्वात् , हवनं कुर्यात् , अमिहोत्राख्यमपूर्वं कुर्यादित्येतयोरर्थविकल्पयोः प्रधानस्याग्निहोत्रशब्दस्य तदर्थस्य च त्याग आपद्यते, 5 घृतेन जुहुयादित्यादिष्वनुवादसफलीकरणार्थमग्निहोत्रं जुहुयादित्यत्र जुहुयाच्छब्दस्य स्वप्रकृत्यर्थस्य सार्थकत्वेऽग्निहोत्रशब्दः पौनरुत्त्यान्निरर्थक आपद्यते । अथ प्रधानत्वादग्निहोत्रस्य मा भूदग्निहोत्रशब्दो निरर्थक इति सार्थकतोच्यते ततो जुहुयाच्छब्दनैरर्थक्यात् प्रयोगो नोपपद्यते, विहितार्थाभावेऽनुवादत्वाभावात , प्रधानत्वश्चास्याग्निहोत्रस्य साक्षात् स्वर्गादिकाम्यपुरुषार्थसाधनत्वेन विधानाजुहोतिप्राधान्ये च तदनुपपत्तिः । अत्र च न तु घटवदग्निहोत्रशब्दः काश्चिदपि कर्त्तव्यतां ब्रवीतीत्यादि सर्वो ग्रन्थः पूर्वो10 त्तरपक्षप्रसङ्गतो योज्यो यावन्नापि घटादिकर्त्तव्यतायामिव काचित्क्रिया प्रसिद्धा ययाऽग्निहोत्राख्यता हवनस्यातिदिश्येत हवनाख्यता वाऽग्निहोत्रस्येति हवनं कुर्यादित्ययमुक्तोत्तरार्थविकल्पः । अपूर्वार्थपक्षेऽप्यमिहोत्रशब्दस्य जुहुयाच्छब्दस्यैकार्थत्वात् प्रधानापूर्ववाच्याग्निहोत्रशब्दस्य त्यागस्तथैव, विशेषतस्तु अथाग्निहोत्रमित्यस्यापूर्वविशेषाभिधानार्थतैव कल्प्यते तथासत्यपूर्वाभिधानेन कोऽर्थ इत्यादि याव तदनुष्ठातव्यमिति ग्रन्थश्च योज्यः । आदिग्रहणात् पुरुषप्रमाणकताशब्दप्रामाण्यत्याग इत्यादिदोषः, ततः 15 प्रधानानिहोत्रश्रुतित्यागाद्यापत्तिरर्थाभावात् , केदमभिहितमित्यादि । . अग्निहोत्रोभयकरणार्थतयोरपि विकल्पयोस्तुल्योत्तरत्वात् । (अग्निहोत्रेति) अग्निहोत्रोभयकरणार्थतयोरपि जुहोतित्यागाद्यापत्तेरग्निहोत्रं कुर्यादग्निहोत्रहवनं कुर्यादित्येतयोरपि विकल्पयोस्तुल्योत्तरत्वादिति, उभयार्थविकल्पस्याग्निहोत्रं कुर्याद्धवनं कुर्यादित्येतयोः पक्षयोरक्तदोषदुष्टत्वात् समानोत्तरत्वादिति । अत्रापि अथ पुनरेवं न निर्वहतीत्यादिग्रंथो योज्या 10 कथं न प्रसिद्धमिति । अग्निहोत्रं जुहुयादित्यत्र सर्वप्रयोगपरीक्षायां क्रियमाणायां न कश्चिदर्थः सिद्धयतीति न तत्र हवनविधानं सम्भवतीत्युत्तरयति-तस्यैवेति, अग्निहोत्रं जुहयादिति वाक्यसम्बन्धिन एवेत्यर्थः ।धृतेन जुहयादित्यत्र हवनस्यानुवादत्वसम्पतयेऽग्निहोत्रवाक्ये हवनं कुर्यादिति हबनविधानाङ्गीकारेऽग्निहोत्रशब्दो व्यर्थः स्यादर्थाभावात् , अग्निहोत्रशब्दप्रतिपाद्यार्थस्य विधिप्रत्ययप्रकृतिभूतेन जुहोतिनैवोक्तत्वादन्यथा पुनरुक्तत्वापत्तरित्याह-हवनं कुर्यादिति, अत्राग्निहोत्रशब्दत्यागः, अग्निहोत्राख्यम पूर्व कुर्यादित्यत्रामिहोत्रशब्दार्थत्यागः, अपूर्वार्थताङ्गीकरणात्, अत्राग्निहोत्रशब्दनिरर्थकताच हवनेनैवापूर्वविशेषस्याभिव्यङ्ग्यत्वात् 9 जुहुयात् खर्गकाम इत्येतावता वाक्येनैव गतार्थत्वादिति । मीमांसका अपूर्वविधौ धात्वर्थस्य विधौ करणत्वेनाङ्गीकारादग्निहोत्रेण होमेन भावयेदित्यग्निहोत्रनामकहवनसामान्य विधानमनीकुर्वन्त्यन्यथा सामान्य विध्यभावे विशेषविधीनामसम्भवादिति बोध्यम् । नन्वग्निहोत्रशब्दः प्रधानं पुरुषप्रवृत्त्युद्देश्यखर्गसाधनीभूतार्थाभिधायकत्वादतो न निरर्थक इत्याशङ्कते-अथ प्रधानत्वादिति। अनुवादार्थ जुहुयाच्छब्द इत्यत्राह-विहितार्थेति । विधीयमानार्थाभावेऽनुवादत्वासम्भवादित्यर्थः, तथा च जुहुयाच्छब्दो व्यर्थः स्यादिति भावः। अपूर्वार्थपक्षेऽपीति, यः खर्ग कामयते स जुहुयात् इत्युक्तावेवापूर्व जुहुयात् खर्गकाम इति लब्धत्वान्न प्रयोजनं किंचिदग्निहोत्रशब्देनेति त्याग एवाग्निहोत्रशब्दस्य प्राप्तस्तदतिरिक्तज्ञानाजनकत्वात् , अपूर्ववाचकत्वेऽपि तस्य नापूर्वस्य निरूपणं हवनेन कत्तुं शक्यमप्रत्यक्षत्वादिति भावः । पूर्वोक्तग्रन्थार्थमत्राप्यतिदिशति-अथाग्निहोत्रमित्यादिना । अथाग्निहोत्रं कुर्यादग्निहोत्रहवनं कुर्यादिति विकल्पद्वयाश्रयेणाह-अग्निहोत्रोभयेति । जुहुयाच्छब्दः कुर्यादर्थे वर्तते हुधात्वर्थस्यामिहोत्रशब्दत एव लाभादतोऽग्निहोत्रं जुहुयादित्यनेनाग्निहोत्रं कुर्यादिति विवक्षित इति विकल्पोऽपि जुहोत्यर्थत्यागात् जुहुया 2010_04 Page #231 -------------------------------------------------------------------------- ________________ १८१ जुहोत्यर्थत्यागः] न्यायागमानुसारिणीव्याख्यासमेतम् सप्रपञ्चो यावत्स्वदभिप्रायवद्धवनानुवादविशिष्टाग्निहोत्राभ्युपगमेऽपि चाग्निहोत्रस्यात्मादिवस्तुतत्त्ववदप्रसिद्धस्वरूपत्वात् करणासिद्धिः । शैलीप्रसिद्धौ छिदिवदनग्निहोत्रत्वं प्रसक्तं ततश्च यदग्नये होत्रं तदग्निहोत्रमिति तावमात्रार्थत्वात् प्रधानस्य स्वर्गसाधनताभिमतस्यानग्निहोत्रत्वाद्धृतेन जुहुयादित्यनेन प्रधानस्वगेकामानभिसम्बद्धजुहोत्यर्थानुवादेन किं प्रयोजनमितिकर्तव्यताकर्त्तव्यतया? । शैलीप्रसिद्धौ छिदिवदित्यादि, छिदिरिव छिदिवत् , यथा छिदौ दृष्टं लौकिकयूपमात्रफलत्वं नादृष्टालौकिकहवनात्मकाग्निहोत्रत्वं तथानग्निहोत्रत्वं-तथाग्निहोत्रं जुहुयादित्यस्यापि तच्छैल्यैवाग्निहोत्रमहवनात्मकमहवनात्मकाग्निहोत्रत्वाच्चानग्निहोत्रत्वं प्रसक्तं छिदिनिर्वय॑यूपवत् , अत्र चैतदपि न वैषम्यादित्यादिग्रन्थो योज्यो यावच्छैलीप्रामाण्ये चास्य शैल्या यूपक्रियाऽयाथार्थ्यादिति, ततश्च-अनग्निहोत्रत्वप्रसङ्गाद्यदग्नये होत्रं तदग्निहोत्रमिति तावन्मात्रार्थत्वात् प्रधानस्य स्वर्गसाधनताभिमतस्यानमिहो- 10 त्रत्वाद्धृतेन जुहुयादित्यनेनानुवादेन प्रधानस्वर्गकामानभिसम्बद्धजुहोत्यर्थानुवादेन किं प्रयोजनमिति कर्तव्यताकर्त्तव्यतया ? प्रधानेन स्वर्गकामेन विना किं तया ? यथोक्तम् 'कातरसतेन सूरं सूरसहस्सेण पंडितं भरसु । अलसं जेण व तेण व णवर कतग्धं परिहराहि' इति । प्रधानार्थमप्रधानत्यागदर्शनात् । प्राप्तिप्रतिपाद्यप्रसिद्धावग्निहोत्रे जुहोतिप्रयोगो दानादिप्रसिद्ध्युपरोधेन दाहने एव तावद्विधेय इति परिभाव्य पश्चात् प्रसिद्धे दाहने घृतेन जुहुयादितीतिकर्तव्यताविधिर्योक्ष्यते, 15 अन्यथा तु तथाऽप्रसिद्धरविधायक एव कुतस्तदनुवादः? (प्राप्तिप्रतिपाद्यप्रसिद्धावग्निहोत्र इति) प्राप्त्या प्रतिपाद्या प्रसिद्धिरस्य तस्मिन् प्राप्तिप्रतिपाद्यप्रसिद्धौ, क ? अग्निहोत्रे, 'यदग्नये च प्रजापतये च सायं जुहोती'त्यनया प्राप्त्या प्रतिपाद्यप्रसिद्धौ तु तस्मिन् जुहोतिप्रयोगो दानादिप्रसिद्ध्युपरोधेन दाहन एव तावद्विधेयः । तावच्छब्दः क्रमार्थे, जुहोतीत्ययं धातुर्लोकप्रसिद्धदानादनार्थो न भवति, किं तर्हि ? दहनेनामिना दाहयेद्धृतादि 20 द्रव्यमित्युक्तं भवति, अग्निहोत्रं जुहुयादित्येतदिति परिभाव्य पश्चात् प्रसिद्ध दाहने घृतेन जुहुयाद् घृतं दाहयेदग्निना, घृतं दाहयेत्, अग्निघृतं दहेदिति ज्ञातार्थमनूयेतिकर्तव्यताविधिर्योक्ष्यते लोकप्रसिद्धिवैपरीयेन व्युत्पादनेन, अन्यथा तु लोके दहनादिष्वदृष्टत्वात् कथं दहनमनूद्य घृतादीतिकर्त दर्थेऽमिहोत्रशब्दस्य वृत्तेः कुर्यादित्यस्यापि व्यर्थत्वाच्च दुष्टः । अग्निहोत्रहवनं कुर्यादिति विकल्पं दूषयति-त्वदभिप्रायवदिति । यूपं छिनत्तीति विध्यन्तरविधानशैलीवदग्निहोत्रशैलीप्रसिद्ध्यभ्युपगमे दोषमाह-शैलीप्रसिद्धाविति, यथा यूपं छिनत्तीति 25 छिदिः केवलं यूपमात्रफलको न त्वदृष्टफलकः तथाग्निहोत्रमप्यग्नये होत्रमित्येतावन्मात्रफलं भवेन्नतु खर्यादिफलम् , तथा च खर्गसाधनतयाऽभिमतमग्निहोत्रमनग्निहोत्रमेव स्यात् शैलीवैषम्यात् एवञ्च धृतेन जुहुयादित्यनुवादोऽपि व्यर्थ एव प्रधानामिहोत्राभावादिति भावः । अत्रापि पक्षे पूर्वोक्तग्रन्थार्थमतिदिशति-अत्र चेति । यथोक्तमिति, कातरशतेन शूरं शूरसहस्रण पण्डितं भर । अलसं येन वा तेन वा नवरं कृतघ्नं परिहर ॥ इति छाया ॥ अनया कारिकया प्रधानार्थमप्रधानत्यागो दर्शितः । दाहन एवेति, अग्निहोत्रं जुहुयादिति वाक्येनाग्निघृतादिद्रव्यं दहेदिति विहितं प्रसिद्धार्थ दहनमनूध घृतेन 30 जुहुयादिति घृतमग्निना दाहयेदितीतिकर्तव्यता विधीयत इत्यर्थः। अग्निहोत्रस्य च प्रसिद्धिर्यदग्नये चेति वाक्येन तथा च घृतेन जुहुयादित्यत्र जुहोतिर्दानाद्यर्थमुपेक्ष्य दाहने वर्तते, तथा च घृतेन जुहुयादिति वाक्यस्य दहनेनाग्निना दाहये - तादिद्रव्यमित्यर्थ इति प्रतिभाति अन्यथाविति, लोकप्रसिद्धिविपरीतव्युत्पत्त्यनङ्गीकारे वित्यर्थः, तथा च हुधातोर्दानार्थ 2010_04 Page #232 -------------------------------------------------------------------------- ________________ १८२ द्वादशारनयचक्रम् [विधिविध्यरे व्यता विधीयेत ? तथाऽप्रसिद्धरविधायक एव, कुतस्तदनुवादः ? इतिशब्दो हेत्वर्थे, तथा तेन प्रकारेण दाहनार्थत्वेनाप्रसिद्धरग्निहोत्रं जुहुयादित्यत्रैव तावज्जुहुयाच्छब्दो दाहनस्याविधायको नात एवानुवादः । अत्रैव ननु सेवादिवत् कर्त्तव्यताप्रतिपत्तिरितिकर्तव्यताभ्य इत्युपक्रम्य ग्रन्थो योज्यो यावद्वेवादासाधुता वा तद्वदिति । एवं तावजुहुयाच्छब्दस्य दाहनार्थत्वाभावादयुक्तम् होत्रशब्दस्य वा । 5 तथाभूतार्थाभ्युपगमे च प्राप्तेढुंदासः, घृतेन जुहुयादित्यत्र जुहोतिप्रयोगात् । यदा वाऽयं घृतेन जुहुयादिति प्रयुज्यते तदा ह्ययमगतार्थ इति विज्ञायेत, अप्रमत्तप्रयुक्तत्वात् , इषे त्वादिवत् , अथवाऽक्षरविद्यावत्। तथाभूतार्थाभ्युपगमे चेति, अभ्युपेत्यापि दाहनात्मकमेव दानमिति दोषं ब्रूमः, कोऽसौ ? प्राप्तेयुदासः, येयं प्राप्तिर्यदग्नये च प्रजापतये च सायं जुहोतीति यया प्रापितमग्नौ प्रक्षेपो दानमिति तस्याः 10 प्राप्तेढुंदासः, कस्मात् ? घृतेन जुहुयादित्यत्र जुहोतिपदप्रयोगात् । अन्यथाप्राप्तौ श्रुतेन जुहोतिनोक्तत्वात्तदर्थस्य गतत्वादप्रयोगार्हत्वात् पौनरुत्यमस्य स्यात् , प्रयुक्तस्त्वयमतो ज्ञायते प्राप्तिश्रुतजुहोतिरनर्थक इति तस्मात् प्राप्तेढुंदासो जुहोतिप्रयोगात् । यदा वायं घृतेन जुहुयादिति प्रयुज्यते तदा ह्ययमगतार्थ इति विज्ञायेत यद्यन्येन शब्देनास्यार्थोऽनभिहितः स्यात् , किं कारणं ? अप्रमत्तप्रयुक्तत्वात् , अप्रमत्तेन हि वेदेन प्रमत्तात् पुरुषाद्विलक्षणेन रागाद्यविद्यादियोगरहितेन प्रयुक्तोऽयं त्वन्मतेन, लौकिकेनैव पुरुषे15 णाप्रमत्तेन विदुषा प्रयुक्तत्वादस्मन्मतेन मा भूत् सर्वपुरुषाप्रामाण्ये शब्दानाञ्च पुरुषाधीनोपलब्धित्वादप्रामाण्यमेवेति । अयं हे घृतेन जुहुयादित्यत्र जुहोतिशब्दोऽप्रमत्तप्रयुक्तो न येनकेनचिद्वालगोपालादिप्रयुक्तकल्पेन तुल्यः काकरुतादिकल्पेन तुल्यः । क इव ? इषे त्वादिवत् , यथा-'इषे त्वोर्जे त्वा वायवस्थोपायवस्थ देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मण' इत्यादिशब्दा अगतार्था इति विज्ञायन्ते तथायं घृतेन जुहुयादिति वाक्ये जुहोतिरप्रमत्तप्रयुक्तत्वादगतार्थ इति विज्ञायेत नान्यथा, अथवाऽक्षरविद्यावत्, 20 एव लोके प्रसिद्धरग्निहोत्रवाक्यमेव विधायकं न भवेदिति कथं घृतेन जुहुयादित्यनुवादकं भवेदित्यर्थः । कौमुद्यान्तु हु दानादनयोः, दानं चेह प्रक्षेपः, स च वैधे आधारे हविषश्चेति खभावाल्लभ्यत इत्युक्तम्, व्याख्याकृद्भिश्चात एव धनं ददातीत्यर्थे धनं जुहोतीति चुहयां काष्ठं प्रक्षिपतीत्यर्थे चुहयां काष्ठं जुहोतीति वा न प्रामाणिकप्रयोग इत्युक्तमिति चिन्त्यम् । अत्रापि ननु सेवादिवत् क्रियामात्रत्वादितिकर्तव्यताभ्यः प्रतिपत्तिरित्यादिग्रन्थो योज्य इत्याह-अत्रैव नन्वित्यादिना। ननु भवतु दाहनात्मकमेव दानं जुहोत्यर्थस्तत्रापि दोषं ब्रूम इत्याह-तथाभूतार्थेति, यदग्नये च प्रजापतये चेति वाक्ये25 नानौ प्रक्षेपलक्षणं दानं प्राप्तं घृतेन जुहुयादित्यत्रापि जुहोतेर्दानार्थत्वे तत् परित्याज्यं स्यात् , तस्यापरित्याज्यत्वे तु घृतेन जुहुयादित्यत्र जुहोतिप्रयोगो न कार्यः, अन्यथा पुनरुक्तिर्भवेत् , तस्माद्विज्ञायते यदग्नये चेत्यत्र जुहोतिरनर्थकः परित्याज्यश्चेति भावः । तदेव पुनः समर्थयति-यदा वाऽयमिति, यदा घृतेन जुहुयादित्यत्र जुहोतेः प्रयोगः क्रियते तथा विज्ञायतेऽसावनवगतार्थ इति, यतोऽसावप्रमत्तप्रयुक्त इति । अस्यैव हेतोरर्थमपौरुषेयत्वपौरुषेयत्ववाद्यभिप्रायेणाह-अप्रमत्तेन हीति, त्वन्मतेन-अपौरुषेयत्वाभिमन्तृमीमांसकमतेन, अस्मन्मतेन-पौरुषेयत्वाभिमंतृणामस्माकं मतेन । ननु सर्वपुरुषाणामप्रामाण्ये 30 शब्दानां पुरुषाधीनोपलब्धित्वात् शब्दः कोऽपि प्रमाणं न भवेदित्यस्माभिलौकिकेनाप्रमत्तेन पुरुषा विदुषा प्रयुक्तत्वादित्युक्तमित्याह-मा भूदिति । अप्रमत्तप्रयुक्तत्वादेव घृतेन जुहुयादित्यत्र जुहुयाच्छब्दो बालादिप्रयुक्तवाक्यतुल्यः काकरुतादितुल्यो वा न भवतीत्याह-अयं हीति। घृतेन जुहुयादित्यत्र जुहोतिशब्दो न गतार्थः, अप्रमत्तप्रयुक्तत्वादिति प्रयोगस्य दृष्टान्तमाह-इषे त्वादिवदिति । दृष्टान्तान्तरमाह-अथ वाऽक्षरविद्यावदिति, अक्षरविद्या-ब्रह्मविद्या । एवं स्थितेऽग्निहोत्रशब्दघटकहोत्रशब्दो घृतेन जुहुयादिति वाक्यघटकजुहोतिशब्दो वा यदग्नये चेति वाक्योक्तदानार्थो यदि भवेत्तर्हि स शब्दो न 2010_04 Page #233 -------------------------------------------------------------------------- ________________ जुहोतेरविधायकता] न्यायागमानुसारिणीव्याख्यासमेतम् १८३ यथा द्वे विद्ये वेदितव्ये इति ह स्म यब्रह्मविदो वदन्ति परा चैवापरा च। अथ परा यथा तदक्षरमधिगम्यते । यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुःश्रोत्रं तदपाणिपादम् । नित्यं विभुं सर्वगतं सुसूक्ष्म तदव्ययं यद्भूतयोनि परिपश्यन्ति धीराः' (मुण्डक० १ मु० १ खं० ४-५-६ सू० ) इतीयमक्षरविद्या कचिदगतार्थेति विज्ञायते अप्रमत्तप्रयुक्तत्वात् , तथाऽयमपि जुहोतिप्रयोगो नान्यथा, तद्यदि प्राप्तिप्रापितदानार्थोऽग्निहोत्रं जुहुयादित्यत्र होत्रशब्दो जुहोतिशब्दो वा ततोऽयं घृतेन जुहुयादिति । पुनर्जुहोतिर्न प्रयुज्येत, प्रयुक्तस्तु तस्मात् प्राप्तिय॒दस्तेति । एवं तर्हि प्राप्तिवाक्यवृत्तजुहोत्यनुवाद इति चेन्न तत्र विधिलिविषयस्यावृत्तेरज्ञातत्वात् । विध्यनुवादस्य तद्विषयतेति चेन्न, अज्ञातत्वादेवाननुवादत्वात् , कुत एवं ज्ञायते जुहोत्यर्थे जुहुयाच्छब्दः प्रयुक्तो न स्वार्थे इति । 10 (प्राप्तीति) स्यान्मतं प्राप्तिवाक्येऽग्नये जुहोतीति श्रुतस्याग्निसम्प्रदानकस्य दानार्थस्य जुहोते. रनुवादोऽयं घृतेन जुहुयादिति जुहोतिरित्येतच्च न, तत्र विधिलिविषयस्यावृत्तेरज्ञातत्वात् ,-नैवमप्युपपद्यते तत्र-प्राप्तिवाक्ये जुहोतीत्यव्यापार्यमाणकर्तृसाधनदानार्थजुहोतिधातुप्रयोगस्य विधिलिङो विषये व्यापारणार्थे वृत्त्यभावात् , अस्य च जुहुयाच्छब्दस्य विधिलिविषयस्य नियोगार्थस्य नियोगरहिते जुहोतिशब्दार्थे तत्रावृत्तेरयं विधानार्थो न विदित एव, तस्मादज्ञातत्वात् प्राप्तिवाक्यवृत्तजुहोत्यर्थानु-15 वादायोग्यता, प्राप्तमनूद्यते, अप्राप्तश्च विधीयत इति वचनात् , तस्मादनुवादायोग्यत्वादयुक्तमुक्तं प्राप्तिवाक्यवृत्तजुहोत्यनुवाद इति । विध्यनुवादस्य तद्विषयतेति चेत् स्यान्मतं लक्षणशास्त्रेऽभिहितं 'व्यत्ययो बहुलम्' (पा० ३।११८५) 'सुप्तिङपग्रहलिङ्गनराणां कालहलचस्वरकर्तृयङाश्च । व्यत्ययमिच्छति शास्त्रकदेषां सोऽपि च सिद्ध्यति बाहुलकेन ॥' (पा० म० भा० ३।११८५ सूत्रे ) तस्माज्जुहोत्यर्थे जुहुयाच्छब्दस्य प्रयोगात् प्राप्तमेवानूद्यते तद्विषयत्वादेवास्यापीति । एतदपि न, अज्ञातत्वादेवाननुवा- 20 दत्वात् , सव्यापारणार्थशब्ददर्शनान्निापारणार्थत्वाच्च, इदं त्वया सन्निहितदेवताकोशपानेन प्रत्याय्यं प्रयुज्येत प्रयुक्तश्चातो विज्ञायते वाक्यान्तरप्राप्तदानार्थः परित्यक्त इति निगमयति-तद्यदीति । ननु घृतेन जुहुयादिति वाक्यघटको जुहोतिः प्राप्तिवाक्यश्रुतजुहोतेरनुवादक इत्याशङ्कते-प्राप्तीति । प्राप्तिवाक्ये जुहोतिपदं श्रूयते न तु जुहुयात् पदम् , तस्मान्न तत्पदं विधायकमित्युत्तरयति-तत्रेति । यदग्नये च प्रजापतये च सायं जुहोति इति प्राप्तिवाक्ये केवलं जुहोतिपदमव्यापार्यमाणकर्तृके दानार्थ एव वर्त्तते नतु विधिलिक्विषये व्यापारणार्थकर्तृके, घृतेन जुहुयादित्यत्र जुहुयाच्छ- 25 ब्दश्च व्यापार्यमाणकर्त्तके वर्तते. न तु जुहोत्यर्थे. एवञ्च प्राप्तिवाक्येन विधेरज्ञातत्वान्न जुहयाच्छन्दस्तदनुवादक इत्याह-प्राप्तिवाक्य इति । प्राप्तिवाक्यघटकजुहोतेर्व्याकरणशास्त्रेण व्यापार्यमाणकर्तृकेऽर्थे वृत्तित्वं विज्ञायत इत्याशङ्कते-स्यान्मतमिति लक्षणशास्त्र-शब्दलक्षणप्रतिपादके शास्त्रे। सुप्तिङपग्रहेति, छन्दसि शास्त्रकृतः सुपां तिकां परस्मैपदानामात्मनेपदानां लिङ्गस्य पुरुषस्य कालस्य वर्णादेश्च व्यत्ययमिच्छन्ति स च बहुलाधिकारात् सिद्ध्यतीति वृत्तार्थः। तद्विषयत्वादेवेति, यदनये चेति वाक्यघटकजुहोतिविषयत्वाद्धतेन जुहुयादिति वाक्यघटकजुहुयाच्छब्दस्यत्यतोऽनुवादत्वं युज्यत इति भावः । 30 तन्निराकरोति-एतदपि नेति, जुहोतीत्यस्य जुहुयात्परत्वज्ञानोपायवैधुर्याज्जुहुयात् पदमेव विधायकं न त्वनुवादकमित्याह-अज्ञातत्वादेवेति । सव्यापारणेति, घृतेन जुहुयादिति प्रेरणार्थकजुहोतेर्दर्शनात् , यदग्नये च प्रजापतये च सायं जुहोतीति निर्व्यापारणार्थकजुहोतिशब्ददर्शनाचेत्यर्थः। तथा च जुहुयाच्छब्दो जुहोत्यर्थे जुहोतिशब्दो वा जुहयादर्थे 2010_04 Page #234 -------------------------------------------------------------------------- ________________ 5 10 द्वादशारनयचक्रम् [ विधिविध्यरे विशेषलिङ्गाभावात् कुत एवं ज्ञायते जुहोत्यर्थे जुहुयाच्छन्दः प्रयुक्तो न स्वार्थ एव, - जुहोतिर्वा जुहुयादर्थे प्रयुक्त इति, तस्मादविदितार्थत्वाद्विधित्वं विधित्वाच्च नानुवादोऽननुवादत्वाश्चैवमपि न युक्तम् । अभ्युपेत्यापि जुहोत्यर्थे जुहुयाच्छब्दस्य वृत्तिं दोषं ब्रूमः - १८४ 15 हवनाच्च भावनमेवमनवगमितमेवाभिप्रेतस्य स्यात् । ( हवनाच्चेति, ) विध्यर्थाभावात् पुरुषो हवनकर्मण्यनियोजित एव, ततो भावनं स्वर्गाख्यस्य विशिष्टसुखलक्षणस्य देशविशेषस्य विशिष्टसुखसाधनभूततयाऽभिप्रेतस्यार्थस्य भावबोधकं स्यात्, यदर्थमितिवृत्तमिदं वाक्यं स्वर्गाख्यफलसाधनेऽग्निहोत्रकर्मणि पुरुषं नियोक्ष्यामीति, तदर्थं हि वाक्यमनिहोत्रं जुहुयादित्येतत्प्रवृत्तमनेनैव कर्मणा स्वर्गो भाव्यते तस्मादिदं कुर्विति, तदर्थज्ञापनाभावे किमनेन वाक्येन जुहोतीत्युक्तेन । अत्राह प्रागभिहिताग्निहोत्रकरणवाक्यार्थविकल्पगतदोषपरिहारार्थमियमर्थव्याख्याऽऽश्रीयते— प्राप्तिविहितस्वरूपसिद्धेरग्निहोत्रस्य स्वर्गकामकर्मत्वाभिधानादवगमितकामानुरूपकर्मण उक्तत्वादेव तद्विधक्रियाविशेषगतेः क्रियाप्राप्यत्वाच्च कामस्य अलकावगमितकामरटनवत् कुर्यादित्यर्थादापन्नो विध्यर्थ इति जुहुयादित्यर्थापन्नार्थोऽनुवाद इतीयं व्याख्या न्याय्या, व्यक्तार्थोपपत्तित्वात्, आदिवाक्ये प्रधानश्रुत्यत्यागगुणकृदपीति चेत्, प्राप्तिविहितस्वरूपसिद्धेरग्निहोत्रस्येत्यादि, इदं तावद्व्यवस्थितं यद्मये च प्रजापतये च सायं जुहोतीत्यनया प्रात्या विहितमग्निहोत्रस्य स्वरूपं सिद्धम्, अतः प्राप्तिविहितस्वरूपसिद्धेरग्निहोत्रस्य कर्मत्वेन च श्रवणात्, कस्य ? कर्तुः स्वर्गकामस्य कर्मत्वाभिधानात् ततः किमिति चेत् ? स्वर्गशब्दाभिहितविशिष्टकर्मविषयकामाभिधायिशब्दश्रवणात् कर्मापि तदग्निहोत्राख्यं तदनुरूपं विशिष्टमेवेत्युक्तं भवति, अतः स्वर्गकामकर्मत्वाभिधानादवगमितकामानुरूपकर्मोक्त स्वर्गकामशब्दावबोधनेन कामानुरू20 पस्यैव कर्मण उक्तत्वादेव तद्विधक्रियाविशेषगतेर्विशिष्टफलविषयकामः पुरुषः कर्त्ता, कर्मापि तदनुरूपत्वाद्विशिष्टमेव तद्विधैव, क्रियापि अप्रसिद्धफलविषयकाम सम्बन्धिकर्मा, अप्रसिद्धं यथातथावदनुष्ठान प्रयुक्त इत्यत्र विनिगमनाविरह इति भावः । सर्वत्र जुहुयाच्छन्दस्य जुहोत्यर्थत्वाङ्गीकारे च दोषमादर्शयति-हवनाच्चेति, अमहोत्रं जुहुयादित्यत्रापि यदि जुहुयाच्छन्दो जुहोत्यर्थः तदा सिद्धार्थबोधकत्वेन साध्यं न किश्चिदर्थं बोधयेत्, अतो न तेन वाक्येन किञ्चित्प्रयोजनमिति किन्तेन वाक्येनेति भावः । भावनमिति । धात्वर्थ इत्यर्थः, न तु प्रेरणालक्षणो भावना 25 तद्बोधकलिङाद्यभावात् एवञ्चैतद्वाक्यं सुखविशेषरूपस्वर्गस्य देशविशेषरूपस्वर्गस्य वा विशिष्टसुखसाधनरूपस्य सद्भावमात्रं गमयेन्न तु पुरुषमग्निहोत्रादिकर्मणि प्रयोजयेदिति व्यर्थतैव तादृशवाक्यानामिति भावः, अथवा तु भावनं पुरुषप्रवृत्त्यनुकूलव्यापारविशेषः, तथाविधवाक्यश्रवणादिदं मां प्रवर्तयति मत्प्रवृत्त्यनुकूलव्यापारव दिदमिति नियमेन प्रतीतेः एवञ्च यदीदं वाक्यं पुरुषं न प्रवर्तयतीति ततो निरर्थकमिति । नन्वग्निहोत्रं जुहुयात् स्वर्गकाम इतिवाक्यस्याग्निहोत्रं कुर्यात् स्वर्गकाम इत्यर्थपरत्वं नोच्यते येन जुहोत्यर्थत्यागादिदोषाः प्रागुक्ता भवेयुः, किन्तु अर्थापनार्थानुवादत्वं जुहुयाच्छन्दस्येत्युच्यत इत्याशयेन पूर्वपक्षी 80 प्राह-प्राप्तिविहितेत्यादिना । अथाग्निहोत्रं स्वर्गकाम इत्येवोच्यतां तत्रानिहोत्रस्वरूपं यदनये च प्रजापतये चेति प्राप्तिवाक्येन सिद्धं तच्च स्वर्गकाम पुरुषस्य कर्मत्वेनाभिहितम्, विशिष्टकर्मसाध्यस्वर्गशब्दवाच्य फलविशेषकामनाबोधकखर्गकामलक्षणशब्दश्रवणात् तदप्यग्निहोत्रं कर्मविशिष्टमेव, स्वर्गकामशब्दाव गमितकामानुरूपत्वात्, तथाविधं विशिष्टं कर्म न विशिष्टां क्रियामन्तरेणेति क्रियाविशेषस्य गमकम्, क्रियां विना तथाविधेष्टप्राप्त्यसम्भवात्, सापि क्रिया नोपदेशमन्तरेति कुर्याच्छन्दोऽर्था 2010_04 Page #235 -------------------------------------------------------------------------- ________________ अर्थापत्तिनिरासः] न्यायागमानुसारिणीव्याख्यासमेतम् १८५ व्यापारविशेषोऽपि विशिष्टोऽप्रसिद्ध एवेति गम्यते । किं कारणम् ? तत एव शब्दात् तस्य क्रियाविशेषस्य गते क्यान्तराभावात्तद्विशेषगतिरतः क्रियाविशेषगतेः क्रियाप्राप्यत्वाच्च कामस्य, न ह्यन्यः कश्चिदुपायोऽस्ति कामप्राप्तौ क्रियातः, क्रियया शब्देन वा तदर्थावगमनात् । यथा त्वलकस्य वीथीमध्यपतितस्य हस्तं प्रसार्य कपर्दिकां देहि कपर्दिकां देहि भो ! इति वा रारट्यमानस्य कामोऽवगमितः क्रियया शब्देन वा प्रकरणविशेषसम्बन्धात् , सा च क्रिया नोपदेशमन्तरेण सिद्ध्यति, अलका- 5 वगमितकामरटनवदग्निहोत्रं स्वर्गकाम इत्युक्ते कुर्यादित्यर्थादापन्नो विध्यर्थोऽवगमितकामत्वात् , तस्यालकस्य यो वाऽर्थः स च विशेषसम्बन्धो वाक्यन्यायेन भवति । यथा सब्रह्मचारिणा सहाधीत इति समानेन ब्रह्मचारिणाऽधीते, केन सामान्येन समानेन ? प्रकृतविशेषणत्वात् , प्रकृताध्ययनक्रिययेति गम्यते, एवमिदमपि वाक्यम् , अनेन वाक्यन्यायेन प्रकृतस्वर्गकामाग्निहोत्रकर्मानुरूपविध्यर्थक्रियोपदेशताऽस्येति गम्यते, अतो हेतुहेतुमद्भावः प्रतिपादितः । प्राप्तिविहितस्वरूपसिद्धेरग्निहोत्रस्येत्यादि 10 यावज्जुहुयादित्यर्थापनार्थोऽनुवादोऽग्निहोत्रं स्वर्गकाम इत्येतावता कुर्याद्वाक्यशेषेण वाक्येन गतार्थत्वात् , तदेवं जुहुयादित्यनुवादो न विधिरितीयं व्याख्या न्याय्या, व्यक्तार्थोपपत्तित्वात् , प्रागभिहितव्याख्याविकल्पसमुत्थदोषाभावाच्च न्याय्येति मन्तव्या, यस्मादादिवाक्ये प्रधानश्रुत्यत्यागगुणकृदपीति, यदभिहितं प्रागग्निहोत्रं जुहुयादित्यस्य वाक्यस्याग्निहोत्रं कुर्यादित्यर्थव्याख्याविकल्पे विध्यर्थवाचित्वाभिमतश्रुतप्रधानजुहोत्यर्थत्यागस्ततः पुरुषप्रमाणकता, तदत्यागे वाक्यभेदापत्तिः पौनरुक्त्यादिदोषजातं तद-15 प्यत्र नास्ति, जुहुयाच्छब्दस्यानुवादत्वादेव हवनं कुर्यादित्यत्राप्यनिहोत्रप्रधानत्याग इत्यादि यहोषजातं तदपि नास्ति, तस्मादियं व्याख्याऽदिवाक्ये प्रधानश्रुत्यत्यागगुणकृद्पीति, तस्य जुहोतेरनुवादत्वेन पौनरुक्त्यत्यागभेदाद्यभावात् , चेदित्याशंकायाम् , एवं चेन्मन्यसे । इत्येवं ब्रुवन्तं परं दृष्ट्वाऽऽचार्य उत्तरमाहतन्न, अर्थापत्तेः पौनरुक्त्यादनुवादत्वासम्भवात् । 20 तन्नार्थापत्तरित्यादि, एषाऽपि व्याख्या नोपपद्यते, किं कारणं १ पौनरुक्त्यात् प्रयोगायोग्यत्वं लभ्यते तदर्थस्यैव च जुहुयाच्छब्दोऽनुवदतीत्यभिप्रायमाचष्टे-इदं तावदिति । क्रियया शब्देन वेति, क्वचित् क्रिययेष्टमवगम्यते कचिच्च शब्दात् यथा मार्गमध्यपतितालकस्य हस्तप्रसारणादिक्रियया कपर्दिका देहीति शब्देन प्रकरण. विशेषविशिष्टेन वा तदिष्टमवगम्यते तथेति भावः । वाक्यन्यायेनेति, तत्तत्पदैस्तत्तत्पदार्थानामुपस्थितौ विशेषणत्वादिविशिष्टस्यार्थस्य पदार्थसंसर्गरूपस्य बोधो वाक्याद्भवति, यथा चैत्र! नीलं घटमानयेत्यत्र चैत्र इत्येतावन्मात्रोक्तो को निर्दिष्टः 25 कर्मक्रियागुणाश्चानिर्दिष्टाः, घटमित्युक्ते कर्म निर्दिष्टं कर्तक्रियागुणा अनिर्दिष्टाः, आनयेत्युक्त क्रिया निर्दिष्टा कत्र्तकर्मगुणा अनिर्दिष्टाः नीलमित्युक्तौ गुणो निर्दिष्टः, कर्तकर्मक्रिया अनिर्दिष्टाः। चैत्र नीलं घटमानयेत्युक्तौ तु चैत्र एव को नान्यः घटएव कर्म नान्यत् , आनयैव क्रिया नान्या नील एव गुणो न कृष्णादिः, एवं पदानां सामान्ये वर्तमानानां यद्विशेषेऽवस्थानं स वाक्यार्थ । इति वाक्यन्यायः। केन सामान्येनेति, समाने साधारणे ब्रह्माणि वेदे यो व्रतं चरति स सब्रह्मचारी चरणं शाखा वेदस्य, तत्समानत्वे गम्ये 'चरणे ब्रह्मचारिणीति सूत्रेण निपातः सामान्यञ्च तदध्येयतुल्याध्ययनत्वेन, अत्र के सब्रह्मचारिणोऽस्येति प्रश्ने 30 कठा इत्युक्ते सम्बन्धादेतद्गम्यते नूनमयमपि कठ इति तथाऽयं कठ इत्युक्ते सम्बन्धादेतद्गन्तव्यं नूनं तेऽपि कठा इति, एवमिदमपि वाक्यमिति भावः । प्रागभिहितव्याख्यासूपन्यस्तदोषा अत्र न संजाघटन्तीत्याह-यदभिहितमिति। तदत्यागेश्रुतप्रधानजुहोत्यात्यागे। अर्थापत्तेरिति, व्याख्येयं प्रत्याख्येया पौवरुक्मप्रसङ्गात्, स-कथमिति चेदांपत्तेः अर्यापति.. द्वा.न. १४ 2010_04 Page #236 -------------------------------------------------------------------------- ________________ द्वादशारनयचक्रम् [विधिविध्यरे ततश्चानुवादत्वासम्भवात्तस्मादनुवादासम्भवात्तन्नेत्यभिसम्बन्धः । इदश्च पुनरुक्तमपन्नस्य पुनर्वचनलक्षणः पुनरुक्तनिग्रहस्थानविकल्पः। द्विविधं पुनरुक्तं निग्रहस्थानम् , तद्यथा 'शब्दार्थयोः पुनर्वचनं पुनरुक्तमन्यत्रानुवादात्' 'अर्थादापन्नस्य स्वशब्देन पुनर्वचनं' (गौ. अ. ५ आ.२ सू. १४-१५) इति, तस्मादिदमर्थादापन्नस्य पुनर्वचनं विशेषविधानमन्तरेणार्थापनार्थस्य स्वशब्देनोच्चारणात् । घृतेन जुहु5 यादित्यत्र न स्यात् पुनरुक्तम् , घृतविशिष्टहवनविधानात् । इह तु स्वर्गकामानुरूपकर्मानुरूपक्रियाविशेषविध्यर्थताया उपदेशवृत्तेरेव गतार्थतयाऽभ्युपगतत्वात् । घृतविशिष्टहवनविधानजुहोत्यनुवादतायाश्च मूलवाक्यगतजुहोत्यासिद्धेरननुवादतैव । किश्चान्यत् जघन्यतरा चेयं व्याख्या, साक्षाच्छ्रुतविधेर्जुहुयात्त्यागेन चार्थापनार्थाश्रुतानूदितजुहु10 याद्विकल्पनात् स एव पुरुषप्रमाणकत्वदोषः शब्दाप्रामाण्यदोषश्च । (जघन्यतरेति) जघन्यतरा चेयं व्याख्या, कस्मात् ? साक्षाच्छ्रुतविधेर्जुहुयात्त्यागेन चार्थापन्नार्थाश्रुतानूदितजुहुयाद्विकल्पनात् स एव पुरुषप्रमाणकत्वदोषः शब्दाप्रामाण्यदोषश्च । जुहुयादित्यस्य क्रियाशब्दस्य विध्यर्थस्य साक्षाच्छ्रुतस्य प्रत्यक्षस्य त्यागं कृत्वाऽर्थापन्नार्थस्य-अर्थादापन्नोऽर्थोऽस्येत्यर्था पन्नार्थः, कोऽसौ ? स एव जुहुयाच्छब्दोऽनुवादाभिमतः, तस्याश्रुतस्यार्थापनार्थस्यानूदितविकल्पनात्15 अनुवादकल्पनात्तन्नातिवर्तते । किश्चान्यत्विधीयमानवाक्यार्थविषयानुवदनाच वाक्यभेदस्य पुनरुक्तस्य चाङ्गीकरणात् । (विधीयमानेति) विधीयमानो वाक्यार्थो विधीयमानवाक्यार्थः स विषयोऽस्येति विधीयमानवाक्यार्थविषयः स एव जुहुयाच्छब्दस्तस्यैवानुवदनं स एवानुवादस्तस्मात् विधीयमानवाक्या20 सिद्धत्वादतो नानुवादत्वमिति भावः। द्विविधमिति, उक्तस्य पुनर्वचनलक्षणमेकमर्यादापन्नस्य पुनरभिधानमपरमिति द्विविधमित्यर्थः अन्यथा पूर्वमुक्तशब्दस्यैव पुनर्वचनमेकं पूर्व येन शब्देन योऽर्थ उक्तस्तस्यान्यशब्देनाभिधानरूपमपरम् , अर्थादापन्नस्याभिधानलक्षणमन्यदिति त्रिविधं पुनरुक्तं स्यादिति । शब्दार्थयोरिति, शब्दार्थयोः पुनर्वचनं पुनरुक्तमन्यत्रानुवादादिति गौतमसूत्रम्, अन्यत्रानुवादाच्छन्दपुनरुक्तमर्थपुनरुक्तं वा भवति, नित्यःशब्दो नित्यः शब्द इति शब्दपुनरुक्तं, अनित्यः शब्दो निरोधधर्मको ध्वनिरित्यर्थपुनरुक्तम् , अनुवादो न पुनरुक्तम् ग्रामोग्रामो रमणीयः पचतु पचतु भवानिति, चैत्रो ब्रह्मचारी ति शब्दार्थपुनर्वचनयोरपुनरुक्ततया व्यवहारादिति सूत्रार्थः । अर्थाटापन्नस्येति, अथोदापन्नस्यापि खशब्देन शब्दान्तरेण वा पुनर्वचनं तृतीयं पुनरुक्तं यथाऽसत्सु मेघेषु वृष्टिर्न भवतीत्युक्तेऽर्थादापद्यते सत्सु भवतीति, तन किमर्थं खकण्ठेन पुनरुच्यते, अर्थप्रतीत्यर्थो हि शब्दप्रयोगः प्रतीतेऽर्थे किं तेनेति सूत्रार्थः । घृतेन जुहुयादिति, न ह्यत्र जुहुयाच्छन्दः पुनरुकः, विशेषविधायकत्वात् , घृतविशिष्टं हवनं हि तत्र विधीयत इति सार्थकं तत्पदमिति भावः । इह विति, अग्निहोत्रं जुहुयात् खर्गकाम इत्यत्र तु वर्गकामानुरूपविशिष्टामिहोत्रकर्मानुरूपविशिष्ट क्रियाविशेषविधेर्जुहुयादित्यस्योपदेशगत्यैव गतार्थत्वाजु. 30 हयात्पदं पुनरुकमेव, न वा घृतेन जुहुयादिति वाक्यविहितजुहोत्यनुवादताऽस्य सम्भवति, तस्याङ्ग विधिरूपतयाऽमिहोत्रवाक्य स्याङ्गिविधित्वेनागवाक्यश्रुतजुहोतेरङ्गिवाक्येनानुवादतायाः क्वाप्यनभ्युपगमादिति भावः । अथ त्वदुक्तेयं व्याख्याप्रकारो न .सङ्गतिमङ्गति, अग्निहोत्रं जुहुयादिति श्रुतजुहोतिविधेस्त्यागात्, अर्थापन्नाश्रुतविध्यनुवादताङ्गीकारादित्याह-जघन्यतरा चेय. मिति। तथाङ्गीकारेऽप्युत्तरोत्तरविरोधपरिहारविचारात्मकतोश्रयणतोऽर्थनिर्वर्णनात् पुरुषप्रमाणकवादः प्राप्तः, तस्य च रागादि मत्त्वेन तत्सम्बन्धादग्निहोत्रादिवाक्यानामप्रामाण्यप्रसङ्ग इत्याह-स एवेति । तन्नातिवर्त्तते इति, अग्निहोत्रादिवाक्यं 35 पुरुषप्रमाणकस्बदोषमप्रामाण्यदोष नातिवर्तत इमर्थः। भवानवादाशीकारे वाक्यमेदपुनरुतदोषावप्यापयेते इत्याह-विधी 2010_04 Page #237 -------------------------------------------------------------------------- ________________ अनुषादत्वाभावः] न्यायागमानुसारिणीव्याख्यासमेतम् र्थविषयानुषदनाच, किं संवृत्तं ? वाक्यभेदस्य पुनरुक्तस्य चाङ्गीकरणम् , न हीदमेव वा स्वर्गकामाभिसम्बद्धाग्निहोत्रं विधानं तदनुवदनश्च कत्तुं शक्नोति स्वर्गकामकर्तृकस्याग्निहोत्रकर्मणो वाक्यान्तरेणाप्रापितत्वात, यथाऽसौ देवदत्त इत्यत्र तु देवदत्त एवानूद्यते विधीयते च, प्रत्यक्षप्रसिद्धस्त्वदसो विषयोऽनुद्यते, एवमिह प्रसिद्धार्थापेक्षया स तु नास्ति, तस्मादुभयार्थकल्पनादेकस्य तदसम्भवाच वाक्य. भेददोषः, पौनरुत्त्यन्तु विशेषविधानाभावात् । विशेषविध्यर्थो ह्यनुवादो युक्तो यथाऽयं देवदत्त । इत्ययंशब्देन स्वप्रत्यक्षप्रसिद्धार्थमनूद्य देवदत्तविधानम् , न तु तथाऽत्र कश्चिद्विशेषो विधीयते तस्मादविशेषाभिधानात् पौनरुत्तयम् । तस्मादग्निहोत्रं जुहुयादित्यस्य वाक्यस्य प्रथमत्वादेकवाक्यगतत्वाच्चानयोर्विध्यनुवादयोरापन्नाग्निहोत्रकर्मविधित्वे जुहोतेरनुवादत्वे वाक्यभेदपुनरुक्तदोषाङ्गीकरणान्नेत्येवाभिसम्बध्यते । एवं तावदग्निहोत्रं जुहुयादित्यत्र जुहुयाच्छब्दो नानुवादो घटते, न वाऽग्निहोत्रं स्वर्गकाम इति विधिः। 10 किश्चान्यत् अनुवादस्य च प्राप्तविशेषणपरार्थविषयार्थत्वादनुवादत्वाभावः। “(अनुवादस्य चेति) अनुवादत्वं हि प्राप्तविषयार्थम् , यथाऽयं देवदत्त इत्ययंशब्दार्थः प्राप्त्यर्थप्राप्तो देवदत्तार्थोऽधुना प्रापणीयः । एवं प्रसिद्ध्यप्रसिद्धिभ्यां विशेषणविशेष्यौ, तावेवोपकारकोपकार्यस्वाभ्यां परार्थस्वार्थों, न तथाऽग्निहोत्रं जुहुयादित्यत्र प्राप्तविशेषणपरार्थविषयत्वमग्निहोत्र- 15 जुहुयाच्छब्दयोः, अतोऽप्राप्ताविशेषणापरार्थत्वसाम्यादनुवादत्वाभावः । अभ्युपगम्यापि प्राप्तादि दोष उच्यते यत्पश्चादुच्यते कर्त्तव्यताप्रसिद्ध्यर्थमितिकर्तव्यतावाक्यं धृतेन जुहुयादिति, तस्य विधिविषयविप्रकृष्टीभूतत्वान्न कर्त्तव्यताविषयत्वम् । (यदिति) यत्पश्चादुच्यते कर्त्तव्यताप्रसिद्ध्यर्थमितिकर्तव्यतावाक्यं घृतेन जुहुयादिति, 20 तस्य विधिविषयविप्रकृष्टीभूतत्वं जुहुयाच्छब्दस्यानुवादाभिमतस्य, किं कारणम् ? प्राप्तविशेषणपरार्थ यमानेति । पौनरुक्त्यं सङ्गमयति-न हीदमेवेति, अग्निहोत्रं जुहुयादिति वाक्यमेव खर्गफलकामिहोत्रविधानं तस्यैव चानुवदनं कतुं शक्नोति, अग्निहोत्रविधेर्वाक्यान्तरेणाप्राप्तत्वात् , अप्राप्तं हि नानूद्यते प्राप्तञ्च न विधीयत इति नियमः । असौ देवदत्त इत्यत्र तु प्रत्यक्षप्रसिद्धमेवादःशब्देनानूध देवदत्तत्वं विधीयत इत्येकस्यैव वाक्यस्योभयमुपपद्यते, प्रकृतवाक्यस्य तु अनूद्य किश्चित् कस्यचिद्विधेयस्याभावानोभयरूपतेत्युभयरूपताङ्गीकारे च वाक्यमेद एवेति भावः । तथा वाक्यमेदानीकारेऽपि 25 विधेयस्य कस्यचिदभावात् पुनरुकतेल्याह-पौनरुत्यन्विति । विधिविहितस्य पुनरनुवादः स्तुत्यर्थ निन्दार्थमङ्गविशेषविधानार्थमानन्तर्यप्रकाशनार्थ वानुवादः क्रियते, यथाऽश्वमेधेन यजेतेति विधाय तरति मृत्यु तरति पाप्मानं योऽश्वमेधेन यजेतेति स्तुत्यर्थ, उदिते जुहोतीत्यादि विधाय श्यावोऽस्याहुतिमभ्यहरति य उदिते जुहोतीति निन्दार्थ, अग्निहोत्रं जुहोतीति विधाय दना जुहोतीति दध्याद्यविशेषविधानार्थ, दर्शपूर्णमासाभ्यो यजेत, सोमेन यजेतेति पृथक् पृथक् विधाय दर्शपूर्णमासाभ्यामिष्टा सोमेन यजेतेति आनन्तर्यप्रकाशार्थ तस्य तस्यानुवादः क्रियते, प्रयोजनव्यतिरेकेण च पुनर्वचनेऽनुवाद एव न स्यात् 10 पुनरुक्तिरेव स्यादित्याशयेनाह-अनुवादस्य घेति । अनुवादः प्राप्तविषयो विशेषणविषयः परार्थविषयश्च भवति, प्रसिद्धत्वात्, अग्निहोत्रजुहुयाच्छन्दयोश्चन तथेत्यनुवादत्वाभाव इति भावः। अथ प्राप्तविशेषणपरार्थविषयत्वमभ्युपगम्यापि दोष आह-यत्पधादुच्यत इति । विधिविषयेति, दमा हुमादित्यत्र जुहुयाच्छन्दो विधेयों विषयस्तस्मादत्यन्तं विप्रकृष्टत्वाचानुवादता 2010_04 Page #238 -------------------------------------------------------------------------- ________________ [ विधिविध्यरे विषयत्वादनुबादस्य, अप्राप्तविशेष्यस्वार्थविषयत्वाद्धि वेदादिवाक्यगत एव तावज्जुहुयाच्छन्दोऽनुवादो . घटते प्राप्तत्वाद्यभावात् तस्यानुवादस्तु घृतेन जुहुया दित्यत्र जुहुयाच्छन्द इष्टः स्यात्, तत्प्रतिरूपकस्तस्यार्थप्रतिशब्दकस्यैवेत्यापन्नोऽप्राप्ताविशेषणापरार्थत्वाद् विधेर्विषयविप्रकृष्टीभूतार्थश्चेति ततश्च . विधिविषय विप्रकृष्टीभूतार्थत्वान्न कर्त्तव्यताविषयत्वमिति कर्त्तव्यतायाः, यथा दश दाडिमादि5 लोकावयवानाम् । १८८ " द्वादशास्नयवक्रम् किञ्चान्यत् इति घटितविघटितमितिकर्त्तव्यतैव कर्त्तव्यतेति । ततश्च प्रतिसमाधेये विरुद्धतरदोषापादनं विधिविषयविप्रकृष्टीभूतार्थत्वादिति गण्डस्योपरि स्फोट आपादितः, ततोऽहमेव ते बुद्धिसंविभागं करोमि श्रूयताम् । लौकिकजुहोत्यर्थानुष्ठानप्रवृत्तोपदेश एव त्वयं परमनुवादः 10 स्यात् । स चानुपपन्ननियमार्थ उपदेशस्त्वदिष्टविरुद्धार्थः । ( इति घटित विघटितमित्यादि ) यावद्गण्डस्योपरि स्फोट आपादित इति, इतिशब्दो हेत्वर्थे, यस्मादित्थं कर्त्तव्य विषय विप्रकृष्टत्वमिति कर्त्तव्यताया इत्यादिदोषजातं विध्यनुवादत्वाभावात्, तस्माद्घटितविघटितं प्रागीषद्ध दितमासीत् सेवादिवदितिकर्त्तव्यतैव कर्त्तव्यतेति, तदप्यनया प्राप्तिविहितस्वरूप सिद्धेरित्यादिकया कल्पनया विघटितमुक्तविधिनैव ततश्च प्रतिसमाधेये विरुद्धतरदोषापादनं 15 विधिविषयविप्रकृष्टीभूतार्थत्वादिति, ततश्च प्रतिसमाधेये तस्मिन्नेव वाक्ये ऽनुवादत्वाभावादवाक्यत्वमिति दोषदुष्टे तत्प्रतिसमाधानार्थमुच्यते त्वया अहो ! परमविदुषा चिकित्सकेनानपेक्षितपूर्वापरक्रियाविधिविपाकेन चिकित्सयेव गण्डस्योपरि स्फोट आपादितः, तस्मादप्रसिद्धार्थत्वान्न मौलो जुहोति - तवानुवादो घटते । यदि भवतो घृतेन जुहुयादित्यस्यानुवादत्वमिष्टं ततोऽहमेव ते बुद्धिसंविभागं करोमि श्रूयताम्, लौकिक जुहोत्यर्थानुष्ठानप्रवृत्तोपदेश एव त्वयं परमनुवादः स्यात्, लौकिको 20 हि दानादनार्थो जुहोतिः, तदर्थानुष्ठानप्रवृत्तोपदेशो यद्यस्य विषयः स्यादद्यादद्यादिति तदर्थप्रसिद्धेस्तद्विषयोऽनुवादो युज्यते, विधिर्वा यस्मै कस्मैचित्, यदि किञ्चिद्दद्यात्तदा घृतं दद्यात् तेन जुहुयात्, यदि भुञ्जीत घृतेन जुहुयादित्येतस्मिन्नर्थेऽनुवादो घटते स चानुपपन्ननियमार्थ उपदेशः, समीकृत्य व्याख्यातोऽर्थोऽस्य शब्दस्य मया, तथापि पुनस्त्वदिष्टविरुद्धार्थमेतदापद्यते, लोकेऽनुपपन्ननियमो - पदेशार्थत्वदर्शनात्, विचित्रयोर्दानभोजनयोः स्वपर प्रीतिहेतुत्वात्, यथोपपत्तिर्धृतेन पयसा दध्ना 2010_04 25 माबिभर्त्ति विधिविहितस्यैवानुवादताऽभ्युपगमेन कर्तव्यतायाश्चार्थापन्नत्वेन विधिविहितत्वाभावादत एव चाप्रसिद्धत्वं विधेरिति तस्य प्राप्तत्वाद्यभावान्न कर्तव्यताविषयत्वमिति कर्त्तव्यताया इति स्यादभिप्राय इति भासते । ननु विध्यनुवादत्वासम्भवेन कर्त्तव्यता विषय विप्रकृष्टत्वादितिकर्तव्यताया इत्यादिदोषसम्भवेन एतत्कल्पना किश्चित्संघटितार्थपूर्वकल्पनापेक्षयाऽति जघन्येत्याहइतीति । दभा जुहुयादित्यत्र जुहुयाच्छब्दो न भवदुक्तविधिनानुवादः किन्त्वहं प्रतिपादयामि तस्यानुवादत्वमित्याह यदि भवत इति । लोके हि जुहोतिर्दानेऽदने च वर्त्तते तदर्थानुष्ठाने प्रवृत्तं प्रति यदीदमुपदेशः स्याद्दद्यात् अद्यादिति तदा तदर्थस्य प्रसि30 स्य दना जुहुयादित्यस्यानुवादता विधानं वा युज्यते यथा यदि भवान् यस्मै कस्मैचित् किञ्चिद्दद्यात्तर्हि घृतं दद्यादिति वक्तव्ये घृतेन जुहुयादिति वदतु, तथा यदि किञ्चिद्भुजीत स हि घृतं भुञ्जीतेति वक्तव्ये घृतेन जुहुयादिति वदतु तथा च जुहुयादित्यनुवादः स्यादिति भावः । न चेष्टापत्तिः कर्त्तुं शक्यते भवतेत्याह- तथापि पुनरिति । कारणमाह-लोक इति । लोके छुपदेशो न नियमितार्थो भवति घृतेनैव भुजीतेति । किन्तु बुभुक्षा चेद्यथाभिलषितं घृतेन दना गुडेन वा भुञ्जीतेत्युपदेशः । एतच्चा 1 Page #239 -------------------------------------------------------------------------- ________________ जुहोतिबाहुल्यदोषः] न्यायागमानुसारिणीव्याख्यासमेतम् गुडेन च भुञ्जीत तान्येव च बुभुक्षा चेदयादिति, न तु यथा हि वैद्यके त्रिफला घृतेनैव भक्षयेन्न गुडेन, गुडस्य चाक्षुष्यत्वात् , यथोक्तम् 'प्रभूतकृमिमज्जासृङ्मेदोमांसकफो गुडः । चक्षुस्तेजोमयं तस्य विशेषाच्छेष्मणो भयम् ॥' इति । - किञ्चान्यत् इदं वाग्निहोत्रं जुहुयाद्यदग्नये च प्रजापतये च सायं जुहोति घृतेन जुहुयात् , शूर्पण । जुहोति तेन ह्यन्नं क्रियते इत्येवमादिविध्यनुवादार्थवादवाक्यगतो जुहोतिः श्रूयमाणः प्राप्तिविहितेतिकर्तव्यतानतिरिक्तहवनक्रियानाममात्रार्थो विप्रकीर्णावयवकलापाकारा क्रियैव वाऽस्यार्थोऽसिद्धरूपो यथा घटयूपादि, तन्मात्रत्वात्तु तस्याः प्रकरणानुबन्धनात् हित्वा जुहोतिप्रयोगबाहुल्यं कृप्रकृतिलिङ्कर्तृता च दर्शयितव्येति यदग्नये च प्रजापतये च सायं जुहोति सद्धृतादिना स्वर्गकामः कुर्यादिति । तत्प्रतिपादनार्थमभिमतवाक्यार्थताऽस्यैवं स्यात् । 10 . (इदं वेति) इदं वाग्निहोत्रं जुहुयाद्यदग्नये च प्रजापतये च सायं जुहोति घृतेन जुहुयात् शूर्पण जुहोति तेन ह्यन्नं क्रियत इत्येवमादिविध्यनुवादार्थवादवाक्यगतो जुहोतिः श्रूयमाण उपस्थापनादीतिकर्तव्यतानतिरिक्तसेवनक्रियानामधेयमात्रार्थत्ववत प्राप्तिविहितेतिकर्तव्यतानतिरिक्तहवन क्रियानाममात्रार्थो विप्रकीर्णावयवकलापाकारा क्रियैव वाऽस्यार्थोऽसिद्धरूपो-न सिद्धरूपो यथा घटयूपादि, तन्मात्रत्वात्तु तस्याः क्रियायाः प्रकरणानुबन्धनात् , प्रकरणेनानुबन्धयन् वक्ता ब्रूते श्रोता च प्रतिपद्यते 16 क्रियामात्रमवश्यमनेन शब्देन कर्तव्यमित्येतावच्चोद्यत इति, तस्मात् क्रियामात्रत्वात् प्रकरणानुबन्धनात हित्वा-त्यक्त्वा जुहोतिप्रयोगबाहुल्यं-सर्वान् जुहोतिपदप्रयोगान् क्रियामात्रे प्रतिपाद्ये नान्तरीयकत्वात् कृप्रकृतिलिङ्कत्तता च दर्शयितव्येति, तत्प्रतिपादनार्थमभिमतवाक्यार्थताऽस्य स्यादेवं कल्प्यमाने । तन्निदर्शयति यदग्नये च प्रजापतये च सायं जुहोति तद्वतादिना स्वर्गकामः कुर्यादिति । एतावता तदर्थस्य सुगमत्वाज्जुहोतिप्रयोगबाहुल्यमप्रत्ययरटितमेव पुनरन्यत्रान्यत्र जुहुयात् जुहोतीत्यादि। 20 किश्चान्यत् तद्वचनन्त्वप्रमाणनियमागमोऽनुपदेशकश्च विवेत्तुरपीति सम्भाव्यते, अप्रत्यवेक्षितार्थस्वात् पौर्वापर्ययोगाप्रतिसम्बद्धार्थत्वात् , घटितानुमतविध्वंसनाच्च उन्मत्तप्रलापवत् । विरुद्धार्थमापद्यते भवतः दनैव हवनाभ्युपगमादिति भावः, न त्वायुर्वेदादौ यथा नियमोपदेशस्तथा लोकेऽपीत्याह-न विति। अथ विध्यनुवादादिवाक्येषु सर्वत्र क्रियामात्रप्रतीतेः क्रियामात्रार्थत्वं सर्वेषां विप्रकीर्णानामवयवत्वेनाभिमतानाम् , ता एव 25 क्रियाः प्रकरणेनेकीकृत्य वक्त्रा क्रियामात्रमवश्यं कर्त्तव्यमित्येतावदेव विधीयते इत्युच्यते श्रोता च तथैव प्रतिपद्यते तथा च क्रियामात्रे प्रतिपादनीये तन्मात्रशक्तं कुर्यादित्येकपदमेव प्रयोज्यं तद्विहायानेकधा जुहुयादितिप्रयोगो निरर्थक एवेत्याहतन्मात्रत्वास्विति । अत्र मीमांसकाः जुहोतिपदबहुत्वं कमैकत्वख्यापनाय, धर्मभेदे शब्दान्तरस्यापि निमित्तत्वात् , अत . एवामिहोत्रं जुहोति अग्निहोत्रं जुहुयात् खर्गकामो दना जुहोति शूर्पण जुहोतीत्यादीनां न धर्मभेदकत्वम्, न चाङ्गेन क्रियामात्रेऽभिधातव्ये नान्तरीयको लिङन्तः कृञ् प्रयोक्तव्य इति वाच्यम्, भावनाबोधकलिव गतार्थतया कृमोऽप्यनर्थकत्वे 30 तुल्ये धर्मैकताज्ञापकजुहोतिप्रयोगस्यैव साधुत्वादिति सिद्धस्य गतिमाहुः । मूलकृद्भिस्तु मूल एव कुठारघातः क्रियते तदप्रामाण्यज्ञापनार्थमिति बोध्यम् । अथ विवेतारं प्रतीदं वाक्यं न कमप्यर्थ बोधयितुमीष्टेऽत एवानुपदेशकमित्याह-तवचनन्त्विति । 2010_04 Page #240 -------------------------------------------------------------------------- ________________ १९० द्वादशारनयचक्रम् [विधिविध्यो (तद्वचनन्त्विति) योऽप्यज्ञप्रयुक्तशब्दार्थोन्नयनसमर्थो विवेक्ता पुरुषः पदवाक्यप्रमाणजस्तं प्रत्यप्ययं वाक्यप्रयोगोऽप्रमाण नियमागमोऽनुपदेशकश्च । अप्रमाणनियमागमः प्रत्यक्षानुमानगम्यार्थासंवादात् , अनुपदेशकस्त्वगमकत्वात् , तत्पुनः संभावयामि, भवेदेवं मा संस्था निष्ठुरमप्रमाणनियमा. गमोऽनुपदेशकश्चेत्यवधायकोच्यत इति, कुतः ? अप्रत्यवेक्षितार्थत्वात् पौर्वापर्यायोगाप्रति सम्बद्धार्थत्वात् 5 घटितानुमतविध्वंसनाच, अप्रत्यवेक्षिता जुहोतिबाहुल्यप्रयोगनिर्विषयत्वादिभिः पूर्वापरसम्बन्धरहितता पृथगाभिमतानां विध्यादिशेषाभावात् घटितविध्वंसनमितिकर्तव्यतैव कर्त्तव्यतेति, घटितस्यादिवाक्यगतजुहोत्यनुवादाभ्युपगमात् घटितानुमतविध्वंसनमिति, एतेभ्यो हेतुभ्योऽप्रमाणनियमागमोऽनुपदेशकश्च वाक्यप्रयोगः । दृष्टान्त उन्मत्तप्रलापवत्, यद्वाक्यमुन्मत्तादिप्रलपित पुरुषोच्चारितशब्दसामान्यात तद्वाक्यं वदतोऽप्रमाणनियमागममगमकञ्च यथा 'शङ्खः कदल्यां कदली च भेयाँ तस्याश्च भेयां सुमह10 द्विमानम् । तच्छङ्घभेरीकदलीविमाना उन्मत्तगङ्गाप्रतिबन्धभूताः ॥ इति, तथेदमपि विवेत्तुरप्यर्थप्रतिपादनसमर्थं न भवतीति । एवं विचार्यमाणमिदं वाक्यं दोषेभ्यो न मुच्यते, अथवा नैवायं दोषो न च विचारयोग्योऽयमुद्राहः प्रत्यपेक्षाप्रामाण्ययोनिर्विषयत्वात् , त्वन्मतात्तन्न ज्ञानवद्वचनम् । (एवमिति) (निर्विषयत्वादिति) ज्ञानं हि प्रमाणमप्रमाणं वेति विचार्यते प्रत्यपेक्षते 15 च, तत्र प्रामाण्यस्य मुख्यत्वात् , न ह्यत्र रूपादिप्रामाण्यवत् प्रामाण्यमङ्गीक्रियते, तस्मात् प्रत्यपेक्षायाः प्रामाण्यस्य च ज्ञानविषयत्वात्त्वन्मतादेव वेदस्याज्ञानाभिमतत्वान्न विचारो न प्रमाणभावो वाऽस्ति, अज्ञानत्वाद्वेदस्य । त्वया हि प्रागेवोत्पततोक्तम् 'न हि किश्चिज्ज्ञानं निश्चितं विशुद्धश्चास्ति, सर्वस्य संशयाद्यज्ञानानुविद्धत्वादिति, तदर्शयन्नाह-त्वन्मतात्तन्न ज्ञानवद्वचनमिति । यथा ज्ञानकार्यत्वाज्ज्ञानमात्मप्रयुक्तशब्दोऽचैतन्यमपि, कार्य कारणोपचारात्, अन्नकार्यप्राणान्नत्ववदिति वा, ततः किमिति 20 योऽज्ञवचनमपि सङ्गतार्थ कर्तुं समर्थस्तं प्रत्यपीदं वचनमसङ्गतार्थ किमुतान्यं प्रतीत्याह योऽपीति। अप्रमाण नियमागम इति यस्मिन्नागमे प्रमाणानां नियमो नास्तीत्यप्रमाणनियमागमः, एतदेवाह-अप्रमाणेति। न केवलं तस्य-तथा विधार्थाबोधकत्वमपि तु निरर्थकत्वेनानुपदेशकत्वमपीत्याशयेनाह-अनुपदेशक इति। सम्भावयामीत्युक्तसम्भावनाकारणमाह-तरपुनरिति । अप्रत्यवेक्षितेति, जुहोतिप्रयोगबाहुल्यमनुवादत्वाद्यसम्भवेन निर्विषयत्वं पौनरुक्त्यमित्यादिदोषदुष्टार्थमविचार्यैवोपन्यस्तत्वादित्यर्थः। पौर्वापर्येति, पूर्वापरीभावस्वरूपसम्बन्धरहितत्त्वेनासम्बद्धार्थत्वादित्यर्थः,घटितेति कर्त्तव्यतेवेतिकर्तव्यतेति सम्मतस्या25 मिहोत्रं जुहुयादिति वाक्यगतजुहोतेरापन्नार्थानुवादताभ्युपगमेन विध्वंसनादित्यर्थः, शहाकदश्यामिति,शङ्खादीनां कदल्यादावसम्भवात् शङ्खादीनाश्च प्रचुरप्रवाहेणोन्मत्तायाः गङ्गाया रोधकत्वासम्भवाच्चेदं वाक्यं यथा नार्थप्रतिपादनसमर्थ तथा वेदवचनमपीत्यर्थः। तदेवं दोषबाहुल्याव्यभिचारि वेदवचनमित्युपसंहरति एवमिति, किश्च प्रमाणत्वाप्रमाणत्वाभ्यां ज्ञानस्यैव विचायेतयाऽज्ञानभूतस्य वेदवचनस्य दोषप्रदर्शनं विचारकरणञ्च निष्फलमित्याशयेनाह-अथ वेति । प्रामाण्याप्रामाण्ययोर्विचारस्य ज्ञान एव मुख्यतया वेदस्याज्ञानस्य तदविषयत्वादित्याह-प्रत्यपेक्षेति । कथमज्ञानत्वं वेदस्येत्यत्राह-त्वया हीति, विधिन. 30 यान्ते एतन्नयवादिनोक्तम् , न तु मीमांसकेन तन्मते ज्ञानानां खतःप्रामाण्याभ्युपगमेनाप्रमाणलक्षणाज्ञानानुविद्धत्वासम्भवादिति बोध्यम् । वेदस्याज्ञानत्वं समर्थयति-यथेति, चेतनोदीरितमेव हि शब्दो बुझ्या विचार्य प्रयुक्तराज्ज्ञानजन्य इति कार्ये शब्दे कारणीभूतस्य ज्ञानस्योपचारात् ज्ञानमुच्यते तथा न वेदात्मकः शब्दः, चेतनोदीरितत्वानङ्गीकारादतोऽप्रमाणनियमागमो श्चेति भावः । अन्नकार्यति अन्नस्य कार्य प्राण एवानमुच्यते उपचारात् तद्वदित्यर्थः । उपचारमात्रे दृष्टान्तोऽयं न तु कार्ये कारणोपचारे, तथा शब्दस्सैकान्तनित्यत्वाभ्युपगमेनार्थक्रियाकारित्वासम्भवात् तदहितस्य प्रमाणत्वोपदेशत्वे न सम्भवत 2010_04 Page #241 -------------------------------------------------------------------------- ________________ असद्रिकल्पासङ्गतत्वम् ]. न्यायागमानुसारिणीव्याख्यासमेतम् चेत् ? अप्रमाणनियमागमोऽनुपदेशकश्च वेदः, अचेतनत्वादाकाशवत् , यथाऽऽकाशमचेतनत्वादप्रमाणम् , कूटस्थनित्यत्वाच्च न ज्ञानवद्वचनमेवं वेदोऽपीति प्रामाण्योपदेशाभावः। यदपि च प्रसह्य परमाक्रम्य कारणेषु घृतादिष्वेवंविधेषु स्वर्गादिफलस्य खपुष्पवदसत्त्वमुच्यते तदपि चान्याय्यमेव यदेतदसत्त्वं नाम त्वया कचिन्मन्यते, न्यायेन बाध्यत्वात्, ततोऽन्यत् कार्यम्, तदसमर्थविकल्पत्वात्, घटपटवत् । यद्यपि च प्रसोत्यादि, प्रसह्य-बलात्कारेण परं कश्चित् पुरुषमवगणयता एकवीरंमन्येनाऽऽक्रम्य परिभूयास्मन्मतं, यदपि चाग्निहोत्रं जुहुयादित्यत्र कारणेषु घृतादिष्वितिकर्तव्यतासु स्वर्गादिफलस्य खपुष्पवदसत्त्वमुच्यते, एवं विधेष्विति, सर्वेतिकर्तव्यतानामादिमध्यावसानेषु, तत्पुनरसत्त्वमेकान्तेन, न कथञ्चित् कार्यादिसत्त्वमपीत्येतत्पक्षनिरपेक्षं, सर्वथा नास्त्येवेति त्वयेष्टं तदपि चान्याय्यमेव, यतो यदेतदसत्त्वं नाम त्वया कचिन्मन्यते, नामेति मिथ्याकल्पितनाममात्रमेव तत् , 10 यत्त्वया कचित्सत्त्वनिरपेक्षमसदिति चिन्त्यते, कथं पुनरन्याय्यं तदसत्त्वमिति चेदुच्यते-न्यायेन बाध्यत्वात् , कतमो न्याय इति चेदेवं तर्हि ब्रूमः-ततोऽन्यत्कार्य-असतोऽन्यदित्यर्थः, कुतः ? तदसमर्थविकल्पत्वात् , असङ्गतार्थोऽसमर्थोऽसम्बद्धो विकल्पतः, तेन-असता सहासम्बद्धो विकल्पोऽस्येति तदसमर्थविकल्पं कार्यं तस्य कार्यस्यासमर्थविकल्पत्वात् ततोऽन्यत्वम्, किमिव ? घटपटवत्, यथा घटविकल्पाः पृथुबुनार्धग्रीवादयो मृदुचतुरस्रादिभिः पटविकल्पैरसङ्गताः पटविकल्पाश्च तैरित्यसङ्गतौ 15 घटपटौ परस्परतः, एवमसद्विकल्पैरसङ्गतं कार्य तस्मात्ततोऽन्यदिति । स्यान्मतम् असद्विकल्पासङ्गतत्वं कार्यस्यासिद्धम् , तन्न, प्रसिद्धमेव हि विकल्पासामर्थ्यमसत्कार्ययोरसतः कार्यस्य च, असत्कार्ययोर्विकल्पाश्चत्वारः खपुष्पमसत्कार्यमप्यसत्, खपुष्पं सत् कार्यमसत् , खपुष्पमसत् कार्य सत्, खपुष्पं सत् कार्यमपि सदित्येतेषु कार्यखपुष्पयोरुभयोर- 20 सत्त्वं कार्यासत्त्वमेवेत्येतद्विकल्पद्वयं स्यात् , उभयसत्त्वकार्यसत्त्वयोः प्रतिपक्षाभ्युपगम एव सत्कार्यवाद इति वादाभावात्। ततश्च तयोर्यदि तावदुभयासत्त्वं ततोऽसत्त्वाविशेषादेव कार्याविर्भाववत् खपुष्पाविर्भावोऽप्यायत्यां स्यात् , असत्कार्यवत् , न चैतदृष्टमिष्टं वा । इत्याशयेनाह-कूटस्थेति। अथेतिकर्तव्यतात्मसु कारणेषु धृतादिषु कार्यस्य स्वर्गादेरेकान्तेनासत्त्वं यत्त्वयाऽभ्युपगम्यते सोऽप्यभ्युपगमो न्यायविरुद्ध इत्याह-यदपि चेति । त्वयाङ्गीक्रियमाणमसत्त्वमप्यप्रसिद्धं न्यायबहिर्भूतत्वात् सत्त्वासमानाधिकरणा- 25 सत्त्वासिद्धरित्याह-यदेतदसत्त्वमिति । न्यायबाध्यत्वमाविष्करोति-एवं तर्हि इति। असतोऽन्यत् कार्यम् तद. समर्थविकल्पत्वात् , घटपटवदिति प्रयोगः, असत्सम्बन्धिभिर्वक्ष्यमाणविकल्पैरसम्बद्धत्वादिति हेत्वर्थः । दृष्टान्तं सङ्गमयतियथेति । हेत्वसिद्धिमाशय निराकरोति-असद्विकल्पेति असत्सम्बन्धिभिर्विकल्पैरसङ्गतत्वं तस्य कार्ये वाऽसिद्धत्वमिति शङ्कित्वा तस्य सिद्धत्वमेवाङ्गीकुर्वित्याह-प्रसिद्ध मेवेति । अयं भावः असत्कार्यमसत् खपुष्पमित्येको विकल्पः, सत् खपुष्पमसत्कार्यमिति द्वितीयः, असत् खपुष्पं सत्कार्यमिति तृतीयः, सत् खपुष्पं सत्कार्यमिति चतुर्थः, तत्र कार्यस्य सद्विषयावुभौ विकल्पो so सत्कार्यवाद एव सम्भवेताम् , कार्यस्यासद्विषयावुभौ तु सत्कार्यप्रतिपक्षभूतौ असत्कार्यवाद एव सम्भवेताम् तौ च विकल्पावसङ्गतायौँ, असत्कार्यवादप्रतिपक्षभूतविकल्पद्वयाश्रयणे च सत्कार्यवादाभ्युपगमप्रसङ्गेन वादस्य पर्यवसानमेव भवेत, अतो नासिद्धत्वं _ 2010_04 Page #242 -------------------------------------------------------------------------- ________________ १९२ - द्वादशारनयचक्रम् [विधिविध्यरें (असदिति) असद्विकल्पासङ्गतत्वं कार्यस्यासिद्धम् , तन्न, प्रसिद्धमेव यस्मादसद्विकल्पासामर्थ्यमसत्कार्ययोरसतः कार्यस्य च सिद्धमेवेति गृहाण विकल्पचतुष्टये द्वयोरेव सम्भवात् , असत्खपुष्पं कार्यमङ्करादि, तयोर्विकल्पाश्चत्वारः, खपुष्पमसत्कार्यमप्यसत् । खपुष्पं सत्कार्यमसत् । खपुष्पमसत्कार्य सत् । खपुष्पं सत्कार्यमपि सदित्येतेषु चतुषु विकल्पेषु कार्यखपुष्पयोरुभयोरसत्त्वं 5 कार्यासत्त्वमेवेत्येतद्विकल्पद्वयं स्यात्-सम्भवेत् , किं कारणं ? उभयसत्त्वकार्यसत्त्वयोः प्रतिपक्षाभ्युपगम एव सत्कार्यवादः, प्रतिपक्षोऽसत्कार्यवादस्य, इतिशब्दो हेत्वर्थे, इत्यस्माद्धेतोर्वादाभावः तस्माद्वादाभावादुमयाभावकार्याभावविकल्पावेव सम्भवेताम् , नेतरौ । ततश्च तयोः उभयासत्त्वकार्यासत्त्वविकल्पयोः, तद्यदि तावदुभयासत्त्वं ततोऽसत्त्वाविशेषादेवाविशेषः खपुष्पकार्ययोः असत्त्वाविशेषादेवाविशेष कार्याविर्भाववत् खपुष्पाविर्भावोऽप्यायत्यां स्यात्-एष्यति कालान्तरेऽस्माद्वर्तमानक्षणादन्य10 स्मिन् क्षणे भवेत् , दृष्टान्तः असत्कार्यवद्वीजाङ्कुरवत् , न चैतद् दृष्टमिष्टं वा खपुष्पप्रादुर्भाव इति । ____ अथ न कार्यप्रादुर्भाववत् खपुष्पप्रादुर्भाव इष्यते, असच कार्यमिति निश्चितम्, तद्वैलक्षण्यान्न तीसत् खपुष्पम् , सदेव, असद्विलक्षणत्वात् , घटवत् , इतरे उदुम्बरपुष्पवत् । (अथेति ) अथैतस्मादनिष्टापत्तिदोषाद् दृष्टेष्टविरोधादपसर्पन श्रूयास्त्वं न कार्यप्रादुर्भाववत् 15 खपुष्पप्रादुर्भाव इष्यते, असञ्च कार्यमिति निश्चितम् । ततः को दोष इति चेदुच्यते तद्वैलक्षण्यान्न तीसत् खपुष्पम् , असत्कार्यवैलक्षण्यान्नेदानीमसत् खपुष्पं किन्तु 'सदिति प्राप्तमसत्कार्यवैलक्षण्यं खपुष्पस्यायत्यामप्रादुर्भावः, तस्मादसत्कार्यवैलक्षण्यादायत्यामप्रादुर्भावान्न तबसत् खपुष्पम् , किं तर्हि ? सत् , को हेतुः ? असद्विलक्षणत्वात् , असता कार्येण सह विलक्षणत्वात् , दृष्टान्तो घटवत् , यथा घटोऽसद्विलक्षणत्वात् सन्नेवं खरविषाणमप्यायत्यां प्रादुर्भवता कार्येण वैलक्षण्यात् सत् प्रसक्तम् । 20 इतर उदुम्बरपुष्पवत् , इतर इति वैधर्म्यदृष्टान्तः यदसत् तदसद्विलक्षणं न भवति यथोदुम्बरकुसुममिति परस्यानिष्टापादनार्थत्वादसद्वैधयं खपुष्पस्येति । ननु घटासत्त्वं पटासत्त्वविलक्षणम् , न, सतो वैलक्षण्यात् । अथवा सदसद्विलक्षणत्वान्न तसित् खपुष्पम् , घटवत् , इतर उदुम्बरपुष्पवत् । __ हेतोरिति भावः। असत्कार्ययोरिति, असत् खपुष्पमसत्कार्यमिति, सत् खपुष्पमसत्कार्यमिति वा विकल्पाङ्गीकारे तत्र 25 विकल्पासामर्थ्य सिद्धमेवेत्यर्थः । कार्यखपुष्पावाश्रित्य विकल्पचतुष्टयं प्रदर्शयत्यसकल्पनया-तयोर्विकल्पा इति, चतुधैव कल्पयितुं शक्यत्वादिति भावः । अविशेष इति, तथा च खपुष्पवत् कार्यमपि नोत्पद्यतेति भावः। आयत्यामिति, उत्तरकाल आयतिः। एष्यत्कालान्तरमेव दर्शयति-वर्तमानक्षणादिति । ननु कार्येऽसत्स्वनिश्चयेऽपि न कार्यवत् खपुपस्य प्रादुर्भावोऽप्रसिद्धेः कार्यस्य चोत्तरकालमुपलम्भात् , दृष्टानुरोधेन कार्यकारणाभावनिर्णयादित्याशङ्कते-अथैतस्मादिति । तत्रोत्तरमारचयति-तद्वैलक्षण्यादिति, खपुष्पेणाऽसत्कार्यवृत्तिधर्मविरुद्धधर्मवता भाव्यम्, अन्यथाऽसद्विलक्षणत्वमेव न 30 स्यात्ततश्चासत्त्वविरोधिसत्त्ववता भाव्यमिति खपुष्पं सत् स्यात् यो ह्यसद्विधर्मा स सन् दृष्टो यथा घटः, एवं खपुष्पमपि स्यात्, यच्चासन्न न तदसद्विधर्म यथोदुम्बरपुष्पमित्याशयं प्रकाशयति-असत्कार्येति । ननु कथमसत्कार्यवैलक्षण्यं खपुष्पस्येत्यत्राहअसत्कार्यवैलक्षण्यमिति, यत्किञ्चिदसद्विलक्षणत्वं खपुष्पेऽस्त्येव । असन्मात्रवेलक्षण्यन्तु भाव एव वर्तत इति बोध्यम् । ननु घटः पटादिरूपेण पटश्च घटादिरूपेणासन् भवतीतीतरेतराभावरूपं सत्वं घटे पटे चाखे लक्षण्यमपि परस्परतो वर्तते, 2010_04 . Page #243 -------------------------------------------------------------------------- ________________ सतो वैलक्षण्यम् ] न्यायागमानुसारिणीव्याख्यासमेतम् (नन्विति) स्यान्मतम्। घटस्यासत्त्वं पटात्मना, पटासत्त्वं घटात्मनेति तयोरितरेतराभावलक्षणासत्त्वं वैलक्षण्यं च परस्परतः, दृष्टान्तौ च घटपटावसन्तौ, तस्मादसवैलक्षण्यस्यासत्यपि दर्शनादनैकान्तिकतेति चेदुच्यते-न, सतो वैलनण्यात्, नानैकान्तिकताऽस्य हेतोः, सतो वैलक्षण्यात् , सत एव वैलक्षण्यं-तद्धीतरेतराभावात्मकं वैलक्षण्यं सत एव, नासतः, तस्मादसतो वैलक्षण्यं न भवति, किन्तर्हि ? सद्वैलक्षण्यमपि तत् , सत एवेतरापेक्षया तद्रूपेणासत्त्वात् , अयन्तु कार्यस्यायत्यां । प्रादुर्भावोऽसता खपुष्पेणात्यन्तविलक्षणः, अप्रादुर्भावश्च खपुष्पस्य कार्येणासतेति नास्ति सतो वैलक्षण्यं सता, तद्विशेषधर्मत्वाद्रूपादिविशेषधर्मेणावलक्षण्यवत् । अथवा सतोऽवैलक्षण्यात् , सतः अवैलक्षण्यात्, सतस्तु घटादेः पटादिना सह वैलक्षण्यं नास्त्येव सत्त्वान्वयाविशेषात् , देशकालाकारादिमात्रविशेषस्याविशेषत्वादगुल्यादिविशिष्टकाङ्गाविशेषवत् । अथवा न तसत् खपुष्पम् , कस्माद्धेतोः ? सदसद्विलक्षणत्वात् , सताऽसता च विलक्षणत्वात् , सच्च द्विविधम् , तुल्यजातीयं घटस्य घट एव, अतुल्य- 16 जातीयं पटादि, असञ्च कार्य आयत्यां भावादकुरादि, खपुष्पमत्यन्ताप्रादुर्भावात् कार्येणासता विलक्षणं सता च घटपटादिना, त्वन्मतेनेतरेतराभाववैलक्षण्येन तुल्यजातीयेन च भावानां परस्परवैलक्षण्यम् । दृष्टान्तो घटवदिति, यथा घटस्तुल्यजातीयेभ्यो घटान्तरेभ्योऽतुल्यजातीयेभ्यश्व पटादिभ्यः सन्यो विलक्षणोऽसतश्च खपुष्पादेः संश्च दृष्टः, तथा खपुष्पं घटवत् सदसद्विलक्षणत्वान्नासत्, सदेवेत्यर्थः, द्विःप्रतिषेधः प्रकृतं गमयतीति कृत्वा, इतर उदुम्बरपुष्पवत्, यदसत न तत्सदसद्विलक्षणं यथोदुम्बर-15 पुष्पं त्वन्मतेनात्रापि वैधय॑दृष्टान्तः । खपुष्पखरविषाणोदुम्बरपुष्पादीनामसत्त्वाविशेषादनिष्टापादनसाम्यात् साध्यान्तःपातित्वं तस्माद्वैधर्म्यदृष्टान्तेन नार्थः। अस्तु तत् सद्विलक्षणमितरेतराभावापेक्षत्वात् कथमसद्विलक्षणं खपुष्पमिति चेत् ? आयत्या प्रादुर्भवता कार्येणासता वैलक्षण्यस्य त्वयैवाभ्युपगतत्वात् , त्वन्मतनिवारणार्थत्वादस्य प्रयासस्य, नास्माकं दोष इति । अथैवमप्यसदेव खपुष्पमिति निश्चयो न निवर्तते, अप्रादुर्भावात्मकं च तदिति 20 तथा च येन केनचित् पटादिनाऽसता वैलक्षण्यं घटादावस्ति, साध्याभावोऽसत्त्वमपि तत्रास्त्यतो हेतोय॑भिचारित्वमित्याशङ्कते-नन्विति । इतरेतराभावेति, भेदात्मकं तदसत्त्वं न तु त्रैकाल्यविरहरूपमित्यर्थः । ननु घटपटादौ यदसत्त्वं वैलक्षण्यश्च तत्तु सत एव सता, सतामन्योन्यखरूपेणासत्त्वात् , हेतुघटकबासस्वमसत एवासता, तथा तद्वैलक्षण्यमपीति नासद्विलक्षणत्वं घटादावस्तीति न व्यभिचार इत्युत्तरयति-तद्धीति । वस्तुतः सतः सता वैलक्षण्यं नास्त्यैव, सत्त्वान्वयाविशेषात्, यश्च वैलक्षण्यं तत्र प्रदर्श्यते स च विशेषधर्म एवेत्याशयेन पक्षान्तरमाह-अथवेति । ननु 25 मा भूत् पटादिना घटस्य वैलक्षण्यं असता कार्येण वैलक्षण्यमस्त्येव, तथा तत्रासत्त्वमपि, अपरखरूपेणासस्वात्तस्य, तथा च व्यभिचारो दुरुधर एवेति कल्पान्तरमाह-अथवा नेति, सत्त्वञ्च द्विविधं घटादेः सजातीयघटान्तरनिरूपितम् , विजातीयपटान्तरनिरूपितश्च, तथाऽसदपि, उत्तरकालप्रादुर्भाविकार्यनिष्ठमेकम् , अपरश्चोत्तरकालाप्रादुर्भाविखपुष्पादि निष्ठम्, तथा च खपुष्पमसता कार्येण विलक्षणं तथोभय विधेन सता च तस्मानासदिति भावः । ननु सतः सता वैलक्षण्यं नास्तीति पूर्वमुक्तम्, तत्कथमत्र घटादेः सजातीय विजातीयविलक्षणतोच्यत इत्यत्राह-वन्मतेनेति । दृष्टान्ते हेतुसाध्यसमन्वयमाह-यथा घट 30 इति व्यतिरेकदृष्टान्तं भवन्मतेनैवोपात्तं न त्वस्मन्मतेन. अस्माकं तु तदुम्बरपुष्पं पक्षान्तर्गतमेव, खपुष्पगतासत्वाविलक्षणस्वात् वैधर्म्यदृष्टान्ताभावे च क्षत्यभावादित्याह-इतर इति । असद्विलक्षणत्वं खपुष्पे कथमित्याशंक्य साधयति-अस्तु तदिति । ननु कार्यस्खपुष्पयोरसत्त्वस्यैवाङ्गीकारे खपुष्पस्य प्रादुर्भावाङ्गीकारे च कार्यमप्यप्रादुर्भावात्मकं भवेत् भवेद्वा प्रादुर्भावात्मकत्वात् कार्य नासदित्साह-मथैवमपीति, कार्यसपुष्पयोः प्रादुर्भावाप्रादुर्भावलक्षणे वैलक्षण्ये विद्यमानेऽपीलर्थः। मा.न.१५ 2010_04 Page #244 -------------------------------------------------------------------------- ________________ द्वादशारनयचक्रम् [विधिविध्यरे वैलक्षण्यमिष्यते, अर्थादापन्नं न तर्हि प्रादुर्भावात्मकत्वात् कार्यमसत् । निवृत्तघटवत् , असत्त्वे आयत्यां न प्रादुर्भवेत् कार्य खपुष्पवत् , शेषं पूर्ववदेव विपर्ययेण योज्यम्। . अथैवमपीत्यादि, अथ ते प्रादुर्भावाप्रादुर्भाववैलक्षण्ये सत्यपि कार्यखपुष्पयोरसदेव खपुष्पमित्ययं निश्चयोऽसद्वैलक्षण्याद्धटवत्सद्भवत्वित्यस्मान्यायान्निवय॑मानोऽपि न निवर्त्तते, अप्रादुर्भावाॐ त्मकञ्च तत् खपुष्पमित्येतच्च वैलक्षण्य मिष्यत एव, प्रादुःप्राकाश्ये जन्मनि च तथाऽऽविः, प्रादुर्भवति-प्रकाशं भवति-गृह्यते ज्ञायते उत्पद्यते जायत इति वा, तेष्वाविर्भवतीति । एवञ्चाप्रादुर्भावात्मकस्य खपुष्पस्यासत्त्वेऽर्थादापन्नं न तर्हि प्रादुर्भावात्मकत्वात् कार्यमसत् , सदेवेत्यर्थः । को दृष्टान्तः ? निर्वृत्तघटवत्, यथा निर्वृत्तो घटः प्रादुर्भावात्मकत्वात् प्रकाशात्मकत्वात्सन्नेव तथा कार्यमपि सत् । अस्याश्चार्थापत्तेरैकान्तिकत्वान्न जात्युत्तरता, यथा गेहे देवदत्तस्याभावे स्थितिमतो हि भावानुमानमर्था10 पन्नमैकान्तिकत्वान्न जातिवादः । अस्माकन्त्वत्राभिप्रायः सदेव कदाचिदुपलभ्यते जायते वा नात्यन्तासदिति 'दर्शनादर्शने च सद्विषये' इत्युत्तरत्र दर्शयिष्यामः, विचारस्यास्य तत्फलत्वात् । अथैवमपि त्वया कार्यस्य सत्त्वं नेष्यते, ततः-असत्त्वे कार्यस्य आयत्यां न प्रादुर्भवेत् कार्यम् , असत्त्वात् खपुष्पवत्, प्रादुर्भवति तु, तस्मात्सत् । शेषं पूर्ववदेव, अतीतग्रन्थमतिदिशति-विपर्ययेणेति, अर्थतः शब्दतस्तहयोर्विपर्ययेण योज्यः, तद्यथा-अथ न खपुष्पाप्रादुर्भाववत् कार्याप्रादुर्भावोऽसच्च कार्यमिति 15 निश्चितं न तीसत्कार्य सदेव तत् , असद्विलक्षणत्वात् , घटवत् , इतर उदुम्बरपुष्पवत् , ननु घटासत्त्वं पटासत्त्वविलक्षणम् , न, सतो वैलक्षण्यात् , अथैवमपि वैलक्षण्ये कार्यासत्त्वविनिश्चयो न निवर्तते प्रादुर्भावात्मकञ्च तत्, न तर्हि प्रादुर्भावात्मकत्वादसत् कार्य निर्वृत्तघटवदसत्त्वादायत्यां न प्रादुर्भवेत्, असत्त्वात् खपुष्पवदिति । तदुपसंहारार्थमाह20. - अतः कार्य सत्, आविर्भावात्मकत्वात् , निवृत्तघटवत् , वैधयेणाकाशघटवत् । एतदेवाह-अथ त इति । खपुष्पं सत् असद्वैलक्षण्यात् , घटवदित्यनुमानेन निवर्त्यमानोऽपि यद्यसत् खपुष्पमिति निश्चयो न निवर्तते तर्हि कार्य सद्भवेत् प्रादुर्भावात्मकत्वात् , निवृत्तघटवदिति प्राप्तमित्यर्थः। प्रादरिति. प्रादुः आविश्च प्रकाशविषये जन्मनि च वर्त्तते तथा च प्रादुर्भावात्मकत्वञ्च प्रकाशात्मकत्वम्, निवृत्तो घटः उत्पन्नो घटः तत्रोभयवादिनोः साध्यसाधनस द्भावे न विवाद इति दर्शयितुमेव निवृत्तेति विशेषणम् , प्रकाशात्मकत्वलक्षणं प्रादुर्भावात्मकत्वं कार्येऽसति ध्येयम् । 25 एवञ्चेति, अप्रादुर्भावात्मकस्य खपुष्पस्यासत्त्वं प्रादुर्भावात्मकस्य सत्त्वं विनाऽनुपपन्नं यथा जीवतो देवदत्तस्य गृहासत्त्वं तस्य बहिः सत्त्वं विना नोपपन्नं सद्बहिः सत्त्वं कल्पति तथाऽप्रादुर्भावात्मनः खपुष्पस्यासत्त्वं कार्यस्य प्रादुर्भावात्मनः सत्त्वं गमयतीति भावः। नन्वप्रादुभावात्मकत्वात् खपुष्पस्यासत्त्वेऽर्थपत्त्या प्रादुर्भावात्मकस्य कार्यस्य यत्सत्त्वमापाद्यते सोऽयमापत्तितः क्रियमाणा प्रतिपक्षसिद्धिरापत्तिसम इत्येवंरूपो जातिभेदः स्यात् , अर्थपत्तितः प्रतिपक्षसिद्धरापत्तिसम इति तल्लक्षणादित्याश कायामाह-अस्याश्वार्थापत्तरिति, यत्रार्थापत्तिरनैकान्तिकी तत्रैवेयं जात्युत्तरता भवति, न खलु घनस्य पाषाणस्य पतनमि30 त्युक्तेऽर्थादापद्यते द्रवस्य वारिणः पतनाभाव इति, प्रकृते चार्थापत्तेरनैकान्तिकत्वाभावान्न जात्युत्तरत्वमिति भावः । एवं प्रमाणसिद्धं • कार्यस्य सत्त्वं नेष्यते तर्हि न तस्याऽऽयत्यां प्रादुर्भावः स्यात् खपुष्पवदित्याह-अथैवमपीति । शब्दार्थाभ्यां पूर्वग्रन्थविपरी. तताविधानप्रकारमाह-तद्यथेति, गतार्थः । पूर्वमथ न कार्यप्रादुर्भाववत् खपुष्पप्रादुर्भाव इत्युक्तं तस्य वेपरीत्यमत्र दर्शितम् तथा न तयसत् खपुष्पं सदेव तत् , असद्विलक्षणत्वात् घटवत् इतर उदुम्बरवदित्युक्तमत्र तु कार्य पक्षीकृतमिति वैपरीत्यमित्येवं भाव्यम् , कार्येऽसत्त्वसाधनस्येष्टेः । एतावता वादेन सिद्धमर्थ नियमयति-अतः कार्य सदिति । यदसत् तदनाविर्भावात्मक35 मित्यत्रासद्भूतं दधान्तमाह-वैधयेणेति। आकाशलक्षण-आकाशसम्बन्धी आकाशाधिकरणको वा घटोऽसन् , अनाविर्भावात्मक 2010_04 Page #245 -------------------------------------------------------------------------- ________________ विशेषे दोषः] न्यायागमानुसारिणीव्याख्यासमेतम् १९५ असञ्च खपुष्पमनाविर्भावात्मकत्वादाकाशघटवत् , वैधये॒ण निवृत्तघटवदिति । यदि कार्यखपुष्पयोरसत्त्वं तुल्यं विशेषो वक्तव्यो नो चेदविशेषाद्वैलक्षण्यानुपपत्तिः, घटघटस्वात्मवत् । विशेषोन्नयनेऽपि तु विशेषस्य सदाश्रयत्वात्सत्त्वं घटवदिति भावाभावयोः सामान्यमेव न विशेष इति । . (अत इति) आकाशमेवाऽऽकाशस्याऽऽकाशे वा घट आकाशघटः, स त्वनाविर्भावात्मकत्वा-6 नास्ति, न तथा कार्यमनाविर्भावात्मकं तस्मात्तत्सदिति । असञ्च खपुष्पमनाविर्भावात्मकत्वादाकाशघटवत , वैधय॒ण निवृत्तघटवदिति तयोः सदसतोः कार्यखपुष्पयो(लक्षण्यं दर्शयति । यदि भवन्मतेन कार्यखपुष्पयोरसत्त्वमेव तुल्यं, तुल्ये चासत्त्वे विशेषो वक्तव्यः, अस्माद्विशेषहेतोः कार्यमसत्त्वे सत्यपि प्रादुर्भवति न तु खपुष्पमिति, नोच्यते चेद्विशेषहेतुरविशेषोऽनयोः, अविशेषे च वैलक्षण्यानुपपत्तिः खपुष्पखरविषाणयोरिवासतोः । दृष्टश्च वैलक्षण्यमायत्यां प्रादुर्भवनम् , तत्त्वविशेषे तयोर्नो-10 पपद्यते, तस्माद्धेतोरविशेषाद्वैलक्षण्यानुपपत्तिः घटघटस्वात्मवत्-यथा घट एव घटस्वात्मेति तयोर्न वैलक्षण्यमविशिष्टत्वादेवमविशेषः स्यात् , न तु भवति, दृष्टत्वाद्युक्तत्वाच्चाविर्भावानाविर्भावयोः, तस्मात्तयोर्यथासंख्यं सत्त्वमसत्त्वञ्चावश्यमेषितव्यम् । इतर आह-नैवात्यविशेषोऽसतोऽपि, यस्माश्चतुर्विधोऽसन्निष्यते प्राक्प्रध्वंसेतरेतरात्यन्ताभावाख्यः, घटस्य मृत्पिण्डादिकपालादिपटादिखरविषाणादिवदिति, अत्रोच्यते विशेषोन्नयनेऽपि तु विशेषस्य सदाश्रयत्वात् सत्त्वं घटवदिति, अपिशब्दोऽनभ्युप-15 गमं दर्शयति, नैवाभावस्य खरविषाणवन्ध्यासुतादेः परस्परतो विशेषोऽस्ति, अवस्तुत्वात् त्वन्मतेनैव । अस्मन्मतेन तु वस्तुत्वमभावस्यापि कस्यचित् प्रमेयत्वसामान्य विशेषत्वादिहेतुभ्यस्त्वदभ्युपगतेभ्यः, श्वेत्यर्थः । तथैव खपुष्पमप्यसदिति निगमयति-असञ्चेति, तदेवं कार्यखपुष्पयो_लक्षण्यं कार्यस्य सत्त्वेऽङ्गीकृते एव निर्वहति नान्यथेति भावः । तथापि कार्यस्यासत्त्वे कार्यखपुष्पयोर्वेलक्षण्ये कश्चन विशेषो वाच्यः, इतरथा घटखात्मवत् वैलक्षण्यानुपपत्तिः, खपुष्पे यदि कश्चिद्विशेष उच्यते तर्हि विशेषाश्रयस्य भावत्वनियमात् खपुष्पमपि सदेव भवेत् , एवञ्च भावाभावयोः सत्त्वं 20 सामान्यधर्म एव भवेन तु विशेषधर्म इत्याह-यदीति । नन्वसदविशिष्टत्वं नास्ति, असतः प्रागभावध्वंसेतरेतराभावात्यन्तभावलक्षणविशेषसद्भावात् घटस्य प्रागभावो हि मृत्पिण्डादिः, घटस्य प्रध्वंसः कपालादिः घटस्येतराभावः पटादिः, घटस्यात्यन्ताभावः खरविषाणादिरिति खपुष्पमत्यन्ताभावलक्षणमसत् , कायलक्षणमसच्च प्रागभावादिरूपमिति विशेषोऽस्तीत्याशक्य समाधत्ते-इतर आहेति, प्राभाकरमते हि सर्व वस्तु सदसदात्मना द्विविधम् , तद्यदा यत्र सद्रूपेण वर्तते घटादि तत्तदा तत्र प्रत्यक्षादिभिरस्तीति प्रतीयते, यत्र त्वसद्रूपेण वर्तते तत्र सद्रूपेण बोधकानां प्रत्यक्षादीनां सद्रूपबोधनायोत्पत्तुं योग्यत्वे सत्यपि योऽनुत्पादो 25 दृश्यादर्शनयोग्यानुपलम्भादिपर्यायः प्रमाणाभावशब्दवाच्यस्तेनैव नास्तीति प्रतीयते भूतलेऽत्र घटो नास्तीति तच्च नास्तितारूपमभा वाख्यं चतुर्विधम् , तदुक्तं 'क्षीरे द न्यादि यन्नास्ति प्रागभावः स उच्यते । नास्तिता पयसो दनि प्रध्वंसाभावलक्षणम् । गवि योऽश्वाद्यभावस्तु सोऽन्योऽन्याभाव उच्यते । शिरसोऽवयवा निम्ना वृद्धिकाठिन्यनार्जिताः । शशे शृङ्गादिरूपेण सोऽत्यन्ताभाव उच्यते' इति तच्च नास्तित्वं भूप्रदेशाद्यतिरिक्तस्मयमाणघटाद्यवच्छिन्नभूप्रदेशाद्यधिकरणं नमर्थरूपं प्रमेयमित्याहुः । अनभ्यपगममिति, असति विशेषो न भ्युपगम्यत इति भावः । तमेवाह-नैवाभावस्येति । भूतलप्रतीसिव्यतिरेकेण घटो नास्ती-30 त्येवंविधा प्रतीतिरेव नास्तीत्येवं यो वदति तन्मतेनाभावस्यावस्तुत्वान्न विशेषः सम्भवतीत्याह-वन्मतेनैवेति । अभावोऽपि वस्तु, प्रमेयत्वात् सामान्यविशेषवत्त्वात् प्रमाणवदिति त्वदभ्युपगतहेतुभ्य एवाभावस्य वस्तुत्वं सिख्यतीत्याह-अस्सन्मतेन त्विति । प्रागभावादिरूपेण विशेषोऽभावात्मना सामान्यमिति सामान्यविशेषरूपताऽभावस्य । तथा चाधिकरणात्मकाभाववादिमतेऽभावस्थावस्तुत्वान विशेषो युज्यते, यदि स्याद्विशेषस्तर्हि विशेषाश्रयस्य भावत्वादभावोऽपि भावादविशेष एव 2010_04 Page #246 -------------------------------------------------------------------------- ________________ [ विधिविध्यरे १९६ द्वादशारनयचक्रम् टवत्, प्रमाणवत, अतस्त्वन्मतेनैवाभावस्य भावाद्विशेषः परमार्थतो नास्ति । अभ्युपेत्यापि ब्रूमो विशेषोन्नयनेऽपि तु येनकेनचित्प्रकारेण सदाश्रयो भावः त्वत्परिकल्पितश्चतुर्विधोऽपि, विशेत्वात, रूपादिवद्ध। ततश्च विशेषस्य सदाश्रयत्वात् सत्त्वं घटवत् यथा घटः सन्तं पृथिव्याद्यर्थमाश्रित्य वर्त्त - मानः सन्नेव, स्वयमेव वाऽऽत्मानमाश्रित्य वृत्तेः सन्नेवं विशेषोऽपि सदाश्रयत्वात्सन्निति । इतिशब्दो B हेतुदृष्टान्तदान्तिकोपसंहारे । इत्थं भावाभावयोः सामान्यमेव न विशेष इति, एवं तावत्कार्य खपुष्पयोरुभयोरसत्त्वमेवेति साम्यमापादितम् । द्वितीय विकल्पो विचार्यते— अथैवं तत्साम्यमनिच्छतः कार्यसत्त्वपरिहारेणायातमिदमन्यतरासत्त्वं कार्यमेवासदिति, कार्यशब्दसमीपे एवकारप्रयोगादसत्त्वं कार्य एव नान्यत्रापीति, ततश्च न खपुष्पमसदिति 10 प्रसक्तम् । अथैवं तत्साम्यमित्यादि, अथैतदापादितं साम्यमनिच्छतः कार्यसत्त्वपरिहारेणोभयासरत्वानभ्युपगमादायातमिदमन्यतरासत्वं कार्यसत्त्वपरिहारेणाभ्युपगम्यते प्रतिपक्षवादादन्यत् पूर्वोक्तद्वयान्यतर विशिष्टम्, किन्तत् ? कार्य मे वासदिति, अवश्यं द्वयोरन्यतराभ्युपगमेऽवधारणमापद्यते, तञ्चावधारणं 'यत एवकारस्ततोऽन्यत्रावधारण' मिति परिभाषितत्वाच्छास्त्रेषु लोके च दृष्टत्वादवधारणफलत्वाश्च 15 वाक्यस्य एतदुपपद्यते कार्यसमीप एवकार इति कार्यमेवासदिति, कार्यशब्दसमीपे एवकारप्रयोगादिति - शब्दस्य हेत्वर्थत्वादन्यत्र प्रतियोगिनि -सत्वे नियमः, सच्छब्दवाच्येऽर्थे खपुष्पादावनियमस्तत्रैवकाराभाषात्, न कार्यशब्दार्थे, यथा वृक्षश्चत इत्यत्र चूतो नियमाद्वृक्षो वृक्षस्तु चूतोऽन्यो वा स्यादित्यनियमः तथेहापि कार्यमेवासत् न तु खपुष्पाद्यकार्यमसत्, किं तर्हि ? सत्, तच्चासदेव कार्यमिति नियम्यते । यदि सदस्यकार्यं स्यात्, अस्तु को दोष इति तद्दर्शयति-असत्त्वं कार्य एव नान्यत्रापी - 20 त्यकार्ये खपुष्पादाविति, इतिशब्दो हेत्वर्थेऽस्मादवधारणाद्धेतोरित्यर्थः, एवं सति को दोष इति चेदुच्यते - ततश्च न खपुष्पमसदिति प्रसक्तम्, दृष्टेष्टविरुद्धं सत्त्वं खपुष्पस्येत्यर्थः । स्यादिति भावः । मेदलक्षणविशेषपक्षे दोषमुक्त्वा प्रकारान्तरेण दोषमाह - अभ्युपेत्यापि ब्रूम इति, चतुर्विधभेदलक्षणविशेषमभ्युपेत्यापीत्यर्थः । सोऽयमभावः सप्रतियोगिको साधिकरणो वाऽवश्यं स्वीकार्यः, निष्प्रतियोगि कनिरधिकरणका भावाप्रसिद्धेः, तथा च भावाश्रयतया, घटाद्याश्रितरूपादेरिव सदाश्रिताभावस्यापि भावत्वं प्राप्तमित्यभावः सन् यथा वा घटादयः 25 स्वात्मानमाश्रित्य वर्तमानाः सन्तस्तथाऽभावोऽपि खात्मना वर्त्तमानः सन्नेव स्यादिति भावादविशेषः स्यात् स तु नेष्ट इति न विशेषोऽभावस्येति कार्यखपुष्पयोरसत्त्वं तुल्यमेवेति विकल्पचतुष्टये प्रथम विकल्पो विचारित इति भावः । ननु कार्य खपुष्पयोरसत्वमनिच्छतो विकल्पचतुष्टये कार्यसत्वविषयचरम विकल्पद्वयभिन्नोऽन्यतरा सत्त्वविकल्पः खपुष्पं सत् कार्यमसदित्येवंरूप एवार्थादापद्यत इत्याह- अथैतदापादितमिति । कार्यसत्त्वपरिहारेणेति, खपुष्पमसत् कार्यं सदिति खपुष्पं सत् कार्यं सदिति च विकल्पं सत्कार्यवादप्रतिपक्षभूतं परिहृत्येत्यर्थः । कार्यासत्त्वखपुष्पात्सत्त्वयोरन्यतर स्वीकारेऽवधारणलाभात् कार्य - 30 मेवासदिति नियमस्य लाभ इत्याह- अवश्यमिति । कस्यावधारणं भवतीत्यत्राह यत एवकार इति, अस्यासद्विकल्पत्वात् कार्यपदादेवकारयोजनया कार्यादन्यत्रासत्वसम्भवं व्यावर्त्तयत्येवकारोऽसत् नियमात् कार्यमितीति भावः । खपुष्पे त्वेवशब्दालाभान्न तस्यैवकारार्थ इत्याह- सच्छन्दवाच्य इति । दृष्टान्तमाह-यथा वृक्ष इति, वृक्ष एव चूत इत्युक्तौ वृक्षादन्यत्र लतादौ चूतसम्भवमुदस्यत्येवकार इति भावः । एवञ्च कार्यमेवासदिति कार्येऽसत्वनियमादकार्यस्य खपुष्पादेः सत्त्वमेवेति 2010_04 Page #247 -------------------------------------------------------------------------- ________________ खवचनादिविरोधः] न्यायागमानुसारिणीव्याख्यासमेतम् १९७ तथा च खरविषाणविपरीतनिवृत्तघटादीनामसत्त्वतुल्यं कार्यासत्त्वमिति नाममात्रेऽविसंवादोऽग्नेमङ्गलनामवत्। तथा चेत्यादि यावन्नाममात्रेऽविसंवादः । एवञ्च कृत्वा कार्यमसत् खरविषाणं सदिति सङ्गत्या सतोऽसदिति असतश्च सदिति संज्ञा क्रियते कार्यासत्त्वमिति, ततः खरविषाणविपरीता ये निर्वृत्ता घटादयस्तेषां घटादीनामसत्त्वेन तुल्यं कार्यस्यासत्त्वं सतामेवासत्त्वेन तुल्यं विपरीतं नाममात्रमनेर्म-5 गलनामवत् , न वा च कश्चिदर्थस्य सत्त्वे विसंवादोऽसत्कार्यमिति । __ कार्यसत्त्वनिवृत्त्यवधारणत्यागाच स्ववचनादिविरोधापत्तिः । (कार्येति) कार्यसत्त्वनिवृत्तिः-कार्यासत्त्वं, तदवधारणमेकान्तः कार्यमेवासदिति, तस्य त्यागोऽनन्तरोक्तविधिना प्राप्तः, ततश्च-कार्यसत्त्वनिवृत्त्येकान्तत्यागाच्च स्ववचनादिविरोधापत्तिः, स्ववचनविरोधस्तावत् तदेव कार्यमसदित्युक्त्वा तस्यैव कारणसामर्थ्यात् सत्त्वापादनात् तदेव सत्तदेवा- 10 सदिति ब्रुवतः । अथवा यदि कार्य प्रथममसदथासत कथं कार्य क्रियते ?, घटो घटतया व्यज्यते दीप्तमेव क्रियत इति वक्ष्यति । तथाऽभ्युपगमादभ्युपगमविरोधः, तथा लोकेऽप्रसिद्धत्वाल्लोकविरोधः, तत्त्व एव तथाभूतेरनुमानविरोधः, तथा मृत्पिण्डघटादिकारणकार्यदर्शनात् प्रत्यक्षविरोधः, एवं तावत् कार्यमेव सन्न खपुष्पादीत्यवधारणे दोषः कार्यमेवासन्न कारणमित्यस्यावधारणस्य प्रतिपक्षवादापत्तेः । अथ कार्यमसदेवेत्येवकारादसदनवधृतेः पूर्वो दोषः। 15 (अथेति) अथैवमवधार्यते कार्यमसदेवेति तत्रापि यत एवकारस्ततोऽन्यत्रावधारणमित्यसत्समीप एवकारात् कार्यमसत्त्वेनावधार्यते कार्य नियमादसत् , असत्तु कार्य वा स्यात् खपुष्पादि वा, इत्येवमसदेवकारात्त्वसदनवधृतेः पूर्वो दोषो-योऽसत्त्वाविशेषादित्यादिः स एव कार्यखपुष्पयोरसत्त्वे आयत्यामाविर्भावानाविर्भावकृतो विशेषो न स्यादित्यविशेषापत्तिदोषः प्रागुक्तः स एवात्रापि । अथोच्यते त्वयाऽसत्त्वादेव तयोः कारणकाले विशेषासम्भवः, उभयेषामवस्तुत्वान्नि-20 रुपाख्यत्वाच्च यदेव कार्यासत्त्वं तदेव खपुष्पासत्त्वमपीति नावधारणकृतो दोषः, नापि खपुष्पं नासदिति दृष्टेष्टविरुद्धं प्रसक्तमिति दर्शयति-यदीति । खपुष्पस्य सत्त्वे कार्यस्यासत्त्वे च दोषमाह-तथा चेति यथाऽमालेऽम्यादी खेच्छया क्रियमाणे मङ्गलनामनि न कस्यापि विसंवादस्तथा खपुष्पविपरीतनिवृत्तघटादावसद्विपरीते कार्यासस्वमित्यभिधानविधाने सुधियां न विरोधः तस्य सत्त्वव्याघातकत्वाभावादिति भावः, असत्त्वतुल्य इत्यस्यासत्वविपरीत इत्यर्थः । ननु निर्वृत्तघटादीनां सत्त्वे कार्यमेवासदित्येकान्तपरित्यागापत्तिरपीत्याह-कार्यसत्त्वेति । कथं खवचनविरोध इत्यत्राह-खव-25 चनविरोध इति । अत एवारुचेराह-अथवेति, यदि कार्य घटादि मृत्पिण्डाद्यवस्थायामसदेव तर्हि तत्कथं क्रियते, असति व्यापारायोगादित्यर्थः । दण्डादिव्यापारणात्मिकया क्रियया विद्यमान एव घटो दीपेनेव व्यज्यत इति नास्माकं विरोध इति सिद्धान्ती सूचयति-घटो घटतयेति ।तत्त्व एवेति, विद्यमानस्यैव तथाभवनादित्यर्थः । तथा च कार्य सत् , तत्त्वे एव तथाभूतेः, दीपेन घटव्यक्तिवदित्यनुमानेनासत्कार्यवादस्य विरोध इति भावः । मृत्पिण्डस्यैव घटीभवनात्तथैव कार्यकारणभावदर्शनात् प्रत्यक्षविरोध इत्याह-तथा मृत्पिण्डेति । कार्यमेवासदित्युक्तो कारणं सदित्यस्यापि प्रसङ्गेनासत्पक्षप्रतिपक्षवादापत्तिरित्याह-30 एवं तावदिति । कार्य नियमादसद्भवति, असत्तु कार्य वा स्यादन्यद्वेत्यसतोऽनवधारणात् कार्यखपुष्पयोरविशेषापत्तिरित्याह-अथ कार्यमिति । ननु कारणकालिककार्यखपुष्पयोरविशेषापत्तितुल्यत्वादिदोषा अदोषा एव दोषाश्रयस्थावस्तु _ 2010_04 Page #248 -------------------------------------------------------------------------- ________________ १९८ द्वादशारनयचक्रम् [विधिविध्यरे पूर्वस्तुल्यत्वापत्तिदोषः असतो विशेषाभावादनेकविषयत्वात्तुल्यत्वस्य, अत्रोच्यते, एवमप्येकत्वाद्विशेषाभावः, यथैव ह्यनुपादानमबुद्धिसिद्धञ्च खपुष्पं निःसामान्यं निर्विशेषञ्च सिद्धमेवं घटादेः कार्यस्य स्यात् । अथोच्यतेत्यादि, अविशेषापत्तिदोषस्य च परिहारार्थमथोच्येत त्वयेति परमतमाशङ्कते, कथं ? 5 असत्त्वादेव तयोः-कार्यखपुष्पयोः कारणकाले विशेषासम्भवः, यथा खपुष्पमसत्तथा कारणकाले कार्यमप्यसदेवेति नानयोः कश्चिद्विशेषोऽस्ति, न ह्यसतो निरुपाख्यस्य खपुष्पस्य वृन्तफलकेसराद्यवयवसौरभादिविशेषाः खरविषाणकुण्ठतीक्ष्णत्वादिभ्यो भिन्नलक्षणाः सन्ति, उभयेषामवस्तुत्वात् निरुपाख्यत्वाच्चे यस्मादविशेषात् कारणकाले यदेव कार्यासत्त्वं तदेव खपुष्पासत्त्वमपीति, ततः किं परि हृतमिति चेन्न, अवधारणकृतो दोषः परिहृतो भवति, कार्यमेवासदसदेव कार्यमित्यवधार्यमाणे खपु10 रुपसत्त्वं कार्यखपुष्पयोरविशेष इत्येतौ दोषौ तयोरविशेषाभ्युपगमान्न स्त इति । नापि पूर्वस्तुल्यत्वापत्तिदोषः, कार्यस्यायत्यामनाविर्भावः खपुष्पस्याविर्भाव इत्यविशेष इत्यस्यापि तुल्यत्वापत्तिदोषस्याभावः, असतो विशेषाभावादनेकविषयत्वात्तुल्यत्वस्य, अयमनेनाभ्यामेभिरिमौ इमे वाऽर्थास्तुल्या इति हि तुल्यत्वमनेकविषयं दृष्टम्, न हि तदेव तेन तुल्यमिति । अत्रोच्यते-एवमप्येकत्वाद्विशेषाभाव इति, त्वयैव कार्यखपुष्पयोरसत्त्वाविशेषोऽभ्युपगत एकरूपत्वादवस्तुन इति, तदवस्थ एवाविशेषदोषः, 15 तस्यैवेदानीमविशेषदोषस्यापादनाथं विकल्प्यतेऽन्यदनिष्टापादनं-यथाहीत्यादि, यथैव खपुष्पस्योपादानं पूर्वदृष्टश्रुतानुभूतं बुद्धौ सिद्धं वाऽऽकारादिविशिष्टत्वं नास्तीत्यनुपादानमबुद्धिसिद्धश्च खपुष्पम् , ततः किं ? अनुपादानाबुद्धिसिद्धत्वाभ्यां निःसामान्यं निर्विशेषश्चेति सिद्धम् , एवं घटादेः कार्यस्य मृदाधुपादानं बुद्धिसिद्धत्वञ्च सामान्य विशेषत्वश्च न स्यात् , तच्च मृद एव येनाकारेण भवनं देशकालनवपुराणकृष्णरक्तत्वादिघटभेदेऽपि तुल्यतया सामान्यं विशेषश्च पटादिभ्यः । एतच्च खपुष्पस्योपादानबुद्धि20 सिद्धत्वं सामान्यविशेषवत्त्वश्च स्यात् , उभयोनिरुपाख्यत्वात् , न त्वेतदिष्टम् , तस्मादस्त्यनयोर्विशेष इति सत् कार्यम् । त्वेन निरुपाख्यत्वादित्याशङ्कते-अथोच्येत त्वयेति । खपुष्पखरविषाणयोर्निर्विशेषत्वमाह-नहीति, खसम्बन्धिनः पुष्पस्यैवाभावात् खरस्य विशणस्याप्यभावात्कुतस्तद्विशेषा वृन्तादयः कुण्ठादयो येन परस्पर भिन्नाः सन्तो विशेषा भवेयुः, खपुष्पादीनां निरुपाख्यत्वश्च व्यावर्तयेयुरिति भावः । एवञ्च कारणकाले यदेव कार्यस्यासत्त्वं तदेव खपुष्पेऽपीति विशेषाभावादवधारणेन 25 प्राप्तो दोषः परिहृतः। कायमेवासदित्यवधारणेन खपुष्पसत्त्वलक्षणस्य कार्यमसदेवेत्यवधारणेन च कार्यखपुष्पयोरविशेषलक्षणस्य च दोषस्य परिहार इति निरूपयति-अस्मादविशेषादिति । तथा पूर्वोदितस्य कायस्य खपुष्पवदायत्यामप्रादुर्भावः, कार्यस्येव वा खपुष्पस्यापि प्रादुर्भावस्तुल्यत्वादित्युक्तस्य तुल्यत्वस्यापि नापत्तिः, तुल्यत्वस्य भेदगर्भिततयाऽविशिष्टे तदसम्भवादित्याह-नापीति । तयोरविशेषेऽभ्युपगते एकरूपत्वमेव प्राप्तम् । तथाप्यवस्तूनां विशेषाभावस्तदवस्थ एव, अस्यैव दोषस्याभिधानायास्माकं प्रवृत्तरित्याह-एवमपीति । तयोर्विशेषाभावे दोषान्तरमाह-यथैव हीति । खपुष्पस्य हि किञ्चिदुपादान30 कारणं न पूर्व दृष्टं श्रुतमनुभूतं वा, न वा तस्य कोऽप्याकारो बुद्धावभासत इत्यनुपादानत्वादबुद्धिसिद्धत्वाच्च न सामान्यविशेषात्मकम् , एवं कार्यमपि,अतो घटादेमंदाधुपादानकत्वं बुद्धिसिद्धत्वं सामान्य विशेषत्वं च न स्यात्। तच्चेति, उपादानत्वं बुद्धिसि. द्धत्वं सामान्य विशेषात्मकत्वञ्च वस्तुतो मृद एव सम्भवति तस्या एव तथा तथा भवनात्, घटमेदेऽपि मृद एकरूपतया सामान्यं पटादिभ्यश्च विशेषः । इदश्च विशेषत्वात्कार्यखपुष्पयोनिरुपाख्यत्वास सम्भवतीति कार्य सदिति खीकार्यमिति भावः। __ 2010_04 Page #249 -------------------------------------------------------------------------- ________________ सदसत्त्वापादनम् ] न्यायागमानुसारिणीव्याख्यासमेतम् १९९ अथ सामान्यविशेषोपादानबुद्धिसिद्धत्वसद्भावौ कार्यखपुष्पयोरिष्येते त्वया विशेषौ खपुष्पवदभवदपि अन्यथा भवदपि तदसदेवेति, निवृत्तमपि त_सत् , सामान्यविशेषवत्त्वात् कारणकालकार्यवत् , कार्यवच्चाभवदपि खपुष्पमसन्न स्यात्, निःसामान्यनिर्विशेषत्वात् , सामान्यविशेषवत् । (अथेति) अथ सामान्य विशेषोपादानबुद्धिसिद्धत्वसद्भावी कार्यखपुष्पयोरिष्येते त्वया । विशेषौ, खपुष्पवदभवदपि-तदसदेव खपुष्पवदिति येन प्रकारेण खपुष्पं न भवति नोत्पद्यते तेन प्रकारेणाभवदपि, अन्यथा भवदपि-उत्पद्यमानं कदाचिद् दृश्यमानमपीत्यर्थः, उपादानबुद्धिसिद्धत्वसामान्यविशेषवत्त्वप्रकारेण भवदपि तत्-कार्यमसदेवेष्यते ततश्चैवं सत्ययमपरो दोषः-निवृत्तमपि तीसत्, कार्यमिति वर्तते, सोपादानबुद्धिसिद्धत्वसद्भावेऽपि, कस्मात् ? सामान्यविशेषवत्त्वात् कारणकालकार्यवत् , यथा कारणकाले कार्यमसत् त्वन्मतेन सामान्यविशेषवदपि सोपादानं बुद्धिसिद्धमपि तथो- 10 त्तरकाले निर्वृत्तमपि तदसदेव स्यात् , कारणकालकार्यवदिति । कार्यवच्चाभवदपि खपुष्पमसन्न स्यात्-कार्यप्रादुर्भावप्रकारेणाभवदपि तस्मिन्नभवनप्रकारविशेषे सत्यपि सत् प्राप्नोति खपुष्पं निःसामान्यनिर्विशेषत्वात् , तद्धि खपुष्पं निःसामान्यं निर्विशेषश्चेति सिद्धम् , अतस्तस्य निःसामान्यनिर्विशेषत्वात् सत्त्वं स्यात् , को दृष्टान्तः ? सामान्यविशेषवत् , कार्यवदिति सिद्धे वैशेषिकमतालम्बनसामान्यविशेषदृष्टान्तो निःसामान्यनिर्विशेषाणां सामान्यविशेषाणां वस्तुत्वं खपुष्पतुल्यमेवेति काका 15 दर्शितं भवति । प्रकृतार्थोपनयस्तु यथा सामान्यविशेषो घटत्वादिनिःसामान्यो निर्विशेषश्च संश्चेति सिद्धः तथा खपुष्पमपि सत् स्यात् । किश्चान्यत् कार्यासत्त्ववैलक्षण्याद्वा कारणवदसन्न स्यात् , कारणं वा खपुष्पवत् कार्यासत्त्ववैलक्षण्यादसत् स्यात् । (कार्यासत्त्वेति) कार्यासत्त्ववैलक्षण्याद्वा कारणवदसन्न स्यात् , खपुष्पमिति वर्त्तते, कार्यस्य घटादेर सत्त्वेन खपुष्पस्याप्रादुर्भावानुपादानाबुद्धिसिद्धत्वनिःसामान्यविशेषवैलक्षण्यात् खपुरूपमपि सत् स्यात् कारणवत्, एतैश्च प्रकारैः सिद्धमेव कार्यासत्त्ववैलक्षण्यमिति सिद्धो हेतुः निर्वृत्त 30 ननु कार्यखपुष्पयोः सामान्यविशेषादिधर्मवत्त्वेऽपि खपुष्पवत् पूर्वमभवदपि कदाचिदायत्यां भवदप्यसदेवेत्याशङ्कते-अथेति । एवं तर्युत्पत्त्यनन्तरमप्यसद्भवेत् कार्यम् , सामान्यविशेषवत्त्वादिभ्यः, कारणकाले कार्यवदिति समाधत्ते-निवृत्तमपीति । 25 यदि प्रत्यक्षबाधितत्वमनुमानस्येत्युच्यते तर्हि दोषान्तरमाह-कार्यवञ्चेति । यथा कार्यमायत्या प्रादुर्भवति न तथा खपुष्पमित्येवं विशिष्टमपि खपुष्पं सत् प्राप्नुयादिति भावः। तत्र हेतुमाह-निःसामान्येति । कार्यवदिति दृष्टान्तं परित्यज्य सामान्य विशेषवदिति दृष्टान्तविशेषोपादाने निदानमाह-कार्यवदितीति, वैशेषिकमते हि जातिलक्षणसामान्यस्यान्त्यलक्षण. विशेषस्य च न सामान्यविशेषवत्त्वं स्वीक्रियतेऽनवस्थाप्रसङ्गात् , अतस्तत्र निःसामान्य मिविशेषत्वमस्ति सत्त्वमपि तरिष्यत इति दृष्टान्तता, किन्तु तावप्यसन्तौ खपुष्पवदिति विशेषोऽपि काका दर्शित इति भावः । अनुवृत्तिव्यावृत्तिलक्षणो तु सामान्य विशेषी 30 तैरपि सामान्ये विशेषे चाङ्गीक्रियेते, तल्लक्षणयोरनुवृत्तिव्यावृत्तिरूपत्वादिति बोध्यम् । दृष्टान्ते हेतुं साध्यं च प्रदर्शयति-प्रकतार्थेति । अथ खपुष्पमसन्न स्यात् कार्यासत्त्ववेलक्षण्यात् कारणवत् , कार्यासत्ववलक्षण्यश्चाप्रादुर्भावानुपादानाबुद्धिसिद्धत्वनिःसामान्यविशेषत्वधमैरित्याशयेनाह-कार्यासस्वेति । खपुष्पे तथाविधवैलक्षण्यसद्भावेऽप्यसत्त्वमेव. यदीष्यते तर्हि 2010_04 Page #250 -------------------------------------------------------------------------- ________________ द्वादशारनयचक्रम् [ विधिविध्यरे त्वादिप्रकारेण च कारणस्य तद्वैलक्षण्यं सिद्धमिति साधम्र्म्यं कारणखपुष्पयोः । कारणं वा खपुष्पवत् कार्यासन्ववैलक्षण्यादसत् स्यात् कार्यस्यासत्त्वं वा त्याज्यमित्यभिप्रायः । अथ कार्योपादानादिमत्त्ववत् खपुष्पस्याप्युपादानादिमत्त्वं नेष्यते असच कार्यमिति निश्चितं तदा पूर्ववच्चक्रकद्वयप्रवत्र्त्तनमुभयासत्त्वे, अन्यतरासवे तु कार्यसमीप इत्यादि 5 स एव ग्रन्थ उपादानादिमत्त्व विशेषणविशिष्टो योज्यः । अतः कार्य सदुपादानादिमत्त्वात् कारणस्वात्मवत् वैधर्म्येणाकाशघटवदिति । २०० ( अथेति ) अथ भवता खपुष्पसत्त्वप्रसङ्गदोषभयादुक्तं प्रतिपादनमपि कार्योपादानादिमववत् खपुष्पस्याप्युपादानादिमत्त्वं नेष्यते, आदिग्रहणाद्बुद्धि सिद्धत्वसामान्यविशेषवत्त्वानि नेष्यन्ते, इदं कार्यस्यासाधर्म्यं खपुष्पेण सहेष्यते, असच्च कार्यमिति निश्चितमित्यादि पूर्ववञ्चक्रकद्वयप्रवर्त्तनमिति 10 प्रन्थमतिदिशति, तमेव । कथं पुनः ? भाव्यते - यदि कार्योपादानादिमत्ववत् खपुष्पस्योपादानादि - मत्वं नेष्यते कार्यं वाऽसदिति निश्चितं तद्वैलक्षण्यात्- अनुपादानादिवैलक्षण्यात् न तर्ह्यसत् खपुष्पं सदेव तत्, असद्विलक्षणत्वात्, घटवदितर उदुम्बरपुष्पवत् । ननु घटासत्त्वं पटासत्त्वविलक्षणम्, न, सतो वैलक्षण्यात् । अथैवमपि वैलक्षण्ये खपुष्पासत्त्वविनिश्चयो न निवर्तते, अनुपादानादिमस्वात्, न तर्ह्यपादानादिमत्त्वात् कार्यमसत्, निर्वृत्तघटवत्, असत्त्वे नोपादानादिमत् स्यात् खपुष्प15 वत्, एतदपि पर्ययचक्रकं शेषं पूर्ववदेव विपर्ययेण - अतः सत्कार्यमुपादानादिमत्त्वान्निर्वृत्तघटवद्वैधर्म्येणाकाशघटवदित्यादिरपि यावत्सदाश्रयत्वात् सत्त्वं घटवदिति, एतद्विपर्ययचक्रकमेवमुभयासवे, अन्यतरासन्त्वे तु-अथैतत्साम्यमुभयासत्वान्मा भूदित्यन्यतरासत्त्वं कार्यसत्त्वाभ्युपगम परिहारेण कार्यमेवासदिति, अन्न कार्यशब्द समीप इत्यादि यावत्स्ववचनादिविरोधापत्तिः । पुनरप्यसदेवकारे त्वसदनवधृते पूर्वदोषः, अथोच्येतेत्यादि यावत् कार्यासत्त्ववैलक्षण्याद्वा कारणवदिति स एव ग्रन्थ उपादानादिम20 विशेषणकृतो विशेष इति, अतः कार्यं सत्, उपादानादिमत्त्वात् कारणस्वात्मवत्, वैधर्म्येणाकाशघटवत्, असच्च खपुष्पम् अनुपादानत्वात्, नभो घटवत् इतरो निर्वृत्तघटवत् । तथा सत् कार्यं बुद्धिसि - द्धत्वात्, निर्वृत्तघटवत्, इतरो नभोघटवत् । असश्च खपुष्पं बुद्ध्यसिद्धत्वात्, नभोघटवत्, इतरो निर्वृत्तघटवत्, एवं सामान्यविशेषाभ्यामपि योज्यम् । तस्मात् कार्यं सत् कारणवन्न तु खपुष्पमित्यर्थः । कारणं कार्यनिष्ठासत्त्वनिरूपितवैलक्षण्यस्य सद्भावेन खपुष्पवद सद्भवेदित्याह - कारणं वेति, कारणं घटादेर्मृदादि परमाण्वादि 26 वा, अत्र कारणस्याबुद्धि सिद्धत्वं निःसामान्यविशेषत्वश्च स्वयमेवोहनीयम् । एतावता कार्यख पुष्पयोः सामान्यविशेषादिधर्मवत्त्वमभ्युपेत्य विचारः कृतः, अथ तदनभ्युपगम्य विचारः क्रियते - अथेति । कार्यनिष्ठा सत्त्वमुपादानत्वादिसमन्वितं खपुष्पादो तूपादानादिमत्त्वं नेष्यत इति तत्समन्वितमसत्त्वं तस्य न स्यादित्यसद्वैलक्षण्यात् खपुष्पं सदेव स्यादित्याह - तद्वैलक्षण्यादिति । अथैवमपि कार्यनिष्ठासत्त्वनिरूपितवैलक्षण्याश्रयस्यापि खपुष्पस्यासत्वमेवेष्यते तर्हि नासत्त्वमुपादानादिसमन्वितमेव, तथा चानुपादानादिसमानाधिकरणासत्त्वनिरूपितवैलक्षण्याश्रयस्य निर्वृत्तघटादेः सत्त्ववत् कार्यमपि सत् स्यादित्याह - अथैवमपीति । 30 इदं पर्ययचक्रकं तावद्येोज्यं यावत् शेषं पूर्ववदेव विपर्ययेणेत्युक्तम्, तदेव दर्शयति-अतः सत्कार्यमिति । विपर्ययचक्रञ्चाथैवमपि वैलक्षण्ये कार्यासत्त्वविनिश्वयो न निवर्तते, उपादानादिमत्त्वादित्यादि यावत् सदाश्रयत्वाद्विशेषस्य सत्त्वं घटवदिति योज्यम्, एवं तावत् कार्यख पुष्पयोरुभयोरसत्त्वमेवेति साम्यमापादितं खपुष्पमसत् कार्यमप्यसदिति विकल्पाश्रयेण । तदेवाह - एवमुभयासरखे इति । खपुष्पं सत् कार्यमसदिति द्वितीय विकल्पाभिप्रायेण वक्ति-अन्यतरासवे त्विति । 2010_04 Page #251 -------------------------------------------------------------------------- ________________ २०१ प्रकरणसमदोषः] न्यायागमानुसारिणीव्याख्यासमेतम् आह ननु सत्त्वेऽपि कारणवत् प्रत्यक्षत्वं प्रसज्यते, न, अव्यक्तत्वात् , वितटीखातहस्तीव पूर्व खननात् । भूगन्धवद्वाऽप्रत्यक्षत्वं कार्यस्य, अत एव च प्रकरणचिन्तेति प्रकरणसमदोषोऽनेकान्तत्वात्। (नन्विति) ननु सत्त्वेऽपि कारणवत् प्रत्यक्षत्वं प्रसज्यते, त्वत्परिकल्पितं मृत्पिण्डावस्थायां कार्य घटाख्यं प्रत्यक्षं स्यात् सत्त्वात् कारणवत्-मृत्पिण्डवदित्यर्थ इति, अत्रोच्यते नाव्यक्तत्वात् , नैष दोषः, कस्मात् ? अव्यक्तत्वात् , तस्यां हि मृत्पिण्डावस्थायां घटोऽनभिव्यक्तत्वादिन्द्रियैर्नोपलभ्यते, वितटीखातहस्तीव पूर्व खननात् , एवं हि मृदवयवा भित्तिगताः खननात् प्रागपि विद्यमानाः खननोत्तरकालं हत्याकारव्यपदेशं लभन्ते, न च ते प्रागभिव्यक्तेरनुपलब्धत्वान्न सन्ति । अथवा कार्ये सत्यपि ह्यव्यक्ते भूगन्धवदप्रत्यक्षत्वं कार्यस्य, यथा भुवो गन्धो विद्यमानोऽपि न प्राणेन्द्रियगोचरमाग- 10 च्छति, अव्यक्तत्वात् , सलिलसिक्तस्तूत्तरकालमभिव्यक्त उपलभ्यते, तथा मृदवस्थायामप्रत्यक्षो घटः कुलालप्रयत्नदण्डचक्रसूत्रादिकारणाभिव्यञ्जितः पश्चादुपलभ्यतेऽतस्तस्य प्रत्यक्षत्वं भवतीति को दोषः ? अत एव च प्रकरणचिन्तेति प्रकरणसमो दोषोऽनेकान्तत्वात् , उक्तमनैकान्तिकत्वमस्य हेतोः, यत एव प्रकरणचिन्ता स निर्णयार्थमपदिष्टः सन् प्रकरणसमः, इह हि घटादेः कार्यस्याप्रत्यक्षत्वादेव चिन्ता समुत्पन्ना, किं घटादिकार्यं सत् असदिति वा ? अप्रत्यक्षत्वस्य सत्यसति च दर्शनात्, मूलोदकादौ 15 खरविषाणादौ चेत्यतो व्यभिचरत्यप्रत्यक्षत्वं सत्त्वं तथा सत्त्वमपि प्रत्यक्षत्वम् , प्रत्यक्षाप्रत्यक्षयोर्दर्शनात् , सतोऽप्रत्यक्षस्य मेरुत्तरकुरुद्वीपग्रहगृहीतग्रहादेरित्यनेकान्तादिति । - एवं तर्हि दर्शनादर्शनयोः प्रादुर्भावाप्रादुर्भावयोश्च समानः प्रकरणसमदोष इति चेन्न, जन्मप्रकाशविषयविशेषस्योक्तत्वात्, उपादानादिमत्त्वविशेषाच्च । एवं हि समानकरणं ततोऽन्यत् कार्यम्, तद्विकल्पासामर्थ्यात्, घटपटवत् । अत्रापि चतुर्यु विकल्पेषुभयसत्त्व- 20 ननु घटादेः मृत्पिण्डावस्थायां सत्त्वाङ्गीकारे मृत्पिण्डवद्धटादेरपि तदानी प्रत्यक्षता स्यादित्याशङ्कते-नन्विति । तदानीं नासत्वाद्धटादेरप्रत्यक्षत्वमपि तु अनभिव्यक्तत्वात् , सत्याश्चाभिव्यञ्जकसामय्यां तस्याभिव्यक्तिरित्याशयेनाह-अव्यक्तत्वादिति । एतदेव दृष्टान्तद्वयेन समर्थयति-तस्यां हीत्यादिना। मृत्पिण्डावस्थायां घटः प्रत्यक्षं स्यात् , सत्त्वान्मृस्पिण्डवदित्युक्त हेतुव्यभिचारीत्याह-अत एव चेति. भूगन्धादेरिव तदा घटादेरव्यक्तत्वेनाप्रत्यक्षत्वादेवेत्यर्थः। विमशोधिष्ठानौ पक्षप्रतिपक्षावुभावनवसितो प्रकरणम् , तस्य चिन्ता-विमर्शात् प्रमृति प्राङिनर्णयाद्यत् समीक्षणम् , सा जिज्ञासा यत्कृता स निर्ण-25 यार्थ प्रयुक्त उभयपक्षसाम्यात् प्रकरणमनतिवर्तमानः प्रकरणसमो निर्णयाय न प्रकल्पत इत्यर्थक 'यस्मात् प्रकरणचिन्ता स निर्णयार्थमपदिष्टः प्रकरणसमः' इति गौतमसूत्रम् (अ.१ आ. २ सू. ७) सचानकान्तिको हेत्वाभासः । अत्र घटादेः कार्यस्य सदसत्त्वकोटिकसंशयप्रवर्तकत्वमप्रत्यक्षत्वस्य, यथा सदपि मूलकीलकोदकादि नोपलभ्यते, असदपि खरविषाणादि नोपलभ्यते तथा च कार्ये सदसद्वेति संशयं प्रवर्तयत्यप्रत्यक्षत्वम्, न त्वसत्त्वं साधयति, एतदेवाह-यत स्यादिना। एवं प्रत्यक्षत्वमपि सत्त्वं व्यभिचरति प्रत्यक्षेऽप्रत्यक्षे च दर्शनात् , अप्रत्यक्षे सत्त्वदर्शनं केल्यत्राह-तथा सत्त्वमपीति । ननु यथा दर्शना- 30 दर्शनव्यभिचारि सत्त्वं तथा प्रादुर्भावाप्रादुर्भावव्यभिचारि चेति प्रकरणसमस्योभयत्र समानतेत्याशङ्कते एवं तहीति । कार्यखपुष्पयो_लक्षण्यदर्शनात् तस्य चाविर्भावानाविर्भावलक्षणस्य यथाक्रमं सदसदूपतामन्तरेणानुपपत्तेः सत एवाविर्भावः, भसतश्चानाविर्भाव इत्युक्तत्वान्न सत्त्वमाविर्भावं व्यभिचरतीति भावः । एवमुपादानत्वबुद्धिसिद्धत्वसामान्यविशेषत्वादिविशेषसद्भावाच न त्वत्पमेन सह समानो दोष इत्याह-उपादानादीति । अथ कारणे कार्यासद्वादी सरकार्यवादेऽपि दोषं तहफ़परेव दर्स .न. २६ 2010_04 Page #252 -------------------------------------------------------------------------- ________________ २०२ द्वादशारनयचक्रम् [विधिविध्यरे मन्यतरसत्त्वञ्च स्यात् । तत्र यदि तावदुभयसत्त्वं ततः सत्त्वाविशेषादेवाविशेषे सर्वत्वैकत्वभेदो न स्यात् । एवन्तु कार्यैकत्ववत् कारणैकत्वमपि स्यात् । अथ न कार्यैकत्ववत् कारणैकत्वं सच्च कार्यमिति निश्चितं तद्वैलक्षण्यान्न तर्हि सत्कारणं सद्विलक्षणत्वादुदुम्बरपुष्पवत्, इतरो निवृत्तघटवत् । ननु घटसत्त्वं पटसत्त्वविलक्षणम्, न, असतो वैलक्षण्यात् , इतरेतरासत्त्वात् । अथैवमपि वैलक्षण्ये कारणे कार्यसत्त्वनिश्चयो न निवर्त्तते, अनेकात्मकञ्च तत्, न तर्येकात्मकत्वात् कार्य सत् , कारणवदिति प्रथमचक्रकम् । शेषं पूर्ववद्विपर्ययेणेत्यादि यदुक्तं तदपि, अथ न कारणसर्वत्ववत् कार्यसर्वत्वं सच्च कारणमिति निश्चितं तद्वैलक्षण्यान्न तर्हि सत्कार्य सद्विलक्षणत्वादुदुम्बरपुष्पवदितरो घटवत् , ननु घटसत्त्वं पटसत्त्वविलक्षणं, न, असतो वैलक्षण्यादितरेतरासत्त्वात्, एतद् द्वितीयं चक्रकम् । अतः सर्वात्मक10 त्वसतः कारणादन्यत् कार्यमेकात्मकत्वात् कुम्भादिवैकक्षणः । एकात्मकत्वासतश्च कार्यादन्यत् कारणं सर्वात्मकत्वात् क्षणादिव कुम्भ इति । तथाऽनुवृत्तिव्यावृत्त्यादि । एवं तहीत्यादि यावत्तथा, उपसंहारमेवेतर आह-( त्वदुक्तेत्यादि ) त्वदुक्तसाधनप्रपञ्चस्य कार्यसत्त्वेऽपि तुल्यत्वान्मयापि शक्यं वक्तुं कार्यसत्त्वस्य कारणे त्वन्मतस्य निवारणे कृते कार्यासत्त्वं भवितुमर्हति, तत्साधनं श्रूयताम् , यदेतत-(समानकरणमिति) (अत्रापीति) अत्रापि कारणं सत् कार्य 15 सत् , कारणं सत् कार्यमसत् , कारणमसत् कार्य सत् , कारणमसत् कार्यमसदिति चतुर्पु विकल्पेषु द्वयोः पूर्ववत् प्रतिपक्षवादापत्तेः त्यागादुभयसत्त्वमन्यतरसत्त्वञ्च स्यात् , तत्रोभयसत्त्वे तावत्तद्यदि तावदुभयसत्त्वम् , (न स्यादिति ) मृदेव सर्व पिण्डशिवकादि घटपिठरकपालादि कार्य त्वेकमेव, पिण्ड इति वा शिबक इति वाऽनन्यत्-एकम् । (अनेकात्मकश्च तदिति ) सर्वात्मकमित्यर्थः। (कार्य सदिति) सत्त्वे वैकात्मकं न भवेत् सत्त्वात् कारणवत् । एतत् प्रथम चक्रकम् । तथाऽनुवृत्तिव्यावृत्ती, अनुवृत्तिः 20 मृन्मृदिति पिण्डशिबकादिषु, व्यावृत्तिः-घटः पिठर इति, तद्यदि तावदुभयसत्त्वं सत्त्वाविशेषादेवावि शेषे कार्यव्यावृत्तिवत् कारणव्यावृत्तिरपि स्यात्सत्त्वाद् घटवत्, अथ न कार्यव्यावृत्तिवत् कारणव्यावृत्तिः सञ्च कार्यमिति निश्चितम् , तद्वैलक्षण्यान्न तर्हि सत्कारणम् , सद्विलक्षणत्वादुदुम्बरपुष्पवत्, इतरो निर्वृत्तघटवत् , ननु घटसत्त्वं पटसत्त्वविलक्षणं न, असतो वैलक्षण्यात् , अथैवमपि वैलक्षण्ये यितुमाह-स्वदुक्तसाधनेति । मत्पक्षे त्वयोद्भावितस्य साधनप्रपञ्चस्य त्वत्पक्षेऽपि समानत्वात्तेन त्वन्मते निराकृतेऽर्थतो 25 मदिष्टं कार्यासत्त्वं सेत्स्यतीत्यर्थः । द्वयोरिति, कारणं सत् कार्यमसत् , कारणमसत् कार्यमसदिति विकल्पयोरभ्युपगमे सत्कार्यवादप्रतिपक्षवादाभ्युपगमप्रसङ्गतो वादाभाव एव स्यादिति तत्त्यागादपरविकल्पद्वयमेवाश्रयणीयमिति भावः । उभयसत्त्वमिति, कार्यकारणयोः सत्त्वमित्यर्थः, एवञ्च तयोः सत्त्वाविशेषादेव कारणं सर्वात्मकं कार्यन्त्वेकरूपमेवेति विशेषो न स्यादतःकारणस्याप्येकत्वं प्रसज्येतेति भावः । तथापि वैलक्षण्यात् कारणस्यैकत्वानङ्गीकारे कारणं न सत्, सद्विलक्षणत्वादुदुम्बरपुष्पवत् इतरो निर्वृत्तघटवदित्यनुमानेनासत्त्वापत्तिरित्याह मूले-अथ नेति । हेतोरनैकान्तिकतामादर्शयति नन्विति. खखात्मना घटपटयोः सद्रूपत्वान्पादिना परस्सर विलक्षणत्वाच सद्विलक्षणत्वेऽपि नासत्त्वमिति व्यभिचार इति भावः । समाधत्ते-असतो वैलक्षण्यादिति घटपटादीनां परस्परं भिन्नत्वादेव वैलक्षण्यसम्भवादिदं वेलक्षण्यमसत एव, न तु सतः, "सत्वेन सर्वेषामविशेषेणावलक्षण्यादिति न घटादौ सतो वैलक्षण्यमतो नानैकान्तिकत्वमिति भावः । अथ कारणका र्ययोः सर्वत्वैकत्वलक्षणवैलक्षण्यसद्भावेऽपि कारणकार्ययोः कार्यमेकात्मकमेवेति निश्चयो न निवर्तते सद्वैलक्षण्येऽपि तर्हि 'कार्य न सतू एकात्मकत्वात, सत्वे वा नैकात्मकं भवेत, सत्वादेव कारणवदित्लाह-मथैवमपीति । तथा च कारणवत् 2010_04 Page #253 -------------------------------------------------------------------------- ________________ साम्यत्षानुपपत्तिः] न्यायागमानुसारिणीव्याख्यासमेतम् २०३ कारणसत्त्वविनिश्चयो न निवर्तते, अनुवृत्त्यात्मकञ्च तत्, न तर्हि व्यावृत्त्यात्मकत्वात्कार्य सत् सत्त्वे न व्यावर्तेत, सत्त्वात् कारणव दिति द्वितीयं चक्रमविपर्ययेण, शेषं पूर्ववद्विपर्ययेणेत्यादि, अथ न कारणानुवृत्तिवत् कार्यानुवृत्तिः सच्च कारणमिति निश्चितं तद्वैलक्षण्यान्न तर्हि सत् कार्य सद्विलक्षणत्वात् , उदुम्बरपुष्पवत्, इतरो घटवत् । ननु घटसत्त्वं पटसत्त्वविलक्षणं नासतो वैलक्षण्यादिति प्रथम विपर्ययचक्रकम् । अथैवमपि वैलक्षण्ये तत्सत्त्वविनिश्चयो न विनिवर्त्तते, अनुवृत्त्यात्मकश्च तत्, 5 न तर्हि व्यावृत्त्यात्मकत्वात् कार्य सत् , सत्त्वे न व्यावर्तेत सत्त्वात् कारणवत्, एतद्वितीयं चक्रक विपर्ययेण । अतोऽनुवृत्तिसतः कारणादन्यत् कार्य व्यावृत्तत्वात् पक्तरिवैकः, व्यावृत्तिसतश्च कार्यादन्यत् कारणमनुवृत्तत्वादेकस्मादिव पतिः । आदिग्रहणादाविर्भावानाविर्भावचक्रकद्वयमपि योज्यम् । यदि तावदुभयसत्त्वं ततः सत्त्वाविशेषादेवाविशेषे प्राक् कार्यानाविर्भाववत् कारणानाविर्भावोऽपि स्यात् । अथ न प्राक् कार्यानाविभाववत् कारणानाविर्भावः सच्च कार्यमिति निश्चितं तद्वैलक्षण्यान्न 10 तर्हि सत्कारणं असत्, सद्विलक्षणत्वात् , घटवदितर उदुम्बरपुष्पवत् ; ननु घटसत्त्वं पटसत्त्वविलक्षणं, न, असतो वैलक्षण्यात्, अथैवमपि वैलक्षण्ये कारणसव विनिश्चयो न निवर्तते, नित्याविर्भावकञ्च तन्न तर्हि सततानाविर्भावात्मकत्वात् कार्य सत्, सत्त्वे प्रागप्याविर्भवेत् , सत्त्वात् कारणवत् । प्रथमं चक्रकं शेषं पूर्ववद्विपर्ययेण, अथ न कारणसतताविर्भावः सच्च कारणमिति निश्चितं तद्वैलक्षण्यान्न तर्हि सत् , कार्य, असत्, सद्विलक्षणत्वादुदुम्बरपुष्पवत् । ननु घटसत्त्वं पटसत्त्वविलक्षणं 15 न असतो वैलक्षण्यादिति द्वितीयं चक्रकमित्येवमाविर्भावानाविर्भावविचारेण द्वे चक्रके मते इति । अत्रोच्यते न, असिद्धत्वादसर्वत्वादिहेतूनाम् , अस्माकं हि सर्वमेवानुवृत्तिरेव कारणमेवोपादानमेव बुद्धिसिद्धमेवेति । यदि हि घटोऽसर्वकार्यत्वाभिमतो मृत्पिण्डात् सत्त्वाभिमतादन्य इतीप्यते तद्वदेव दण्डादेरप्यसर्वत्वं सर्वस्मादन्यत्वाद्धटवत्, तस्मादेकैकस्यासर्वत्ववत् सर्वस्याप्यस-20 र्वत्वात् सर्वत्वाभाव इति सर्वत्वैकत्वभङ्गचतुष्टयाभावः, स्वोक्तविरोधादिवत् प्रमाणविशेषस्वरूपविरोधाश्च । _(नेति) नासिद्धत्वात् , नैतदुपपद्यतेऽस्मत्पक्षसाधनवत् त्वत्पक्षसाधनम् , किं कारणं ? असर्वत्वादिहेतूनामसिद्धत्वात् , यस्मादस्माकं सर्वमेवानुवृत्तिरेव कारणमेवोपादनमेव बुद्धिसिद्धमेवेतीति कार्यस्य नानेकात्मकत्वमिष्टमिति तस्यैकात्मकत्वेऽसत्त्वमेवेति भावः । एतदेवाह-शेषमिति । तदेवोपपादयति-अथेति । 25 कार्य न सत् सद्विलक्षणत्वात् , उदुम्बरपुष्पवदितरो घटवदित्यनुमानं बोध्यं शेषं खयमूहनीयम् । निगमयति-अत इति, सर्वात्मकात् सतः कारणात् कार्य कुंभादि, अन्यदेव एकात्मकत्वात् क्षण इवाणुरिव वा, कार्यस्य सत्त्वे वा एकात्मकात् सतः कार्यदन्यत् कारणं सर्वात्मकत्वात् , क्षणादिव कुंभः, अणादिव कुम्भ इति वेति भावः । एवमनुवृत्तिव्यावृत्त्याद्यपेक्षयापीत्थमेव चक्रकं भाव्यमित्यति दिशति-तथेति । कारणमनुवृत्तं कार्यमनुवृत्तम् , कारणमनुवृत्तम् कार्य व्यावृ... त्तम्, कारणं व्यावृत्तं कार्यमनुवृतं कारणं व्यावृत्त कार्य व्यावृत्तमिति विकल्पा अत्र बोध्याः। पङ्क्लेरिवैक इति, पतिः 30 समुदायः, स चानुवृत्त्यात्मकत्वात् सन् , एकस्तु व्यावृत्त्यात्मकत्वात् समुदायादन्य इति भावः । शेषं सर्व पूर्ववदेव । तदेवमसत्कार्यवादिना सत्कार्यवादे तदीयसाधनप्रपञ्चस्य तुल्यत्वे आपादिते सत्कार्यवादी समाधानमारचयति-न असिखत्वादिति । अस्मन्मते वस्तुमात्रस्य सर्वत्वादनुवृत्तिरूपत्वात् कारणरूपत्वादुपादानत्वादुद्धिसिद्धत्वाचासर्वत्वानुपादा 2010_04 Page #254 -------------------------------------------------------------------------- ________________ २०४ द्वादशारनयचक्रम् [विधिविध्यरे तस्मादसर्वत्वादेरसिद्धत्वात्तद्विकल्पाभावात् तदसमर्थविकल्पत्वासिद्धिस्ततः कारणात् कार्यमन्यदित्येतन्न सिद्ध्यतीति । तत्रासर्वत्वासिद्धौ प्रतिपादितायां व्यावृत्त्यादीनामसिद्धिरापादितैव भविष्यतीति । असर्वत्वाभावमेवापादयितुमाह-यदि हि घटोऽसर्वकार्यत्वाभिमतो मृत्पिण्डात् सत्त्वाभिमतादन्य इतीष्यते तद्वदेव-घदवदेव-कार्यवदेव दण्डादेरप्यसर्वत्वं विप्रकृष्टस्यापि, किमुत सन्निकृष्टस्य शिबकादेः, सर्वस्मादन्य5 त्वाद्धटवत् , तस्मादेकैकस्यासर्वत्ववत् सर्वस्याप्यसर्वत्वात् सर्वत्वाभाव इति सर्वत्वैकत्वभङ्गचतुष्टयाभावः, तदसमर्थविकल्पत्वमप्यत एव नास्ति । तथाऽनुवृत्त्याद्यभावश्च तत एव नास्ति यथैकस्य घटस्य मृद नुवृत्त्यभावस्तथा सर्वघटेषु शिबकादिष्वप्यभाव इति अनुवृत्त्यभावादनुवृत्तिव्यावृत्तिकृतविकल्पाभावश्च, एवं कारणोपादानबुद्धिसिद्धत्वसामान्यैः सप्रतिपक्षैर्विकल्पचतुष्टयासिद्धिस्तदसमर्थविकल्पासिद्धिश्चापादनीया । ततः कारणादन्यत् कार्यमित्येतन्न सिद्ध्यति । किश्चान्यत्-स्वोक्तविरोधादिवत्, स्ववचना10 भ्युपगमलोकव्यवहारप्रत्यक्षानुमानविरोधा आदिग्रहणात् प्रमाणग्रहणात्, विशेषस्वरूपविरोधौ च कण्ठतो वक्ष्यति । तत्र स्ववचनविरोधस्तावत्-यदि कार्य घटवत् क्रियते तत् कथमसत् खपुष्पवत् कार्यश्च ? मृदेव हि घटः क्रियते-घटतया व्यज्यते विद्यमान एव व्यक्तीभवति, स एव घटो दीपेनेव तथा च विशेषणविशेष्याप्रसिद्धिरपि कार्यमसदिति । 18 (तत्रेति) तत्र स्ववचनविरोधस्तावत्-यदि कार्य घटवत् क्रियते तत्कथमसत् खपुष्पवत् कार्यश्च ? खेन वचनेन स्वमेव वचनं विरुध्यते, अथासत् खपुष्पवत् कथं कार्य घटवदिति सैव स्ववचनविरोधभावना विपर्ययेण तयोरेव शब्दयोर्विरोधदर्शनार्था । यस्मान्मृदेव हि घटः क्रियते, हिशब्दो यस्मादर्थे । यस्मात् सर्पस्फटाटोपकुण्डलीभवनवन्मृद एव घटीभवनं तथा प्रकाशता व्यक्तिर्विमलता क्रियते करणं यथा पृष्ठं कुरु पादौ कुर्विति तद्दर्शयन्नाह-घटः क्रियते-घटतया व्यज्यते विद्यमान एव 90 व्यक्तीभवति, को दृष्टान्तः ? स एव घटो दीपेनेव, क्रियया व्यज्यते दण्डादिव्यापारणात्मिकया। तथा च विशेषणविशेष्याप्रसिद्धिरपि कार्यमसदिति व्याघातः प्रोक्तः, स्ववचनविरोधभावनात एव खपुष्पनिवृत्तघटयोरिव न कार्यमसता विशेष्यम् , नाप्यसत् कार्येणेति, न परस्परतो विशेषणं विशेप्यश्चेति विशेषणविशेष्याप्रसिद्धिः । नत्वादिहेतूनामसिद्धेने साम्यतेति भावः। घटादीनामसर्वत्वाङ्गीकारे कस्यापि सर्वत्वं न स्यात् , घटवत् सनिकृष्टस्य शिवकादेवि. 26 प्रकृष्टस्य दण्डादेरपि सर्वस्मादन्यत्वात् , तथा च सर्वत्वैकत्वाश्रयभङ्गचतुष्टयो न भवेदिति कथमसमर्थविकल्पत्वं कार्यस्येत्याह यदि हीति । दण्डादयोऽसर्वात्मकाः, सर्वात्मकादन्यत्वात् , घटवत्, एवमेव पटादावपि, तथा सर्वत्वाभिमतमप्यसर्व सर्वेभ्यो घटपटादिभ्योऽन्यत्वात् शिवकादिवदिति पृथगेकैकस्यासर्वत्वं प्रसाध्य सर्वात्मकस्यापि कारणस्यासर्वत्वं साधनीयमित्याह-तस्मादेकैकस्येति । एवं घटादीनामनुवृत्त्यात्मकमृत्पिण्डात् सत्त्वाभिमतादन्यत्वे तद्वदेव दण्डादीनां कपालादीनाञ्च विप्रकृष्टसन्निकृष्टानां सर्वेषामननुवृत्त्यात्मकत्वं, अनुवृत्त्यात्मकाद्भिन्नत्वात् घटवदित्येकैकस्याननुवृत्यात्मकत्वसिद्धौ कारणस्यापि तत्सिद्धेरनुवृत्त्यभावा30 दनुवृत्तिव्यावृत्त्याश्रितभचतुष्टयाभावेनासमर्थविकल्पत्वं न घटादेरित्याह-तथानवत्यादीति । यदि कार्य कृतिविषयो न तर्धसत् , असतः कृति विषयत्वानुपपत्तेरित्याशयेनाह-यदि कार्यमिति, कार्य क्रियतेऽसच्चेति खवचनेन खवचन विरुङ्यत इति भावः । कार्यस्य कृतिविषयत्वे घट इव सदेव स्यात् , ततश्चासत् कार्यमिति विरुद्धं, कार्यस्यासत्त्वे तत्कथं घट इव कृतिविषयोऽसत्त्वादित्युभयथापि विरोध इत्याह-अथासदिति । सर्वस्यैव स्फटाटोपकुण्डलीभवनवन्मृद एव घटीभवनं, नापूर्व सिविपति, विद्यमानस्यैव पृष्ठपादादीनां प्रकाशकरणवत् प्रकाशनमेव घटादीनामिति दर्शयति-मृदेव हीति । यथा पृष्ठ 2010_04 Page #255 -------------------------------------------------------------------------- ________________ २०५: खवचनादिविरोधा] न्यायागमानुसारिणीव्याख्यासमेतम् अस्मादेव कारणात् अत एवेतिकर्तव्यतैव कर्तव्यतेति प्रतिपादनार्थ न क्रियायां खेदः कर्त्तव्यो भवति, सामान्यादिवस्तुविचारखेदस्याव्यवस्थितपरमार्थत्वात्, क्रियाया एवोपदेशो न्याय्य इत्यस्याभ्युपगमस्योपरोधात् । अत एवेत्यादि यावत् न खेदः कर्तव्यो भवति, यत्त्वया व्याख्यानमनुष्ठितमितिकर्तव्यतैव । कर्तव्यतेति यत्नेन महता पूर्वोत्तरचोद्यपरिहारपक्षाव्यवच्छेदवता प्रतिपादनार्थ न क्रियायां-क्रियाव्याख्यानार्थः खेदः कर्तव्यः किं कारणं ? सामान्यादिवस्तुविचारखेदस्याव्यवस्थितपरमार्थत्वात् , क्रियाया एवोपदेशो न्याय्य इत्यस्याभ्युपगमस्योपरोधात्, एवं तावत् ज्ञानपूर्वकक्रियोपदेशपले स्ववचनविरोध उक्तः। _यस्मिन्नप्यग्निहोत्रं जुहुयादित्यादिक्रियोपदेशोपजीवनं नास्ति, अज्ञानप्रतिबद्धमेव सर्व-10 मित्येकान्तस्तस्मिन् अज्ञानप्रतिबद्धैकान्तेऽपि च ज्ञानप्रतिबद्धत्वे स्ववचनविरोधः, एतदेवमित्यवगमादभ्युपगमविरोधः, लोके ज्ञानव्यवहारात्तद्विरोधः, प्रमाणविरोधस्तु प्रस्तुत एव, धर्मविशेषविपर्ययसिद्धेविशेषविरोधः,धर्मस्वरूपस्य निराकरणाद्धर्मस्वरूपविरोध इति । (अज्ञानेति) अज्ञानप्रतिबद्धैकान्तेऽपि च ज्ञानप्रतिबद्धत्वे स्ववचनस्य विरोधः, असत्कार्य- 15 मिति ज्ञात्वोक्तं चेन्न तर्हि सर्वमज्ञानप्रतिबद्धमेव, एतज्ज्ञानप्रसिद्धत्वात् , अथाज्ञात्वा कथं प्रतिपादकं साधकञ्चेति स्ववचनविरोधः, त्वयाप्येतदेवमिति निश्चित्याभ्युपगम्योक्तत्वादज्ञानप्रतिबद्धाभ्युपगमस्य च तेन विरोधादेतदेवमित्यवगमादभ्युपगमविरोधः कृतः, लोके ज्ञानव्यवहारात्तद्विरोधः, ज्ञानपूर्वको हि लोकव्यवहारः, ततस्तस्याज्ञानप्रतिबन्धाभ्युपगमाप्रतीतेर्लोकरूढिविरोधः, प्रमाणविरोधस्तु प्रस्तुत एवेति, प्रत्यक्षविरोधस्तावत्तथालोके दृष्टत्वात् , क्रिययाऽभिव्यज्यमानस्य घटादेः कार्यस्य दीपेनेव सत 20 उपलब्धेरनुमानविरोधः, ज्ञापकत्वाद्विशेषविरोध इति, अस्यासत्कार्यमिति ज्ञापकवाक्यस्य ज्ञापकत्वविशेषेष्टेः, प्रत्यक्षववचनादिविरोघेषु धर्मविशेषविपर्ययसिद्धेविशेषविरोधः तेष्वेवाप्रयोगप्रसङ्गात् , मिति । करोतिरभूतप्रादुर्भाचे दृष्टः निर्मलीकरणे चापि वर्तते पृष्ठं कुरु, पादौ कुरु उन्मृदानेति गम्यते, निक्षेपणे चापि वर्तते कटे कुरु घटे कुरु, अश्मानमितः कुरु, स्थापयेति गम्यते इति (व्याक० महाभाष्ये १-३-१ सूत्रे), एवमसत् कार्यमिति परस्परतो विशेषणविशेष्याप्रसिद्धेरितिकर्तव्यतैव कर्तव्यतेति प्रतिपादनप्रयासो वृथैव, क्रियोपदेशमात्रस्यैव न्याय्यत्वोपगमेन 25 सामान्यविशेषसत्त्वादिविचारस्य खेदमात्रतेव, इदमित्थमिति परमार्थतो निर्णयोपायाभावादित्याह-अत एवेति । यदि तत्प्रतिपादनार्थ यमः क्रियते तर्हि क्रियाया एवोपदेशो न्याय्य इत्यभ्युपगम उपरुलेतेत्याह-क्रियाया एवेति । अज्ञानप्रतिबद्धं सर्वमिति पक्षेऽपि ववचनविरोध दर्शयितुमाह-अज्ञानप्रतिबद्धति । खवचनविरोधं संघटयति-असत् कार्यमितीति । अज्ञानप्रतिबद्धं सर्वमित्यभ्युपगच्छतापि त्वया न तूष्णीम्भावेन स्थीयते एतदेवमित्यवबुद्धयैव चोच्यत इत्यभ्युपगमविरोध इत्याह-स्वयाप्येतदेवमितीति । ज्ञानपूर्वो व्यवहारो लोके दृष्टः, तेन चाज्ञानप्रतिबद्धं सर्वमित्यनवगमाल्लोकव्यवहारविरोध 80 इत्याह-लोक इति । असत्कार्य मिति वाक्यस्य कार्यासत्त्वज्ञापकतयोक्तत्वात् विशेषविरोध इत्याह-झापकत्वादिति । प्रोक्तखवचनादिविरोधेषु त्वदभिमतधर्मविपरीतधर्मस्यैव सिद्धेर्विशेषविरोध इत्याह-प्रत्यक्षववचनादीति । स्ववचनविरोभादिषु विशेषणविशेष्याप्रसिखादिभ्यः कार्यमसदिति प्रयोगासम्भवेन प्रतिपादनेच्छाविषयस्य धर्मखरूपस्य निराकरणाद्धर्मखक 2010_04 Page #256 -------------------------------------------------------------------------- ________________ द्वादशारनयचक्रम् [विधिविध्यरे धर्मस्वरूपस्य प्रतिपिपादयिषितस्य निराकरणाद्धर्मस्वरूपविरोधः, एवं धर्मिस्वरूपविरोधस्तदुभयविरोधश्च यथायोगमापाद्य इत्यलमतिप्रसङ्गिन्या कथया । तस्मादयुक्तोऽसत्कार्यवादोऽग्निहोत्रं जुहुयात , इतिकर्त्तव्यतैव कर्तव्यता कुर्यादिति चाभ्युपगतः परेणेति । अतः पूर्वोदितदोषासम्बन्धेनेदं प्रतिपत्तव्यमात्मैव सामान्यमिति, ननु पूर्व दूषितमेवै. ६ तन्मतमात्मैव सामान्यमिति, न आत्मशब्दस्य पुरुषपर्यायत्वात् सामान्यं पुरि शयनात् पुरुषः, विशेषास्तु तस्यैवावस्थावतोऽवस्थाः जाग्रत्सुप्तसुषुप्ततुरीयाख्याः, घटग्रीवादिरूपादिनवादिभेदाभेदसमवस्थावत् , एवं च सर्वसर्वात्मकत्वसत्कार्यत्वमूलरहस्यानतिक्रमेण कल्पितमिति गुणश्चात्र विद्यते । अत इत्यादि, अत:-एतेभ्यो दोषेभ्यो निःसृत्य किं प्रतिपत्तव्यं ? उच्यते-अतः पूर्वोदित10 दोषासम्बन्धेन-ये पूर्वमुदिता विधिवादिना सामान्यैकान्तवादे विशेषैकान्तवादे सामान्यविशेषनानात्ववादे दोषाः मयाऽपि च ये दोषा उक्ताः सामान्यादिविचारप्रत्याख्यायिनः क्रियोपदेशवादिनोऽज्ञानवादिनश्च तेषामुभयेषामपि दोषाणामसम्बन्धेनेदं प्रतिपत्तव्यमात्मैव सामान्यमिति, ननु पूर्व दूषितमेवैतन्मतमात्मैव सामान्यमिति, सुखं सुखश्च सुखादिसमुदायश्चेत्यादिपूर्वोत्तरपक्षप्रपञ्चेनेति, अत्रो. च्यते-न, आत्मशब्दस्य पुरुषपर्यायत्वात् , अवयवानभ्युपगमात् समुदायवादपरिहारेणास्य पुरुष16 सामान्यस्यावस्थावतोऽवस्थाभ्योऽनन्यस्य तत्स्वरूपावस्थानात्तद्वैधात् , आत्मेति न वस्तुस्वरूपपर्यायवाचिनोऽत्र ग्रहणम्, किं तर्हि ? अतति सततं गच्छति तांस्तानवस्थाविशेषान् स्वरूपापरित्यागेनेत्यात्मा, स एव सामान्यं चैतन्यलक्षणम्, एवं तर्हि विशेषाभावे कस्य सामान्यमिति सामान्याभावप्रसङ्गः स मा भूदिति विशेषा वक्तव्याः, उच्यते-सामान्यं पुरि शयनात् पुरुषः, विशेषास्तु तस्यैवावस्थावतोऽवस्थाः जाग्रत्सुप्रसुषुप्ततुरीयाख्याः, तासां स्वावस्थानां पुरुषः सामान्यमिति, किं निदर्शनमिति चेत् ? 20 घटप्रीवादिरूपादिनवादिभेदाभेदसमवस्थावत् , यथा घटस्य स्थूला ग्रीवा, बुघ्नं मध्यावस्था, सूक्ष्माश्च रूपादयो देशभेदभिन्नाः, कालभेदभिन्नाश्च नवपुराणावस्थाः, तेषामेवावस्थाभेदानामभेदेन समवस्था घटे इति, तद्वदात्मैव खावस्थानां सामान्यम् , एवञ्च कल्प्यमानं सर्वसर्वात्मकत्वसत्कार्यत्वमूलरहस्यानतिक्रमेण कल्पितमिति गुणश्चात्र विद्यते-एवं हि सर्वसर्वात्मकं सच्च कार्यमिति मूलरहस्यमेत नातिक्रान्तं भवति पुरुषात्मकत्वात् सर्वस्य तद्विकारमात्रत्वाच भेदानां तत्रैवान्तर्लयाविर्भावात्सर्वकार्या25 णाम् , कृकलासवर्णविशेषाणामिव कृकलासे । पविरोध इत्याह-तेष्वेवेति । क्रियावादमुपसंहरति-तस्मादिति । विधिविध्येकदेशं पुरुषवादमुत्थापयितुकाम आह-अत इत्यादि । विधिवादिना-क्रियावादिना,मयापि-विधिविध्येकदेशिना पुरुषवादिना,उभयेषामपि-सामान्यादित्रादेषूक्तानां क्रियोपदेशवादादिषूक्तानाञ्च । ननु आत्मैव सामान्यमिति पक्षः सामान्यस्य स्वपरविषयताविचारावसरे दूषित एव तत्किमर्थ पुनरुत्थाप्यत इत्याशङ्कते-नन्विति । आत्मशब्दस्येति, पूर्व ह्यात्मशब्द. खरूपमात्रवाचकत्वेनोक्तः, अतस्तत्र समुदाय30 वादः प्रसक्तः, अत्र त्वात्मशब्दः पुरुषवचनोऽयञ्च पुरुषो जाग्रदाद्यवस्थावान् , अवस्थातद्वतोरभेदश्चति पूर्ववादापेक्षया वैल क्षण्यमिति भावः । इममेव भावमात्मशब्दव्युत्पादनेन प्रदर्शयति-अततीति, खस्वरूपापरित्यागेन तासु ताखवस्थाखभेदेनानुगमनखभावश्चेतनालक्षण आत्मेत्यर्थः । निर्विशेषस्य सामान्यस्याभावात्तस्य केचन विशेषा वक्तव्या इत्याशयेनाह-एवं सीति । जाप्रदिति, जानदवस्था नाम इन्द्रियद्वारा बुद्धर्विषयाकारः परिणामः, खप्नावस्था संस्कारमात्रजन्यस्तादृशः 2010_04 Page #257 -------------------------------------------------------------------------- ________________ भावशब्दार्थः ] न्यायागमानुसारिणीव्याख्यासमेतम् २०७ अविचारोsपि चानेनैव तत्त्वेनैक्यमाश्रित्य न्याय्यो नाज्ञानप्रतिबन्धात्, इह तु ज्ञानात्मकपुरुषस्वरूपैक्यापत्तिसन्निश्चये निश्चितमेवैतत् किं विचारेण गतार्थत्वादिति । अविचारोsपि चेत्यादि, यदपि चानर्थको विवेकयत्नः शास्त्रेष्वित्यविचारितमिष्यते सोऽप्यनेनैव युक्तिमार्गेण तत्वेनैक्यमाश्रित्य न्याय्यः - तस्य भावस्तत्त्वं आत्मनो भावेनैक्यमाश्रित्य न्यायादनपेतो न्याय्यो नाज्ञानप्रतिबन्धात् । यद्यज्ञानप्रतिबन्धादविचारः ततः स्वयमविज्ञाते प्रमाणप्रमेयभावाभा- 5 वादयुक्तमित्युक्तम्, इह तु ज्ञानात्मक पुरुषस्वरूपैक्यापत्तिसन्निश्चये निश्चितमेवैतत् किं विचारेण ? गतार्थत्वात्, न तु ज्ञातुमशक्यत्वादिति । अयं तस्य प्रवृत्तिपर्यायस्य विधेर्विधिः विधिविधिः स्थितिराचारः प्रवृत्तिर्मर्यादेति, यः पुनर्विधिः प्राक्तनः स न युज्यते, विधिना हि भवतीति भावः कर्त्ता सामान्यमिति सर्वतन्त्रसिद्धान्तेन व्यवस्थितेऽर्थे भेदाभेदनानाभावेषु दोषान्न भावो भवितुरभाव इति भवतीति भावो 10 घटादिरिति समर्थितः, विविच्यते च सादृश्यासादृश्याभ्याम्, सा पुनरविविक्तैव, को ह वैतद्वेद ? किं वाऽनेन ज्ञातेन ? इति वचनात्, अयं तस्य प्रवृत्तिपर्यायस्य विधेर्विधिर्विधिविधिः स्थितिराचारः प्रवृत्तिर्मर्यादेति, तस्य - विधिनस्यायमेव विधिराचारः स्थितिरित्यादि, एवं प्रवृत्तिरित्यर्थः, या चैतन्यात्मस्वरूपा प्रवृत्तिः सा विधेर्विधिरित्येतमर्थं व्याचष्टे यः पुनर्विधिः प्राक्तनः स न युज्यते यस्माद्विधिनेत्यादि, भवतीति भावः भूप्र- 15 कृतिः कर्त्रर्था ‘प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रून' (महा० ३-१-४) इति वचनात् । भावे घञो विहितत्वाद्भूयत इति भावः, न भवतीति कर्त्रर्थ इति चेत्तत्रापि येन भूयते समानेन समानो भवतीति भावः, णप्रकरणे 'भुवोपसंख्यानम् ' ( काशिका) इति वा कर्त्ता सामान्यमित्येवं व्यवस्थितेऽर्थे सर्वतन्त्रसिद्धान्तेन - व्याकरणेन तत्र विशेषमात्रवादे देशकालभेदे परस्पर विविक्तद्रव्य देशकालभावभिन्ने भवनेऽभेदे च द्रव्यादितया भवनमात्रे सामान्य वादे नानाभावे सामान्य विशेषयोः, भेदाभेदनानाभावाः, तेषु यथासंख्यं बौद्धसांख्य- 20 वैशेषिकमतेषु दोषान्न भावः, भवितुरभावः- तत्प्रकृत्यर्थकर्तुरभावात् इतिशब्दस्य हेत्वर्थत्वात् पञ्चमीमप्रयुज्य भवितुरभावइत्युक्तम्, प्रागुक्तन्यायेन भवितुरभावात् भवतीति भावो घटादिरिति व्याकरणहष्टेन निरुत्त्यर्थेन समर्थितो विधिना, विविच्यते च सादृश्यासादृश्याभ्याम्, समानो भवतीति पृथक् परिणामः, सुषुप्त्यवस्था द्विविधा, अर्धसमग्रलयभेदात्, अर्धलये न विषयाकारा वृत्तिर्भवति, किन्तु स्वगतसुखदुःखमोहाकारैव बुद्धिवृत्तिः । समग्रलये तु बुद्धेर्वृत्तिसामान्याभावो मरणादाविव भवतीतीमा अवस्थाः संसारिणाम्, तुरीयावस्था तु मुक्तस्यति । 25 पूर्वोदितविधिनयस्य चतन्यात्म स्वरूपताभ्युपगम एव युक्तत्वौचित्यमित्याह-अयं तस्येति । ननु भाव इति कथं कर्त्रर्थः, भावघञन्तेन भावशब्दसिद्धेर्न तु कर्त्रर्थप्रत्ययेनेत्याशङ्कते - भावे घञ इति । विशि हेतुभिः स्वतो वा जीवादीनां तत्तद्रूपेण भवनमेव भावः सर्वसमानं भवनमिति भावघान्तेनापि व्युत्पत्तिः स्यादेव, अथवा कर्तरि णप्रत्ययेनापि भावशब्दः सिद्ध्यतीत्याह-तत्रापीति । काशिकानामव्याकरणग्रन्थविशेषे भवतेश्वति ण प्रत्ययो विहितस्तेन कर्त्तरि भावपदनिष्पत्तिः, महाभाष्यम ते तु प्राप्त्यर्थाच्चुरादिण्यन्तादच्प्रत्यये भाव इति सिद्ध्यति । ननु विधिनयेन मेदवादेऽमेदवादे नानात्ववादे च भावशब्दार्थो न घटत 30 इति तत्तद्वाद प्रसक्कदोषव्यपेतं सर्वथाऽन्तरङ्गं घटादि वस्तु प्रतिपत्तव्यं न तु बहिरङ्गं सत्वादि तस्यापेक्षित पूर्वापर प्रमेदत्वात्, घटात्मभवनस्य चान्तरङ्गत्वात् प्रधानत्वादनपेक्षत्वात् पूर्वं वर्तमानत्वाच्च तदेव वस्तु, तच्चानुवृत्तिं व्यावृत्तिं वा नापेक्षते स्वसामर्थ्येनैव सिद्धत्वादिति व्यवस्थापितमित्याह विधिनेति । विविच्यते वेति, साहयमनुवृतिः असारइयं व्यावृत्तिः ताभ्यां भवनं 2010_04 Page #258 -------------------------------------------------------------------------- ________________ ૨૦૮ द्वादशारनयचक्रम् [विधिविध्यरे प्रतिज्ञायते, तेषु विकल्पेषु दोषाणामभिहितत्वात् , निर्दोषभवनोक्तेश्च विविच्यते विधिना । किमेवं विविच्यत एव ? नेत्युच्यते सेति प्रतिज्ञा, सा पुनरविविक्तैव कृता 'को ह वैतद्वेद ? किं वाऽनेन ज्ञातेन, इति वचनात् । स एष विधिन भवति, अविविच्यमानार्थविधानात्, स्ववचनविरोधात्, अंशेन विवे5 काच्च, विविच्यमानांशोऽपि च तद्वद्विविच्यते, न स विविच्यते तथा न भवत्येव विधित्वं विधेः, किं न एतेन यदि कारणमित्याद्यविचार्य लोकवद्विधानात् । (स एष इति) तथाविधे विधित्वं न भवति, अविविच्यमानार्थविधानात् स्ववचनविरोधात् अंशेन विवेकाच्च, यत्राप्यंशेन विवेकस्तत्र विविच्यमानांशेऽपि च यथा भावना विधिनयवादिनाऽभिहिता तद्वद्विविच्यते, न स विविच्यते, अत्रापि परमतदूषणात् स्वमतसाधनाश्च घटादिर्भावो विविच्यते, 10 न स विविच्यते, तथा न भवत्येव विधित्वं विधेः, न विधिर्विहित एवमित्यभिप्रायः, कथं पुनर्विधीयत इति चेत् ? लोकवत् , लोक इव लोकवत् , लोकवादिति विधानात , यदि लोकवदेव विधीयते विधिरुत्सर्ग एव न भवति, कथं न भवति ? किं न एतेन यदि कारणं यदि कार्य ततः को दोषः प्रतिज्ञापि तदर्थद्वारिका न कार्येत्याद्यविचार्य विधानान्न भवति । किं तर्हि ?15 यदुत्सृष्टतया विधिः सिद्ध्यति लोके यथा तत्तथाऽन्यथा च भवति तथा वक्तव्यमिति विधिर्विधिर्भवत्यविवक्षितव्यावृत्तिरनङ्गीकृतभेदः । (यदिति) यदुत्सृष्टतया सर्वात्मकत्वेन विधिरुत्सर्गः सिद्ध्यति, तद्यथा-लोके यथा तत्तथाऽन्यथेत्यादि, अथवा यथा लोके दृष्टस्तथा विधिर्विधिर्भवति, कथं पुनर्लोके विधिर्भवति ? उच्यते-इति विधिरित्यादि, इति-इत्थमनन्तरं वक्ष्यमाणो विधिर्विधिर्भवति लोके यथा तत्तथान्यथेत्यादि, मृत्पिण्ड20 शिबकादिप्रकारेण तथाऽन्यथा च भवति यथा तथा वक्तव्यं-तश्चातच ययोपपत्त्या भवति तथा वक्तव्यमेष विधिर्विधिः, एवं सोऽविवक्षितव्यावृत्तिरनङ्गीकृतभेदस्तिरस्कृतविशेषो निर्व्यावृत्तिरेव विधिर्विहितो भवति । उत्सृष्ट इति पर्यायशब्देनोत्सर्गो विधिरिति सर्वत्रास्य विधिलक्षणस्य दर्शयति । विविच्यते पृथक् क्रियत इत्यर्थः । तयोर्भवनार्थत्वं न घटते तत्र दोषाणामुक्तत्वात् , अत्र च घटात्मभवने न कोऽपि दोष इति भावः । स च विवेको न विवेक एवेति विधिविधिनय आह-किमेवमिति। हेतुमाह-कोह वेति, अशक्यप्रायफलस्व25 योरुक्तरित्यर्थः, अत एव चैष विधिर्विधिरेव न भवति, अविविच्यमानस्यार्थस्य विधानात्, को ह वेतद्वेदेत्यनेनार्थस्य विवेच नायोग्यत्वोक्तेः, तथापि कृते विवेचने तेनैव पचनेन विरोधः प्रसज्येत । तथापि यदि विवेकः क्रियते सोऽप्यंशेनैव, विधिमतवादिविहितविचारानुसारेणैव विवेचनात्. तच्च विवेचनम विवेचनमेवेत्याशयेनाह-स एष विधिरित्यादिना। अविवेचनत्वे हेतुमाह-अत्रापीति । परमतप्रतिषेधात् खमतसाधनाच नायं विधिः सदसद्रूपत्वात् , सदसदंशात्मनो वस्तुनो योऽयं सदंशो भावरूपस्तस्यैव विधित्वेने भावरूपस्तस्यैव विधित्वेनोत्सर्गतो लोके प्रसिद्धरिति भावः । त्वया तु लोकवद्विधीयत इत्युच्यते परन्तु 30 तवायं विधिरुत्सर्गतो विधिरेव न भवति, किं न एतेन, यदि कारणं कार्यमपि भवेत् को दोषः, उभयथापि दर्शनात् , अत एव च कारणं कारणमेव न कार्यमित्यादिप्रति ज्ञापि न कार्येत्येवमविचार्य विधानादित्याह-लोकवदिति । कथं तहि विधिर्भवतीति विधिनयेन पृष्टो विधिविधिनयः प्राह-यत्पृष्टतयेति । सर्वात्मकतया भवनमेवोत्सर्गतो विधिरिति लोक 2010_04 Page #259 -------------------------------------------------------------------------- ________________ 16 शशेषत्वम् ] न्यायागमानुसारिणीव्याख्यासमैतम् २०९ अथ पुरुषवादः कोऽसौ निदर्यतामिति चेत् ? उच्यते तद्यथा पुरुषो हि ज्ञाता ज्ञानमयस्तन्मयञ्चेदं सर्व जगत्, तदेकत्वात्, स एव भवतीति भावः, सामान्यम् , को भवति ? यः कर्ता, कः कतो ? यः स्वतंत्रः, कः स्वतंत्रः? यो ज्ञः, काष्ठादिविप्रकीर्णपचननिवर्त्तनवत् । पुरुषो हीत्यादि, उक्तनिरुक्तः पुरुषशब्दः, हिशब्दो यस्मादर्थे, यस्मादसौ ज्ञाता ज्ञानशीलो सानधर्मा साधुज्ञायी वा पुरुष एव, ज्ञातृत्वञ्च ज्ञानमयत्वात् , ज्ञानावयवो ज्ञानविकारो वा ज्ञानमयः सा, उपयोगलक्षणत्वात् , ततः किमिति चेत् ? तन्मयश्चेदं सर्व-देवमनुजतिर्यङ्नारकपृथिव्यादिघटादिभेदभिन्नं जगत् , तदेकत्वात्-तस्य पुरुषस्यैकत्वात् , वस्तुत्वात्तदेकत्ववत् सबैकत्वं सर्वैकत्वाच्चैकं स च जगच सर्व भवतीति भावा, ननु घटपटादि भेदेन भवति ज्ञानमयपुरुषात्मकत्वात् , येन 10 भूयते स एव भवतीति भावः, स आत्मैव सामान्यं समानो भवतीति । तन्निर्णयार्थं प्रभोत्तरक्रमेण प्रन्थः को भवतीत्यादिः गतार्थो यावत् कः स्वतंत्रो यो ज्ञ इति, अज्ञस्यास्वातंत्र्यादेव कर्तृत्वाभावात् । काष्टादिविप्रकीर्णपचननिर्वर्तनवत् , यथा काष्ठैः स्थाल्यामोदनं देवदत्तः पचतीत्यत्र देवदत्त एव पचनस्य निर्वतको ज्ञातृत्वान्न काष्ठादीति तथा पुरुष एव भवतीति भावः । इतर आह ननु क्षीररसादि दध्यादेः कर्तृ, न च तत्क्षीरं रसो वा ज्ञ इति, न, तत्प्रवृत्तिशेषत्वात्, गोप्रवृत्तिशेषक्षीरदधित्ववत्, ज्ञशेषत्वाद्वा चक्रभ्रान्तिवत् । (नन्विति) ननु क्षीररसादि दध्यादेः कर्तृ, क्षीराइधि भवत्यज्ञाश्च कर्तृणो रसागुडः, न च तत क्षीरं रसो वा ज्ञ इति ज्ञकर्तृत्वमनैकान्तिकमित्येतच्च न, तत्प्रवृत्तिशेषत्वात् , तस्यैव ज्ञस्य प्रवर्त्तमानस्य प्रवृत्तेरपरिसमाप्तायाः शेषत्वात् , कालक्रमभेदकृतस्तु विशेषो न निवार्यते, यथोक्तम्-'शर्करासम-20 वीर्यस्तु दन्तनिष्पीडितो रसः। दन्तनिष्पीडितः श्रेष्ठो यांत्रिकस्तु विदाहकृत् ॥' इति, गोप्रवृत्तिशेषक्षीरदधित्ववत् , यथा गोर्धेनोः प्रवृत्तेरपरिसमाप्तायाः क्षीरदधिनवनीतघृतनिष्यन्दनविशेषस्तथा पुरुषप्रवृत्तिशेष एव जगदिति । ज्ञशेषत्वाद्वा चक्रभ्रान्तिवत्, का वा सा प्रवृत्तिः प्रवर्तमानपुरुषसिद्धमिति भावः । उक्तनिरुक्त इति, पू:शरीरं तत्र शयनाभिवसनात् पुरुषः, अथवा सर्वेषामपि वर्गमर्त्यपातालगतानां स्वर्गविमानवनशयनाऽऽसनयानवाहनदेहविभवादिभावानां भावेषु वा पूरणपालनभावात् पुरुष इति निरुक्तिः। 25 तस्मयश्चद समिति,कायोणां कारणात्मकत्वात् सद्रूपस्य कारणस्य सर्वत्रानुगमात् सद्रूपेणामेदः कायेस्य जगतः कारण जगतो ज्ञ एव, अज्ञस्य कृत्यसम्भवेन कर्तृत्वासम्भवात् , सोऽपि च कर्ता खतंत्र एवेत्याह-तनिर्णयार्थमिति, .. ज्ञानमय एव भवतीति निर्णयार्थमित्यर्थः, काष्ठैः स्थाल्यामोदनं देवदत्तः पचतीत्यादौ सर्वेषु साधनेषु सन्निहितेषु कतैव प्रधानस्वात् प्रवर्त्तयिता भवति, तदधीनप्रवृत्तित्वानिखिलकारकाणाम् , कर्तुश्चान्येभ्यः कारकेभ्यः प्राक् शक्तिलाभात्, आस्ते शेते इत्यादौ च केवलस्य कर्तुरेव दर्शनात् कर्तृरहितानां करणादीनामदर्शनाच्च कतैव स्वतंत्रः क्रियानिर्वर्तन इत्याह-काष्ठा- 30 दीति । नमु क्षीराद्यचेतनं खभावेनैव दध्यादौ कत्तृत्वेन प्रवर्तते, तस्मात् शस्यैव कतत्वमित्यनियम इत्य क्षीरेति, दध्यादावपि तस्यैव कर्तृत्वं चेतनात्मकधेनुप्रवृत्तेरपरिसमाप्तत्वाभ्युपगमात् , भ्रमिसाधनदण्डनिवृत्तावपि तज्जन्यभ्रमः आघटोत्पादं दर्शनादित्याशयेनोत्तरयति-तत्प्रवृत्तिशेषत्वादिति । ननु दध्यादि ज्ञकर्तृक गोप्रवृत्तिशेषत्वादित्यनुमानेन दध्यादौ ज्ञकर्तृत्वं प्रसाध्य जगतः पुरुषप्रवृत्तिशेषत्वमुक्तं तत्र प्रवृत्तिरपि पुरुषव्यतिरिकाया अभावानशेषत्वमेव हेतुरित्याह द्वा० न०२७ 2010_04 Page #260 -------------------------------------------------------------------------- ________________ २१० - द्वादशारनयचक्रम् [विधिविध्यरे व्यतिरिक्ता ? सर्वस्य ज्ञशेषत्वात् , दृष्टान्तः चक्रभ्रान्तिः, यथा कुलालप्रयत्नभ्रमितस्य चक्रस्य भ्रान्तौ कुलालप्रवृत्तिशेषत्वं ज्ञशेषत्वमेवं दध्यादेरपि ज्ञशेषत्वं गोर्जस्य शेषत्वं दध्नः, गोभुक्ततृणाद्याहारस्य रसरुधिरादिपरिणतस्य ज्ञमन्तरेण क्षीरदध्यादिभावो नास्ति । ननु चक्रभ्रान्तावपि को भवितेति प्रत्यपेक्षायां घटभवनव्यवहारे मृद्वदिहापि मूलभवितृ द्रव्यमपेक्ष्यम् , परतः परतोऽपि येन भूयते यद्भवति तदेव मौलम् , तस्माद्धटभवनमृद्धत् कुलालशेषभ्रान्तिवच्च ज्ञशेषं सर्वम् , इतरथाऽसौ नैव स्याद्भवितुरभावाद्वन्ध्यापुत्रवत् । (नन्विति) नन्वित्यनुज्ञापने, प्रत्यपेक्षायां-जिज्ञासायां मूलभवित्रवश्यापेक्ष्ये घटभवनव्यवहारे मृद्वत् , यथा पिण्डशिवकाद्यवस्थाक्रमेण धटभवनव्यवहारे मृदेवाद्या भवित्री तथेहापि-चक्रभ्रान्तौ भवनव्यवहारत्वान्मूलभवित द्रव्यमपेक्ष्यम् , परतःपरतोऽपि येन भूयते यद्भवति तदेव मौलं-कारणं 10 तदेवेत्यर्थस्तस्माद्बटभवनमृद्वद् भ्रान्तिभवने कुलालाद्यपेक्ष्य कुलालशेषभ्रान्तिवञ्च ज्ञशेषं सर्वम् , इतरथाऽसौ नैव स्याद्भवितुरभावाद्वन्ध्यापुत्रवदमूलत्वादित्यर्थः । स्यान्मतम् अचेतनानामप्यभ्रादीनां चेष्टादर्शनाज्ज्ञप्रयोगमन्तरेण प्रवृत्तिर्दण्डादीनामित्येतच्चायु। कम्, ज्ञस्यैव सुप्तावस्थत्वात् , न च चक्रदण्डादि सुप्तावस्था करणनिरीहत्वात्स्वत एव 16 भवति, दधीव पयसः । एतेन दध्याद्यपि ज्ञभवनमाख्यातमेव, ज्ञशेषसुप्तावस्थात्वात् । (अचेतनानामपीति ) करणनिरीहत्वादिति न च चक्रदण्डादि स्वत एव भवति करणनिरीहत्वात्-करणत्वान्निरीहत्वं निरीहत्वान्न खत एव-ज्ञातुर्यनमन्तरेण तद्यत्नशेषं वाऽन्तरेण तस्यैव सुप्तावस्था दण्डचक्रनिस्यन्दभूता निश्चेतनीभूता भवितुमर्हति, तस्मात् सापि सुप्तावस्था ज्ञस्य चैतनस्यैव .. वृत्तिर्भवितुमर्हति, दधीव पयसः, यथा दधि पयसोऽवस्था तथा दण्डचक्रादि ज्ञस्यैव कुलालस्य । 20 तस्यापि दध्यादेः कुलालयत्नशेषचक्रदण्डादिवत् ज्ञयत्नं ज्ञयत्नशेषं वाऽन्तरेण प्रवृत्त्यभावात् ज्ञवृत्तिमात्रत्वमेवेत्यर्थः। एतस्यार्थस्य भावनार्थं दृष्टान्तमाहयथैव हि रूपरसगन्धस्पर्शशब्दा अमूर्त्तत्वेन सूक्ष्मां वृत्तिमत्यजन्त एव स्वप्रवृत्तिप्र का वा सेति । यथा भ्रमेः परम्परया ज्ञ एव कारणं यथा वा घटादिभवनस्य परम्परया कारणं मृदेव भवित्री तथा सर्वस्य 25 जगतो मूलकारणं ज्ञ एव, तत्रैव येन भूयते यद्भवतीत्यस्य सङ्गतेरित्याह-नन्वित्यादिना । अथ चेतनानधिष्ठितस्याप्यचेतनस्थाभ्रादेश्चेष्टादर्शनात् ज्ञप्रवृत्तिमन्तरेणैव दण्डादीनां भ्रम्यादी प्रवृत्तिरित्याशङ्कते-अचेतनानामपीति । समाधत्ते-ज्ञस्यै वेति अचेतनभूतानि पुरुषस्य स्वप्नावस्थारूपाणि, तत्र जाग्रदवस्थावत् प्रवृत्त्यभावेऽपि स्तोकं प्रवृत्तिरस्त्येवेति सा ज्ञप्रवृत्तिरेव स्य दण्डादेः प्रवृत्तिः स्वतो भवितमर्हति दण्डादीनां करणत्वेन प्रवृत्तिविरहात. प्रवृत्तः कर्तधर्मत्वादिति भावः । अचेतनानां पुरुषस्यावस्थाखरूपत्वे दृष्टान्तमाह-दधीव पयस इति. तस्यैव सुप्तावस्थति, दण्डादयोऽचेतना ज्ञस्य 30 सुप्तावस्था उच्यन्ते न तु दण्डादयो ज्ञप्रयत्नं ज्ञप्रयत्नशेष वाऽन्तरेण निश्चेतनीभूता भवितुमर्हन्ति, तस्मात् सा सुप्तावस्था चैतनस्यैव वृत्तिरिति भावः प्रतिभाति । भवितुमर्हतीति, न चेति पूर्वं पदमत्र सम्बङ्ख्यते, शशेषत्वमेव सर्वमिति भावनायाह-यथैव हीति, रूपादयोऽमूर्ताः सूक्ष्मा एव मूर्ताः स्थूला भवन्तीत्यभिप्रायः, नहि तेषां मूर्तत्वं 2010_04 Page #261 -------------------------------------------------------------------------- ________________ पुरुषसिद्धिः] न्यायागमानुसारिणीव्याख्यासमेतम् २११ भावावबद्धमूर्तत्वप्रक्रमानध्यास्य ततो नानाप्रभेदपृथिव्यादिभेदस्थूलरूपा जायन्ते रूपादय एव, न हि ते रूपादयः प्रतिनियतचक्षुरादिविज्ञानप्रभावितस्वरूपा मूर्त्ताः सूक्ष्मा वा। .. यथैव हीत्यादि, यथैव हि रूपरसगन्धस्पर्शशब्दा अमूर्त्तत्वेन सूक्ष्मां वृत्तिमत्यजन्त एवेत्यादि सूक्ष्मपूर्वकत्वास्थूलस्य सूक्ष्मतां निरूप्य स्थूलत्वं निरूपयति, न हि ते रूपादयः प्रतिनियतचक्षुरादि विज्ञानप्रभावितस्वरूपा मूर्ताः स्थूला इति वा केनचिदिष्टास्तस्मादमूर्ताः, तद्भावोऽमूर्त्तत्वं तेनामूर्तत्वेन 5. वृत्तिः सैव वा सूक्ष्मा तामत्यजन्तोऽजहत एव स्वप्रवृत्तिप्तभावावबद्धमूर्त्तत्वप्रक्रमान्-स्वया प्रवृत्त्या प्रभावेन चावबद्धो मूर्तत्वेन प्रक्रमो येषां ते स्वप्रवृत्तिप्रभावावबद्धमूर्तप्रक्रमाः परमाणवः, रूपादीनामात्मीयया प्रकृत्याऽवबद्धो मूर्त्तत्वेन प्रक्रमः परमाणूनां सप्रभेदानाम् , तान् परमाणूनध्यास्येति सृष्टेः क्रमं दर्शयति दृष्टान्तरूपेण ततः-उत्तरकालं नानाप्रभेदपृथिव्यादिभेदस्थूलरूपा जायन्ते रूपादय एव । पृथिव्या अश्मलोष्ठसिकतावादयः प्रभेदाः, हिमकरकादयोऽपाम् , ज्वालाङ्गारमुर्मुरादयस्तेजसः, 10 उत्कलिकामण्डलगुञ्जाझञ्झादयो वातस्य वृक्षगुल्मवल्लीलतावितानवीरुधो वनस्पतेः, कृमिपिपीलिकाभ्रमरादिमनुष्यदेवनारका जङ्गमानामेतत् प्रवृत्तेर्निदर्शनम् । प्रभावो ह्यचिन्त्यः प्रभावस्याचिन्त्यत्वादमूर्त्तर्मूर्तसम्भवः रसवीर्यविपाकप्रभावाञ्च वस्तुनः प्रवर्त्तमानस्य विपरिणामाः तत्र निदर्शनम् 'चित्रकः कटुकः पाके वीर्योष्णः कटुको रसें । तद्वदन्ती प्रभावात्तु विरेचयति सा नरम् ॥ इति, यथैते सूक्ष्मा मूर्तरूपादिपूर्वकाः स्थूलत्वात् , तन्तुपूर्वपटवत् , एवं ततोऽपि परं 15 परतोऽप्यपरं वरिष्ठं कारणं रूपादिभावमापद्यत इति प्रतिपत्तव्यम्। (यथेति) यथैते पृथिव्यादयः सूक्ष्मा मूर्तरूपादिपूर्वकाः स्थूलत्वात् तन्तुपूर्वपटवत्, एवं ततोऽपि-परतोऽपि परं रूपादिभ्यः, परतोऽप्यपरमन्यत् परं वरिष्ठं प्रधानं कारणं रूपादिभावमापचत इति प्रतिपत्तव्यम् तञ्च परं यच्च कारणमात्मानममूर्तसूक्ष्मरूपादित्वेन स्थूलमूर्तपरमाणुद्विप्रदेशादिस्कन्धपृथिव्यादित्वेन चात्र विभज्यमानं प्रवर्त्तते । किञ्च... इति रूपादिप्रविभक्तमप्रविभक्तस्वतत्त्वं यद्भवति तदेव स्वं तत्त्वं तत्तु ज्ञानस्वतत्त्व आत्मेति रूपादिभिरेव निरूपितम्, तद्धि रूपणमिति रूपणकृतात्मलाभनिरुक्तत्वात् विभक्ताविभक्तं ग्रहणमेव रूपम् , न तु रूप्यते तत्तेन तस्मिन् वेत्यादि रूपम् । (इतीति) रूपादिप्रविभक्तमप्रविभक्तस्वतत्त्वं परमाणुद्विप्रदेशादि पृथिव्यादिष्वप्रविभक्तस्व-25 रूपादितत्त्ववत : किं पुनस्तस्य स्वतत्त्वं ? तस्य भावस्तत्त्वं स्वार्थिको भावप्रत्ययः, तदर्शयति-यत्तद्भ- .. स्थूलत्वमेवेत्याह-नहीति । सूक्ष्माद्रूपादिलक्षणपरमाणोः स्थूलसृष्टिमाह-पृथिव्या इति । मूर्तानां भेदाः स्थूलाः प्रवृत्तेनिदर्शनम् , अमूर्तानां मूर्तभवनञ्च रूपादेः प्रभाव इत्याह-एतत्प्रवृत्तेर्निदर्शनमिति । स्थूलानां सूक्ष्मपूर्वकत्वं प्रसाध्य तस्यापि सूक्ष्मस्य परतरं कारणं यदमूर्तसूक्ष्मरूपादित्वेन विद्यमानं स्थूलमूर्तपरमाण्वादिभावमापद्यते तदाह-यथैत इति । किन्तत् परं वरिष्टं कारणमित्यत्राह- इतीति, रूपाद्यात्मना प्रविभक्तमपि स्वरूपतोऽप्रविभक्तं कारणं ज्ञानवतत्त्व 30 आत्मैव, स चात्मा रूपरसादिभिर्निरूप्यत इति भावः । तत्त्वमित्यत्र तच्छब्दात् खार्थे भावे दृश्यमानस्त्वप्रत्ययो बोध्यः,. ततो भिन्नस्य कस्यचिदप्यभावात् तस्यैव तथाभवनात् , न तु भावे प्रत्यय इति दर्शयति-तस्य भाव इति । तर्हि स्वपर " 20 _ 2010_04 Page #262 -------------------------------------------------------------------------- ________________ द्वादशारजयचक्रम् २१२ [विधिनियर वति तदेव तत्वं स्वञ्च स्वप्रभेदापेक्षया, तम चानुसृतत्वात् परतत्त्वाभावेन विशेष्यते स्वतत्त्वमिति, परमतापेक्षया वेति । इतर आह-तत्किमिति निरूप्यम् , आचार्य आह-तत्तु ज्ञानस्वतत्त्व आत्मेति रूपादिभिरेव निरूपितम् , तत्-परं कारणमात्मा ज्ञानस्वतत्त्वः, तु-पुनः सः रूपादिभिरेव निरूपित:रूपरूपक्रियारूपितं तु ज्ञानं निर्णयो रूपणमित्येकोऽर्थः । तद्धि रूपणं रूपमिति-यस्मात् कारणाद्रूपणं 5 रूपमित्येकोऽर्थः, आदिग्रहणाद्रसनमाखादनं रसः, एवं शेषाणामपि, रूपणकृतात्मलाभनिरुतत्वा पणता ज्ञानमेव रूपणपर्यायत्वात् ज्ञानस्य, विभक्काविभक्त प्रहणमेव, विभक्तग्रहणं रूपं रसो गन्धा स्पर्श इति ज्ञानं रूपमिति, अविभक्तं सर्वेषु, तहिविधमपि ग्रहणमेव रूपम् , भावसाधनत्वाद्रूपशब्दस्य, न तु रूप्यते तत्तेन तस्मिन् वेत्यादि रूपम्-न तु कर्मकर्तृकरणाधिकरणसाधनं, आदिग्रहणात्तस्मै तस्माद्रूपमिति सम्प्रदानापादानकारकभेदेभ्यो रूपमिति भवितुमर्हति । 10 किं कारणम् ? रस्यते स्पृश्यत इत्यादेरपि तत्रैव दर्शनात् , रूपेणोपलक्षितस्य ज्ञानात्मनो रसादेर्गुणागुणिद्रव्याद्वा विभक्तस्यानवस्थानात् पुरुषभिन्नपुत्रत्वादिवत् । (रस्यत इति) रस्यते स्पृश्यत इत्यादेरपि तत्रैव दर्शनात् रूपेणोपलक्षितस्य ज्ञानात्मनों वस्तुनो रसादेर्गुणाद्गुणिद्रव्याद्वा विभक्तस्य व्यतिरिक्तस्यानवस्थानात्, पुरुषमिन्नपुत्रत्वादिवत्, यथा 15 अनेकसम्बन्धेन पुरुषात् पितृपुत्रभ्रातृभागिनेयमातुलत्यादिधर्माः पृथक् नावतिष्ठन्ते तथा रूपणात्मकं रूपं रसादिगुणव्यतिरेकेण तद्व्यतिरिक्तपरमाण्वादिद्रव्यव्यतिरेकेण वा नावतिष्ठते परमार्थतः, तस्मादविभक्तरूपेण तत्त्वात्मका रसाविपरमाण्वाविपृथिव्यादिभेदाः। एवं तर्हि रूपेणाविभक्ततत्त्वात्मकानां रूपवदविभक्तग्रहणं चक्षुषैव स्यात् , रसनादिभिश्च ग्रहणदर्शनात् प्रत्यक्षविरुद्धेयं कल्पनेति चेन्न, तस्य तत्त्वस्यानेकात्मत्वाभ्युपगमात् । 20 द्विधापि रूपस्याविभक्ततत्त्वात्मकतायामपि शक्यं वक्तुं रूपं रस इति प्रत्यक्षम् , भेदेन दर्शनात्, तस्यानेकात्मकस्य स्वप्रवृत्तिप्रभावावबद्धस्य प्रभेदानामुक्तत्वात् , रूपादिभ्यो भिन्नमेकं द्रव्यं पृथग्ग्रहणापदेशादित्येतच्च न, रूपादिव्यतिरिक्तादर्शनात् । भेदाभावेन खेति विशेषणं कथं सङ्गच्छत इत्यत्राह-वञ्चति । खपदं न परतत्त्वव्यावर्तनायोपात्तं तदभावात् , किन्तु निजप्रमेदापेक्षयैव, यद्वा खपरमेदस्य सत्त्वेन तदपेक्षया विज्ञेयमिति भावः । तथाविधं खं किमिति पृच्छति-इतर आहेति । तथाविधो ज्ञानवतत्त्व आत्मैव यो रूपादिभिर्निरूप्यते तदेव परं कारणं रूपादिभावमापद्यत इत्युत्तरयतितस्विति, परं कारणं पुनरित्यर्थः रूपक्रियानिरूपितत्वादूपं ज्ञानमेव रूपज्ञानं रसज्ञानमित्येवं ज्ञानस्यैव रूपादिक्रियाभिर्निरूपपावूपणकृतात्मलाभत्वाद्रूपादि ज्ञानपर्यायवाच्येवेत्याह-तद्धीति । रूपस्य ज्ञानपर्यायता च भावव्युत्पत्त्यैव, नतु कादिव्यत्पत्त्येसाह-भावसाघनत्वादिति । ननु रूपादिभ्यो विभक्तमविभक्तमपि, रूपं रस इत्येवं भिन्नशब्दनिर्देशाद्विभकं सर्वेषु रूपादिषु एकरूपेण ज्ञानस्य वृत्तेरविभक्तमपीत्याह-रस्यत इत्यादि । तत्रैव-ज्ञान एव, रूपोपलक्षितज्ञानाद्रसाधुपलक्षितस्य 30 मेदाभावादिति भावः । एवं रसादीनां रूपामेदे रूपवद्रव्यामेदे च प्रतिपादिते रसादीनां चक्षुषा ग्रहणप्रसङ्गः, रूपामिन्नत्वात्, न वैवम्, रसादीनां रसनादिना प्रावत्वात् , तस्मात्तव्यं कल्पना प्रत्यक्षविरुद्धत्याशङ्कते-एवं तहीति। रूपरसाहीमा पर भेदप्यम्युपगमात्र दोष इत्युत्तरयनि-तस्य तस्वस्येति । तस्यानेकात्मकस्थति, रसादिगुणाद्यमेदेन रसवगुण्याक 2010_04 Page #263 -------------------------------------------------------------------------- ________________ प्रत्यक्षाविरोधवर्णनम् ] न्यायागमानुसारिणीव्याख्यासमेतम् २१३ (एवं तहीति) द्विधापि-रसाद्यभेदेन द्रव्याभेदेन वा रूपस्याविभक्ततत्वात्मकसायामपीत्यादि यावद्रव्यमिति, शक्यं वक्तुं रूपं रस इति प्रत्यक्षम् , भेदेन दर्शनात् , तस्यानेकात्मकस्य स्वप्रत्तिप्रभावावबद्धस्य प्रभेदानामुक्तत्वात् , एवं तावद्रसादिगुणगणसमुदायो नास्त्यन्यः, परस्परतते चान्ये रूपादयः किन्तु रूपणस्वरूपभेदा एवेत्युक्तम् , स्यान्मतं रूपादिभ्यो भिन्नमेकं द्रव्यं पृथग्ग्रहणापदेशावियेतच न-रूपादिभ्यो भिन्नमिदमेकं द्रव्यमित्येतच न, शक्यं वक्तुमिति वर्त्तते, कस्मात् १ रूपादिव्यतिरिकादर्शनात् । पूर्वत्र रूपादन्येषां रसादीनां प्रत्यक्षतो दर्शनात् रूपमेव रसादय इति न शक्य वकुम् , इह तु रूपादिभ्यो भिनं द्रव्यमिति प्रत्यक्षेणादर्शनादशक्यमिति ।। कस्यां पुनःकल्पनायां प्रत्यक्षविरोधो नास्ति ? उच्यते आत्मतत्त्वाविभक्तत्वग्रहे तु प्रत्यक्षाविरोधः, चैतन्यमेकमेव रूपादिविभक्तमप्यविमर्क चैतन्याव्यवच्छेदान्वयात् , यथा परैः परिकल्पितं भिन्नमिति तत्र दर्शनं विरोधकारि भवति । 10 (आत्मेति) आत्मतत्त्वाविभक्तत्वग्रहे तु प्रत्यक्षाविरोधः तत्कथं ? भाव्यते-चैतन्यमैकमेव रूपादिविभक्तमप्यविभक्तं चैतन्याव्यवच्छेदान्वयात्,-रूपणसामान्येनाविभक्तमेव, एकत्वात्, रूपादिरूपेण ग्रहणविभागाद्विभक्तमपि सत्तदेकमेव, अनेकात्मकत्वाद्विभक्तमविभक्तश्चेति प्रत्यक्षदर्शनं रसादि. भेदरूपं रूपणाभेदरूपश्च न विरुध्यते रूपादिरूपत्वाञ्चैतन्यस्य । यथा परैः परिकल्पितं मिन्नमिति, तन्त्र घ रूपादि चैतन्येभ्योभिन्नमात्रदर्शनं विरोधकारि सम्भवति, न हि रूपरसाविगुणसमुदायाम 16 तदाश्रयद्रव्यात्मकं वा, किन्तु तदेव रूपादि चैतम्यात्मतत्वाविभक्ताहे तु दर्शनमविरोधकारि, चैत. न्यस्यैव विभक्ताविभक्तात्मकत्वात् । तथा तदनुभवदर्शनात् स एव तु ग्राह्यो ग्राहकश्चैषितव्यः, व्यतिरेकस्यानुपपत्तेः, अभिमता. त्मप्रतिपत्तिवत् बुद्ध्यादिरूपादिसूक्ष्मस्थूलत्वादि च क्षीराद्यत्यन्तापरदृष्टास्तत्त्व एव व्यवस्थिता, 20 तद्वत्सर्वस्य जगतश्चेतनात्मनि पुरुषे व्यवस्था युगपदेव । (तदिति) तदनुभवदर्शनात्-खरूपपरिच्छेदे ततोऽन्यस्य प्रमाणस्यासम्भवात् , किं तर्हि ? स एव तु व्यतिरेकस्यानुपपत्तेः-ज्ञानात् पृथग्भूतार्थस्यानुपपत्तेानवतत्त्वात्मैव प्राह्यो प्राहकश्चैषितम्या, भेदेन न रूपस्य स्वस्य प्रवृत्त्या नानाप्रमेदपृथिव्यादिस्थूलमेदलक्षणयाचिन्त्येन प्रभावेन चामूर्तान्मूर्तलक्षणया प्रक्रमापरादिभेदोपपत्तेः रूपणस्यैव स्वरूपविषयत्वात् न पृथप्रसादिगुणगणसमुदायोऽभ्युपेयस्तस्माद्रूपरसादीमा मेदेन प्रत्यक्षमुपपद्यते रूप-26 णखरूपात्मना चाभेदोऽपीति भावः । ननु रूपादिभ्यो भिन्नं तदाश्रयभूतमेकं द्रव्यमस्ति रूपाद्याश्रयतया मेदेन तस्य ग्रहण, नेदं रूपमपि तु द्रव्यमिति व्यपदेशाचातः कथं रूपणखरूपामेदत्वं रूपरसादीनामित्याशङ्कते-स्याम्मतमिति । रूपादीति. इदं रूपमिदं तदाश्रयं द्रव्यमिति पृथक्तयाऽदर्शनान्न गुणव्यतिरिक्तं द्रव्यमित्यर्थः । पूर्वत्रेति, द्विधापीत्यादिग्रन्थ इत्यर्थः, तत्र हि रूपरसादीनां मेदः साधितः, इह विति, रूपादिभ्य इत्यादिग्रन्थे, अत्र हि रूपद्रव्ययोरभेदः समर्थित इति भावः । एक त्यक्षविरोधी न सम्भवतीत्याह-आत्मतत्त्वेति, रूपरसादि विभक्तेषु चैतम्यस्यैकस्यैवाविच्छेदेनान्वीक्मान-30 त्वात्तत्तदिन्द्रियग्राह्यविभिन्नरूपरसाद्यात्मकमपि तच्चैतन्यमेकमिति भेददर्शनं न विरुध्यत इति भावः । स्वरूपपरिच्छेद कि. वस्तुव्यवस्थित्यै प्रमाणाधभ्युपगम्यते प्रमातृप्रमाणप्रमेयप्रमिातषु चतसूषु तत्वपरिसमाप्तेः तत्र च ज्ञानात् पृथग्भूतख कर चिदभावाबुद्धिपरिकल्पितेनान्तस्थ एव प्रमाणप्रमेयफलव्यवहारः प्रमातृव्यवहारश्च, विज्ञानस्यासत्याकारयुक्तं खरूपं प्रमेवं 2010_04 Page #264 -------------------------------------------------------------------------- ________________ २१४ A द्वादशारनयचक्रम् [विधिविध्यरे अभिमतात्मप्रतिपत्तिवत्, यथा त्वभिमतः प्रतिशरीरं शरीरादिव्यतिरिक्तमात्मैवात्मानं शरीरादींश्च बाह्यानर्थान् प्रतिपद्यमानोऽपि स्वात्माधिगमे प्रमाणान्तराभावाद्वाह्यो ग्राहकश्च तथा रूपादिभेदेन ज्ञानसुखादिभेदेन च स्वयमेव विपरिवर्त्तमान इति । निदर्शनमायाह बुद्ध्यादीत्यादि, बुद्धिसुखदुःखे च्छाद्वेषादिकालाकाशदिगात्माद्यमूर्त सूक्ष्ममुच्यते रूपादयस्तु स्थूला एव, प्रत्यक्षत्वात् , सूक्ष्माः स्थूल। त्वादि च तेषां यथासंख्यं बुद्ध्यादीनां तत्त्व एवेत्यभिसंभत्स्यते, क्षीराद्यत्यन्तापरिदृष्टास्तत्त्व इत्यादि, युगपद्भाविनः क्षीरावस्थायामत्यन्तापरदृष्टा धर्मास्तत्त्व एव दृश्यन्ते, तद्यथा आद्रवो रसः आकठिनं दधि मूलं मृदुः कठिनः मस्तु द्रवमेव, आदिग्रहणात् क्षीरमपि धेनावत्यन्तापरदृष्टं धेन्वभ्यवहृततृणगोरक्तादौ अत्यन्तापरिदृष्टाः धेनुगतरसरुधिरादिपरिणतिविशेषक्रमागतप्रश्रवादयः तत्त्व एव प्रविभागेन व्यवस्थिताः । तेषां व्यवस्थावत् सर्वस्य चेतनाचेतनस्य जगतः चेतनात्मनि पुरुषेऽत्यन्तापरिदृष्टस्य 10 व्यवस्था युगपदेव, यथा च तस्यैव क्रमभुवोऽन्ये धर्मा माधुर्याम्लादयस्तथा पर्यायास्तत्व एव ज्ञानास्मके, तस्यैव ता अवस्थाः । नैताः स्वमनीषिका उच्यन्ते किं तर्हि ? जिनवचनार्णवविग्रुष एवैताः, तद्यथा ‘से किं भावपरमाणू ? भावपरमाणू वण्णवंते गंधवंते रसवंते फासवंते' इति वर्णादीनां तत्त्व एवानेकात्मके तदात्मनां भावात् ।। एवञ्च सार्वयमप्ययत्नेन लब्धं पुरुषात्मकत्वात् सर्वस्य, अस्य ज्ञत्वमेवोत्कर्षपर्यन्तवृत्तं 1 सर्वज्ञता, तन्निरतिशयं क्वचित् प्रामोति, तारतम्ययुक्तत्वात् , पर्वतोन्नतिवत् , क्षेत्रप्रमाणवत्, प्रत्यवगमकात्मकत्वात् खद्योतादितारतम्यवृत्तोड्योतवत् ।। एवञ्चेत्यादि, अस्मिन् ज्ञानात्मकैककारणविवर्त्तमात्रभेदवादे युक्त्यन्तरप्रतिपाद्यं सार्वज्यमयत्नेन लब्धं पुरुषात्मकत्वात् सर्वस्य, न हि पुरुषः कश्चिदात्मानं न वेत्ति, यथा तृणादिष्वत्यन्तापरदृष्टं दधित्वं तत्कारणत्वात्तदात्मकं तथा सर्वज्ञताऽपि, अस्य का सा सर्वज्ञता? ज्ञत्वमेवोत्कर्षपर्यन्तवृत्तं-तदेव ज्ञत्व20 मुत्कर्षपर्यन्तं निरतिशयं कचित् प्राप्नोति, तारतम्ययुक्तत्वात् , तरतमभावस्तारतम्यं ज्ञतरो ज्ञतम इति प्रमेयप्रकाशनं प्रमाणफलं तत्प्रकाशनशक्तिः प्रमाणम् , तदेवं ग्राह्यग्राहकभावो ज्ञानस्यैवेति भावः । तत्र दृष्टान्तमाह-अभिमतात्मप्रतिपत्तिवदिति । ज्ञानात् पृथग्भूतस्यार्थस्य सद्भावेऽप्यात्मा यथा बाह्यानां वस्तूनां ग्राहकः खात्मानं प्रति ग्राह्यश्च, स्वात्मानं खेनैव ग्रहणात् , खात्मभिन्नस्य स्वग्राहकस्य कस्यचिदभावात्तथारूपादिभेदेन ज्ञानसुखादिभेदेन च चैतन्यमेव विपः रिणमते ग्राह्यं प्राहकञ्चेति भावः। बुद्धिसुखेत्यादि, बाह्यान्तरभेदाः स्थूलसूक्ष्मभेदा उक्ताः, तत्रापि बाह्यभेदाः सह25 भाविन एवोक्ताः, क्रमभाविभेदाश्च क्षीरादीत्यनेनोक्ताः, तदेवं सर्वे धर्माः पुरुष एवं व्यवस्थया वर्तमाना इति भावार्थः । : निरूपणमुपसंहरति-तेषां व्यवस्थावदिति । अत्र प्रमाणमाह-जिनवचनेति, 'भावपरमाणूणं भंते ! कइविहे पण्णत्ते, गोयमा चउबिहे पण्णत्ते, तं जहा-वण्णमंते गंधमंते रसमंते फासमंते' इत्येवं भगवत्यां (श०२० उ० ५) पाठो दृश्यते । ननु यथा मृत्पिण्डस्यैकस्य परमार्थतो मृदात्मना ज्ञाते सर्व मृन्मयं घटशरावोदश्चनादिकं मृदात्मकत्वाविशेषाद्विज्ञातं भवति तथा जगतः पुरुषात्मकत्वे पुरुषविज्ञानस्य सर्वेषां भावात्सर्वं विज्ञातमेवेति सार्वश्यमयत्नमेव लभ्यते न हि कश्चिदात्मानं न वेत्तीत्याह30 अस्मिन्निति । अत्र विवर्तपदेन व्याख्याटीकापर्यालोचनेन परिणाम एव विवक्षित इति भाति, दर्शनान्तरे तु एकस्य तत्त्वा दप्रच्युतस्य भेदानुकारेणासत्याविभक्तान्यरूपोपग्राहिता विवर्त्त इत्युक्तम् , विवर्तपरिणामयोर्लक्षणश्च 'अतत्त्वतोऽन्यथाप्रथा विवर्त्त इत्युदीरितः स तत्त्वतोऽन्यथाप्रथा विकार इत्युदीर्यते' इति शुक्तो रजतं विवर्त्तः, दुग्धं दधि भवतीति परिणामः, अधिष्ठानसमस. ताककार्यापत्तिः परिणामः, अधिष्टानविषमसत्ताककार्यापत्तिर्विवर्त इति । सर्वज्ञतां पृच्छति-अस्य केति । यदाऽभ्यासात् ज्ञानस्य प्रकर्षतरतमादिप्रक्रमेण तत्प्रकर्षसम्भवे तदुत्तरोत्तराभ्याससमन्वयात् सकलभावातिशयपर्यन्तं यः संवेदनमवाप्यते स 2010_04 Page #265 -------------------------------------------------------------------------- ________________ सर्वज्ञतासाधनम् ] न्यायागमानुसारिणीव्याख्यासमेतम् २१५ परस्परमुत्कर्षभेदः, तेन तारतम्येन युक्तत्वात् , तत् पर्यन्तेन निरतिशयेन विना न भवितुमर्हति, पर्वतोन्नतिवत् , यथा पर्वतोन्नतिः तारतम्ययुक्तत्वाद्विन्ध्यसह्योजयन्तपारियात्रेन्द्रपदमलयमहेन्द्रहिमवकैलासादीनामन्यतमस्योत्कर्षपर्यन्तं प्राप्तया निरतिशयोन्नत्या विना न भवति एवं ज्ञत्वमपि । योऽपि कैलासं मन्दरं वाऽनभ्युपगच्छति तस्यापि शुषिरस्यावकाशदानसमर्थस्य पृथिव्याद्याश्रयस्य क्षेत्रस्य सद्भावात्तस्य च समन्ततोऽनन्तत्वान्महत्तरं महत्तममिति प्रमाणोत्कर्षस्य तत्र निरतिशयस्य दर्शनात् क्षेत्र '5 प्रमाणवदिति दृष्टान्तः । अस्यामेव प्रतिज्ञायां हेत्वन्तरं प्रत्यवगमकात्मकत्वात् , प्रत्यवगमयतीति प्रत्यपगमकं तदेव ज्ञत्वं तच्च निरतिशयोत्कर्षपर्यन्तम् , तद् दृष्टान्तः खद्योतादितारतम्यवृत्तोद्योतवदिति, यथा खद्योतमप्यग्निप्रदीपतारकादिषु तारतम्येन वृत्तत्वादुद्योतो भास्करे निरतिशयोत्कर्षपर्यन्तो दृष्टस्तथा ज्ञानमपि क्वचिदिति । इतर आह ननु वक्तृत्वादीनां धर्माणामसार्वघ्याव्यभिचारात्, अत्रैव प्रकर्षोत्कर्षदर्शनाच्चासर्वज्ञतैवेत्येतच्च न, वक्तृत्वस्यापि तारतम्यादुत्कर्षवृत्तेर्निरतिशयनिष्ठत्वात् , सर्वस्य वक्ता तथ्यस्य चेति वक्तृत्वादेव तत्सिद्धेः, नित्यानुमेयमहापरिमाणाकाशदृष्टान्तसाधर्म्याच्च । असर्वातथ्याभिधायिताभ्यां विपर्ययेण भवितव्यमवस्थात्वात् , ज्ञत्वाज्ञत्वावस्थावत् , नीलोत्पलरक्तोत्पलवत् । ननु वक्तृत्वादीनामित्यादि, ननु वक्तृत्वशरीरित्वनामवत्त्वजातिमत्त्वादीनां धर्माणामसार्वघ्याव्यभिचारादसर्वज्ञतैव । किश्चान्यत् , अत्रैव-इन्द्रियप्रत्यक्षानुमानयोर्विषये प्रकर्षोत्कर्षदर्शनाच्चासर्वज्ञतैव, इत्येतच्च न, वक्तृत्वस्यापि तारतम्यादुत्कर्षवृत्तेः, विपर्ययेण भवितव्यमित्यभिसम्बद्ध्यते । वक्तृत्वादेव तावत्सार्वइयं ब्रूमः वक्ता वक्तृतरो वक्तृतम इत्युत्कर्षपरम्पराया निरतिशयनिष्ठत्वात् सर्वस्य वक्ता तथ्यस्य चेत्यवश्यमेषितव्यम् , तथाच सर्वस्य तथ्यस्य च वक्तृत्वात्तज्ज्ञ इति वक्तृत्वादेव सार्वज्योत्कर्षसिद्धेरयुक्त: 26 सार्वज्ञ्यप्रतिषेधः । यदपि चेन्द्रियविषये तत्पूर्वकानुमानविषये चोत्कर्षतारतम्यमुक्तं तदपि नित्यानुमेयमहापरिमाणाकाशदृष्टान्तसाधाददोषाय । स्यान्मतमाकाशासिद्धरदृष्टान्त इत्येतच्चायुक्तम् , अनुमानस सर्वज्ञ इति भावः । अनुमानमाह-तदेव शत्वमिति । तत्-ज्ञत्वमित्यर्थः । दृष्टान्ते साध्यं हे वा मन्दरो वा निरतिशयोत्कृष्ट इति भावः । तत्रास्वारस्यं प्रदर्य दृष्टान्तान्तरमाह-योऽपीति, महत्परिमाणतारतम्यस्य गग: नादौ विश्रान्तेरिवेतिभावः । ज्ञत्वमुत्कर्षपर्यन्तं निरतिशयं क्वचित् प्राप्नोतीति प्रतिज्ञायामेव हेत्वन्तरमाह-अस्यामेवेति) 25 वस्तुप्रतिभासकत्वादिति हेत्वर्थः, दृष्टान्ते वस्तुप्रतिभासकेषु परमोत्कृष्टता प्राप्तो भास्करस्तत्र यथा तत्तारतम्यं विश्रान्तं तथैव ज्ञत्वोत्कर्षतारतम्यमपि यत्र विश्रान्तं स एव सर्वज्ञ इति भावः । ननु वक्तृत्वशरीरित्वादिधर्माणामसर्वज्ञ एव सत्त्वदर्शनात् त एव सार्वज्ञं प्रतिरुन्धन्ति, करणानामिन्द्रियादीनामपटुतया विपरीतविज्ञानसम्भवात् , तथा ऐन्द्रियकज्ञानानुमानिकज्ञानविषय, एवोत्कर्षापकर्षदर्शनाच्च न निरतिशयज्ञानसिद्धिरित्याशङ्कते-नन्विति । वक्तृत्वेऽप्यतिशयदर्शनादस्तिकाष्टाप्राप्तिर्वक्तृत्वस्य सातिशयत्वात् , यद्यत्सातिशयं तत्सर्व निरतिशयं यथा परिमाणमित्यनुमानेनासर्वज्ञताविपरीतमेव सिझ्यतीत्याह-वक्तत्वस्या: 30 पीति, अस्य विपर्ययेण भवितव्यमित्यप्रेतनेन सम्बन्धः, असर्वज्ञतासाधकतयोपात्तेन वक्तृत्वेन विपर्ययस्यैव सर्वज्ञताया सिद्धेरिति भावः । निरतिशयवक्तृत्वसिद्धावपि कथं सर्वज्ञता सिद्ध्यतीत्यत्राह-तथा चेति, यथार्थवत्कृत्वस्य ज्ञानमन्तरेणानुप) पत्तेरिति भावः। प्रत्यक्षानुमानयोर्विषय एवोत्कर्षदर्शनं बाधकतया यदुक्तं तत्राह-यदपीति महत्परिमाणतारतम्यस्य नित्यानुमेये ११ 2010_04 Page #266 -------------------------------------------------------------------------- ________________ २१६ द्वादशारनयचक्रम् [ विधिविध्यरे काचात्, सातिशयपरिमाणकं वस्तु सति पक्षे भावविशेषत्वात् घटवदिति, विभक्तपदार्थत्रादिमतापेक्षचैतदनुमानम्, अविभक्तैककारण विवर्त्तनाद्भेदवादे वक्ष्यत्युत्कर्षनिरतिशयत्वम् । भावतारतम्ययुक्तत्वात् साधितं साधयिष्यमाणार्थानुसारेण प्रतिजानानो भावितार्थोपनयनार्थमाह-असर्वातध्याभिधायिताभ्यां विपर्ययेण भवितव्यम्, असर्वज्ञताया वक्तृत्वासर्वज्ञताया वा अवस्थात्वात्, वक्तृत्वाव्यभिचारिण्या 5 सर्वज्ञताया वाक्यरूपेणानुमानात्मतया स्थितायाः इतरस्याः पदार्थतया इष्टाया वा अवस्थत्वात्, सा द्विविधाप्य सर्वज्ञतावस्थैव । तथा वस्तुतस्वाद्विशेषत्वादित्यादिहेतुसौलभ्यं दर्शयति, निदर्शनं ज्ञत्वाशत्वावस्थावत्, ज्ञं वेतनं स्थावरजङ्गममक्षं काष्ठादि तद्विधिविधिनयदर्शनेन जात्सुषुप्तावस्थे ते चैतन् पदार्थविषयं निदर्शनं वाक्यविषयं नीलोत्पलरक्तोत्पलवत्, यथा ज्ञमज्ञेनानं च ज्ञेन विना न भवति नीलोत्पलमनीलेनानुत्पलेन रक्तोत्पलेन वा विना न भवति तद्विपर्ययेण वाक्यार्थेन तथा 10 सार्वश्यं चासार्वश्येन विना न भवत्यसार्वज्ञ्यं वा सार्वश्येनेति । इतर आह- धूमवत्त्वाग्निमत्त्वावस्थाविपर्ययेणापि तर्हि भवितव्यं तत्त्वतः, को विचारः ? निश्चितमेवैतत्तेनापि तत्त्वतो भवितव्यम्, नन्विदमेव वर्त्तते, तेन तु यदुच्यते तत्प्रमाणं सोऽपि शब्दो न पुरुषप्रवृत्तिमन्तरेण भवितुं वक्तुं वाऽर्हतीति उक्तत्वाद्वचनत्वाद्वस्तुत्वादपि व्याकरण15 बत् पौरुषेयम्, इतरथा स नैव वचनं स्यादपौरुषेयत्वाद्वन्ध्यापुत्रवत् । धूमवत्त्वेति धूमवत्वाग्निमत्त्वावस्थाविपर्ययेणापि तर्हि भवितव्यं तस्वतः, धूमस्यावस्थात्मक प्रत्यक्षाद्यविषयेऽभ्युपगमान्न बाधकता तस्येति भावः । आकाशं साधयति - सातिशयेति, सातिशयं परिमाणं विवर्धमानं यत्र निरतिशयं भवति स एव महत्परिमाणवानाकाशः सिद्ध्यतीति भावः । सति पक्षे भावविशेषत्वादिति, साम्याति - शमभावत्वात्, यदपेक्षया न्यूनसमाधिकपरिमाणा भावाः सन्ति तथाविधभावत्वादित्यर्थो भाति, इदश्चानुमानं पृथक् पृथक् 20 स्वार्थाङ्गीकर्तुमतेनेत्याह-विभक्तेति एतन्मते महत्परिमाणवत्त्वस्याकाशादौ सम्भवान्निरतिशयकाष्ठावतां बहूनां सम्भ वात् । एकस्मादभिन्नात् कारणात् नानापरिणामाङ्गीकर्तृमते तु पुरुषादतिरिक्तस्याभावेन निरतिशयपरिमाणकस्यान्यस्याभावात् कथं तत्सिद्धिरित्यत्राह-अविभक्तैकेति । तारतम्ययुक्तत्वादितिहेतुना साधितमर्थमनुपदमेव साधयिष्यमाणार्थानुसारेणोपनयतीत्याह - भावतारतम्येति । असर्वेंति, यत्र काष्ठाप्राप्तिर्ज्ञानस्य वक्तृत्वस्य च तेनासर्वाभिधायिनाऽतथ्याभिधायिनाच न भवितव्यं किन्तु सर्वाभिधायिना तथ्याभिधायिना चेति भावः । अथवा सर्वज्ञसिद्धावनुमानान्तरं परिणामवादाश्रयेणाह -अस25 वैति, असर्वाभिघायिता अतथ्याभिधायिता च सविपर्यया, अवस्थात्वात् ज्ञत्वाज्ञत्वावस्थावस् नीलोत्पल रक्तोत्पलवदित्यनुमानम्, अत्रासर्वाभिधायित्वं ज्ञधर्मः, अतथ्याभिधायित्वं वाक्यधर्मः, आयोऽसर्वज्ञतारूपः पदार्थविषयः द्वितीयो वक्तृत्वास लतास्यो वाक्यविषयः, उभयमपि पुरुषस्यावस्थारूपम्, अत एवोकं असर्वज्ञताया वक्तृत्वासर्वज्ञताया वा अवस्थात्वादिति । वक्तृत्वासर्वज्ञतां व्याकरोति- वक्तृत्वेति । इतरस्या इति, सामान्यतोऽसर्वज्ञताया इत्यर्थः । हेत्वन्तराणि सूचयति - तथेति । दृष्टान्ताभिप्रायमाह - शं चेतनमिति । प्रसिद्धं प्रतिषेध्यमन्तरेण प्रतिषेधासम्भवादिति भावः30 मीलोत्पलेति, सर्ववाक्यानां सावधारणतया नीलोत्पलमित्यत्रानीलव्यावृत्त्यनुत्पलव्यावृत्ति रक्तोत्पलव्यावृत्तीनां बोधात् विपर्ययेण अनीलादिवाक्यार्थज्ञानमन्तरेण तद्बोधाभावादिति तात्पर्यं भासते, एवं ज्ञत्वाज्ञत्वयोरेकदैव वृत्तित्वं भासते, सर्वज्ञतादशायामेव वक्तृत्वादसर्वज्ञासिद्धेः, इयमसर्वज्ञता सर्वज्ञता च द्विविधाप्य सर्वज्ञतावस्थैव, तदुक्तं 'स्वरूपतः प्रमाणैर्वा सर्वज्ञस्वं द्विधा भवेत् । तच्चोभयं विनाऽविद्यासम्बन्धं नोपपद्यते' इति । नन्वेकदा सर्वज्ञत्वा सर्वज्ञत्वयोर्भावेऽग्नित्वानमित्व समानाधिकरनेsपि धूमः स्यात्, न स्वननित्वसमानाधिकरणो धूमः किन्तु तदव्यभिचार्येव अग्निकार्यत्वात्, अवस्थात्वं तु तत्रापि 35 दृष्टमतो व्यभिचारान्न विषर्ययसाधकत्वं तस्येत्याशङ्कते - धूमवत्त्वेति । सविपर्ययै निर्विपर्यये चावस्थात्वस्य दर्शनादिति भावः । 2010_04 Page #267 -------------------------------------------------------------------------- ________________ - 10 बीहिसर्वात्मकता] न्यायागमानुसारिणीव्याख्यासमेतम् २९७ कार्यस्यान्यव्यभिचारिणः क्वचित् कदाचिदप्यनमावदर्शनादवस्थात्वं संशयहेतुरित्यभिप्रायः । आचार्य आह-को विचारः १ निश्चितमेवैतत्-अनग्निरपि भवत्येवेत्यर्थः । तेनापि-विपर्ययेणापि तत्त्वतो भवितव्यम् , नन्विदमेव वर्तते-ज्ञानात्मकैककारणस्याम्यनन्यादिस्वावस्थात्मकत्वप्रतिपादनस्य प्रस्तुतत्वात् , एवमग्निं व्यभिचारयिष्यामः । परमते तावत् प्रतिज्ञार्थं भावयामः-तेन त्वित्यादि ज्ञानात्मकत्वादात्मनस्तद्विजृम्भितविकल्पत्वाच्च शब्दस्य, यदुच्यते यच्छब्द आह तदस्माकं प्रमाणमिति, सोऽपि शब्दो न । पुरुषप्रवृत्तिमन्तरेण भवितुं वक्तुं वाऽहंतीति पुरुषस्वरूपस्यैव तस्य वचनत्वं युज्यते नान्यथेति, अस्मिन्नर्थे कारणमाह-उक्तत्वाद्वचनत्वाद्व्याकरणवत् पौरुषेयमिति सर्वस्य पुरुषात्मकत्वं दर्शयति । हेतुसौलभ्यं यथा वस्तुत्वादपीत्यनेन दर्शयति । सर्वस्य तदात्मकत्वात् तदवस्थामात्रत्वादित्यादिसर्यो हेतुरस्मिन्नर्थे भवति, इतरथा स नैव वचनं स्यात् शब्दः, अपौरुषेयत्वात् खरविषाणवत्,-किं वा वचनं न वचन. मित्यनेन नैव वा स्यादपुरुषात्मकत्वात् वन्ध्यापुत्रवत् । आह नन्वेकस्मिन्नेव काले तस्यैव वस्तुनोऽग्नित्वमनग्नित्वञ्चेति प्रत्यक्षादिविरुद्धं सामस्त्येनाभावात् , न, ननु प्रत्यक्षत एव व्रीह्याद्येकं वस्त्वेकस्मिन्नेव काले भूम्यबादिसर्वात्मकम् तेन विनाऽभावात् , तस्य तथाभवनात् व्रीहिस्वात्मवत् , कतमोऽसौ व्रीहिः क्षित्युदकबीजादिगतवर्णगन्धरसस्पशोदिधर्मपरिणतिमन्तरेण ? इति ।। नन्वित्यादि, यदुच्यते त्वयैकस्मिन्नेव काले तस्यैवैकस्य वस्तुनोऽग्नित्वमनग्नित्वश्चेति प्रत्यक्षादिविरुद्धं सामस्त्येनाभावात् , आदिग्रहणादनुमानागमलोकव्यवहारविरुद्धमिति । आचार्य आह-ननु प्रत्यक्षत इत्यादि, सर्वप्रमाणज्येष्ठमूलप्रत्यक्षत एव ब्रीह्यादि, आदिग्रहणादाम्रजम्बूफलादि, एकं वस्त्वेकस्मिन्नेव ब्रीह्यवस्थानकाले, भूम्यबादिसर्वात्मकत्वाद्रीहेः, कतमोऽसौ व्रीहिः क्षित्युदकबीजादिगतवर्णगन्धरसस्पर्शादिधर्मपरिणतिमन्तरेणेति, भूम्यादेः परस्परधर्मापत्तेः सर्वात्मकत्वम् , तस्मादबादिरेव ब्रीहिः, 20 तेन विनाऽभावात् , तस्य तथा भवनात् , ब्रीहिखात्मवत् , तस्मान्नास्ति प्रत्यक्षादिविरोधः। अमिरप्यनग्निरेव, नातःसंशयाभावादवस्थात्वस्यासाधकत्वमित्युत्तरयति-को विचार इति । ननु कथमनिरप्यनमिरित्यत्राहनन्विदमेवेति, अवस्थावस्थावतोरमेदात् कारणखरूपज्ञानलक्षणपुरुषस्यैवान्यनम्यवस्थात्मकत्वप्रतिपादनस्य क्रियमाणत्वादग्निं व्यभिचरत्यपि धूम इति भावः । तेन यदुच्यते शब्देन-यदुच्यते सोऽयं शब्दो ज्ञानखरूपात्मविवर्तमेद एवेश्याह-: ज्ञानात्मकत्वादिति, पुरुषप्रवृत्तिव्यतिरेकेण शब्दसम्भूतेर्वचनस्य वाऽसम्भवात् पुरुषात्मनैव तस्य वचनत्वं नान्यथा पुरुषे. 25 णोच्यते यत्तद्वचनमिति व्युत्पत्तेः तथा च शब्दसन्दर्भः पुरुषेणोक्तत्वात् पुरुषस्य वचनत्वाद्वा पौरुषेयो व्याकरणादिवदिति भावः। इतरथेति, शब्दस्य तद्वचनत्वतदात्मत्वतदवस्थामात्रत्वाद्यभाव इत्यर्थः । वचनं वचनं न स्यादिति व्याघातार्थमतस्तदर्थमाहकिं वेति, वन्ध्यापुत्रवद्वचनमेव न स्यादपुरुषोत्तत्वात् पुरुषानात्मकत्वात् पुरुषावस्थामात्रत्वाभावाचेति भावः । एकस्मिन्ने वेति, य एव यदैवाग्निः स तदैवानग्निरपि तर्हि स नैवाग्निः स्यात् , पूर्णतयाऽमित्वेनाभावात् गृह्यते च प्रत्यक्षादिनामित्वे. मानिरिति प्रत्यक्षादिविरोध इति भावः। एकस्यैव व्रीह्यादेरेकदैव भूम्यबादिसर्वात्मकतायाः प्रत्यक्षत उपलब्धेर्न प्रत्यक्षादिविरोध 30 इत्याशयेनोत्तरयति-ननु प्रत्यक्षत इति । क्षित्युदकबीजादिसमूहात्मक एव व्रीहिर्नान्यः कश्चित्तव्यतिरिक्त इलाह-कत. मोऽसाविति । अनुमानमप्यत्रार्थे प्रदर्शयति-तस्मादिति । व्रीहेर्भूम्यबादिरूपत्वे तद्रूपेण प्रहणं स्थान तु भवत्यतो में द्रा० न०२८ 2010_04 Page #268 -------------------------------------------------------------------------- ________________ २१८ द्वादशारनयचक्रम् [विधिविध्यरे तत्काले तथाऽग्रहणादप्रत्यक्षतेति चेत् सर्वाप्रत्यक्षता तर्हि, कदापि सर्वेण ग्रहणाभावात्, न हि यद्यथा भवति तथेन्द्रियेण गृह्यते, तुषकणादिरूपादिमात्रग्रहणवृत्तत्वाद्रीह्यादिचाक्षुषप्रत्यक्षस्य । (तत्काल इति) स्यान्मतं व्रीहिकाले भूम्यबाद्यात्मकस्य वस्तुनः तथा-भूभ्यबादिप्रकारेणा5 ग्रहणान्न हि तद्वस्तु प्रत्यक्षं स्यात् , नहि तद्वस्तु ब्रीहिमात्रमेवेति, उच्यते-सर्वाप्रत्यक्षता तर्हि कदाऽपीत्यादि-सर्वस्य वस्तुनः कदापि सर्वेणात्मस्वरूपेण ग्रहणाभावान्न कस्यचित् प्रत्यक्षवं स्यात्, तहशेयति-नहि यद्यथा भवतीत्यादि, व्रीहेरपि प्रत्यक्षत्वं नास्ति यथा विद्यते तथेन्द्रियग्रहणाभावात्, इन्द्रियेण तु तुषमात्रदर्शनात् तन्मात्रस्याव्रीहित्वात् कणाद्यदर्शनात्, कणमात्रस्याप्यत्रीहित्वात् कुण्डकाद्यदर्शनादित्यादि, रूपरसगन्धस्पर्शानामन्यतमस्यैवेन्द्रियविषयत्वात् , अत आह-तुषकणादिरूपा10 दिमात्रग्रहणवृत्तत्वाद्रीह्यादिचाक्षुषप्रत्यक्षस्य । स्यान्मतम् रूपस्य रूपमात्रत्वात्तर्हि प्रत्यक्षत्वमित्येतच्चायुक्तम् , यावद्रूपग्रहणावृत्तत्वाद्रूपादिप्रत्यक्षस्य, तस्मात् स्थितमेतत् सर्व सर्वात्मकं ज्ञानस्वतत्त्वैककारणविजृम्भितमात्रश्चेति । रूपस्येति, रूपस्य रूपमात्रत्वात्तर्हि प्रत्यक्षत्वमित्येतच्चायुक्तम् , यावद्रूपग्रहणावृत्तत्वात् रूपादि15 प्रत्यक्षस्य, रूपरसगन्धशब्दस्पर्शा रूपादयस्ते हि परस्पराविनिर्भागवृत्तयस्तेषु रूपमात्रग्रहणं कथं यथार्थ प्रत्यक्षं स्यादिति नास्ति प्रत्यक्षं, तस्मात् स्थितमेतत्सर्वं सर्वात्मकं ज्ञानस्वतत्त्वैककारणविजृम्भितमात्रं चेति । तस्यैवेदानी स्वरूपोपदर्शनार्थमुच्यतेतस्य चतस्रोऽवस्था जाग्रत्सुप्तसुषुप्ततुरीयान्वर्थाख्याः एताश्च बहुधा व्यवतिष्ठन्ते । (तस्येति) तस्य-अनन्तरप्रतिपादितचैतन्यतत्त्वस्येमाश्चतस्रोऽवस्थाः, जाग्रत्सुप्तसुषुप्ततुरीयान्वर्थाख्याः, जानदवस्था, सुप्तावस्था, सुषुप्तावस्था, तुरीयावस्था, एताश्चान्वर्थाः । एताश्च बहुधा व्यवतिष्ठन्ते, चतुर्थीमवस्थां मुक्त्वा तिसृणामेकैकस्याः प्रतिप्रक्रियं संज्ञादिभेदाल्लोकव्यवहारभेदाच्चानेकभेदत्वात् , चतुर्थी पुनरेकस्वरूपैव, विशुद्धत्वात् । अथवा सापि स्वरूपसामर्थ्यात् सर्वात्मनैवाने कधा विपरिवर्त्तते, तद्यथा 'जंजंजे जे भावे परिणमति पओगवीससादवं । तं तह जाणाति जिणो 25 अपज्जवे जाणणा णत्थि" इति ( आव. नि. २६६७) 20 खकालेऽपि व्रीह्यादेः प्रत्यक्षतेत्याशङ्कते-तत्काल इति । सर्वाप्रत्यक्षतेति, तथा च सति कस्यापि प्रत्यक्षता न भवेत् , तस्य तदीयसर्वप्रकारेण ग्रहीतुमशक्यत्वात् , किन्त्वेकदेशग्रहण एव चक्षुरादेः सामर्थ्यम् , नहि रसगन्धादिप्रकारेण घटं प्रत्यक्षीकर्तुं चक्षुः समर्थमिति भावः । ननु कथं सर्वाप्रत्यक्षतोच्यते, रूपस्य रूपमात्रत्वेन तस्य सामस्त्येन ग्रहणादित्याशङ्कते-रूप स्येति । रूपरसादीनामविनिर्भागवृत्तित्वेन तदेकदेशरूपस्यैव ग्रहणान्न यद्यथा भवति तथेन्द्रियेण गृह्यत इति न प्रत्यक्षमित्याह30 यावद्रूपेति। जाग्रदिति, इन्द्रियादिभिर्विषयोपलब्धियोग्यावस्था जाग्रदवस्था बुद्धाबुद्धादिभेदभिन्ना, जागरितप्रभववासनानिमित्ततत्तुल्यनिर्भासावस्था सुप्तावस्था स्वप्नावस्था वा विशेषविज्ञानोपशमावस्था सुषुप्त्यवस्था, कैवल्यावस्था तुरीयावस्थेति। अथवा मनःप्रचारोपाधिविशेषसम्बन्धादिन्द्रियार्थान् गृहन् तद्विशेषापन्नो जागर्ति, तद्वासनाविशिष्टः स्वप्नान् पश्यन् मनःशब्दवाच्यो, 2010_04 Page #269 -------------------------------------------------------------------------- ________________ जायदाद्यवस्थाः ] न्यायागमानुसारिणीव्याख्यासमेतम् कास्ताः ? उच्यन्ते — सुखदुःखमोहशुद्धयः सत्त्वरजस्तमोविमुक्त्याख्याः कार्याणि चासां यथासंख्यं तिसृणाम्, तद्यथा प्रसादलाघवप्रसवाभिष्वङ्गोद्धर्षप्रीतयः, दुःखशोषतापभेदापस्तम्भोद्वेगापद्वेषाः, वरणसदनापध्वंसनबीभत्सदैन्यगौरवाणि । चतुर्थ्यास्तु शुद्धं चैतन्यं सकलस्वपरिवर्त्तप्रपञ्चसर्वभावावभासनम् । अथवा ऊर्ध्वतिर्यगधोलोका अविभागा वा, संज्ञयसंज्ञयचेतनभावा वा । (सुखेत्यादि ) ( अविभागा इति ) यथासंख्यमेव ऊर्ध्वलोको जाग्रदवस्था, तिर्यग्लोकः 5 सुप्तावस्था, सुषुप्तावस्थाsधोलोकः, अविभागावस्था तुरीयावस्था, संज्ञयसंज्ञ्यचेतनभावा वा, संज्ञिनः समनस्का देवमनुष्यनारकपञ्चेन्द्रियतिर्यञ्चः जाग्रति, सुप्ता असंज्ञिनः पृथिव्यबग्निवायुवनस्पतिद्वित्रि'चतुरिन्द्रियामनस्कपञ्चेन्द्रियाः, काष्ठकुड्यादयः सुषुप्ताः, भवनमात्रं भावः सर्वत्राविभागा तुरीयावस्थेति । अत्राह- २१९ अविभागात्मनस्तस्यैव चतुरवस्थत्वात् कालभेदाभावाच्च चतस्रोऽपि स्युः, न, नियता 10 एव ह्येता विमुक्तिक्रमात् तत् पुनः तुरीयं निरावरणमोहविघ्नं निद्रावियोग आत्यन्तिको निद्रासम्बन्धिजाग्रदाद्यवस्थाविलक्षणमात्मस्वतत्त्वं स एव परमात्मा विमुक्तः सर्वज्ञो व्याख्यातः । ( अविभागात्मन इति) अविभागात्मनस्तस्यैवात्मनश्चतुरवस्थत्वात् कालभेदाभावाच्च चतस्रोऽपि प्रथमद्वितीयतृतीय तुरीयाख्याः स्युरित्येतदयुक्तम्, यस्मान्नियता एवैता विमुक्तिक्रमात् सर्वज्ञता च तुरीयमिति, सुषुप्तावस्थायाः तिरोभूतचैतन्यायाः सुप्तावस्था विमुक्तमलत्वाद् द्वितीया, मिथ्याह- 15 ष्ट्यादिका तृतीया, सम्यग्दर्शनचारित्रात्मिका मुक्तिप्रत्यासत्तेः सर्वज्ञता चतुर्थी । तत्पुनस्तुरीयं निरावरणमोहविघ्नं-निर्गता ज्ञानदर्शनावरणमोहविघ्ना अस्मिन्निति निरावरणमोहविघ्नं, मोहस्यैव महास्वापत्वात्, एकेन्द्रियादिषु स्त्यानर्ज्जुदयसद्भावाद्विशेषेण स्वापः, अविशेषेण तु सर्वप्राणिनां समोहानां मिथ्यादृष्ट्य चारित्राणां स्वापात् 'सुत्ता अमुणी सया मुणिणो सया जागरंति' (आ. सू. १०५) इति, तच्च तुरीयं कैवल्यं विगतावरणमोहविघ्नं रागद्वेष मोहप्रतिघातेभ्यो विविक्ततादर्शनं विशुद्धं प्रतिपूर्णमेकं स्वतत्त्वमिति 20 तत्पर्यायाः । किं रूपं तदिति चेत् ? निद्रावियोग आत्यन्तिकः, तद्व्याख्यानं निद्रासम्बन्धिजायदाद्यव " 2010_04 1 · भवति, उपाधिद्वयोपरमे सुषुप्तावस्थायां उपाधिकृत विशेषाभावात् स्वात्मनि प्रलीन इव भवति, पुरुषावस्था च तुरीयेति । यथासंख्यमेवेति, तदुक्तं चैतन्योत्कर्षनिकर्षतारतम्याभ्यामूर्ध्वाधोमध्यभावेन सर्गस्य भौतिकस्य जाप्रदादिमेदेन विभजनम्, यथा ‘ऊर्ध्वं सत्त्वविशालस्तमोविशालश्च मूलतः सर्गः । मध्ये रजोविशालो ब्रह्मादिस्तम्बपर्यन्तः' इति (सां. का. ५४ ) ऊर्ध्व. लोको प्रमृतिसत्यान्तो लोकः, समधिकज्ञानसुखादिशालित्वात्, सत्त्वबहुलो जाप्रदवस्थालक्षणः । सप्तद्वीपसमुद्रसंनिवेशस्ति- 25 र्यग्लोको रजोविशालः स्वप्नावस्था धर्माधर्मानुष्ठानपरः रजसः कर्मप्रवृत्तिजनकत्वात् कर्मानुष्ठानेषु तदर्जितरक्षणादौ च नियतमेव दुःखानुवृत्तिदर्शनात्, अधर्मानुष्ठानस्याति सौरभ्याच्च दुःखबाहुल्यम् । अधोलोकस्तमो विशाल: सुषुप्तावस्था, एवं गुणत्रयतारतम्यात् ब्रह्मादिस्तम्बपर्यन्तो ज्ञेयः । नन्वेताश्चतस्रोऽप्यवस्था आत्मनः सकृदेव स्युः क्रमिकत्वे कारणाभावादित्याशङ्कते - विभागात्मन इति । मोहलक्षणमलस्य विमुक्तिक्रमेण नियतत्वमेतासामित्युत्तरयति - यस्मान्नियता इति । तत्र प्रथमा तिरोभूतचैतन्यलक्षणसुषुप्तावस्था तत ईषद्विमुक्तमलत्वात् सुप्तावस्था द्वितीया, ततोऽपीषद्विमुक्तमला जाग्रदवस्था सम्यग्दर्शन - 30 ज्ञानचारित्रात्मिका सर्वज्ञता चतुर्थीति क्रमः । सुत्तेति, सुप्ता द्विविधा द्रव्यतो भावतश्च तत्र निद्राप्रमादवन्तो द्रव्यगुप्ताः भावसुप्तास्तु मिथ्यात्वा ज्ञानमयमहा निद्राव्यामोहिताः, ततो योऽमुनयः - मिध्यादृष्टयः सततं भावसुप्ताः, सद्विज्ञानानुष्ठान - Page #270 -------------------------------------------------------------------------- ________________ द्वादशारनयचक्रम् [ विधिविरे स्थाविलक्षणमात्मस्वतस्त्वं, निद्रासम्बन्धिन्यस्तिस्रोऽवस्था : जाग्रत्सुप्तसुषुप्ताख्याः, तत्तद्विलक्षणमात्मनः स्वं तवं शुद्धं चैतन्यं स एवान्येन व्याख्याविकल्पेन परमात्मा विमुक्तः सर्वज्ञ एवं व्याख्यातो वेदितव्यः । करणात्मानं कार्यात्मानञ्च व्याख्यास्यामः - तत्र 5 तावन्महामोहनिद्राक्षयोपशमलब्धिजनितनिर्वृत्त्युपकरणेन्द्रियप्रत्ययं चैतन्यं जायते 'तच प्रत्यक्षादि, प्रत्यवेक्षणात्मकत्वाज्जाग्रदवस्था, सैव करणात्मा, सा चापि चेतनात्मैव, द्रव्यपुरुषवत् । यथानुपयुक्तः पुरुषो नात्मत्वेन परिणमितो द्रव्यपुरुषस्तथा करणात्मापि चेतनात्मैव । तत्र तावन्महामोहेत्यादि यावत्करणात्मा, दर्शनचारित्रमोहोदयेन यस्मात्सुप्ता मिध्यादृष्टोऽचारित्राच प्राणिनः, तस्मान्महामोह एव निद्रा तदुदये स्वापः, तत्क्षये विबोधः, यथोक्तम् 'यदा तु मनसि क्लान्ते बुद्ध्यात्मानः श्रमान्विताः । विषयेभ्यो निवर्त्तन्ते तदा स्वपिति मानवः ।।' इति । 10 तस्या निद्रायाः क्षयोपशमः - अनन्तानां पुरुषपरिणत्यापन्नाष्टविधतद्वातिकर्मणामुदितानां क्षयादनुदितानामुपशमालब्धिरशक्तिरुत्पद्यते, तस्मिन्नेव पुरुषे ज्ञानदर्शनवीर्याविकल्पतया घातिकर्मक्षयोपशमशक्त्या निर्वर्त्तितानि कृष्ण सारशबलपक्ष्मपुटाकारेण चक्षुः शेषेन्द्रियाणि च यथास्वमाकारैः तान्येव चोपकृतान्युपकरणत्वेन मसूरकक्षुरप्रातिमुक्तचन्द्रकयवनालिकानेकसंस्थानैः, ततस्तत्प्रत्ययं - लब्धिजनितनिर्वृत्युपकरणेन्द्रियप्रत्ययं चैतन्यमुपयोगो जायते । 'लब्ध्युपयोगौ भावेन्द्रियम्' ( तत्त्वार्थ० २।१८ ) इति वचसैव कर15 नात् । तच्च प्रत्यक्षादि प्रत्यवेक्षणात्मकत्वात्, आदिग्रहणादनुमानागमात्मकत्व जाग्रदवस्था, २२० रहितत्वात् निद्रया तु भजनीयाः । मुनयस्तु सद्बोधोपेता मोक्षमार्गादचलन्तः सततं जाग्रति द्रव्यनिद्रोपगता अपीति तद्व्याख्या । उक्तञ्च स एव मायापरिमोहितात्मा शरीरमास्थाय करोति सर्वम् । स्त्रियन्नपानादिविचित्र भोगैः स एव जाग्रत्परितृप्तिमेति । स्वप्ने स जीवः सुखदुःखभोक्ता स्वमायया कल्पितजीवलोके । सुषुप्तिकाले सकले विलीने तमोभिभूतः सुखरूपमेति । पुनश्च जन्मान्तरकर्मयोगात्स एव जीवः स्वपिति प्रबुद्धः । पुरत्रये क्रीडति यश्च जीवस्ततस्तु जातं सकलं विचित्रम् | आधार20 मानन्दमखण्डबोधं यस्मिँलयं याति पुरत्रयञ्च' इति ( कैवल्ये ) शुद्धं चैतन्यमिति, यदिन्द्रियादिद्वाराऽऽगन्तुकज्ञानं तत्कदाचित् परोक्षं कदाचित् सन्दिग्धं कदाचिद्विपर्यस्तं भवति, न चैवमात्मा, स ह्यनुमिमानोऽप्यपरोक्षः, स्मरन्नप्यानुभविकः संदिहानोऽप्यसंदिग्धः, विपर्यस्यन्नप्यविपर्यस्तः, अतस्तत्स्वभावः, न च तत्स्वभावस्य चैतन्यस्य कदाप्यभावो नित्यत्वात्, सुषुतिदशायामपि चैतन्य मस्त्येव, परन्तु विषयाभावादेवास्याचेतयमानता, प्रकाश्याभावेन वियति प्रकाशकस्या प्रकाशकत्ववत् । इदच चैतन्यं जाप्रदाद्यवस्थाविलक्षणमनागन्तुकत्वात् जाग्रदाद्यवस्थानाञ्चाविद्यामायाद्यपरपर्यायनिद्राप्रयुक्तत्वमिति भावः । 26 सैव करणात्मेति, उपयोगलक्षणजाग्रदवस्थेत्यर्थः, तस्योपयोगस्य प्रत्यक्षानुमानागमखरूपप्रमाणात्मकतया करणत्वादिति भावः । सा चापीति, उपयोगखरूपजाप्रदवस्थाया अपि अवस्थावतश्चेतनादनन्यत्वात्तत्स्वरूपैवेति भावः । द्रव्येति, अवस्थावचेतनात्मा च द्रव्यपुरुषवत्तथाविधोपयोगाभावेऽपि कारणात्मैवोच्यत इति भावः । दर्शनचारित्रेति, मोहनीयं द्विविधं दर्शनचारित्रमोहनीय मेदात्, तत्त्वार्थश्रद्धानलक्षणदर्शनस्य मोहनाद्दर्शनमोहनीयं मिथ्यात्वसम्यक्त्वसम्यङ् मिथ्यात्व मेदभिनम्, प्राणातिपातादिलक्षणचारित्रस्य मोहनाच्चारित्रमोहनीयं कषायनोकषायभेदभिन्नम्, तत्र दर्शन मोहोदयिनो मिध्यादृष्ट30 यश्चारित्रमोहोदयिनोऽचारित्रास्तेषां बोधस्याज्ञानरूपत्वात् सुप्ता एवोच्यन्ते, तस्य च मोहस्यात्यन्तिके विनाशे शुद्धं खखरूपं चैतन्यमभिव्यज्यत इति भावः । यथोक्तमिति, यदा चैतन्यं चेतसो जाम्रति क्लान्तत्वात् सत्त्वरजसी अभिभूय खाच्छाद न तमसाऽभिभूतं सत् विषयाकारपरिणामाभावात्तमोमयं बुद्धिसत्त्वं जानीते तदा सुषुप्तं भवतीति गाथार्थः । तथा च तमसो महामोहत्वान्महामोह एव निद्रेति भावः । एतादृशनिद्रायाः क्षयोपशमाल्लब्धि शक्तिरुत्पद्यत इत्यार्हतमताश्रयणेनाहतस्या निद्राया इति, अष्टविधेति, चक्षुरचक्षुरिन्द्रियपश्च कज्ञानावरणनिद्रेत्यष्टविधकर्मणामित्यर्थः । आर्हतमते हि द्विविधा - 36 नीन्द्रियाणि द्रव्येन्द्रियाणि भावेन्द्रियाणि चेति, निर्वृत्तीन्द्रियमुपकरणेन्द्रियश्चेति द्विविधं द्रव्येन्द्रियम्, निर्वृत्तीन्द्रियमिन्द्रियद्वाराणि तत्र स्पर्शनेन्द्रियं नानासंस्थानसंस्थितम्, जिह्वेन्द्रियं क्षुरप्रसंस्थितम् घ्राणेन्द्रियमतिमुक्तचन्द्रकसंस्थितम् चक्षुरिन्द्रियं मसू 2010_04 Page #271 -------------------------------------------------------------------------- ________________ करणात्मवर्णनम् ] न्यायागमानुसारिणीव्याख्यासमेतम् २२१ णास्मा, सुप्तजाप्रदवस्थयोश्चान्तरावस्था सुप्तजागरिका, तत्र स्वप्नदर्शनं भवति, यथोक्तम् 'नो सुत्ते सुविणं पासइ नो जागरे सुविणं पासइ । सुत्तजागरे सुविणं पासइ।' (भग. १६ श. ६ उ. सू. ५७८) सा चापि जाग्रदवस्था करणात्माख्या चेतनात्मा-चेतना एवात्मा, तस्यैवार्थस्य जागरणात्मत्वात् । द्रव्यपुरुषवत्, द्रव्यपुरुषो भूतो भावी वा, यथा राजाऽऽसीद्भविष्यति वेति राजैवेत्युच्यते, करचरणगतचक्रपद्माद्याकृतिरेखादिलक्षणदर्शनात् , तदेव हि शरीरमनुभूतराज्यं भविष्यद्राज्यं वा राजा, तथा 5 करणात्मानः स्वपन्तो जाग्रतो वा चेतनात्मैव । अनुपयुक्तो वा द्रव्यपुरुषः, तस्मिन् ज्ञेयेऽनुपयुक्तत्वात्, यथाऽनुपयुक्तः पुरुषो नात्मत्वेन परिणमित आत्मस्वरूपज्ञानत्वेनापरिणमितो द्रव्यपुरुषो द्रव्यात्मैव तथा करणात्मा ज्ञानोपयोगरहितोऽपि चेतनात्मैवेति । एवं तर्हि परमात्मनः शुद्धचेतनात्मत्वात् सर्वात्मकत्वाच्च तस्य करणामावस्थानुपपत्तिरिति चेन्न चैतन्यस्य सर्वात्मकतायामपि सत्यां निद्राग्रहणात् , सुप्तोत्थितस्य सावशेषनिद्रस्येव 10 यज्ज्ञानं सा जागरावस्था करणात्मा, व्यपगतनिद्रस्येव सर्वज्ञावस्थेत्यनयोर्विशेषः, अर्थस्वरूपाग्रहणात् करणात्मावस्थायाः परमात्मना वैरूप्यमित्येतच्चायुक्तम् , अर्थस्य च तथातथातत्त्वात् ज्ञानमेव ह्यर्थः, करणमपि ज्ञानविवर्त्तत्वात् , यथा चेदं ज्ञानं तथा जाग्रदवस्था । शेषः सुप्तावस्था ज्ञानमेव, संशयादीषत्सुप्ततापि करणात्मा । (एवं तहीति) एवं तर्हि परमात्मनः शुद्धचेतनात्मत्वात् सर्वात्मकत्वाञ्च तस्य करणात्मावस्था- 15 नुपपत्तिरिति चेत् नेत्युच्यते चैतन्यस्य सर्वात्मकतायामपि सत्यां निद्राग्रहणात् सुप्तोत्थितस्य सावशेषनिद्रस्येव यज्ज्ञानं सा जागरावस्था करणात्मा व्यपगतनिद्रस्येव सर्वज्ञावस्थेत्यनयोः करणात्मपरमात्मावस्थयोर्विशेषः । स्यान्मतं अर्थस्वरूपाग्रहणात् करणात्मावस्थायाः परमात्मना वैरूप्यमित्येतच्चायु रकचन्द्रकसंस्थितम् , श्रोत्रेन्द्रियं कदम्बकपुष्पसंस्थितम् । निष्पादितस्यानुपघातानुग्रहाभ्यामुपकार्युपकरणेन्द्रियमुच्यते , भावेन्द्रियश्च लब्ध्युपयोगभेदाद्विविधम् , लब्धिः पूर्वमुक्तव क्षयोपशमजनितशक्तिविशेषरूपेति । स्पर्शरसगन्धवर्णशब्देषु ग्रहणरूपो 20 व्यापार उपयोगः स्पर्शनेन्द्रियादिनिमित्तः। तच्चोपयोगलक्षणं चैतन्यं प्रत्यक्षानुमानागमखरूपत्वाजाग्रदवस्थेत्युच्यत इति भावः। सुषुप्तजाग्रदवस्थयोर्मध्यावस्था सुप्तजागरिकेत्युच्यते या सैव खप्नावस्थेत्युच्यत इत्याह-सुप्तेति । द्रव्यपुरुषवदिति, अनुभूतपर्यायाधारं द्रव्यं यथाऽनुभूतघृताधारत्वपर्यायरिक्तघृतघटः, यद्भाविपर्याययोग्यं तदपि द्रव्यं राज्यपर्यायाहेकुमारवत्, तथाभूतभविष्यत्पर्यायश्च भूतभविष्यघृताधारत्वपर्यायरिक्तघृतघटवत् , तथा च यद्योग्यं भूतस्य भविष्यतो भूतभविष्यतोश्च वयोरिदानीमसत्त्वेऽपि तदेव द्रव्यमुच्यते। पूःशरीरं तत्र शयनाभिवसनात् पुरुषः, अथवा सर्वेषामपि खर्गमर्त्यपाता- 26 लगतानां वर्गविमानवनशयनासनयानवाहनदेह विभवादिभावानां नानाभवेषु पूरणपालनभाषावावरूपः पारमार्थिकः पुरुषः, एताशपर्यायानाधारो भविष्यत्पर्यायो द्रव्यपुरुषः । ननु पुरुषः शुद्धचैतन्यस्वरूपो जगद्विलक्षणः जगचाशुद्धमज्ञानस्वरूपम् आप्रत्स्वप्राद्यवस्थात्मकत्वात् तत्कथं करणात्मपुरुषावस्थात्मकमित्याशङ्कते-एवं तीति, तस्य पुरुषस्य करणात्मावस्थाजामदवस्था, तस्या अविद्यालक्षणनिद्राविशेषत्वादिति भावः। शुद्धबुद्धखरूपोऽपि अनाद्यविद्यालक्षणनिद्रावच्छिन्नत्वमित्याहचैतन्यस्येति । अविद्योपस्थापिततत्तबुख्यादिसंघातविशेषोपहितजीवाभिधानं दधानः आत्मा एकोऽपि भिन्न इव विशुद्धोऽप्य-30 विशुद्ध इव ततश्चैकबुद्ध्यादिसंघातापगमे तत्र मुक्त इतरत्र बद्ध इव यथा मणिकृपाणाधुपधानमेदादेकामपि मुखं नानेव दीर्घमिव वृत्तमिव श्याममिवावदातमिवान्यतमोपधानविगमे तत्र मुक्तमिवान्यत्रोपहितमिव भवति, तथा खनजागरितयोरपि । उपाध्यभिभवोद्भवाभ्यां श्रमः सुषुप्तौ च तदभाषः परं ब्रह्म प्रविश्य विमुक्तकार्यकारणसंघातत्वेनाकर्तृत्वात् , विद्याप्रीपेनाविद्याध्वान्तं विधूय तुरीयावस्थायां पुरुष एव केवलो निर्धत्तः सुखी भवति । अत एव तुरीयावस्थाव्यतिरिकावस्थासु सावशेषनिद्रस्येव 2010_04 . Page #272 -------------------------------------------------------------------------- ________________ २२२ द्वादशारनयचक्रम् [विधिविध्यरे तम् , कस्मात् ? अर्थस्य च तथा तथा तत्त्वात् , ज्ञानमेव ह्यर्थः पुरुषसृष्ठेरनेकरूपतायाः प्रतिपादितत्वादेकात्मविपरिवर्तोऽप्यनेकरूप एव तेन तेन प्रकारेण तस्य भवनात्-तथातथातत्त्वात् , तदपि करणज्ञानं ज्ञानमेव,-करणमपि ज्ञानमेव, ज्ञानविपरिवर्त्तत्वात् । एवं तावज्जायदवस्था करणात्मा ज्ञानमेव । यथा चेदं ज्ञानं तथा जानदवस्थाशेषः-सुप्तावस्थाप्रारम्भमात्रं सुप्तावस्था सापि ज्ञानमेव, । संशयादि ईषत्सुप्तता, इयमपि करणात्मा, संशयादिज्ञानमित्यत्रादिग्रहणाद्विपर्ययानध्यवसायौ । सा च सुप्तावस्थापि सती ज्ञानमेव, वस्तुनस्तथातथा तत्त्वात् स्थाणुः स्यात् , पुरुषः स्यादित्यूचंतासामान्यस्य वस्तुत्वात् । तथा विपर्ययोऽपि विज्ञानमेव, तथातत्त्वादर्थस्य स्थाणुत्वपुरुषत्वाभ्यां विपर्ययेण च, तथाऽनध्यवसायोऽपि ज्ञानमेव, चेतनाचेतनात्मकत्वा जागरितवत् , तदेव हि चेतनाचेननम् , चेतनाया एवाचेतनात्वाद्वा संशयादिवज्ञानमेवान10 ध्यवसायः, अथवा सुप्तवदनध्यवसायोऽपि करणात्मैव व्यक्ततरः स्वापः। (सा चेति) सा च सुप्तावस्थापि सतीषत्सुप्तता ज्ञानमेव, पूर्ववदेव सर्वात्मकतायां वस्तुनस्तथातथातत्त्वात् , स्थाणुः स्यात् पुरुषः स्यादित्यूर्खतासामान्यस्य वस्तुत्वात्-यदि स्थाणुः, वयोनिलयनादिविशेषात् , यद्युत्थायोपविष्टत्वकरचरणचलनादिविशेषात् पुरुष इत्युभयथापि तस्य वस्तुनस्तथातथातत्त्वात्स्थाणुत्वपुरुषत्वाभ्याम् । तथा विपर्ययोऽपि विज्ञानमेव, तथातथातत्त्वादर्थस्य स्थाणुत्व15 पुरुषत्वाभ्यां विपर्ययेण चेति सैव व्याख्या। अत्रापि साधनं चेतनात्मा सुप्तत्वाद्रव्यपुरुषवत् , पूर्ववदेव व्याख्या । सुप्तत्वं जाग्रत्त्वं वा चेतनस्यैव भवति नाचेतनस्य कस्यचित् , यथा चैतज्ज्ञानं तथाऽनध्यवसायोऽपि, नाध्यवसायोऽनध्यवसायोऽनभिव्यक्तबोधः सोऽपि संशयविपर्ययाभ्यां विशिष्यमाणः खापः, सुप्तत्वात् ज्ञानमेव चेतनाचेतनात्मकत्वात् , जागरितवत् , यथा जागरितावस्था ज्ञानमेव चेतनाचेतनात्मकत्वात् , तथाऽनध्यवसायोऽपि चेतनावत्, यस्मात्तदेव चेतनमचेतनञ्च-तस्यैव बहुचेतन20 त्वादल्पचेतनत्वाच्च चेतनश्च तदचेतनश्चेति विग्रहात् । चेतनाया एवाचेतनात्वाद्वा संशयादिवत् , आदिग्रहणात् विपर्ययनिर्णयौ गृह्यते, तद्वच्चेतनाचेतनावज्ज्ञानमेवानध्यवसायः । अथवा सुप्तवत् , यथाहि सुप्तः उच्छासनिःश्वासादिक्रियास्वव्यक्तं चेतयमानोऽपि ज्ञाता, एवमनध्यवसायोऽपि करणात्मैव व्यक्ततरः स्वापः विशिष्टस्वाप इत्यर्थः, एवं करणात्मा व्याख्यातः। ज्ञानं जाग्दवस्था तदपेक्षयाप्यप्रस्फुटं ज्ञानं स्वप्न इति बोध्यम् । पुरुषव्यतिरिक्तस्य कस्याप्यभावादर्थानामपि तेन तेन प्रकारेण 25 ज्ञानात्मत्वान्न वैरूप्यमित्याह-अर्थस्य चेति । संशयविपर्ययानध्यवसायज्ञानानां जाग्रदवस्थाशेषत्वात् सुप्तावस्थाप्रारम्भ रूपतया ज्ञानरूपतैवेत्याह-यथा चेदमिति । संशयविषयस्य तेन तेन प्रकारेण वस्तुत्वं कथमित्याशङ्कायामाह-स्थाणुः स्यादिति, पुरोवर्तमानं स्थाणुर्वा स्यात् पुरुषो वा ऊर्ध्वत्वेन तद्वस्त्वेवेति भावः । विशेषलिङ्गेनान्यतरधर्मनिर्णये तु सुतरा- मित्याह-यदि स्थाणुरिति । विपर्ययितमपि वस्तु स्थाणुत्वस्य विपर्यये पुरुषत्वेन पुरुषत्वस्य विपर्यये वा स्थाणुत्वेन स्यादेव तेन तेन प्रकारेण तस्य भवनादित्याह-तथा विपर्ययोऽपीति । तथा च प्रयोगमाह-अत्रापति. संशयो विपर्ययो वा 30 चेतनात्मा, सुप्तत्वात् , द्रव्यपुरुषवदित्यनुमानम् । व्याप्तिं ग्राहयति-सुप्तत्वमिति । चेतनाचेतनशब्दार्थमाह-तस्यैवेति । बहुचेतनत्वेऽल्पचेतनत्वस्याल्पचेतनत्वे वा बहुचेतनत्वस्यैकदाऽसम्भवे त्वाह-चेतनाया एवेति । एवं करणात्मेति, अचेतनसृष्टिं प्रति कारणत्वादिति भावः । 'विवर्त्तस्तु प्रपञ्चोऽयं ब्रह्मणोऽपरिणामिनः । अनादिवासनोद्भूतो न सारूप्यमपेक्षते' 2010_04 Page #273 -------------------------------------------------------------------------- ________________ २२३ कार्यात्मवर्णनम् ] न्यायागमानुसारिणीव्याख्यासमेतम् इदानी कार्यात्मा व्याख्यायते यथा चैतच्चैतन्यं तथाऽनध्यवसायं द्रव्येन्द्रियपृथिव्यादि कार्यात्मा, सा च सुषुप्तावस्था द्रव्येन्द्रियम्, तदपि ज्ञानात्मकमेव, सुषुप्तावस्थात्मकत्वात् , हालाहलानुविद्धमदिरापानापादितनिद्रासुषुप्तवत् , अथवाऽनध्यवसायवत् । __यथा चैतदित्यादि, यथा चैतदनन्तरव्याख्यातमनध्यवसायविपर्ययसंशयावितथप्रत्यक्षादिज्ञानं । चैतन्यं तथाऽनध्यवसायं-अपगताध्यवसाय, अनध्यवसायचेतनाभिमतं द्रव्येन्द्रियपृथिव्यादिकार्यात्मा, आत्मा आत्मनैवात्मत्वेन परिणामितत्वादित्यादयो हेतवो वक्ष्यन्ते, सा च सुषुप्तावस्था द्रव्येन्द्रियम् , निर्वृत्त्युपकरणद्रव्येन्द्रिये व्याख्याते प्राक्, ते च पुरुषेणात्मत्वेन परिणामिते भावेन्द्रियम् , आत्मैव लब्धियुक्त उपयुक्तो वा, पृथिव्यादि च विपरिवर्त्तमानात्मत्वपरिणामापन्नमेव पृथिव्यप्तेजोवायुवनस्पतिद्वीन्द्रियादिकार्यात्मा सुषुप्तावस्था, तदपि ज्ञानात्मकमेव सुषुप्तावस्थात्मकत्वात् , हाला- 10 हलानुविद्धमदिरापानापादितनिद्रासुषुप्तवत् , यथा हालाहलविशेषेण सद्यो मारकेणानुविद्धां मदिरां पीत्वा तदापादिताया निद्राया वशमुपगम्य सुषुप्तश्चेतन एव सन्न किश्चिञ्चेतयते पुरुषस्तथा द्रव्येन्द्रियपृथिव्यादिकार्यात्मा । अथवाऽनध्यवसायवत् , यथा जागरादिपूर्वव्याख्यातावस्थाभ्यो विशिष्टा सुप्तावस्थाऽनध्यवसायाख्या ज्ञानमेव तद्वत् कार्यावस्था द्रव्येन्द्रियपृथिव्यादि ज्ञानमेव । यथा निद्रानिद्राप्रचलाप्रचलास्त्यानर्द्धिवेदनीयानामुत्तरोत्तरोत्कर्षभेदावृतज्ञानशक्तेराचैतन्य विशेषस्तदावरणापगमविशेषा- 15 पादितचैतन्यविशुद्ध्यत्कर्षपर्यन्तप्राप्तसार्वज्ञवद्वा चैतन्यावरणप्रकर्षपर्यन्तप्राप्तं पृथिव्यादि ज्ञानमेव, कर्मणश्चाष्टविधस्य सप्रभेदस्य पुरुषपरिणामैक्यापत्तीनात्मत्वमिति चैतन्यमेव पृथिव्यादेः। अत आह योऽसौ पुरुषस्तदेव तत्, आत्मत्वेन परिणमितत्वात् तद्रव्यत्वात् , भूम्यबादिव्रीहित्वइति सारूप्याभावेऽपि चिदात्मनः प्रपञ्च उपपद्यत इति कार्यात्मा पुरुषो व्याख्यायते इत्याह-इदानी मिति । द्रव्येन्द्रिय- 20 पृथिव्यादिजगदपि चेतनम् ,प्रकृतिरूपस्य विकारेऽन्वयदर्शनात् , अविभावनन्तु चैतन्यस्य परिणामविशेषात् , यथा स्पष्टचैतन्यानामप्यात्मनां खापमूर्छाद्यवस्थासु चैतन्यं न विभाव्यते एवं काष्ठलोष्टादीनामपि चैतन्यं न विभाव्यते, एतस्मादेव च विभावितत्वकृताद्विशेषात् रूपादिभावाभावाभ्याश्च कार्यकारणानामात्मनाञ्च चेतनत्वा विशेषेऽपि गुणप्रधानभावो न विरुध्यते, यथा च पार्थिवत्वाविशेषेऽपि मांसरूपौदनादीनां प्रत्यात्मवर्तिनो विशेषात् परस्परोपकारित्वं भवत्येवमिहापि भविष्यतीत्याशयेनाहयथा चैतदिति । अनध्यवसायेति. अनध्यवसायसंशयविपर्ययाणि सुप्तावस्थाप्रारम्भनमात्राणि, अवितथं प्रत्यक्षादिज्ञा-25 नञ्च जाग्रदवस्था ज्ञेया। द्रव्यादीनां तत्कार्यात्मत्वे हेतुमाह-आत्मेति। ब्रह्म बहिःसाधनमनपेक्ष्यैव द्रव्यादि सृजति यथा क्षीरं जलं वा खयमेव दधिहिमकरकादिभावेन परिणमतेऽनपेक्ष्य बाह्य साधनम् , यथा वा देवा ऋषयो वा महाप्रभावा अनपेक्ष्यैव किञ्चिद्बाह्य साधनमभिध्यानमात्रेण स्वत एव बहूनि नानासंस्थानानि शरीराणि प्रासादादीनि रथादीनि च निर्मिमाणा . उपलभ्यन्त इति हेत्वभिप्रायः । सा चेति. सुषुप्तावस्थैव द्रव्येन्द्रियं भावरूपचैतन्यात्मपरिणामवैकल्यात् निवृत्त्युपकरणे. न्द्रिये हि पुरुषेणात्मत्वेन परिणामिते सती भावेन्द्रियव्यपदेश्ये भवतः, अथवा लब्ध्युपयोगोपयुक्त आत्मा भावेन्द्रियं नान्यथा 30 एवं पृथिव्याद्यपि ब्रह्मणः कार्यलक्षणः परिणामः । इयं सुषुप्तावस्थापि ज्ञानात्मैव, ज्ञानविपरिवर्त्तत्वादित्याह-तदपीति, द्रव्येन्द्रियपृथिव्यादीत्यर्थः । दृष्टान्तमाह-हालाहलेति । यथा निद्रानिद्रानिद्रायुत्तरोत्तरोत्कृष्ट कर्मावृतज्ञानशक्तिरपि चेतन ईषचैतन्यवानेव भवति तदावरणानामुत्कर्षतारतम्येनात्यन्तमपगताद्विशुद्धथत्कर्षपर्यन्तप्राप्तं सार्वज्ञलक्षणं चैतन्यं भवति, तथा च चैतन्यावरणभूतेन प्रकर्षपर्यन्तप्राप्तेन स्त्यानर्द्धिनाऽऽवृतचैतन्यं पृथिव्याद्यपि ज्ञानमेवेत्याह-यथा निद्रेति । अष्टविधस्थति, ज्ञानदर्शनावरणान्तरायमोहनीयवेदनीयनामगोत्रायुःकर्मणामष्टानामित्यर्थः । परिणामपरिणामिनोरभेदमाह-योऽसाविति, 35 _ 2010_04 Page #274 -------------------------------------------------------------------------- ________________ २२४ द्वादशारनयचक्रम् [विधिविध्यरे वत् , यथा भूम्यम्ब्वाद्येव व्रीहित्वेन परिणतत्वात्तद्रव्यत्वाद्रीहिर्भूम्यादिरेव तथा पृथिव्यादि पुरुष एव चेतनात्मकः, तत्कायेत्वात्तन्तुपटवत्, तद्व्यतिरेकेणाभावात् तद्देशत्वाच्च घटस्वतत्त्वप्रत्ययादित्ववत् । (य इति) योऽसौ पुरुषस्तदेव तत्-द्रब्येन्द्रियपृथिव्यादि, तेनात्मत्वेन परिणमितत्वात् को B वाऽत्र भेदः परिणामकपरिणम्ययोरित्याह-तव्यत्वात् , स एव द्रव्यं सप्रभेदं कर्म, तस्मात्तद्रव्यत्वात् , भूम्यबादि ब्रीहित्ववत् , यथा भूम्यम्ब्वाद्येव व्रीहित्वेन परिणतत्वात् तद्र्व्यत्वाद्रीहिभूम्यादिरेव-भूम्यादिभिरेवात्मत्वेन परिणामितत्वात् व्रीहिर्भूम्यादिरेव तथा पृथिव्यादि पुरुष एव चेतनास्मकः । इतश्च-योऽसौ पुरुषस्तदेव तत् , तत्कार्यत्वात् , यद्यस्य कार्य तदेव तत्, पटतन्तुवत् , यथा तन्तूनां कार्यत्वात् पटस्तन्तुरेव तथा पुरुष एव पृथिव्यादि, पुरुषपूर्वकत्वप्रतिपादनस्य कृतत्वात् , 10 इतश्च-तेन विनाऽभूतत्वात्तदेव तत्, यद्येन विना न भवति तदेव तत् , यथा रूपादय एव पृथिव्या दयः, पृथिव्यादय एव रूपादयः, तेऽन्योऽन्यैर्विना न भूतत्वादन्योऽन्यात्मकास्तथा पुरुष एव पृथिव्याद्यपि । किश्चान्यत्-तद्व्यतिरेकेणाभावात् , यद्धि यद्यतिरेकेण न भवति तदेव तत् , यथा घटस्वतत्त्वप्रत्ययादित्वम् । तद्देशत्वाच्च, तस्य देशस्तद्देशः, तत्पुरुषस्य देशोऽवयवः स्वात्मा, रथ्यापुरुषपाण्यादिवत् , तद्देशत्वं सृष्टेस्तत्पूर्वकत्वादिति हेतुः। यो यद्देशः स तत्स्वतत्त्वं एव, किमिव ? घटस्वतत्त्वप्रत्य15 यादित्ववत् , यथा घटस्य प्रत्ययं नवमध्यपुराणता च घटस्वतत्त्वमेव तथा पृथिव्याद्यचेतनमपि चेतन पुरुषत्वमेव । यदुक्तं 'अचिन्त्यप्रभावामूर्तसूक्ष्मज्ञकारणरूपादिमूर्तस्थूलविपरिवर्त्ततत्पुरुषविपरिवर्त्तमात्रं पृथिव्यादि' इति युक्त्योपपादितम् । तत्रैव पुनः संसारसिद्ध्यै युक्त्योपपादनाथ प्रस्तूयते चैतन्यादात्मा सुषुप्तावस्थाया विपर्ययेण वृत्तो रागाधुपयुक्त उपयोगस्वातंत्र्येण बद्धाऽऽ20 त्मनाऽऽत्मानमस्वतंत्रीकरोति, मद्येनेव स्वयं पीतेन मद्यपः, स्वयं पूरितवेगया डोलयेव वा पुरुषो भ्रम्यते, तेन सूक्ष्मस्थूलरूपादिपृथिव्यादिमत्त्वमनाद्यनन्तशः प्रतिपद्यते चैतन्यम् कार्यात्मत्वात् , क्रमेण मृद्धटकपालादि यावद्रूपादयो व्युत्क्रमेण रूपादि यावद्व्यादित्वविपरिवर्ता- नन्त्यवत् । एवंप्रकारस्य भवनस्य देशकालभेदैकान्ताभ्युपगमे वक्ष्यमाणदोषत्वात् । ज्ञानात्मनो जगतश्चेतनधर्मतया धर्मधर्मिणोस्तादात्म्यात् योऽसौ पुरुषस्तदेव तदिति भावः। तत्परिणामादितोऽपि पुरुषतादात्म्य 25 जगत इत्याशयेनाह-आत्मत्वेनेति, आत्मनाऽऽत्मानमात्मत्वेन परिणामितत्वादित्यर्थः । तद्रव्यत्वात् , एकस्यैव नाना रूपेण भवनाव्येन्द्रियपृथिव्यादिचेतन एव न तु तस्य पर्यायो विकारो वा कार्यान्तरं वा कात्म्यैकदेशविकल्पप्रसङ्गात् । । तस्यैव कार्यरूपत्वे निदर्शनमाह-भूम्यबादीति, यथा भूजलादिरेव व्रीहिर्भवति यद्धि यस्मात् प्रभवति यस्मिंश्च प्रलीयते तत्तस्य परिणामिकारणम् , यथा व्रीहियवादीनां पृथिवी, तथैव प्रकृतेऽपि आत्माऽऽत्मानमात्मनैव परिणमयति, पूर्वसिद्धोऽपि सन्नात्माऽऽत्मानं विशेषेण विकारात्मना परिणमयति कर्तृत्वेन पूर्वं व्यवस्थितस्य पि परिणामात् क्रियमाणतासिद्धेः परिणामपरि80 णामिनोश्चानन्यत्वाद्रव्येन्द्रियादिपरिणामस्तद्रव्यमेवेति भावः। चेतनं ब्रह्म जगतः प्रकृतिरित्युक्त्वा कारणमपि तदेवेत्याशयेन हेत्वन्तरमाह-तत्कार्यत्वादिति, तव्यतिरेकेणेति, यथा तन्तुसंस्थाने पटे तन्तुव्यतिरेकेण पटो नाम कार्य नैवोप। लभ्यते केवलास्तन्तव आतानवितानवन्तः प्रत्यक्षमुपलभ्यन्ते इति तन्तुरेव पटः तद्भाव एव तदुत्पत्तेः, तथा भोग्यभोक्त्रादि ____ 2010_04 Page #275 -------------------------------------------------------------------------- ________________ कार्यसृष्टिः ] न्यायागमानुसारिणीव्याख्यासमेतम् २२५ चैतन्यादात्मेत्यादि यावद्विपरिवर्त्तानन्त्यवत्, चेतनस्य भावञ्चैतन्यं तस्माच्चैतन्यादात्मा पृथिव्यादि सुषुप्तावस्थाया विपर्ययेण वृत्तः, तत ईषद्विशुद्धावस्थ इत्यर्थः, चैतन्यस्य रागादिविपरिणामात्, रागादेर्बन्धकारणत्वात्, तदुपयुक्तः, उपयोगस्वातंत्र्येण, उपयोगो हि चेतना, तस्य स्वातंत्र्यं कर्तृत्वात्, 'मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः' ( तत्त्वार्थ. ८/१ ) इति वचनात् । रागाद्यात्मककषायविकल्पात्मकत्वान्मिथ्यादर्शनादीनां तेन स्वातंत्र्येण बद्धाऽऽत्मनाऽऽत्मानमस्वतंत्रीकरोति तेनैव 5 च स्वयंकृतेन बन्धेना स्वतंत्रीक्रियते, मद्येनेव स्वयं पीतेन मद्यपः, स्वयं पूरितवेगया डोलयेव वा पुरुषो भ्रम्यते, कर्मडोलया कर्मबन्धेन रूपादिमत्त्वमनाद्यनन्तश आपद्यते, एवमेतदुभयं सन्तत्याऽनाद्यनन्तश्च द्रव्यार्थतया यथोक्तं 'पुत्रिं भंते! कुक्कुडी पच्छा अंडए, पुत्रिं अंडर पच्छा कुकुडी ? रोहा ! जा सा कुक्कुडी सा कुतो ? अंडगाओ, जे से अंडर से कुतो ? कुक्कुडीओ, एवं रोहा ! पुबिंपि एते पच्छावि एते सासया भावा । अणाणुपुत्री एसा रोहा !' ( भग. श. १ उ. ६ सू. ५३ ) इति । तथा - 10 'सबजीवाणं भंते! एकमेकस्स मातत्ताए भज्जत्ताए पुत्तत्ताए दुहि तित्ताए गोयमा ! असति अदुवा अनंतखुत्तो? (भग. श. १२ उ. ७) इत्यादि । तच्च द्विविधं रूपादि सूक्ष्मं स्थूलश्व, कर्मादि सूक्ष्मम्, आदिग्रहणादुच्छासनिःश्वासभाषामनस्त्वादिकार्मणतैजसाहार कशरीरादि च तदात्मकत्वगत्या, स्थूलं पृथिव्याद्यौदा रिकवैक्तिक - यशरीरात्मकत्वगत्या तदात्मत्वात् एतत् प्रक्रिययैव प्रतिपादितमपि सुखग्रहणार्थं प्रतिज्ञायते, अनाद्यनन्तशः सूक्ष्मस्थूलशरीरादिरूपादिमत्त्वं प्रतिपद्यते चैतन्यमिति । कुतः ? कार्यात्मत्वात्, कार्यात्मत्वञ्च तस्य 15 सिद्धं रूपादिपृथिव्यादिभेदरूपेण विपरिवृत्तेः साधितत्वात् इह त्वनाद्यनन्तशः सेति साध्यते, यो यः कार्यात्मा स सोऽनाद्यनन्तशो विपरिवर्तमानो दृश्यते, तद्यथा - मृद्घटेत्यादि, द्रव्यं मृद्भवति मृद्घटो भवति घट: कपालानि, ततः क्रमेण शकलशर्कराधूलिपांसुत्रुटिपरमाणवः, ततो रूपादयः, रूपादिभ्यः पुनरुक्तक्रमेण परमाण्वादयो यावद्द्रव्यादित्वविपरिवर्त्तानन्त्यम् । आदिग्रहणागुणकर्मसत्त्वादित्वेन विप प्रपश्चजातस्य ब्रह्मव्यतिरेकेणाभावस्तस्मान्न तत्ततो भिन्नमिति भावः । चैतन्यस्य रागादिविपरिणामत्वादिति, शुद्ध- 20 बुद्धमुक्तस्वभावस्यात्मनश्चैतन्यं न संसारिभिरनुभूयते, यत्त्वनुभूयते प्रत्यात्म तत्तु चैतन्यं मिथ्याज्ञानद्वेषायनुषतम् तथाविधबुद्ध्युपाधिधर्माध्यासनिमित्तं कर्तृत्वभोक्तृत्वादिलक्षणं संसारित्वमात्मन इति भावः । तत्र प्रमाणमादर्शयति - मिथ्यादर्श - नेति । तथाविधबुद्धेरेव मुख्यं कर्तृत्वं न त्वात्मनः आत्मन एव खाभाविके कर्तृत्वे वहेरिवौष्ण्यान्नात्मनः कर्तृत्वान्निर्मोक्ष इति न पुरुषार्थसिद्धिर्भवेत् न च निमित्तपरिहारात् कर्तृत्वमोक्ष इति वाच्यम्, निमित्तानामत्यन्तपरिहारासम्भवादिति क्रियावेशादेवास्य कर्तृत्वमिति भावः । स एष स्वयमेव रागद्वेषादिदोषप्रयुक्तः कारकान्तरसामग्रीसम्पन्नः कर्तृत्वमनुभवतीत्याह - तेन 25 स्वातंत्र्येणेति । एतदुभयमिति, मूर्त्तमूर्त्तत्वेन भवनं कर्मजीवसंसरणं वेत्यर्थः । ननु यदि ब्रह्मणोऽविद्याशक्त्या संसारः प्रजायते तदा विद्यानिवृत्तौ सर्वमुक्तिः, अनिवृत्तौ मुक्तानामपि पुनरुत्पादस्तस्यास्तादवस्थ्यादित्याशंका यामाह - सन्तत्येति । न हि सर्व जीवेष्वेका विद्या, किन्तु प्रतिजीवं भिन्ना तेन यस्यैव जीवस्य विद्योत्पन्ना तस्यैवा विद्यापनीयते न जीवान्तरस्येति न संसारानुच्छेद इति प्रवाहापेक्षया संसारस्यानादिताऽनन्तता च अविद्योपधिभेदाधीनो जीवभेदः, जीवभेदाधीनश्वाविद्याभेदः बीजाङ्कुरवदनादित्वादिति । जीवसंसृतेरनादितायां प्रमाणमाह-यथोक्तमिति, पूर्वं भदन्त । कुक्कुटी पश्चादण्डकम् ? पूर्वम- 30 ण्डकं पश्चात् कुक्कुटी ? रोह ! या सा कुक्कुटी सा कुतः ? अण्डकातः, यत्तदण्डकं तत्कुतः ? कुक्कुटीतः, एवं रोह । पूर्वमप्येते पश्चादप्येते शाश्वता भावाः अनानुपूर्व्येषा रोह । । इति तच्छाया । तथेति । सर्वजीवानां भगवन् ! एक एकस्य मातृत्वेन पितृत्वेन भ्रातृत्वेन भार्यात्वेन पुत्रत्वेन दुहितृत्वेन गौतम ! असकृत् अथवा अनन्तकृत्वः, इति छाया । तदेवं क्रमोत्कमा भ्या द्वा० न० २९ 2010_04 Page #276 -------------------------------------------------------------------------- ________________ द्वादशारनयचक्रम् [विधिविभ्वारे रिवर्तवत् । एवंप्रकारस्य भवनस्य स्वजात्यपरित्यागरूपस्य देशकालभेदैकान्ताभ्युपगमेऽनन्तरवक्ष्यमामोक्त्वात् , नान्यथैतदिति प्रतिपत्तव्यम् । अत्राह- नन्वेवमनाद्यनन्तत्वे सति कुकुव्यण्डकयोरिव मुक्तस्यापि चैतन्यरूपादिमत्त्वयोस्तुल्ये'ऽविवेके किमर्थ ज्ञानात्मकमित्युच्यते ? किं वा कारणं रूपादिमदात्मकमिति नोच्यते सर्वम् ? नैवं परिग्रहेऽपि कश्चिद्दोषः, अस्यैवार्थस्य सिषाधयिषितत्वात् , चतुरवस्थत्वात्तस्य, तत एव रूपादिद्रव्येन्द्रियपृथिव्यादिरूपः स एवोच्यते। चेतनाचेतनयोरै क्यापादनप्रस्तुतेः, ज्ञमयञ्चेदं स एव स्वतन्त्रो भवतीति विशिष्य ज्ञग्रहणं स्वतन्त्रग्रहणञ्च किमर्थमिति चेदुच्यते, तथाहि, भावस्वरूपदर्शनार्थन्तु यो भवति स वाच्य इति ज्ञग्रहणम् , तदपि भवनं ज्ञस्यैव सर्वदेशका10 लात्मकस्य देशकालाभ्यां सिद्ध्यति, तथाहि वस्तु भवतीति वक्तुं शक्यम्, तद्भिन्नपृथिव्यादिभेदभूतपदार्थपरिग्रहे तु घटभवनं न सिद्ध्यति । नन्वेवमित्यादि, नन्वेवमनादित्वात् कुक्कुट्यण्डकयोरिवानन्तत्वाञ्च, कुत्सिता कुटिः कुक्कुटिरित्यर्थे कुकुटिशब्दस्य शरीरार्थव्याख्यानात् , मुक्तस्यापि रूपाद्यर्थज्ञानपरिणामादविवेके चैतन्यरूपादि मत्त्वयोस्तुल्ये किमर्थं ज्ञानात्मकमित्युच्यते ? किं वा कारणं रूपादिमदात्मकमिति नोच्यते सर्वम् ? 15 विशेषहेतुर्वा वाच्य इति तदर्शयन्नाह पर:-नन्वेवमनाद्यनन्तत्वे सतीति, गतार्थम् । आचार्य आह-नैवं परिग्रहेऽपि कश्चिद्दोषः, किं कारणम् ? अस्यैवार्थस्य सिषाधयिषितत्वात् , चतुरवस्थत्वात्तस्य, तत एव रूपादिद्रव्येन्द्रियपृथिव्यादिरूपः स एवोच्यते, तथा च सृष्टेः पूर्वमुक्तत्वात् । आह-चेतनाचेतनयोरैक्यापादनप्रस्तुतेः ज्ञः पुरुषस्तम्मयश्चेदम् , स एव स्वतत्रो भवतीति च विशिष्य शाहणं स्वतंत्र ग्रहणश्च किमर्थमिति, आचार्य आह-तथाहीत्यादि, भावयिष्यते, भवतीति भाव इत्युक्तम् , भावखरू20 पप्रदर्शनार्थन्तु यो भवति स वाच्य इति ज्ञग्रहणम् । तदपि तथाहीत्यादि, एवञ्च कृत्वा यत्प्रागुक्तं देशकालभेदेन भवनाभावदोषे वक्ष्यमाणे इति तत्परिहारेण ज्ञस्यैव भवनस्योपपत्तेस्तदन्वयाञ्च सर्वदेशकालात्मकस्य देशकालाभ्यां भवनं सिद्ध्यति, तथाहि वस्तु भवतीति वक्तुं शक्यम् । तद्भिन्नेत्यादि, मेवंप्रकारस्य भवनस्य देशभेदेन कालभेदेन चैकान्तेन भेदेऽभ्युपगम्यमाने वक्ष्यमाणो दोषः समापततीत्याह-एवंप्रका रखेति । वक्ष्यमाणो दोषश्च भवनासिद्धिरनुवर्तमानवस्त्वसिद्धेरिति । अमुमेव दोषमाशङ्कते-नन्वेवमिति, चैतन्यस्थाना25 द्यनन्तशः सूक्ष्मस्थूलशरीरादिरूपादिमत्त्वापत्तावित्यर्थः । मुक्तस्यापीति, एकस्मिन् देशे मुक्तस्यापीत्यर्थः । नैवं परिग्रहेऽपीति, रूपादिमत्त्वेन चैतन्यस्य परिग्रहेऽपीत्यर्थः, अन्यथा तस्य चतुरवस्थात्मकत्वानुपपत्तिरिति भावः। ननु चेतनाचेतनयोरक्यप्रतिपादनावसरे विशेषाभावात् ज्ञ एव सर्व भवतीति भवनाश्रयतया विशिष्य ज्ञस्यैव खातंत्र्येण कर्तृतया च प्रतिपादनमनुचितमित्याशङ्कते-चेतनाचेतनयोरिति, चेतनमचेतनं भवत्यावेतनश्चेतनश्चेत्येवं भवनधाराया अङ्गीकारेऽपि भवनाश्रयस्यैकस्याभावे भवनमेव न सिद्ध्यति अतो यो भवति सोऽवश्यं वाच्यः, स एव ज्ञः स्वतंत्रश्च पूर्वपूर्वकायोव30 च्छिमस्य तस्यैवोत्तरोत्तरकार्यनिमित्तत्वात् , तथा च मूर्तामूर्त्तानि सद्वस्तुप्रकृतिकानि सत्वभावानुरक्तत्वे सति विविधविकारत्वात् , मृदनुस्यूत घटादिवदित्यनुमानम् , तच्च सद्वस्तुचेतन एव स च सर्वदेशकालयोरेक एव सन् तत्तद्देशकालभेदेन भिन्नो भवतीत्याह-तथाहीति। इदं घटो भवतीति इदम्भूतपदार्थस्यैव घटादिरूपेण भवनप्रतीतेः पूर्वोत्तरावस्थाऽनुस्यूतपदार्थसमाव एव भक्नं सम्भवतीति प्राह-तथाहि वस्त्विति । कथं भवनस्याभावोऽनुवर्त्यवस्त्वभाव इत्यत्राह-देशमेवेति _ 2010_04 Page #277 -------------------------------------------------------------------------- ________________ बटभवनासिद्धिः] न्यायागमानुलारिणीव्याख्यासमेतम् २२७ देशकालमिन्नपृयिव्याविमेदभूतपदार्थपरिग्रहे तु-अन्यथा तु घटभवनं यदेतत् प्रत्यक्षसंप्रसिद्धं तदपि न सिध्यति । तत्कथम् ? देशभेदप्रत्ययेन तावदीवापृष्ठकुक्षिबुध्नौष्ठादीनां देशभिन्नानां कपालशकलादीनाच यावत् परमाणुशो रूपादिशो निरुपाख्यत्वशश्च भेदादभावे । एवं न श्वेतिकापीतिकायेक देशभेदान्मृत्, अश्मादिभेदान्न पृथिवी, पृथिव्यप्तेजोवाय्वादिभेदान्न द्रव्यं गुणकर्मभेदाद्वा द्रव्यादिभेदान्नैकं सत्त्वमिति । कालभेदप्रत्ययेनापि प्रतिक्षणमव्यपदेश्यभवनात् कतरत् घटभवनम् ? मृद्भूतव्रीह्याद्यम्ब्वादिकालभिन्नभावभेदे मृदभावात् को घटः ? भवनं वा किं स्यात्। अस्मन्मतेन मुद्भूतो ब्रीह्यादिरम्ब्वादिश्चैक एव, कालान्तरावस्थाने सति तत्परिणामोपचे सामान्यान्वयादीह्यादय उदकादय एव वा मृद्भवती घटो भवतीत्यादि युज्यते, परतोऽपि कपालादिपांशुव्रीह्यादिभूतेः, तस्माद्धटादि सर्वात्मकमेव भवति । न चेदेतदिष्यते तत एवं सर्वात्मकस्यैकस्य सत्त्वस्याभावात् प्रत्येकं सत्त्वस्य च देशतः कालत इतरेतरासस्वात्मकत्वात् कुतो भवनं भवितुर्घटादेः। देशभेदप्रत्ययेन तावदित्यादि, प्रीवापृष्ठकुक्षिबुनौष्ठादीनां देशभिन्नानां कपालशकलादीनाश्च यावत् परमाणुशो रूपादिशो निरुपाख्यत्वशश्च भेदादभावे, घटभवनं न सिद्ध्यतीति वर्तते, 15 एवं न श्वेतिकापीतिकायेकदेशभेदान्मृत् , अश्मादिभेदान्न पृथिवी, पृथिव्यप्तेजोवाय्यादिभेदान्न द्रव्यम् , गुणकर्मभेदावति तदेव हि द्रव्यं रूपगमनादिगुणकर्मभेदात् यावन्निरूपाख्यत्वभेदात् समुदायाभावाचासम्बन्धान्न द्रव्यम्, द्रव्यादिभेदात्-द्रव्यगुणकर्मनानात्वान्नैकं सत्त्वम् , एवं तावदेशमेदे घटभवनं न स्यात्, द्रव्यादीनामनुपपत्तेः । कालभेदप्रत्ययेनापि प्रतिक्षणमव्यपदेश्यभवनात् कतरभ्रूटभवनम् ? क्षणे क्षणेऽत्यन्तमसम्बद्धानामयःशलाकाकल्परूपाद्यात्मकत्वानुपपत्तेः । किं कारणं 30 मृतबीयाद्यम्ब्वादिकालभिन्नभावभेदे मृदभावात् । अस्मन्मतेन मृद्भूतो ब्रीह्यादिरम्ब्वादिश्चैक एक, कालान्तरावस्थाने सति तत्परिणामोपपत्तेः, त्वन्मतेन तु कालभिन्नभावभेदे-क्षणे नवनवार्थासम्बन्धाबावभेदे ब्रीहिरेव विनष्टो मुन्न भवति न चोदकादि विनष्टं मृद्भवतीति निर्बीजत्वान्मृदभावः, मृदा भावाच को घटः ? भवनं वा किं स्यात् ? अस्माकन्तु सामान्यान्वयाद्रीह्यादय उदकादय एक का महाकति देशभेदेन देशिभेदे निरवयवः परमाणुरेव स्यादिति, तस्यापि रूपादिभेदेन भेदे रूपादिव्यतिरिक्तस्य द्रव्यस्य पृथगनुपल-25 ब्ध्याऽभावे रूपमात्रमेव स्यादिति, तस्यापि ग्राह्यग्राहकभावासम्भवेन विषयाभावे च विज्ञानस्याप्यभावे निरुपाख्यमेव स्यादिति भवनं कस्य स्यादिति भावः । इदमेवोपपादयति सुविस्तरम्-ग्रीवापृष्ठेत्यादिना । कालभेदेन भेदे त्वाहकालभेदेति । खमतेन भक्नं सूपपद्यत इत्याह-अस्मन्मतेनेति । अनुवर्तमानस्यैकस्य वस्तुनोऽभावे न कस्यापि सर्वात्मकत्वं देशकालभेदेन प्रतिवस्तु भिन्नत्वादित्याह-न चेदेतदिति । शुक्लपीतकृष्णादिविरुद्धगुणभेदान्न तदाधारभूतैका मुद्भवितुमर्हति, अश्मसिकतापांश्वादिभेदान्नैका पृथिवी पृथिवीजलानलानिलादिभेदाद्विरुद्धगुणक्रियाभेदाद्वा नैक द्रव्यम् , पृथिव्यादि- 30 समुदायस्यापि पृथिव्यादिभिन्नस्याभावात् कास्त्न्यैकदेशाभ्यां परस्परं सम्बन्धासम्भवाच्च न द्रव्यमेकम् , तथा द्रव्यगुणकर्मणं भेदान्नैकं सत्त्वमपीत्याह-एवं नेत्यादिना। अव्यपदेश्यभवनादिति, व्यपदेशायोग्यतयैव वस्तुनो भवनात् , क्षणमात्रस्थायित्वाद्धस्तुन इति भावः । नानादेशकालसम्बन्धित्वमेकस्य वस्तुनो न सम्भवति विरुद्धधर्माध्यासप्रसङ्गात् , प्रतिदेशं प्रति 2010_04 Page #278 -------------------------------------------------------------------------- ________________ २२८ द्वादशारनयचक्रम् [विधिविध्यरे घटो भवतीत्यादि युज्यते परतोऽपि कपालादिपांशुब्रीह्यादिभूतेः-घटभवनात् परतोपि घट एव कपालादिर्भवति, कपालादेरपि परतो यावच्छर्कराभवनात् , पांश्वादेरपि परतो व्रीह्यादेर्भवनात् , तस्माद्धटादिसर्वात्मकमेव भवति। न चेदेतदिष्यते-एवं प्रकारं भवनम् , तत एवं घटादिसर्वात्मकस्यैकस्य देशकालव्यापिनः सत्त्वस्याभावात् , त्वन्मतेनैव प्रत्येकं सत्त्वस्य इतरेतरासत्त्वात्मकत्वात् कुतो भवनं भवितुर्घटादेः? घटः पटात्मना नास्ति पटोऽपि घटात्मनेति देशतः, कालतश्च प्राक् पश्चाद्वा न स एवेति न पटोऽस्ति न वा घट इति प्रत्येकं भिन्नत्वे भावानामभावात् को घटः ? किं भवनम् ? । _ यथा तु यैः रूपादिभेदेन घटो देशभेदाद्यावन्निरुपाख्यशः कालभेदेन च परमनिरुद्धक्षणोत्पत्तिनिरुपाख्यशो भिद्यत इति सर्वभेदपर्यन्तं भेदं विधायापि विज्ञानमात्रमेवेति व्यवस्थाप्यते तैरस्मदुपवर्णनवदेवाभिहितं भवति, रूपादिपरस्परविविक्तत्वे तु तद्विज्ञानान्वयाभा10वादूपरसादिभेदपरिकल्पनाभावस्तदंशकल्पनाभावो निरुपाख्यत्वकल्पनाभाव इति विज्ञान मात्रता न भवति । - यथातुयैः रूपादीत्यादि यावदस्मदुपवर्णनवदेवाभिहितं भवति । यैश्च वर्ण्यते विज्ञानमात्रत्वं देशभेदाटो भिद्यमानो रूपादिभेदेन भिद्यते यावन्निरुपाख्यशः, कालभेदेन च भिद्यमानः परमनिरुद्धक्षणोत्पत्तिविनाशनिरुपाख्यशो भिद्यत इति, तैः सर्वभेदपर्यन्तं भेदं विधायापि विज्ञानमात्रमेव 15 नान्यत् किञ्चिदिति व्यवस्थाप्यते यथा तु तद्व्यवस्थाप्यते तथाऽस्मदुक्तवदुपवर्णितमभिन्नमेकं विज्ञानमित्युक्तं भवति, ततश्च रूपरसादिघटपटादिविश्वभेदात्मकत्वात्तस्य, रूपादेः परस्परविविक्तत्वे तु तद्विज्ञानान्वयाभावाद्रूपरसादिभेदपरिकल्पनाभावस्तदंशकल्पनाभावो निरुपाख्यत्वकल्पनाभाव इति विज्ञानमात्रता न भवति । .. अत्र कश्चिद् ब्रूयात्तदपि विज्ञानमसत् , सर्वभावशून्यत्वादित्येतच्चायुक्तम्20 ज्ञानस्यापि त्वभावाभ्युपगमे रूपाद्यपलापबीजनिरूपणादिनिर्मूलत्वात् प्रत्यक्षादिविरोधः, तस्मादवश्यमात्मा ज्ञानस्वभाव एकः सर्वभावव्यापी विपरिवर्त्तमानोऽवस्थितः कारणमिति सिद्धम् , अत एवोक्तवत् रूपादीनां तत्त्वात् ज्ञानस्वभावात्मावस्थाविशेषमात्रत्वात् सर्वत्र सन्निपत्यारादूरादुपकारित्वेभ्यो हेतुभ्यः आत्मबुद्धीन्द्रियप्रकाशरूपघटौषधाहारादिषु ज्ञानवृत्ति र्भवतीत्येष विशेषः। 25 क्षणच भिनं भिन्नमेव वस्त्वेषितव्यमिति नैकस्य नानादेशकालव्यापिनः सत्त्वमिति को वा घटस्तद्भवनं वेत्याह-त्वन्मतेनै वेति । विज्ञानमात्रवादिनो बौद्धा अपि मदुक्तविधयैव देशकालाभ्यां बाह्यं वस्तु प्रतिक्षिपन्तो विज्ञानमात्रतां व्यवस्थापयन्ती. त्याह-यथा त्विति । अस्मदुपवर्णनवदेवेति, रूपादयोऽमूर्तसूक्ष्मवृत्तिमत्यजन्त एव खप्रवृत्तिप्रभावावबद्धमूर्तत्वप्रकमान् परमाणूनध्यास्य तत उत्तरकालं नानाप्रभेदपृथिव्यादिभेदस्थूलरूपा जायन्ते ते च रूपादयो रूपणाद्रूपं रसनाद्रस इत्येवं रूपणादिकृतात्मलाभनिरुक्तत्वाज्ज्ञानमेवेत्यस्माभिरुपवर्णितप्रकार इव तझ्यवस्थाप्रकारः इवशब्देन सूचितो भेदश्च तैज्ञोनं 30 क्षणिकमित्युच्यते, अस्माभिश्च नित्यमेकमन्वयीत्युच्यत इति भावः। रूपादीनामत्यन्तं व्यावृत्तताङ्गीकारे च तेषु विज्ञानस म्बन्धाभावाद्रूपादेर्निरूपणमेव न स्यादिति रूपरसादिभेदकल्पनं न सिझ्यतीति तदभाव एव स्यादतो रूपादीनां विज्ञानस्याकारविशेषत्वाद्विज्ञानाशकल्पना निरुपाख्यत्वकल्पना वा न सम्भवति, ज्ञानेनैव हि सर्व निरूपणीयम् , न ह्यसम्बद्धेन तेन तन्निरूपयितुं शक्यमिति रूपाद्यभाव एव, ततश्च विज्ञानमात्रतापि न सिद्ध्येत् . रूपज्ञानं रसज्ञानमित्येवं रूपणरसनक्रियया निकाय विज्ञानं निरूपकाभावे कथं भवेदित्याह-रूपादे परस्परेति । विज्ञानमपि मा भूतु को दोष इत्यत्राह-ज्ञानस्यापीति। 2010_04 Page #279 -------------------------------------------------------------------------- ________________ २२९ पुरुषात्तु सर्वसिद्धिः] न्यायागमानुसारिणीव्याख्यासमेतम् (ज्ञानस्यापीति) रूपादयो न सन्तीति यदपलापबीजं निरूपणं तदपि नास्तीति रूपादि प्रतिषेधो न सिद्ध्यति, प्रत्यक्षतश्च स्वानुभवेन रूपस्य निरूपणमुपलभ्यते प्रतिस्वम् । आदिग्रहणादा. स्वादनघ्राणस्पर्शनश्रवणानुभवा उपलभ्यन्तेऽतः प्रत्यक्षविरोधः, तदनुस्मरणदर्शनादनुमानविरोधः आदिग्रहणात्, अनुस्मरणं हि स्वयमनुभूतस्यार्थस्य, नाननुभूतस्य । तस्मादवश्यमात्मा ज्ञानस्वभाव एकः सर्वभावव्यापी विपरिवर्त्तमानोऽवस्थितः कारणमिति सिद्धम् । अत एवोक्तवदित्यादि, एतस्मादेवात्मव्याप्तिविपरिवृत्तिव्यवस्थितत्वाद्धेतोरुक्तेन तुल्यमुक्तवत् , रूपादीनां तत्त्वात्-रूपणात्मकत्वात् ज्ञानस्वभावात्मावस्थाविशेषमात्रत्वात् । सर्वत्र-सर्वभावेषु एष विशेषः तस्यैव कारणपदार्थस्योपकारविशेषेभ्योऽपरो द्रष्टव्यः, सन्निपत्योपकारिणी बुद्धिरात्मनः साक्षाव्यवहिता भावानां स्वपरिवर्तविशेषाणामुपभोगे, भोक्ता तु स्वयमेव स्वपरयोरारादिन्द्रियाणि करणत्वात् , दूरात् प्रकाशादयोऽनुप्राहकाः इन्द्रियाणाम् , दवीयांसस्तु रूपादयः दविष्ठा घटादयः, औषधान्यञ्जनादीनीन्द्रियाणां पाटवजननादु-10 पकार्योपकारित्वेन तदुपोद्वलकराश्वाऽऽहाराः सर्वभावगतासु ज्ञानवृत्तिष्विति, अत आह-सर्वत्र सन्नि. पत्याराहरादुपकारित्वेभ्यो हेतुभ्य आत्मबुद्धीन्द्रियप्रकाशरूपघटौषधाहारादिषु ज्ञानवृत्तिर्भवतीति । अत्रआह च पुरुष एवेदमित्यादि। आह चेति ज्ञापकमेतस्मिन्नर्थे पूर्वोक्तमेव जैनैर्वक्ष्यमाणज्ञापकार्थमेकोऽहमनेकोऽप्यहमित्या-10 दिकम् , अतोऽपि लौकिकस्तदनुसारेणाह न स्वमहिम्नेति, पुरुष एवेदमित्यादि, एवेत्यवधारणे, भवितुरन्यस्याभावात् , उक्तवत्तस्यैव च भवनात् । इदमिति दृश्यस्पृश्यादीन्द्रियगोचरं लिङ्गगम्यं च निर्दि अथ न खलु बाह्यार्थस्याभावोऽध्यवसातुं शक्यते विज्ञानाभावे रूपादयो न सन्तीति निरूपणोपायाभावात् , न वा स्फुटतरे सर्वजनीन उपलम्भे सति तदभावो वक्तुं शक्यः, यथा हि कश्चिद्भुञ्जानो भुजिनिय॑तृप्तौ स्वयमनुभूयमानायां नाहं भुजे न : वा तृप्यामीति ब्रुवन्ननुपादेयवचनो भवति प्रत्यक्षविरुद्धत्वात् , तद्वदिन्द्रियसन्निकर्षेण खयमुपलभमान एव रूपाद्यर्थजातं नाह-20 मुपलभे न च सोऽस्तीति ब्रुवन् कथमुपादेयवचनः स्यादित्याशयेनाह-रूपादय इति । आदिग्रहणादिति, रूपादीत्यत्रादिग्रहणादित्यर्थः। प्रत्यक्षादीत्यत्रादिग्रहणादनुमानस्य ग्रहणमित्याह-तदनुस्मरणेति । रूपणरसनादिना चानुभवनीय यद् ज्ञानं तदपि न विभिन्नमनुस्मरणानुपपत्तेः, तच्च खयमनुभूतस्यैव, नान्येनानुभूतस्येति सर्वभावव्यापी ज्ञानलक्षणः स्वय म्प्रकाशश्चतनाचेतनतया विपरिवर्त्तमान एक आत्मा सर्वकारणं सिक्यतीति भावः । एतस्मादेवेति, सर्वभावव्याप्तत्वे सति विपरिवर्तमानत्वादेव हेतोरित्यर्थः, रूपादयो रूपणाद्यात्मकत्वे सति ज्ञानखभावात्मावस्थाविशेषा एव । चेतनस्यैकस्यैव 25 भोग्यभोक्तभोगभोगोपकरणादिना वर्तनमादर्शयति-सर्वत्रेति । सन्निपत्येति, चेतनस्य खपरिवर्त्तविशेषाणामुपभोगे सन्निपत्त्योपकारिणी भवति, आन्तरं साधनमिति भावः,भोक्ता चेतनस्साक्षदेव, इन्द्रियाणि करणत्वादारादुपकारकाणि प्रकाशादय इन्द्रियापेक्षया विप्रकर्षेणोपकारकाः, रूपादयश्च तदपेक्षयाऽपि विप्रकृष्टास्ततोऽपि घटादयः, औषधादीनि चेन्द्रियपाटवाधाय.. कानि आहारादयोऽपीन्द्रियाणामुपोद्वलकरा इति विशेष इति भावः । तत्र प्रमाणमाह-आह चेति-पुरुष एवेदं सर्व यद्भूतं यच्च भव्यम् , उतामृतत्वस्येशानो यदन्नेनातिरोहति इति (ऋग्वेदे० पुरुषसू०) पूर्णा ऋक् ज्ञापकमिदं पुरुषवादिनः, आई-30 तमतानुसारेण ज्ञापकं सूचयति-जैनैरिति, हे सोमिल! एकोऽप्यहं द्वावप्यहमक्षयोऽप्यहमव्ययोऽप्यहमवस्थितोऽप्यहमनेक भूतभावभावकोऽप्यहमिति विधिविध्यरान्ते वक्ष्यमाणं ज्ञापकमत्र बोध्यम् । पुरुष एवेदमिति ऋचं व्याचष्टे-पुरुष एवेदमित्यादीति, भवितुरिति, पुरुषातिरिक्तस्य प्रपञ्चस्य प्रतिषेधात् पुरुषोपादानमेव जगदित्यवधार्यते तस्यैव प्रागुदितप्रकारेण चेतनाचेतनरूपेण भवनादिति भावः । इदंशब्देन व्याकृतं प्रत्यक्षानुमानगम्यं गृह्यत इत्याह-इदमितीति । निखिल 2010_04 Page #280 -------------------------------------------------------------------------- ________________ २३० द्वादशारनयचक्रम् [विधिविध्यरे शति, सर्वमित्यशेषम् , तस्यैव सामान्यविशेषभेदप्रभेदानन्त्येऽपि सङ्ग्रहीतं बुद्ध्या, इदं च देशतः प्रदर्शनमिदं सर्वमिति । कालतस्तु भूतं भाव्यमिति अतीतानागतवर्तमानानां प्रदर्शनम् , भूतशब्दस्य वर्तमानातीतवाचित्वात् , उत-पश्य, प्रेक्षस्वेत्यर्थः, अमृतत्वस्य-अक्षयत्वस्य ईशानः-प्रभविता, सह. भयोऽजरोऽमरः पुरुषः, ज्ञानस्याविनाशित्वात् , सोऽक्षयत्वमनुभवतीत्यर्थः । यथोक्तम्-'अक्खरस्स अणंतभागो णिचुग्घाडिओ सबजीवाणं (नन्दी. पृष्ठे १९५-२) इति, तद्व्याख्याननिदर्शनश्च-'तंपि जदि आवरिजिज तेण जीवो अजीवयं पावे' (नन्दी. १९५-२) 'सुङवि मेहसमुदए होइ पभा चंदसूराणं' (नन्दी. पृ. १९५-२) इति । यदिति, यस्मात् कारणात् , अन्नेनातिरोहति, अद्यते भुज्यतेऽश्यत इत्यन्नं पुद्गलद्रव्यं तेनैवात्मनाऽनाद्यनन्तशोऽपि विपरिवर्तितत्वात् , तेनान्नेनासावतिरो इति वर्धते-उपचीयते, तत्स्वारूप्याद्वालक इव नवनीताहारेण, तेन ज्ञानक्रिययोरुपष्टम्भोपलम्भात् 10 करणकायविवृद्धेश्व, यथोक्तं-'अन्नं वै प्राणाः' 'अन्नमयो ह्ययं पुरुषः,' पुरि शयनात् पुरुषः, नाज्ञस्यै तत्सर्व घटते, अतिरोहति भृशं रोहतीति । किश्चान्यत् अत एव सर्वत्वसिद्धिस्तस्य, तया चाऽऽत्मा सत्त्वं भूतः पुरुषः पुद्गलो जन्तुः प्राणी जीव इत्याद्यभिख्या घटन्ते मृदनुत्तीर्णघटपिठरादिवत् भ्वस्त्यर्थादिभ्यः सर्वस्यानुत्तरात 15 यावदेव किश्चिदुत्पद्यते विनश्यति व्यवस्थितं वा तस्य सर्वस्यासावात्मा । अत एवेत्यादि, एतस्मादेव कारणात् सर्वत्वसिद्धिः तस्य-तत्त्वज्ञानस्वरूपस्य, तया च पुन: सर्वत्वसम्प्रसिद्ध्या आत्माद्याख्याताः, सततमतति गच्छति जानीते परिणमतीति चात्मा, सतो भाका सत्त्वं स एव सन् भवति चेत्यर्थः, भूतस्तथा सदा भवतीति वा, पुरि शयनात् पुरुषः शरीरे जगति वा खविजृम्भितविकल्पात्मके, पूरणाद्गलनाच पुद्गलः पुमांसं गिलतीति वा पुद्गलः, जीवशरीरस्य 20 विभज्य भोक्तृभोज्यभावाद्वृद्धिहानिभ्यामुत्पत्तिविनाशाभ्यां पूरणगलनाभ्यामित्यर्थः । जायते तैस्तै - वैरिति जन्तुः । पञ्चेन्द्रियमनोवाकायबलायुरुच्छासनिःश्वासाख्यदशप्राणधारणात् प्राणी जीव इति चोच्यते । इत्येवमाद्यभिख्याः सर्वत्वे सति घटन्ते तेन तेन धर्मेण व्यपदेशाविरोधात् । मृदनुत्तीर्णघटपिठरादिवत्, यथा मृदोऽनुत्तीर्णाः घटपिठरादयो भवन्ति सन्ति वर्तन्ते इत्यादिभ्यो भ्वस्त्याद्यर्थेभ्यो प्रपश्चग्रहणार्थ सर्वपदमित्याह-सर्व मितीति । अक्खरस्स इति, न क्षरतीत्यक्षरं केवलज्ञानमथवा जीवस्य चेतनाभावो 26 ज्ञानपरिणामो वा अनुपयोगेऽप्यप्रच्यवनातू तच्च सर्वजीवानामनन्तभागो नित्योद्घाटितः। सोऽपि यद्यावियते तेन जीवोs जीवत्वं प्राप्नुयात् । तत्र दृष्टान्तरूपेणाह-सुदृढवि, सुष्ठपि मेघसमुदये भवति प्रभाचन्द्रसूर्ययोः, तद्वदिति भावः । तेनेति, नवनीताहारेणेत्यर्थः । अत एवेति, सार्वात्म्यं जगत्कारणस्य पुरुषस्यैवोपपद्यते कारणादभेदात् कार्यजातस्य, पुरुषस्य च जगत्कारणत्वादित्यर्थः । अत एव स आत्मादिशब्दैः प्रोच्यत इत्याह-तया चेति. सर्वत्वसिङ्ख्या चेत्यर्थः। दृष्टान्तमाह मृदनुत्तीर्णेति, मृज्जात्यपरित्यागेन वर्तमाना घटपिठरादयो मृदभेदेन घटो मृत् पिठरं मृदियेवं व्यपदिश्यन्ते तथा घटादेः 30 सत्वप्रकारकप्रमाविषयताप्रयोजकरूपवत्त्वात्सच्चित्तादात्म्यम. तेन तेन प्रकारेण तस्यैव भवनात , वर्तनाच्च भवति अस्ति वत्तेत इत्याद्यर्थेभ्यो भावं सर्वे नोत्तरन्ति, तस्मात्तत्तद्धावैः स एव भवतीति आत्मादिशब्दवाच्य इति भावः । एतदेवाह-यावदेवेति, सत्त्वशब्दं निर्वक्ति सतो भाव इति, सद्रूपेण वर्तमानः सन् भवनधर्मेत्यर्थः । पुरुषशब्दं निर्वक्ति-पुरि शयनादिति, पुद्गलशब्दं व्याकरोति-पूरणादिति, भ्वादयः सर्वे धातवोऽस्त्यादीनामर्थ नातिवर्त्तन्ते, स चास्त्यादिवच्याः 2010_04 Page #281 -------------------------------------------------------------------------- ________________ सर्वात्मकतावर्णनम् ] न्यायागमानुसारिणीव्याख्यासमेतम् २३१ नोत्तरन्ति, भवनानुत्तरात् सर्वधातूनां भवत्याद्यर्थत्वात् , एवं ज्ञानस्वरूपः कर्ता भवत्यस्ति वर्तते ज्ञानस्वरूपभवनानुत्तरात्, अत आह-वस्त्यर्थादिभ्यः सर्वस्यानुत्तरात् , अस्तिभवतिविद्यतिपद्यतिवर्त्ततयः सन्निपातषष्ठाः सत्तार्थाः, भ्वादयश्च सर्वधातवस्तदर्थं नातिवर्तन्त इति, यावदेव किञ्चिदुत्पद्यते विनश्यति व्यवस्थितं वा तस्य सर्वस्यासावात्मा स्वरूपं तत्त्वमित्यर्थः, इति पर्यायैः स्वरूपोपनयनम् । स्यान्मतम् स्वात्मनि वृत्तिविरोधात् कथमात्मनाऽऽत्मानं सृजत्युपसंहरति च, बध्यते मुच्यते च? न ह्यङ्गल्यग्रं स्पृशति, नासिरात्मानं छिनत्तीत्येतच्चायुक्तम् , शक्तिभेदात् कारकभेदोपपत्तेः, तन्तुवायकोशकारकीटवञ्च तदात्मका एवैते संसारविसर्गबन्धमोक्षाः। यथा च 'सुदीप्तात् पावकाद्विस्फुलिङ्गाः प्रभवन्ते सरूपाः', एवं पुरुष एवं सर्वम् , स एवोच्यते कालोऽपि ज्ञत्वात् , प्रकरणात् प्रकृतिः, रूपणान्नियमनान्नियतिः, स्वोभाव आत्मनैव स्वेन रूपेण भवनात्स्वभावः। 10 (स्वात्मनीति) (संसारविसर्गबन्धमोक्षा इति ) यथा तन्तुवायकीटः स्वशरीरजयैव लालया तन्तुं प्रसारयत्युपसंहरति च, न चान्यतः कुतश्चित्तथाऽऽत्मन एव संहारविसर्गौ । उक्तं हि-'यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः सम्भवन्ति । यथा सतः पुरुषात् केशलोमानि तथाsक्षरात् सम्भवतीह विश्वम्' (मुण्ड. ११११७) इति । यथा वा 'यथा सुदीप्तात् पावकाद्विस्फुलिया सहस्रशः प्रभवन्ते सरूपाः (मुण्ड. २।१।१) इति । बन्धमोक्षावपि, यथा कोशकारकीटकः आत्मानं 15 वेष्टयति स्वशरीरविनिर्गतेन कोशेन पुनश्च तत्रैव प्रलीयते कश्चिच्च कोशकं छिद्रीकृत्य निर्गच्छत्येवमात्मनो बन्धमोक्षौ नान्यत इति । किश्चान्यत्-यथा च सुदीप्तादित्यादि, अयमपि दृष्टान्तोऽमिखतवानतिवृत्त्याऽविरूपसम्भवात् पुरुषस्य तत्साधर्म्यप्रदर्शनार्थः, यथा वाह-यथा सुदीप्तात् पावकादित्यादि । - सपः पुरुष एव यावन्तो जगति प्रभवविभवस्थितिधर्माणस्तेषां सर्वेषामात्मखरूप इत्याह-भ्वादयश्चेति । नन्वात्मात्मानमेव साधनान्तरनिरपेक्षः स्वयमेव सृजति उपसंहरति चेति न संभवदुक्तिकम् , कर्तृत्वकरणत्वकर्मत्वानां परस्परविरुद्धानामेकत्र 20 विरोधादित्याशङ्कते-खात्मनीति । न स्यङ्गुली खाग्रं स्पृशति नाप्यसिः खात्मानं छिनत्ति, तस्मान्नात्माऽऽत्मनाऽऽत्मानं सृजतीत्यादिसम्भव इति शङ्कार्थः । समाधत्ते-शक्तिमेदादिति, सिद्धत्वसाध्यत्वसाधनत्वादिलक्षणोपाध्यवच्छिन्नस्यात्मनो भेदेन कर्तृत्वाधुपपत्तिः, अत्र दृष्टान्तमाह-तन्तुवायेति, दृष्टान्ते शुद्धमचेतनमर्णनाभेर्लाला न लूतातन्तुपरिणामकारणं न वा शुद्धश्वेतनः किन्तु चेतनाधिष्ठितमचेतनमर्णनाभिशरीरं सूत्रस्य योनिः. एवं पुरुषशरीर केशलोनाम्, अत एवाऽऽत्मा शुद्धखरूपोडकर्ता, अविद्योपहितस्तु अभिन्ननिमित्तोपादानकारणभूतः, परिणामाच्च पूर्वसिद्धोऽपि सन्नात्मा खयमात्मना विशेषेण विकारा- 25 स्मना परिणमयत्यात्मानम् । अत्र प्रमाणमाह-यथोर्णनाभिरिति तथैव भूतयोनेः पुरुषात् सर्व विश्वं सम्भवतीत्यर्थः । यथा सुदीप्तादिति, यथाहि वह्नर्विकारा व्युचरन्तो विस्फुलिंगा न बढेरत्यन्तं भिद्यन्ते तद्रूपनिरूपणातू, नापि ततोऽत्यन्तमभिभाः, वहेरिव परस्परध्यावृत्त्यभावप्रसङ्गात्, तथा जीवात्मानोऽपि ब्रह्मविकारा न ब्रह्मणोऽत्यन्तं भिद्यन्ते, चिद्रूपत्वाभाकप्रसङ्गात्, नाप्यत्यन्तं, न भिद्यन्ते परस्पर व्यावृत्त्यभावप्रसङ्गात् , तस्मात्कथंचिद्भेदों जीवात्मनामभेदच भागप्रतिभासो बुख्याधुपाधिनिमित्तात् , आकाशस्येव घटादिसम्बन्धनिमित्तात् , एवञ्च परमात्मांश एव जीवोऽमेरिव विस्फुलिंगः 30 सत्र सत्यपि जीवेश्वरयोरंशांशिभावेऽविद्यादिव्यवधानादीश्वरसमानधर्मत्वं विद्यमानमपि तिरोहितम् , तत्पुनः परमेश्वरमभिध्यायतो यतमानस्य जन्तोर्विधूतध्वान्तस्य तिमिरतिरस्कृतेव दृक्शक्तिरौषधवीर्यादीश्वरप्रसादात् संसिद्धस्य कस्यचिदेवाविर्भवति न खभावत एव सर्वेषां जन्तूनाम् , एवश्वेश्वरखरूपापरिज्ञानाद्वन्धस्तत्स्वरूपपरिज्ञानात्तु मोक्ष इति 'यथा सुदीप्तात् पावकाद्विस्फुलिङ्गाः सहस्रशः प्रभवन्ते सकपाः । तथाऽक्षराद्विविधाः सौम्या भावाः प्रजायन्ते तत्र चैधापियन्ति' इति श्रुतेर्भावः । एवं च पुरुष 2010_04 Page #282 -------------------------------------------------------------------------- ________________ द्वादशारनयचक्रम् [विधिविध्यरे एवं तावत् पुरुष एव सर्वमित्युक्तम् , स एवोच्यते कालोऽपि ज्ञत्वात् , कलनात् कालः, कल संख्याने, कलनं ज्ञानं संख्यानमित्यर्थः । यथा चाहुरेके 'कालः पचति भूतानी'ति श्लोकः । प्रकरणात् प्रकृतिः, स एवेति वर्तते, सत्त्वरजस्तमःस्वतत्त्वात् प्रकाशप्रवृत्तिनियमार्थाद्गुणानामात्मस्वतत्त्वविकल्पनेन च भोक्ता । प्रकुरुत इति प्रकृतिः । यदाहुः-'अजामेकां लोहितशुक्ल कृष्णां बह्वीः प्रजाः सृजमानां "सरूपाः । अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः' (श्वेताश्व. ४।२५) इति । रूपणानियमनान्नियतिः, रूपणाच्चक्षुषो विषयो रूपमेव न रसादयः, रसनाद्रसो रसनविषयो न रूपादय इत्यादिनियमनान्नियतिः। वो भावः आत्मनैव खेन रूपेण भवनात् स्वभावः 'कः कण्टकाना'मित्यादि । - येन यत्र यथा यस्माद्यदा यदर्थं प्रवर्तितव्यं तेन तत्र तथा तस्मात्तदा तदर्थञ्च प्रवृत्ति रन्तरञ्चैतस्य, स एव हीदं सकलं जगत् वृत्तमविवृत्तञ्च बहुधानकं चेतनाचेतनसप्रभेदरूप१० मिति । आह च-'तदेजति तन्नजति तदरे तद्वन्तिके । तदन्तरस्य सर्वस्य तदु सर्वस्यात्य बाह्यतः' (ईशा०.१-५) इति । स एवार्हन बुद्धः ब्रह्मा विष्णुः ईश्वर इति । . (येनेति) येन-हेतुना यत्र-क्षेत्रे यथा-येन प्रकारेण यस्मादाश्रयाद्वस्तुनः यदा-यस्मिन् काले यदर्थश्च-यत्प्रयोजनमुद्दिश्य प्रवर्तितव्यं तेन तत्र तथा तस्मात्तदा तदर्थश्च प्रवृत्तिः, यथा. राज्ञाऽऽज्ञप्तः सूपकारः स्थाल्यां कुशूलात्तन्दुलानाकृष्य मृदु विशदमोदनं प्रयत्नपूर्वकं क्षुत्प्रशमनार्थश्च 15 पचतीति, तत्पुनः प्रवर्त्तनं तदन्तरश्चैतस्य, न ततो व्यतिरिक्त बहिर्भूतम् , स एव हीदं, स एव पुरुषो यस्मादिदं सकलं जगद्वृत्तं-ततः प्रसृतं नानाभेदेन विवर्त्तमानम्, अविवृत्तञ्च तत्स्वरूपापरित्यागात् , बहुधानकं-बहुधानाश्रयः, चेतनाचेतनसप्रभेदा रूपमस्येति चेतनाचेतनसप्रभेदरूपं-यञ्चेतनं नरतिर्यगमरनारकादि तत्प्रभेदाश्च रूपमस्य, काष्ठकुड्यघटपटाद्यचेतनश्च सप्रभेदमस्य रूपमिति, आह चेति, जैनमतानुसारेणैवेत्यर्थः, तदेजति-चलति स्पन्दते, नैजति-न चलति न स्पन्दते, तहरे-तिर्यग्लोकेऽधो 10 लोकेऽलोके च, तदुपान्तिके -तदेकस्मिन् प्रदेशे दृश्यस्पृश्यादि तदन्तरस्य-घटपटादेः सर्वस्य-वस्तुनः साकारानाकारोपयोगलक्षणस्यात्मनस्तत्परिणतेरप्रतिघातात् , तदु सर्वस्यास्य बाह्यतः-तस्यैवालोकेऽपि सद्भावात् , सर्वस्यास्येति लोकगतभावनिर्देशात्तस्य बाह्यमलोक इति । अहण् बोधने इत्यादेः विशुद्धि स्मैव सर्जनविसर्जने बन्धमोक्षौ चेति स एव जगद्रूपेण परिणमत इति सिद्धमित्याह-एवं तावदिति । स एव कालप्रकृति. - नियतिखभावादिशब्दवाच्य इत्याह-स एवोच्यत इति काल इति. कालः पचति भूतानि कालः संहरते प्रजाः । कालः 25 सुप्तेषु जागर्ति कालो हि दुरतिक्रमः॥ इति कारिका कालवा दिनो बोध्या. प्रधानवादिसम्मतं मंत्रमाह-अजामेकामिति, अत्राजाशब्दः परमेश्वरादुत्पन्नायां ज्योतिःप्रमुखायां तेजोबन्नलक्षणायां चतुर्विधस्य भूतग्रामस्य प्रकृतिभूतायां वत्तेते, न नयामकाभावादिति शाङ्करभाष्ये निरूपितम । रूपणं हि नियमनं तत्कथं नियम्यत इत्यत्राह-रूपणापक्षष इति । कः कण्टकानामिति, कः कण्टकानां प्रकरोति तैक्षण्यं विचित्रतां वा मृगपक्षिणाञ्च । स्वभावतः सर्वमिदं । प्रवृत्तं न कामचारोऽस्ति कुतः प्रयत्नाः ॥ इति खभाववादिनः कारिका विज्ञेया। द्रव्यक्षेत्रकालभावभेदेन सर्वविधा प्रवृत्ति30 स्तस्य पुरुषस्यान्तर्गतैव न काचन ततो व्यतिरिक्ता प्रवृत्तिरस्तीति पुरुषवादमुपसंहरति-येनेति । दृष्टान्तमाह-यथेति, राज्ञाऽऽशप्त इति हेतुप्रदर्शनम् , स्थाल्यामित्याधारभूतक्षेत्रप्रदर्शनम् , यस्मादित्यस्यार्थः कुशूलादित्यनेनोक्तः, मृद्वादिर्यथापदार्थः, रामनाथेमिति यदर्थस्य प्रदर्शनम्। बहिर्भूतत्वाभावे हेतुमाह-स एव हीदमिति । जैनमतानसारेणैवेति. तदेजती.सादिमंत्रस्य जैनमताभिप्रायेण व्याख्यायमानत्वादिति भावः। तथाविधः पुरुष एवार्हदादिशब्दैरुच्यत इत्याह-अर्हणिति। 2010_04 Page #283 -------------------------------------------------------------------------- ________________ १३३ पुरुषकारणभङ्गः] न्यायागमानुसारिणीव्याख्यासमेतम् प्रकर्षविशेषाद्देवता अपि स एव, अर्हति सकललोकातिशयपूजामित्यर्हन् , बुद्ध्यत इति बुद्धः, वर्धनाद्वृहत्त्वाद्ब्रह्मा वर्धमानो वा, व्याप्नोतीति विष्णुः ज्ञानात्ननैव सर्वानर्थान् , ईशनादीश्वरः । एतेभ्यश्च ज्ञानविशुद्ध्युत्कर्षभेदेभ्यस्तत्पर्यन्तप्राप्तेर्यावदहन्नपि भवतीति सम्भाव्यते दुःप्रापत्वादार्हन्त्यस्य सम्भावनयोच्यते, शेषपदप्राप्तिस्तु सुलभैवेति । तामपि दुरापां सर्वज्ञावस्थां परमविशुद्धां परमार्थाख्यां स एव प्राप्तुमर्हतीति । एवं विधिविधिनयविकल्पः पुरुषवादः ॥ अथ नि यति वादः अधुना नियतिवादो विधिविधिनयदर्शनाश्रयोऽभिधीयते___सत्यम् , भवनकर्तुः स्वातन्त्र्यं न शक्यमपह्नोतुम् , भवनस्य क्रियात्वात् , या क्रिया सा भवितुरेव घटादेः परमाण्वादेवो यथा पचिक्रिया पक्तुरेव स्वतंत्रस्य, भवनमपि च क्रियात्वात् भवित्रा विना न भवति पचिवत् , यत्तु स ज्ञ इति, सम्प्रधार्यमेतत् , सर्वज्ञस्यैव भवनाभ्युपगमे 19 दोषदर्शनात् , स यदि ज्ञः स्वतंत्रश्चेत्युभयगुणसम्पन्न इष्यते नात्मनोऽनर्थमापादयेत् , ज्ञत्वे सति स्वतंत्रत्वात् , विद्वद्राजवत् । (सत्यमिति) सत्यं-युक्तमेतदुच्यते त्वया, तन्न भवनस्वातंत्र्यमुपलभ्यमानं पञ्चविधं शक्यमपहोतुम् , किं कारणम् ? भवनस्य क्रियात्वात् , या क्रिया सा भवितुरेव घटादेः परमाण्वादेर्वा, यथा पचिक्रिया पक्तुरेव भवति स्वतंत्रस्य, भवनमपि च क्रिया क्रियात्वाद्भवित्रा विना न भवति, पचिवत् , 15 भविता च कर्ती स्वतंत्रः कर्तृत्वादेव न केनचिदसौ भाव्यते कार्यते क्रियते वा स्वातंत्र्यात् कर्तृत्वात् । यत्तु स ज्ञ इति, सम्प्रधार्यमेतत् , यत्पुनरुच्यते स्वातंत्र्यात् कर्ता ज्ञ एवेत्यवधार्य तत्र त्वया सहैतत्सम्प्रधार्य-विचार्यमस्ति, सर्वज्ञ एवेत्ययुक्तमित्यभिप्रायः । किं कारणमयुक्तम् ? सर्वज्ञस्यैव भवनाभ्युपगमे दोषदर्शनात् , कर्तृत्वात् स्वातश्यमस्ति, को वारयति । स यदि ज्ञः स्वतत्रश्चेत्युभयगुणसम्पन्न इष्यते-- यदि ज्ञः स स्वतत्रोऽपि स्यान्नात्मनोऽनर्थमनिष्टमापादयेत् , ज्ञत्वे सति स्वतत्रत्वात् । को दृष्टान्तः १ विद्व- 20 द्राजवत् , यथा हि दैवपुरुषगतिज्ञो देशकालसहायसाधनसम्पन्नः पराक्रमवान् राजा नात्मनोऽनर्थमनिष्टं मरणपराजयादिकमापादयति, एवमसावपि नात्मनोऽनर्थमनिष्टमापादयेत् , दृष्टस्त्वयमनर्थोऽनिष्टो जन्मजरामरणरोगशीतोष्णादिः शारीरः, मानसश्च शोकभयविषादेासूयादिः, तस्मादयुक्तमस्य झत्वमिति । ज्ञानविशुद्धिविशेषाभिप्रायेण बुद्धब्रह्मादिभावावाप्तिः परमोत्कृष्टज्ञानविशेषापेक्षयाऽऽर्हन्त्यसम्भवोऽपीत्याह-एतेभ्यश्चेति । आईन्त्यस्य सम्भावना कथमुक्तत्यत्राह-दुःप्रापत्वादिति । शेषेति बुद्धत्वब्रह्मत्वादिप्राप्तिस्त्वित्यर्थः, सर्वशतावस्था च 20 नान्येन प्राप्या किन्वर्हतेवेत्याह-तामपीति । अथ नियतिवादरूपो विधिविधिनयः पुरुषवादं प्रत्याख्यातुमुपतिष्ठत इलाहअधुनेति । पुरुषवाद्युक्तं खाजीकृतांशं प्रकाशयति-भवनकर्तुरिति । भवनक्रियायाः परानपेक्षप्रवृत्तिनिवृत्तिकस्वरूपं खातंत्र्य यो भवति तस्याभ्युपगम्यत एव, खतंत्रकर्बभावे क्रियाया एवानिष्पत्तेः किन्तु भवनक्रियायाः स्वतंत्रकर्तुः ज्ञत्वेऽस्माकं विवादः, ज्ञस्य खतंत्रकर्तृत्वे खस्यानर्थ प्रति कर्तृत्वानुपपत्तेरिति भावः। क्रिया स्वतंत्रकर्तृका क्रियात्वादित्यत्रान्वयमाह-यथेति । व्यतिरेकमाह-भवनमपि चेति । भवितुरितरानपेक्षत्वमाह-कर्तृत्वादेवेति । अनभ्युपगतांशमाह-यत्त्विति । अवधा-30 यति, अस्योच्यत इत्यनेन सम्बन्धः । भवितुः स्वतंत्रत्वेऽपि ज्ञत्वेऽनिष्टमापादयति-यदि श इति । खतंत्रकर्ता चेतनो नात्मानिष्टजनकः, ज्ञत्वे सति खतंत्रत्वात् , विद्वद्राजवदित्यनुमानेनानिष्टाजनकत्वं तस्य प्राप्तम् , किन्तु तथा न दृश्यते शारीर• मानसानिष्टोत्पत्तिदर्शनान कर्तुत्वं युक्तमिति भावः। राज्ञो जत्वं दर्शयति-दैवपुरुषेति ।दैवगतेः पुरुषगतेश्च वेतेत्यर्थः। खातंत्र्य द्वा• न०३. 2010_04 Page #284 -------------------------------------------------------------------------- ________________ २३४ द्वादशारनयचक्रम् [विधिविध्यरे ... एतच्च न, निद्रावदवस्थावृत्तेरस्वातंत्र्यात् , आहितवेगवितटपातवत् । ननु तज्ज्ञत्वाधयुक्ततैव, अज्ञातत्वात् , युक्तत्वाभिमतत्वेऽपि चायमेव नियमः कर्नेतरत्वापादनाय । एतच्च न, निद्रावदवस्थावृत्तरित्यादि, नैतदुपपद्यतेऽनानिष्टापादनानुपपत्तिस्यात्मन इति, कस्मात् ? निद्रावदवस्थावृत्तेः, निद्रावत्यवस्था निद्रावदवस्था तया वृत्तिर्निद्रावदवस्थावृत्तिस्तस्या 8 वृत्तेः पुरुषस्यैवास्वातंत्र्यात् , ज्ञस्यापि स्वकृतनिद्रावस्थावृत्तिवशादस्वातंत्र्यम्, आहितवेगवितटपातवत् , यथा कश्चित् पुरुषः स्वयमेव पूरितवेगस्तं वेगं निवर्तयितुमशक्तो वितटे पतति तथा स्वतंत्रमपि ज्ञमपि तत्परं कारणमात्मनोऽनिष्टमनर्थमापादयेत् को दोषः ? इति, अत्र कुतूहलबेहोषं ब्रूमःननु तज्ज्ञत्वेत्यादि, नन्वेवं त्वया निद्रावदवस्थावृत्तिवशादाहितवेगवितटपातवदवस्थास्वातंत्र्यादनानिष्टापादनमिति ब्रुवता तज्ज्ञत्वाद्ययुक्ततैवैषा समर्थ्यते, तेनानया पूरितवेगया शीघ्रगमनक्रियया वितटपातो 10 भविष्यतीत्यज्ञातत्वात् , ज्ञातत्वे वितटपातः स्वतंत्रस्य नोपपद्यत इति स एव दोषस्तस्मात्तदवस्थम युक्तत्वम् । युक्तत्वाभिमतत्वेऽपि चेत्यादि, यद्यपि स्वातंत्र्यज्ञत्वाविनाभाविभवनबलोपबृंहितमात्ममयत्वमेवास्य सर्वस्य मन्यसे तथापि चायमेव नियमः कर्त्रतरत्वापादनाय, भवतीति वाक्यशेषः । कथं कृत्वा तद्भाव्यत इति चेदुच्यते- भवति कर्ता ज्ञ एवावस्थाविशेषादचेतनोऽपीति कारणान्तरास्तित्वं भवतैव समर्थितम् , 15 ज्ञाज्ञस्वतंत्रास्वतंत्रस्वविषयनियतकर्तृकरणाधिकरणकर्मादिनियतशक्तिदर्शनात् देवदत्तकाष्ठ स्थालीतन्दुलोदकादीनां तनियमकारिणा कारणेनावश्यं भवितव्यम् , तेषां तथाभावान्यथाभावाभावादिति नियतिरेवैका की। भवति कर्तेति प्रागभिहिताक्षरार्थन्यायं तदीयमेवोच्चारयति यावदचेतनोऽपि भवतीति, त्वयैव कारणान्तरास्तित्वमेवं ब्रुवता समर्थितं भवति किञ्चिदासामवस्थानां ज्ञाज्ञस्वतश्रास्वतत्रस्व20 विषयनियतकर्तृकरणाधिकरणकर्मादिनियतशक्तिदर्शनाद्देवदत्तकाष्ठस्थालीतन्दुलोदकादीनाम् , तन्नियमकारिणा कारणेनावश्यं भवितव्यम् , किं कारणम् ? तेषां तथाभावान्यथाभावाभावात् , देवदत्तोऽधिश्रय. णोदकसेचनतन्दुलाऽऽवपनधोपकर्षणादिव्यापारस्वातंत्र्य एव नियतो न ज्वलनसम्भवनवारणविक्लेद्यादितस्य दर्शयति-देशकालेति । पुरुषवादी समाधत्ते-एतञ्च नेति । आत्मनोऽनर्थमनिष्टं नापादयेदिति यदुक्तं तनेत्यर्थः । निद्रावस्थायामात्मनः सत्त्वादेव स्वातंत्र्यस्य तदानीमभावादनिष्टमप्यापादयतीत्याह-निद्रावदिति । तत्र दृष्टान्तं सङ्गमयति26 यथेति । नियतिवाद्याह-नन्विति, अनर्थप्रसवविज्ञानाभावात्तस्य ज्ञत्वं न युज्यते इति भावः । यदि तु भवनं खतंत्रत्वे सति ज्ञत्वेन सहाविनाभावि मन्यसेऽथ चात्ममयमेव जगत् . तथापि कर्तृत्वाकर्तत्वयोरपि ज्ञवाज्ञत्वयोरेव नियामकत्वमि. त्याह-यद्यपीति । ज्ञ एव चेतनोऽपि भवत्यचेतनोऽपीति चेतनाचेतनायवस्थासु कारणान्तरास्तित्वं समर्थितमेव, न हि कारणान्तरव्यतिरेकेण कदाचिच्चेतनतया कदाचिच्चाचेतनतया भवनं तस्योपपद्यन्त इत्याशयेनाह-त्वयैवेति । ज्ञोऽपि सन देवदत्तादिः केषुचियापारेषु नियमेन खतंत्रः केषुचिच्च नियमेनाखतंत्रस्तथाऽज्ञोऽपि करणादिः खव्यापारेषु खतंत्रोऽन्यत्र 30 चाखतंत्रो नियत इत्याह-झाझेति । तथा च त्वाज्ञत्वे न नियमकारिणी किन्तु तत्रान्येन केनचिनियमकारिणा भवितव्यमिति भावः । कर्चादीनां खविषये प्रवृत्तेरन्यविषयेभ्यो निवृत्तश्च नियामकमावश्यकमित्याशयेनाह-तेषां तथाभावेति । कारणानां खव्यापारेषु सामध्य तथाभावः. खव्यापारविपर्यये शक्तिरन्यथाभावः तयोरभावप्रसङ्गः कस्यचिनियामकस्याभाव इत्यर्थः । एतमर्थमाह-देवदत्त इति । अस्माखेतोरिति । तथाभावान्यथाभावाभावाद्धेतोर्देवदत्तादिभावानां प्रोक्तो यो 2010_04 Page #285 -------------------------------------------------------------------------- ________________ 10 नियतिसमर्थनम् ] न्यायागमानुसारिणीव्याख्यासमेतम् २३५ व्यापारस्वातंत्र्ये, एवं तेषामपि काष्ठादीनां करणादिस्वव्यापारविषयस्वातंत्र्यनियमः तथाभावः, तेषामेव कारणानां स्वव्यापारविपरीतशक्तिः परस्परतोऽन्यथाभावः, तयोस्तथाभावान्यथाभावयोरभावात् , अभावप्रसङ्गादिति यावत्, दृष्टौ चेमौ तथाभावान्यथाभावौ, तस्मानियतत्वानियमकारिकारणापेक्षनियमावेव भावाभावी, तञ्च कारणं नान्यदतो भवितुमर्हति नियतेरित्यत आह-इति नियतिरेवैका की। इतिशब्दो हेत्वर्थे, अस्माद्धेतोर्नियमकारिकारणाविनाभावाद्भावनियमस्य नियतिरेवैका कीत्यस्तु । निर्दोषा कल्पना। कथं ? यस्मात्.... न हि तस्यां कदाचित्कथञ्चित्तदर्थानुरूपमेकत्वं व्याघाति, ज्ञानात्मैककारणवादे पृथिव्याद्यचेतनं न कारणानुरूपम् । आह च-' प्राप्तव्यो नियतिबले'त्यादि, (सू० श्रु० १ अ० १ उ०२)। (न हीति) अस्ति च व्याघातावस्थासु चतसृष्वपि कल्पितासु, कारणपूर्वत्वाभ्युपगमात् कार्याणाम् , न हि नियतेनियममात्रस्य का भावानां सारूप्यवैरूप्यभेदेऽपि व्याघातोऽस्ति, कदाचिदिति, अवस्थान्तरेऽपि, कथञ्चिदिति प्रकारान्तरेणापि, तस्मात् कारणैकत्वेऽपि वैरूप्यदोषपरिहारसमर्थत्वान्नियतिकारणकल्पना श्रेयसीति, आह चेति, जिनवचनोपजीविनमेतदपि ज्ञापकं पूर्ववत्, प्राप्तव्यो नियतिबलेत्यादि, कृतेऽपि यत्ने कार्यविपत्तिदर्शनादकृतेऽपि नियमात्सम्पत्चिदर्शनात् कार्यस्य कारणानुरू- 15 पगुणस्तहरूप्यविरोधपरिहारसमर्थोऽस्ति । .. किमयमेव गुणोऽन्योऽप्यस्ति वा ? अस्तीत्युच्यते, कतमोऽसौ ? अयत्नप्रतिपाद्यतागुणः, स च । मूर्तीमूर्त्ताद्ययुक्तविरुद्धधर्मापत्तिपरिहारेणेति तदर्शयति___ न च मूर्तीमूर्सचेतनाचेतनत्वादिवस्तुनो यनप्रतिपाद्यमस्ति, उभयथा तथा तथा प्रविभक्ताप्रविभक्तसवार्थयाथातथ्यस्थापनैकरूपत्वान्नियतेः। 20 नियमस्तस्य नियामकमन्तरेणासम्भवात्तन्नियमकारी यः सैव नियतिः कत्रीत्युच्यत इति भावः । तस्या एकत्वकल्पनायां दोषा. भावमाह-न हीति । ज्ञानात्मकपुरुषस्यैकस्यैव कर्तृत्वे कथञ्चिच्चेतनसृष्टेानात्मकतया सारूप्येऽपि पृथिव्याद्यचेतनसृष्टरसम्भव एव स्यात्, सारूप्याभावात् कार्यानुरूपं हि कारणं भवति कार्यस्याचेतनत्वे कारणमप्यचेतनं स्यात् , कारणस्य चैतन्ये वा कार्यमपि चैतन्यमेव भवेत्, एतस्य व्याघातोऽस्ति पुरुषवादे । नियतिकर्तृपक्षे तु तस्या नियममात्रकर्तृत्वान्न भावसारूप्यवैरूप्ये अपेक्षिते, अतो नियतेरेकत्वे दोषाभाव एवेति न नानात्वं तस्या इति भावः। व्याघातावस्थाखिति, परस्परविरोधिनीषु 25 जाग्रत्खनसुषुप्तितुरीयाख्यासु चतसृष्ववस्थाखित्यर्थः । अत्र वादे प्रमाणमादर्शयतीत्याह-आह चेतीति । इदमपि ज्ञापकं जिनवचनानुसार्येव, सर्ववादानां तस्यैव मूलभूतत्वादित्याह-जिनवचनेति । प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः सोऽवश्य भवति नृणां शुभोऽशुभो वा । भूतानां महति कृतेऽपि हि प्रयत्ने नाभाव्यं भवति न भाविनोऽस्ति नाशः॥' पूर्णा कारिका, अस्याः संक्षेपेणार्थमाह-कृतेऽपीति, महति प्रयत्ने कृतेऽपि फलानुत्पत्तिदर्शनादित्यर्थः । अकृतेऽपीति प्रयत्नव्यतिरेके. णापि नियतिबलात् कार्यसम्पत्तिदर्शनादित्यर्थः । तथा च नियत्यङ्गीकारे कार्य कारणानुरूपमित्येष गुणः सम्पद्यते कारणवैरूप्या-30 पत्तिलक्षणविरोधोऽपि परिहृतो भवतीत्याह-कार्यस्येति । गुणान्तरमप्यत्र सम्भवतीत्याह-किमयमिति । पुरुषस्यैव कारणत्वे तस्यामूर्त्तत्वेन पृथिव्यादिमूर्तलक्षणं कार्य ततो न भवेत् , मूर्तस्यामूर्तोपादानताविरोधात् , नियतिकारणत्वे सोऽपि विरोधः परिहृतो भवति, तथा च यत्नमन्तरेणैव मूर्त्तत्वस्य प्रतिपाद्यता सम्पन्नेत्सयत्नप्रतिपाद्यत्वं गुणोऽप्यस्तीत्याह-अयनेति। तमेव गुणं प्रदर्शयति-न चेति । वस्तूनां मूर्तत्वममूतत्वं चेतनत्वमचेतनत्वं सूक्ष्मत्वं स्थूलत्वं च पुरुषवादिन इवास्माकं 2010_04 Page #286 -------------------------------------------------------------------------- ________________ द्वादशारनयचक्रम् | विधिविध्यर न च मूर्त्तामूर्त्तेत्यादि यावद्यत्नप्रतिपाद्यमस्तीति, तत्रोपपत्तिः उभयथा तथातथाप्रविभक्तेत्यादि यावन्नियते, तेन तेन प्रकारेण - तथातथा मूर्त्तत्वेनामूर्त्तत्वेन चेतनत्वेनाचेतनत्वेन सौक्ष्म्येण स्थौल्येन च ऐश्वर्येण दारिद्र्येण चेत्यादिना प्रविभक्तानामर्थानां सर्वं वस्तु ज्ञेयं सदर्थ इत्यादिना चाप्रविभक्तानां सर्वेषामर्थानां यथातथाभावो याथातथ्यं तेन याथातथ्येन तस्य तस्यार्थस्य सर्वस्य नियतस्य 5 नियमेन तिष्ठतः प्रयोजकत्वं हेतुकर्तृकं स्थापनं तचैकरूपमेव सर्वत्र तस्या नियतेः तस्माद्धेतोस्तथातथाप्रविभक्ताप्रविभक्तसर्वार्थयाथातथ्यस्थापनैकरूपत्वात् नियतेर्तेदानीं नियमनमात्रै कव्यापाराया नियतेहैतुत्वप्रतिपादनाय यत्नः कश्चिदास्थेयः । प्रयत्नसाध्येष्वर्थेषु कृतकेष्वपि च तद्विषयक्रियाफलस्य तथानियतेर्व्यापिता नियतिका - २३६ 10 रणत्वस्य । ( प्रयत्नेति ) स्यान्मतं नियतिनिबद्धत्वात् सर्वभावानां क्रियाक्रियाफलयोर नियम इति, तन्न भवति, तद्विषयस्य - घटादिविषयस्य मृत्पिण्डदण्डचक्रादिसाधनस्य प्रयत्नसाध्यस्य घटात्मनिर्वृत्तिरूपस्य क्रियाफलस्य तेन प्रकारेण नियतेः नियतिरेवात्र कारणमिति । इदानीं तस्याः नियतेः स्वरूपं चिन्त्यते - किन्तावत्तेषामेव भावानां प्रतिस्वं भिन्ना नियतिरुताभेदा सा ? परमार्थतोऽभेदाऽसौ 10 कारणं जगतः, भेदबुद्ध्युत्पत्तावपि परमार्थतोऽभेदात्, बालादिभेदपुरुषत्ववत् । ( किमिति ) किं तावत्तेषामेव भावानां स्वं स्वं रूपं प्रति प्रतिभावं भिन्ना नियतिरुच्यते ? उताभेदा सेत्यत्र परमार्थतोऽभेदाऽसौ कारणं जगतः, नास्याः भेद इत्यभेदा । कस्मात् ? भेदबुद्ध्युत्पतावपि परमार्थतोऽभेदात् । अथवा कोऽसौ भेदो नाम नियतेरपि क्रियाक्रियासाध्यार्थस्वरूपत्वाद्भावानां नियमस्येति । चेतनाचेतनत्वादिबुद्ध्युत्पत्तौ सत्यां परमार्थतो नियतिरित्येवाभिन्नत्वादभेदा, 20 भेदबुद्धिस्तु तद्विकल्पमात्रभावापेक्षा । किमिव ? बालादिभेदपुरुषत्ववत्, यथा बाल्यकौमारयौवनम - ध्यमावस्थाभेदबुद्ध्युत्पत्तावपि पुरुषत्वमभिन्नमेवं नियतिरपि क्रियाविषयफलभेदबुद्ध्या दिभेदेष्वभिन्नेति । न महता प्रयत्नेन प्रतिपाद्यं भवतीति भावः । तत्रोपपत्तिमाह-तत्रोपपत्तिरिति । उभयथेति मूर्त्तत्वामूर्त्तत्वादि तेन तेन प्रकारेणेत्यर्थः । सर्वमिति, सर्वं वस्तु ज्ञेयं सत् अर्थ इत्येवमप्रविभक्तानां पदार्थानामित्यर्थः । तथा तथेति प्रविभक्तानामप्रविभक्तानाश्च सर्वेषां वस्तूनां स्वस्वरूपेण स्थितानां तेन तेन प्रकारेण व्यवस्थापने समर्था एकरूपापि नियतिरिति भावः । 25 सर्वेषामेकनियतिनिबद्धत्वे क्रियाक्रियाफलादिव्यवस्था कथं भवेत्, क्रियापि क्रियाफलं क्रियाफलञ्च क्रिया कुतो न भवेत्, नियतेरविशिष्टत्वादित्याशङ्कते - स्यान्मतमिति । मृत्पिण्डचक्रादय एव क्रियाविषयाः घटादय एव क्रियाफलमिति तेनैव प्रकारेण नियतेः सत्त्वान्नाव्यवस्था तस्यास्तेन तेनैव प्रकारेण व्याप्तत्वादित्युत्तरयति - तद्विषयस्येति । इदानीमिति, नियतिरेवैका कर्त्रीत्यत्रैकपदं केवलार्थं, अपरानपेक्षा नियतिरेव कर्त्रीति भावः, तस्मादत्र तत्खरूपं विविच्यते सा एका प्रतिवस्तु अनेक वेति बोध्यम् । नियतिः परमार्थतोऽभिन्ना भेदबुद्ध्युत्पत्तावपि परमार्थतोऽभेदात्, बालादिभेदपुरुषत्ववत्, 30 बालाद्यवस्थाभेदेऽपि पुरुषत्वस्यैकत्वात्स पुरुषो यथा वस्तुतोऽभिन्नः, तथैव क्रियेयं तद्विषयोऽयं, तत्फलमिदमिति भेदबुद्ध्युत्पतावपि नियतेर्भेदाभावादित्याह - भेदबुद्ध्युत्पत्तावपीति । क्रियाक्रियासाध्यवस्तुस्वरूपाया नियतेः कोऽसौ भेदः, चेतना - चेतनत्वादिभेदबुद्धौ सत्यामनुवृत्तिस्वरूपाया नियतेरभेदात्, भेदबुद्धिरपि विकल्प बुद्धिविषयभेदाश्रितत्वादेवेत्याह-अथ वेति । 2010_04 Page #287 -------------------------------------------------------------------------- ________________ . 15 नियतिमेदैकता] न्यायागमानुसारिणीव्याख्यासमेतम् २३७ आह कथं परमार्थतो नास्ति भेदो भेदबुद्ध्याभासभावेऽस्याः ? अथवा परमार्थतस्तु भेद एवास्तु सत्यप्यभेदबुद्ध्याभासभावे? इति, कथं परमार्थतोऽभेदा ? अभेदबुद्ध्याभासभावेऽप्यभेदा. भ्यनुज्ञानात् , कथमभेदः? भेदबुद्ध्याभासभेदेऽप्यभेदाभ्यनुज्ञानादेव । द्विधापि चामेदस्याभ्यनुज्ञानादेवाभेदा सेति गृह्यताम् , व्यवच्छिन्नस्थाणुपुरुषत्ववत् । (कथमिति) कथं परमार्थतो नास्ति भेदो भेदबुद्ध्याभासभावेऽस्याः ? दृश्यते हि भेदबुद्ध्याभासभावः, किश्चित् क्रियया साध्यं किश्चिन्नेति, किश्चित्स्वत एव किश्चित् परत इति, अथवा परमार्थतस्तु भेद एवास्तु सत्यप्यभेदबुद्ध्याभासभावे इति । आचार्यों द्विधापि चोदिते परिहारमाह-कथमित्यादि, यदि भेदोऽभिमतस्तत्र कथं परमार्थतोऽभेदा ? भेदबुद्ध्याभासभावेऽपि अभेदाभ्यनुज्ञानात तथैव भेदवदाभासतेऽभेद एवेति । अथाभेद इष्टः कथमभेदः ? अभेदबुद्ध्याभासभावेऽप्यभेदा-10 भ्यनुज्ञानादेव । योकान्तबुद्धिस्त्वन्मते परमार्थविषयत्वे तदा तदाभासा द्विधापि चाभेदस्याभ्यनुज्ञानादेवाभेदा सेति गृह्यताम् । किमिव ? व्यवच्छिन्नस्थाणुपुरुषत्ववत्, परमार्थतः स्थाणुरेव वा पुरुष एवेति व्यवच्छिन्ने वस्तुनि यथोर्द्धतासामान्यस्याभेदस्य दर्शनादभेद एवं सर्वनियतिषु क्रिया. क्रियाफलरूपास्विति । ___सा पुनर्नियतिर्भेदाभेदरूपा कस्मादिति सकारणं स्वरूपनिरूपणमस्याः उच्यते सा च नियतिरसा च, इह च स्वर्गादिषु च तथानियतेरासन्नानासन्ना च, तस्या एवं तदतदासन्नानासन्ननानावस्थद्रव्यदेशादिप्रतिबन्धभेदात् , मेघगर्भवत् , "तस्मान्नाभाविभावो न च भाविनाशः' इति । . सा चेत्यादि, सा च नियतिः सैव, सर्वनियतिषु तस्या एवाविशेषात् । असा च, क्रियाक्रियाफलनियत्यादिवैलक्षण्यात् । आसन्ना, प्रत्यक्षोपलभ्येष्वर्थेषु प्रत्यासत्त्या नियतत्वात् । अनासना, 20 कार्यानुमानागमगम्येषु दूरत्वात् , इह च स्वर्गादिषु च तथा नियतेरासन्नानासन्ना च । किं कारणं ? तस्या एव तदतदासन्नानासन्ननानावस्थद्रव्यदेशादिप्रतिबन्धभेदात्-सा चासा चासन्ना चानासन्ना च ननु कथं नियतेभेंदबुद्धिविषयभावमापनाया अपि वस्तुतो भेदो नास्ति इत्याशङ्कते-कथमिति । भेदबुद्धिविषयत्वेऽप्यभेदबुद्धिविषयत्वादभेदाङ्गीकारे विनिगमनाविरहादभेदबुद्धिविषयत्वेऽपि भेदबुद्धिविषयत्वात्तस्य भेद एवास्त्वित्याह-अथ वेति । द्विविधबुद्धिविषयत्वेऽप्यभेदरूपत्वमेव तस्या व्यवस्थापयति-कथमिति । भेदबुद्धिविषयतामादर्शयति-दृश्यते हीति। मेद-28 बुद्ध्या तस्याः मेदेऽभेदः कथमित्याशंकते-यदि भेद इति । उत्तरमाचष्टे-अभेदबुद्धीति । त्वयैवाभिन्नैव मेदवदाभासत इति परमार्थतोऽभेदाभ्यनुज्ञानादित्यर्थः, यदि नियतिर्भेदबुद्धि विषयस्तर्हि तस्या अभेदः, कथं किन्तु भेद एव स्यादित्याशवेअथामेद इति।अभेदबुद्धिविषयतायाः सत्त्वादभेद इत्युत्तरयति-अभेदेति । द्विधापीति-भेदबुद्धिविषयत्वेऽभेदबुद्धिविषयत्वेऽपि चाभेदस्याभ्यनुज्ञानादेवाभेदा नियतिरित्यर्थः । अन्यतरधर्मनिर्णये सत्यपि वस्तुनि ऊर्ध्वतासामान्यस्यैकस्यैव दर्शनात् पुरुषत्वस्थाणुत्वभेदे सत्यपि यथा तदभिन्न तथा नियतिरपीति दृष्टान्तमुत्थापयति-किमिवेति । सा नियति: 30 क्रियाक्रियाफलादिभेदेऽपि नियतेरनवर्तनादभिन्ना. इयं क्रियानि यतिन फलनियतिरियश्च फलनियतिन क्रियानियतिरिक विलक्षणत्वाद् भिन्नापि, तथा प्रत्यक्षयोग्या घटादयः आसन्ना एव प्रत्यक्षीभवन्तीति नियमादासन्नरूपाः अदृश्याश्च खर्गादयः प्रतिबन्धादिज्ञानापेक्षकार्यादिलिङ्गगम्या इति बहुप्रयत्नगम्यत्वेनानासन्नापीत्याह-सा च नियतिरिति । अत्र हेतुमाहतस्या एवेति, द्रव्यदेशकालभावाः केचिदभिन्नरूपाः केचिद्भिन्नरूपाः केचिदासन्नाः केचिदनासन्नाश्चेति नानावस्थाः, 2010_04 Page #288 -------------------------------------------------------------------------- ________________ २३८. द्वादशारनयचक्रम् [विधिविध्यरे नानावस्था येषां ते तदतदासन्नानासन्ननानावस्थद्रव्यदेशादयः, तैः प्रतिबद्धाया एव नियतेर्भेदात्, द्रव्यदेशादित्वेनेत्यादिग्रहणात कालभावाभ्याञ्च । सैव नियतिव्यतो घटरूपेण सा भवति, पटरूपेणासा, घटान्तरस्यासन्नाऽऽकारप्रत्यासत्या, पटाकारेणाप्रत्यासन्ना । क्षेत्रतो यास्मंश्चक्रमूर्धनि क्रियते तस्मिन्नेव, यत्र वा भूप्रदेशे तिष्ठति ग्रीवादिदेशे वा तत्रैव नान्यत्रेति, कालतो यावत्कालेन निर्वर्त्तते 5 यावन्तं कालं वा तिष्ठति सा कालनियतिः, भावतो यैर्वर्णैः कृष्णादिभिर्यथा भवति तथैवेति नियतिरेवं द्रव्यदेशादिप्रतिबद्धभेदाद्वस्तुविरचना नियत्येकत्वेऽपि, किमिव ? मेघगर्भवत् , यथा मेघा गर्भ गृहन्तो याहक् यावञ्च जलं गृह्णन्ति यथा च तादृक् तावत्तथैव विसृजन्ति द्रव्यतः, क्षेत्रतो यत्र गृहन्ति देशे तत्रैव विसृजन्ति, कालतो मार्गशिरो मासे गृहीतं वैशाखे विसृजन्तीत्यादि, भावतो यथा गृहीतं क्षार मधुरादि तथैव विसृजन्ति सत्त्वौषधिवनस्पतिशोषपोषकरादीति । तदुपसंहरति-'नाभाविभावो न च 10 भाविभावः' इति, प्राक्तनेन वृत्तेन गतार्थम् । . स्यान्मतमयं नियमः कालात् कालस्य क्रमाख्यत्वाच्च पूर्वोत्तरादिकालक्रमनियतपरिणामत्वा. दावानामिति एतन्न_ न कालादयं विचित्रो नियमः, वर्षारावादिष्वपि क्वचिदनियतप्रवृत्तेः, दृश्यते यदुरकिसलयपत्रपुष्पफलगर्भप्रसवादिव्यभिचारो वनस्पतिसत्त्वादिनां स्वतः प्रयोगतश्च । नच 18 स्वभावात् , बालादिकाल एव युवतादियुगपदभावे भेदक्रमनियतावस्थोत्पत्तिस्थितिच्युतिदर्शनात् , तत्तथा नियतिवस्तु, तदनभ्युपगमे सर्वाविवेके अवस्थास्वभावाद्यभावादभ्युपगमविरोधस्ते जायते, तद्धि नियमो न नियतेरन्यतोऽवतिष्ठते । (नेति) न कालादयं विचित्रो नियमः, कस्मात् ? वर्षारावादिष्वपि कचिदनियतप्रवृत्तेः, दृश्यते ह्यङ्करकिसलयपत्रपुष्पफलगर्भप्रसवादिव्यभिचारो वनस्पत्यादीनां सत्त्वानाश्च स्वतःप्रयोगतश्च20 वर्षाशरद्धेमन्तशिशिरवसन्तनिदाघेषु स्वपरिणामकालेष्वप्रवृत्तिदर्शनादस्वकालेषु च कचित् प्रवृत्तिदर्श नात् । यद्यपि मन्येत स्वभावादिति तन्न च स्वभावादित्यादि यावदभ्युपगमविरोधः, वनस्पतिसत्त्वादे. बाल्यकौमारयौवनस्थविरावस्थाः, सर्वोऽसावस्य खो भावः स्वभाव इति, अतो बालादिकाल एव अतस्तत्प्रतिबद्धाया अपि नियते नारूपत्वमिति भावः । द्रव्यदेशकालभावैर्नियतेः प्रतिबन्धं घटमागृह्य निदर्शयति-सैव नियतिरिति, यथा घटः खव्यक्षेत्रकालभावैः सन् , परद्रव्यक्षेत्रकालभावैरसन् , तथा तत्प्रतिबद्धा नियतिरपि, एवं 25 खद्रव्यादिभिर्घटो यथाऽऽसन्नः परद्रव्यादिभिरनासन्नस्तथा तत्प्रतिबद्धनियतिरपीति भावः । मेघगर्भलक्षणदृष्टान्तं सङ्गमयति यथा मेघा इति।प्रागुपवर्णितश्लोकसमानार्थकारिका दर्शयति-नाभावीति ननु भावानां ये विशिष्टपरिणामनियमाः पृथक पृथक् प्रविभक्तास्ते विशिष्टकालसम्बन्धवशेन भवन्ति, कालेन हि कारणशकयोऽनुज्ञाताः सत्यो जनयन्ति कार्यमभिव्यञ्जयन्ति वा तथा जातानामभिव्यक्तानां वा नियतकालमवस्थानं, कालकृतशक्तिप्रयोगाणां विनाशकानां सामर्थ्याद्भावानां विनाशोऽपीति सर्वे भावनियमाः कालकृता एवेत्याशङ्कते-स्यान्मतमिति । कालकतत्वाभ्यपगमे व्यभिचारप्रदर्शनेनापाकरोति-न काला१० दयमिति । खभावनिमित्तकत्वमाशय निराकरोति-न चेति । तत्तथेति, तत्-तस्मात्कारणात् , तथा दृष्टानां सृष्टिस्थितिप्रलयावस्थानां बाल्यकौमारादीनां वा भेदक्रमनियमेन नियतिरेव तत्र नियामिका, न खभाव इति भावः। तदनभ्युपगमे-नियतिनियतत्वानभ्युपगमे, सर्वाविवेके-सर्वासामवस्थानां साङ्कये. खभावस्य नियामकत्वे हि वस्तुत्पत्ती तत्खभाकानां सर्वेषामपि सद्भावेन सर्वा अवस्थास्तत्वभावभूता युगपजायेरन् , न च जायन्त इति खाभाव एव न स्यादिति मूल एव कुठाराघातः प्रसज्यत इति भावः । वो भाव इति, स्वकीयो भाव इत्यर्थः, तथा च स्वस्य सद्भावे खभावस्यापि 2010_04 Page #289 -------------------------------------------------------------------------- ________________ मैदाभेदेऽविरोधः ] न्यायागमानुसारिणीव्याख्यासमेतम् २३९ युवताद्यवस्था युगपत्स्युर्न च भवन्ति, तस्माद्बालकाल एव युवादियुगपदभावे भेदक्रमेण नियतानां तासामेवावस्थानामुत्पत्तेः स्थितेश्युतेश्च दर्शनान्न स्वभावः कारणम्, किं तर्हि ? नियतिरेव कारणमभ्युपगन्तव्यम् । तथा तु तेन हेतुना तेन प्रकारेण दृष्टोत्पत्त्याद्यवस्थाभेदक्रमनियमेन तत्तथा नियतिवस्तु, तदनभ्युपगमे सर्वाविवेके - सर्वावस्थानामविवेकेऽभ्युपगम्यमाने स्वभावाद्यभ्युपगमे सति ता अवस्था न स्युः । न वाडवस्थारूपाः स्वभावाः, न स्युर्देवदत्तादेर्बाल्याद्याः सुप्ताद्या वा । ततोऽवस्था- 5 स्वभावाद्यभावादभ्युपगत एव स्वभावो न स्यात् । ततोऽभ्युपगमविरोधस्ते जायते स्वभाववादिनः । आदिग्रहणात्तत्तदवस्थासहवर्त्तिनः पाण्याद्यवयवस्वभावस्य रूपादिबाह्यगुणस्वभावस्य पटुजडताद्यान्तरगुणस्वभावस्य वाऽभावादभ्युपगमविरोधः । अथवाऽऽदिग्रहणात् कालस्यापि पूर्वोक्तन्यायेन युगपदभावेन वाऽभावादभ्युपगमविरोधः कालकारणिनोऽपि । तस्मादिदं प्राप्तमभ्युपगन्तुम् - तद्धि नियमो न नियतेरन्यतोऽवतिष्ठत इति । तस्या एव नियतेरेकत्वानेकत्वविरोधपरिहारार्थं दृष्टान्तमाह यथा लोक एकत्व एव पर्वताद्याकारावग्रहो भिद्यते यथा वा ज्ञानमेकत्वेऽप्यनेकबोध्याकारं भवति, अन्यथा घटपटाद्याकारमन्तरेण ज्ञानात्मलाभाभावात् एवं भेदाभेदरूपेण नियतिः । तथा नियमात्मकत्वात् सा नियतित्रीहिरित्येकस्मिन् वस्तुन्येका मूलादिभेदे च भिन्नाऽङ्कुरादिर्भवति । 15 " ( यथेति यथा लोक इत्येकत्व एव पर्वताद्याकारावग्रहः - एक एव लोकः सरित्समुद्रमही प्रमामारामादिभिराकारैरवगृह्यमाणो भिद्यते, एवं भेदाभेदरूपेण नियतिः, एतद्वाह्यं निदर्शनम् । आन्तरन्तु यथा ज्ञानमेकत्वेऽप्यनेक बोध्याकारं भवति, किं कारणं ? अन्यथा घटपटाद्याकारमन्तरेण ज्ञानात्मलाभाभावात् । एतस्योदाहृतस्यार्थस्य भेदाभेदखरूपभावनेयमुच्यते - तथा नियमात्मकत्वादित्यादि यावदरादिर्भवतीति सा नियतिर्त्रीहिरित्येकस्मिन् वस्तुन्येका मूलादिभेदे चाङ्कर इत्येवं भिन्ना अङ्कुरकिसल - 20 यपत्रकाण्डादित्वाद्यवस्थाभेदाद्भिन्ना, रूपरसादिभेदाद्वा भिन्ना । " अनेकस्मिंश्च पृथिव्यम्बुतेजोवाय्वादिस्वरूपेऽर्थे पृथिव्यादीनामेव तद्भावापत्तेर्बीहिरित्येकत्वादभेदा । तथातथाऽनियतार्थवशादनियतिकारणत्वं दृष्टं हि प्रसवादिवैकृतं नरति " 2010_04 10 सद्भावात् सर्वा अवस्था युगपत् स्युः न तु क्रमेण तस्मान्न कारणमिति भावः । एकदैकस्यैकस्या एवावस्थायाः स्वभावेऽभ्युपगम्यमाने दोषमाह-न स्युरिति । अवस्थास्वभावादीत्यत्रादिपदग्राह्यानाह - आदिग्रहणादिति । तदवस्थेति - बाल्याय - 25 वस्थेत्यर्थः । यद्वाऽऽदिग्रहणेन कालस्य ग्रहणमित्याह - अथ वेति । युगपदभावेनेति, सकृदेकस्वभावस्यैव एककालस्यैव वा सम्भवेन बाह्यान्तरादिनानावस्थाप्रयोजकस्वभावानां कालानां वा युगपदभावेन तासामवस्थानामभावादित्यभिप्रायः प्रतिभाति । ननु नियतेः सदसदात्मकत्वमासन्नानासन्नात्मकत्वमेकानेकत्वात्मकत्वं विरुद्धमित्यस्य परिहारार्थमाह-यथेति । अनुभवमात्रेणैकरूपस्य साधारणात्मनो ज्ञानस्य जायमानस्य योऽयं प्रतिविषयं पक्षपातः स्तम्भज्ञानं कुब्यज्ञानं घटज्ञानं पढ़ज्ञानमिति नासौ ज्ञानगतविशेषमन्तरेणोपपद्यते इत्यवश्यं विषयसारूप्यं ज्ञानस्याङ्गीकर्त्तव्यम्, नहि बुद्ध्यारूढेन रूपेण विना 30 प्रमाणादिव्यवहारो घटते, तस्मान्नानाकारमपि ज्ञानमित्याशयेनाह - यथा वा ज्ञानमिति । नियतिरेकाऽपि सती भिन्ना भवति, अनेकाऽपि सत्येका भवति यथा क्षितिसलिलानलानिलाद्यनेकेन व्रीहेरेकस्यैव पृथिवीपरिणामस्योत्पत्तिदर्शनादत एक एवाने को भवति, नानेक एको भवतीति न नियमः तथा च तथाऽनियतार्थवशान्न नियतिः कारणमित्याशंकते - अनेकस्मिंश्चेति, Page #290 -------------------------------------------------------------------------- ________________ २४० द्वादशारनयचक्रम् विधिविध्यरे रश्चां इति चेन्न । अत्रापि तथानियतिवशेनैव प्रसवादिधर्मव्यतिक्रमो वस्तुस्वभावव्यतिक्रमश्चोपलभ्यते । (अनेकस्मिंश्चेति ) अनेकस्मिंश्च पृथिव्यम्बुतेजोवाय्वादिस्वरूपेऽर्थे पृथिव्यादीनामेव तद्भावापत्ते/हिरित्येकत्वादभेदा, एकापि सती भिन्ना, अनेकाऽपि सत्यभिन्ना तथातथाऽनियतार्थवशात्5 द्रव्यदेशकालभावानामुत्पातादिष्वनियमदर्शनादनियतिकारणत्वम् , दृष्टं हि प्रसवादिवैकृतम् , आदिग्रह णात् निलयाऽऽहारक्रियाप्रकृतिवैकृतानि नरतिरश्चां विपर्ययेण संख्याकृतिवर्णावयवादिजन्मानि प्रामारण्यकजलस्थलजन्मनां तच्चारिणाश्च वसत्यादि विपर्ययः, अभक्ष्यभक्षित्वं रोषक्षमादिशीलविपर्ययः, पलितस्यैवोत्पत्तिरित्याद्यवस्थाविपर्यय इत्येवमादिवैकृतदर्शनान्न नियतिरेव कारणमिति चेन्नेत्युच्यते अत्रापि तथानियतिवशेनेत्यादि यावद्व्यतिक्रम उपलभ्यत इति, अत्रापि तादृशी नियतिरेव कारण10 मिति, किश्वान्यत् न केवलं प्रसवादिधर्मव्यतिक्रम एव, किं तर्हि ? वस्तुस्वभावव्यतिक्रमश्च । नियतिवशादेव किञ्चित्सदसाध्यं, असदसाध्यं, असत्साध्यं सत्साध्यञ्च प्रतिपद्यते, सदपि चाकाशं भूगन्धवदनभिभवं सलिलसेचनेन सन्तमसस्थघटवत्प्रदीपेन चासाध्यम् । (नियतीति) नियतिवशादेव किञ्चित् सदसाध्यमित्यादिचतुर्भङ्गी स्फुटार्थत्वान्न वित्रियते, सा चोद्दिष्टा निर्देक्ष्यमाणा च । तथा च पुरुषो नियतेरेव तथावृत्तत्वात्तत्साध्यासाध्यत्वे प्रतिपद्यते । 15 तत्र सदसाध्यत्वे निदर्शनं-सदपि चाकाशं भूगन्धवदनभिभवम् , नास्याभिभवोऽस्तीत्यनभिभवं सलिलसेचनेन न साध्यमित्यर्थः, तथा सन्तमसस्थघटवत् प्रदीपादिना चासाध्यम् , किं तत् ? आकाशादि, सत्त्वात् साध्यं भूगन्धवदिति प्राप्तेऽप्यसाध्यमेव । वन्ध्यापुत्रादि असदसाध्यम् , इदन्तु नियतिवशादेवासत्त्वात् , नियत्यैव नासत् साध्यतामर्हति, साधनाविष्टक्रियासाध्यत्वात्साध्यानाम्, क्रिया हि साधनेषु वर्त्तमाना सन्तमर्थ 20 साध्यमाविशति प्रत्यर्थनियतत्वात् साधनानुषङ्गस्य, साध्याभावात्तु सा किमाविशतु ।। (वन्ध्येति,) इदन्तु स्त्रीपुंसयोगादवन्ध्यापुत्रवत् साध्यमिति प्राप्ते तद्व्यवस्थाविपरीतनियत्या वन्ध्यापुत्रादि असाध्यमेव, नियतिवशादेवासत्त्वात् , तन्न नियत्या सत्, नियत्यैव नासत्साध्यतामर्हति । द्रव्येति, भौमान्तरिक्षाद्युत्पातादिषु द्रव्यक्षेत्रकालभावानां व्यतिक्रमदर्शनात् , नियतिकारणत्वे तु व्यतिक्रमो न भवेदेव, तस्मान नियतिः कारणमिति भावः। अनियममेव दर्शयति-दृष्ट हीति नास्ति नियतेरकारणत्वम् , उत्पातादिसम्भवे प्रसवादीनां 25 तथाभवननियमादेव भावात् , न केवलं धर्मवैपरीत्यमेव, किन्तु केञ्चित् खभावेनापि अन्यथा भवन्ति तथाविधनियतिबलादि त्युत्तरयति-अत्रापीति । तमेव व्यतिक्रमव्युत्पादयति-नियतिवशादेवेति सद्धि साध्यं दृष्टं यथा मृत्पिण्ड एव घटो भवति, तथा नियतेः, तथा विचित्र नियतेरेव च सदपि गगनमसाध्यं भवतीत्याह-सदपि चाकाशमिति । व्यतिरेकनिदर्शनमाहभूगन्धवदिति, यथा भुवि सन्नेव गन्धो जलसेकेनाभिभूयते-साध्यते, यथा वा अन्धकारे विद्यमान एव घटः प्रदीपेनाभिभूयते-अभिव्यज्यते न तथाऽऽकाशमिति नियतेर्वैचित्र्यमिति भावः । एवमेव नियतिवैचित्र्येणैव पुरुषो देवदत्तादिः खरूपतोऽ. 30 साध्योऽपि सन् बाल्यकौमारादिना पाण्याद्यवयवरूपादिबाह्यगुणपटुजडताद्यान्तरगुणखभावेन साध्यमपि भवतीत्याशयेनाहतथा च पुरुष इति, आकाशं साध्यं सत्त्वाद्भूगन्धवदित्यनुमानेनाकाशस्य साध्यत्वे प्राप्तेऽपि तथाविधनियतेरेवासाध्यत्वमिसाह-आकाशादीति । द्वितीयभङ्गमाह-वन्ध्येति । स्त्रीपुंसंयोगादवन्ध्यायां यथा पुत्रः साध्यते तथा वन्ध्यापुत्रोऽपि साध्यता प्राप्तः किन्तु स्त्रीपुंसंयोगात् पुत्रो भवतीति व्यवस्थाविरोधिनियत्या स असाध्य एव, वन्ध्यायां नियतिवशादेवा 2010_04 Page #291 -------------------------------------------------------------------------- ________________ सत्साध्यभङ्गः ] २४१ किं कारणं ? साधनाविष्टक्रियासाध्यत्वात्साध्यानाम्, साधनाविष्टायाः क्रियायास्तत्रावेशाभावः, तत्साधनानां साधनशक्तिशून्यत्वात् तस्माद्वन्ध्यापुत्रादीनामसाध्यत्वं स्त्रीपुंसंयोगक्रिययाऽप्यसाध्यत्वेन नियतत्वात् । साध्यार्थाभावे च साधनानां साधनत्वाभाव इति तद्दर्शयति- क्रिया हीत्यादि, हिशब्दो यस्मादर्थे, यस्मात् क्रियासाधनेषु काष्ठादिषु वर्त्तमाना सन्तमर्थं साध्यं विक्लेद्यतन्दुलपरिणामात्मकमोदनादिकमर्थमाविशति, प्रत्यर्थनियतत्वात् - ज्वलनाद्युपविधानार्थेषु प्रत्येकं नियतत्वात् काष्ठादिसाध- 6 नानुषङ्गस्य । साध्याभावाद्वन्ध्यासुतादेः सा स्त्रीपुंसम्प्रयोगक्रिया किमाविशतु ? तस्मात्तद्विपरीतनियत्यसाध्यं वन्ध्यापुत्रादि । न्यायागमानुसारिणीव्याख्यासमेतम् इदं पुनरसत्साध्यं घटादि, यद्यसत् कथं साध्यं खपुष्पवत् ? उक्तासदसाध्यविकल्पानतिवृत्तेश्चेति, नैष दोषः, सतोऽन्यदसदित्यतोऽन्यत्र विधानप्रतिषेधाश्रयणात् प्राक् तथाऽवृत्तं तत्काले व्यक्त्या नियतं साध्यम् । 5 इदं पुनरित्यादि, असत् साध्यं घटादि, इतर आह - यद्यसत् कथं साध्यं खपुष्पवत्, उक्तासदसाध्यविकल्पानतिवृत्तेश्चेति, अत्रोच्यते - नैष दोषः, सतोऽन्यदसदित्यतोऽन्यत्र विधानप्रतिषेधपक्षाश्रयणाद्रव्यार्थविकल्पत्वान्नियतेरसत्त्वाभावादित्यत आह- प्राकू तथावृत्तं - तेन घटत्वप्रकारेणावृत्तं सच्छब्दस्य वृत्त्यर्थत्वात्, 'अस्तिभवतिविद्यतिपद्यतिवर्त्ततयः सन्निपातषष्ठाः सत्तार्थाः' इति वचनादसदित्यवृत्तमित्यर्थः, प्राकू - मृत्पिण्डाद्यवस्थानकाले, तत्काले व्यक्त्या नियतं साध्यम्, आदिग्रहणात् 15 पटकटादीति । एतत्कालभेदेनोपलब्ध्यनुपलब्धिभ्यां नियतम् । इदमन्यत् सततोपलब्धिनियतमेव सत् यष्टिसाधनवदृजुत्वेन साध्यते मृद्रव्यमूर्द्धादित्वक्रमापाद्यघटत्वेन वा, ऊर्द्धादित्वं घटत्वश्च भेदेनैव वा सत्साध्यम् । अथवा भेदेनैव सत्सा - ध्यम्, यद्बुद्ध्यैव साध्यते न क्रियया, पुरुषादि किन्तु विद्यमानं अवस्थापरिग्रहापनयनेन । 10 (इदमन्यदिति) इदमन्यत्सततोपलब्धिनियतमित्यादि, इदच सदाऽव्यक्तिनियति सत् 20 साभ्यमित्यभिसम्बन्धः, किन्तत् ? यष्टिसाधनवदृजुत्वेन यष्टिहिं विद्यमानैरेवावयवैः सदाऽव्यक्ता संस्थानविशेषेण साध्यते सती साध्यते -ऋजूक्रियते, इदमन्यत् सततोपलभ्यमेव सत्साध्यं मृद्रव्य 2 2010_04 सत्त्वात्, नियत्यैवासतोऽसाध्यत्वमित्याह - इदन्त्विति । कुतो नियत्याऽसाध्यमिदमित्यत्राह - साधनाविष्टेति सव्यापाराणि साधनानि सदेव कार्यमाविश्य साधयन्ति, वन्ध्यापुत्रस्य च साधनत्वेनाभिमतेषु साध्यसाधनसमर्थक्रियाया अभावात्तस्यासाध्यत्वम्, नियत्या वन्ध्यापुत्रस्यैवासत्त्वात् कुत्र साधनक्रियाऽऽविशतीति भावः । तृतीयं भङ्गमाख्याति - इदं पुनरिति, मृत्पि- 25 ण्डादावसन् घटः साधनैः साध्यं भवति, तथानियतेरिति भावः । नन्वधुनैवोक्तं नियत्या यदसत् तन्न साध्यम्, साधनाविष्टायाः क्रियाया असत्यावेशासम्भवादिति, अतोऽसत् खपुष्पवदसाध्यमेव, तथा चायं भङ्गो द्वितीयभङ्गान्नातिरिक्त इत्याशङ्कते - यद्यसदिति । मृत्पिण्डकाले घटत्वप्रकारेणासन्- आवृतो घटोऽधुना प्रकाशतां गत इति साध्यतामा बिभत्तीत्याह - प्राकू तथेति । असदित्यनेन सन्नास्तीति न विवक्षितो येन खपुष्पवदसत् कथं साध्यमित्याशङ्कयेत, किन्तु सतोऽन्यदसदिति विवक्षितः, नियतिवादो हि द्रव्यार्थनय मेदस्तन्मते सदभावो नास्त्येवातः, पर्युदासपक्ष एवाश्रयणीय इति पूर्वं प्रकारान्तरेण विद्यमानं कारणैरधुना - 30 ऽभिव्यज्यत इत्येवासत्साध्यमिति भङ्गस्यार्थ इत्याशयेनाह - सतोऽन्यदिति । सच्छब्दस्येति, असदित्यत्र सच्छन्दस्येत्यर्थः। अथ सत्साध्यमिति चतुर्थं भङ्गमाह - इदमन्यदिति, यष्टीति, यष्टिर्हि पूर्वमाकारान्तरेण सत्येवाकारान्तरेण ऋज्वादिना द्वा० न० ३१ Page #292 -------------------------------------------------------------------------- ________________ ૨૨ द्वादशारनयचक्रम् [विधिविध्यरे मूर्खादित्वक्रमापाद्यघटत्वेन । पूर्वस्मिन्नुदाहरणे मनागाकृत्यन्तरभेदेन, इह त्वत्यन्तभिन्नाकारभेदेनेति विशेषः, तद्दर्शयन्नाह-ऊर्द्धादित्वं घटत्वञ्च भेदेनैव वा सत्साध्यमिति । अथवा भेदेनैव सत्साध्यमिदश्चान्यदिति वर्तते, यगुद्ध्यैव साध्यते न क्रियया परिस्पन्दात्मिकया, किन्तु विद्यमानं पुरुषादि अवस्थापरिग्रहापनयनेन-तद्विषयसंशयविपर्ययपरिग्रहापनयनेन । नात्र किञ्चिन्निवर्त्तते पुरुषादि, किन्तु। विद्यमानमेवानुपलब्धमुपलब्ध्या साध्यते, एषा नियतिनिरूपेति पूर्वविलक्षणा । एतासां क्रियाणां तत्साध्यानाञ्च नियतिकृतत्वप्रतिपादनार्थमाह एतच्च साध्यमानमप्यन्यविषयक्रियाविलक्षणयानयैव क्रियया साध्यते, एतस्याश्चैतान्येव कारकाणीति साध्यसाधनार्थनियतिः । एवञ्चार्थगतप्रतिविशिष्टसाध्यसाधननियमाभिव्य जयनियतिस्थितेरेव कारणगुणपूर्वकतां कार्यस्य प्रतिपद्य कारकान्तरसमवस्थितितुल्यतायामपि 10 क्रियासमवस्थित्या सह नियतिप्रसिद्धरेव पुरुषस्तथा प्रतिपद्य प्रत्यर्थ कारकाणि प्रयुङ्क्ते, तानि च यथाप्रयोगनियमं स्वे स्वे विषये नियतानि नैकविमर्दप्रवृत्तानि परस्परनियतानुग्रहोद्भावनवृत्तानि स्वविषयक्रियाप्रसाध्यमर्थमभिनिर्वतयन्ति, तेषां वृत्तिस्तानि तत्फलश्च सर्व नियतमेव, ततो नियतिरेव सर्वस्य कारणम् , न तु तदुपायसिद्धेरन्यथा तत्सिद्धिरस्ति । एतच साध्यमानमित्यादि, ओदनविषयेयं पचिक्रिया घटादिविषयक्रियाविलक्षणा, 1 एतच्चौदनादि साध्यमानमप्यन्यविषयगमनादिक्रियाविलक्षणयाऽनयैव पचिक्रियया साध्यते नान्ययेति क्रियानियत्या साध्यते, एतस्याश्च पचिक्रियाया एतान्येव काष्ठादीनि कारकाणि, न मृत्पिण्डदण्डादीनीति साध्यसाधनार्थनियतिः। एवमित्यादि, एवञ्च कृत्वा यथा अर्थगतप्रतिविशिष्टसाध्यसाधननियमाभिव्यङ्ग्याया नियतेः स्थिति:-व्यवस्था, तस्याः-स्थितेहेतोः कारणगुणपूर्वकतामनुमानप्रसिद्धां कार्यस्य प्रतिपद्य-बुद्धा कारकान्तरसमवस्थितितुल्यतायामपि-दण्डादिकारकान्तराणां साध्यनिर्वत्त20 नसमवस्थितेस्तुल्यतायामपि सत्यां पचिक्रियासमवस्थित्या सह नियतिप्रसिद्धरेव बलात् पुरुषस्तथा प्रतिपद्य प्रत्यर्थं कारकाणि प्रयुङ्क्ते, यथा स्वसाध्यार्थोऽयमित्यर्थः । तानि च कारकाणि नियतानि सस्या एव नियतायाः क्रियाया यथाप्रयोगनियम-पौर्वः प्रयोगनियम इति, स्खे खे विषये-देशकाल साध्यते, मृत्पिण्ड एवोटद्याकारादिक्रमेण घटीभवति, उदाहरणद्वयप्रदर्शने हेतुमाह-पूर्वस्मिन्निति । ऋजुत्वादयो न रज्वादितोऽत्यन्तभिन्नाः स्थासकोशकुशलघटादयस्तु मृदोऽत्यन्तं भिन्नाकारा इति मेदः । प्रकारान्तरेणामुं भङ्गमादर्शयति वं विद्यमान एव पुरुषादिः चेतसो विषयान्तरव्यासङ्गेन ज्ञानाविषयः सन् सम्प्रति ज्ञानविषयता नीत इति सत् साध्यमुच्यते न तु क्रियया पुरुषोऽवस्थासु तदीयासु काश्चित् परिगृह्य काश्चिञ्च विनिवृत्त्य साध्यते, अत एषा नियतिनिरूपस्वात् पूर्वतो विलक्षणेति भावः । अथोदिताना कार्यकारणानां नियतिप्रयोज्यत्वं समर्थयति-एतच्चेति, ओदनादि पचिक्रिययेव साध्यम्, नान्यया, सा च पचिक्रिया घटादिसाधनक्रियाविलक्षणा, पचिक्रियायाश्चोपकारकाणि कारकाणि काष्ठादीन्येव म मृत्पिण्डदण्डादीनीत्येवं यः साध्यसाधनभावनियमः स नियतिनियम्य एव, अत एव पुरुषः कारणपूर्वकत्वं कार्यस्यानुमान30 तोऽवबुध्य दण्डादेः साध्यसाधनसमर्थस्य सद्भावेऽपि ओदनसाधनसमर्था पचिक्रियां तथाविधनियत्या विज्ञाय प्रयुक्ते इत्याह ओदनविषयेति । कारकाण्यपि नियतिबलेनैव खे खे विषये यथाप्रयोगनियमं परस्परानुग्रहविधायीनि परानुपमर्दनेन प्रवतन्त इत्याह-तानि च कारकाणीति । तथाविधनियतिमन्तरेण नौदनादीनां सिद्धिरित्याह-न विति। सिद्धिखरूपमाह 2010_04 Page #293 -------------------------------------------------------------------------- ________________ सिद्धेरभिधानम् ] न्यायागमानुसारिणीव्याख्यासमेतम् २४३ विशिष्ठे प्रयुक्तानीत्यर्थः, नैकविमर्दप्रवृत्तानि नैकमप्याहत्यान्योऽन्यापेक्षेण व्यापारेण प्रवृत्तानि परस्परापेक्षं नियतं परस्परानुग्रहमुद्भावयन्ति प्रवर्त्तन्तेऽत उच्यते - परस्परनियतानुग्रहोद्भावनवृत्तानीति, स्वविपयक्रियया प्रसाध्यमर्थमभिनिर्वर्त्तयन्ति तेषां वृत्तिः विषयः तानि तत्फल सर्व नियतमेव, ततो नियतिरेव सर्वस्य कारणम्, न तु तदुपायसिद्धेरन्यथा तत्सिद्धिरस्ति - काष्ठज्वलनादिसाधनपचिक्रियानिर्वर्त्तनस्यौदनस्य न दण्डचक्रभ्रमणादिसाधनात्सिद्धिर्न वा घटाद्यर्थस्य काष्ठज्वलनादि- 6 साध्यताऽस्तीति । का सिद्धिस्तर्हीति चेत् ? उच्यते सिद्धिर्हि नियमेनानुद्गतानां रूपादीनां साङ्गत्येन स्थितानां स्वनियतेरेवाऽभिव्यक्तिर्जनिर्वा, तत्र मिथ्याभिमान इदं मया कृतमिति पुरुषस्य । तच्च स च तानि च नियतेरेव प्रवर्त्तन्ते, तत्प्रवृत्त्यप्रवृत्त्योः सिद्ध्यसिद्ध्योश्च व्यभिचारदर्शनात्, तथा च दृश्यन्ते क्रियाणां विपत्तयोs - 10 प्रवृत्तयश्चातस्तत् कृतमपि पूर्वनियतिस्थत्वादकृतम्, विनष्टमप्यविनष्टं तथानियत्योत्तर कालं कपालादित्वेनावस्थितत्वात् । 3 सिद्धिहत्यादि, नियमेनो तलक्षणेनानुद्गतानां - अनभिव्यक्तव्यापाराणां बीजावस्थायामङ्कुरादित्वेन रूपादीनां सम्मूच्छितानां साङ्गत्येन समुदेत्य स्थितानां स्वनियतेरेवाभिव्यक्ति:- वर्णाकृत्यादिनित्या निर्वा पूर्वमनभिव्यक्तानामभिव्यक्तिः सा सिद्धिरित्युच्यते, तत्र - तस्मिन् मिथ्याभिमान 16 इदं मया कृतमिति पुरुषस्य । आह- किं कारणं मिथ्याभिमानो ननु मया कृतो घट इति ? तत्क्रियाऽविनाभावात् सिद्धजन्मत्वाद्वटस्य युक्तोऽभिमान इत्यत्रोच्यते तच्च स चेत्यादि, तत्प्रवृत्त्यप्रवृत्त्योः सिद्ध्यसिद्ध्योश्च व्यभिचारदर्शनात्, तच्च-कार्यं घटादि, स च कर्त्ता कुलालः, तानि च - कारकाणि दण्डादीनि, नियतेरेव प्रवर्त्तन्ते, तथा तस्य चिकीर्षां कदाचिद्भवति कदाचिन्न, चिकीर्षुरप्यालस्यादिभिः प्रवर्त्तते न वा प्रवृत्तोऽप्यकृत्वैव घटं विनिवर्त्ततेऽन्यद्वा करोति, विघ्नो वास्य भवति, तथाऽन्यकारका - 20 ण्यपि वाच्यानि । तच्च कार्यं कदाचित् सिद्ध्यति कदाचिन्न, अन्यार्थप्रवृत्तावन्यत् सिद्ध्येत्, न वा सिद्ध्येत् । तथा च दृश्यन्ते क्रियाणां विपत्तयोऽप्रवृत्तयश्चेति लोकप्रसिद्धं व्यभिचारं दर्शयति । अतस्तत् सिद्धिर्हीति, कारणत्वेनाभ्युपगते वस्तुनि अभिव्यञ्जकसामग्री व्यापारपूर्वकालं कार्यत्वेनाभ्युपगतस्य वस्तुनो विद्यमानस्यैव तथाविधसामग्रीव्यापारानन्तरं प्रकटनमभिव्यक्तिरित्युच्यते, तथाविधनियतेरेव तथाभावनियतेः, तथाविधं नियतिवैचित्र्यमानानेन पुंसा मया कृतमिदमिति मिथ्या प्रतिपद्यत इति भावः । ननु मया कृतमिदमित्यभिमानस्य कथं मिध्यात्वम्, 25 दृश्यते हि पुरुषक्रियया सह घटाद्युत्पत्तेरविनाभावः, तस्मान्नायं मिथ्याभिमान इत्याशङ्कते - आहेति । कार्यकारक कर्तॄणां सर्वेषामेव नियत्यधीनप्रवृत्तित्वं न तु स्वत इत्युत्तरयति - तच्च स चेति । ननु कथं नियतेरेव कारणत्वमित्यत्राह -तथा तस्येति, पुरुषो हि कदाचिदेव चिकीर्षति न सर्वदा, चिकीर्षुरपि कदाचिदेव प्रवर्त्तते इति न प्रवृत्तिं प्रति चिकीर्षा कारणम्, तत्सत्वेऽपि प्रवृत्तेरभावात् प्रवृत्तोऽपि व्यासङ्गादिना कार्यमकृत्वैव विनिवर्त्तते, अनिवर्त्तमानोऽपि सति विघ्ने कार्यासिद्धेर्व्यभिचारान्न पुरुषादेः कारणत्वम्, एवं कारकादीनामपि प्रतिबन्धकादिना कार्याजनकतया व्यभिचारो विज्ञेयः, तथा कार्यमपि 30 सकलकारकसमवधानेऽपि कदाचिदेव सिद्ध्यति, अन्यार्थं प्रवृत्तेन कारकचक्रेणापरस्यैव सिद्धेः कस्याप्यसिद्धेर्वा दर्शनान्न कारकचक्रेणैव कार्यं सिद्ध्यत्येवेति नियमोऽस्ति, तस्मात्सर्वं नियति हेतुकमेवेति भावः । तदेवं जागृते व्यभिचारे यत्रापि क्वचित् कारणैः कृतमिदमिति लोकप्रतीतिस्तत्रापि न कारणकृतं किन्तु नियत्यैव तथा पूर्वमेव तथाव्यवस्थापितत्वात्, तथा विनष्टमपि कारणैरविनष्टमेव नियत्या पश्चात् कपालादित्वेनैव घटादेर्व्यवस्थापितत्वादित्याह - अतस्तदिति । विनाशे नियतेरहेतुस्वे 2010_04 Page #294 -------------------------------------------------------------------------- ________________ २४४ द्वादशारनयचक्रम् [विधिविध्यरे कृतमपि लोकप्रतीत्या पूर्वनियतिस्थत्वादकृतं-पूर्वमेव नियत्या तथास्थितत्वात् , विनष्टमप्यविनष्टं तथा नियत्योत्तरकालं कपालादित्वेनावस्थितत्वात् , कपालादित्वेनैव घटस्य विनाशात् ।। एवन्तु विनश्येत् , यदि प्रविशीर्णस्तां नापद्यते खरविषाणवदत्यन्ताभावी भवेन्न वा विनश्येत् घटत्वेनैव तिष्ठेत् , न त्वेवम् , तस्मान्नाविनाशः, लक्षणतो ह्यन्यथाभावो विनाशः, 5 स च नियतेरलङ्घयत्वात् , एवमुत्पत्तिरपि । एवन्तु विनश्यदित्यादि, यदि प्रविशीर्ण:-विशीर्यमाणो विशीर्णो वा, तां-नियति कपालादिक्रमापत्तिरूपघटविनाशां नापद्यते खरविषाणवदत्यन्ताभावी भवेन्न वा विनश्येत्, घटत्वेनैव तिष्ठेत् ततो न विनश्येत् , न त्वेवमस्ति तस्मान्नाविनाशः, लक्षणतो ह्यन्यथाभावो विनाशः, स च नियतेर लज्यत्वात्,-कपालाद्यवस्थानरूपायाः । एवमुत्पत्तिरपि । 10. तथा चाऽऽनबीजे तथानियत्या लीनानां मूलाङ्करादीनां फलस्य वर्णानां रसानाच तेषां तेषां व्यवस्थितपूर्वरूपैव प्रवृत्तिर्मायाकारपताकिकावत्, यावदानं नियतिप्रवृत्तिफलावस्थामनुभूय पुनर्बीजमेव तस्मादपि पुनरपि तथेति, सेयं व्यवस्थिता नियतिसन्ततिरनाद्यनन्ता। तथा चाम्रबीज इत्यादि, दृश्यत इति वर्त्तते, तथा नियत्या लीनानां मूलाङ्कुरपत्रनालकाण्डशाखाप्रशाखास्कन्धपुष्पादीनां व्यवस्थावकाशक्रमेण व्यवस्थितपूर्वरूपैव प्रवृत्तिः, रक्तश्यामादिवर्णा15 नामाम्रफलस्य तुवराम्लमधुरादीनाञ्च रसानां तेषां तेषामिति,-अवस्थायामवस्थायां ये ये भवन्त्यन्येऽन्ये तेषां तेषां विद्यमानानामेव नियतानाम् । किमिव ? मायाकारपताकिकावत् , यथा मायाकारः पताकिका गुलिकादिरूपीकृत्य पूर्वग्रस्ताः क्रमेण स्ववदनान्निष्कासयति नानावर्णनानाकारास्तथेहाप्यानबीजे । यावदानं नियतिप्रवृत्तिफलावस्थामनुभूय पुनर्बीजमेव, तस्मादपि बीजात् पुनरपि तथैवेत्यङ्क रादिप्रवृत्तिं प्रागभिहितां दर्शयति-सेयं व्यवस्थिता नियतिसन्ततिरनाद्यनन्ता । 20 स्यान्मतं ननु दग्धे बीजेऽङ्कराद्ययन्ताप्रादुर्भावान्नियतिकृतप्रादुर्भावतिरोभावव्यभिचार इत्यत्रोच्यते दाहनियत्युदयेऽपि यवतिलभस्मादीनां तास्तथा तथा प्रादुर्भावतिरोभाववृत्तयः प्रतिनियता एवान्यथा च । ताश्च पुरुषकारमप्युल्लंघ्य तमन्तरेण सिद्धाः, पाककालस्यापि नियतिदर्श नात् , यथा षष्टिकाः षष्टिरात्रेण पच्यन्त इत्यादि । एवञ्च व्यवस्थितनियतार्थव्यक्तेर्व्यतिरिक्त26 मतिः पुरुषस्य मिथ्याभिमान एव, न तु नियतौ हि किञ्चिन्नास्ति ।। दोषमाह-एवन्तु विनश्येदिति, एवन्तु कपालादित्वेन घटो विनश्येन्नान्यथा, कपालादिक्रमापत्तिरूपतयैव नियतेर्व्यवस्थितत्वात् , यदि तथा विधनियतिं नाश्रियेत तर्हि घटो विशीर्यमाणोऽत्यन्तमभावरूप एव स्यात्, खरविषाणवत्, अथवा घटत्वे. नैव सदा स्यात् , नैव विनश्येत् कदापि, न चैवं दृश्यते. तस्मान्नियति बलादेव घटोऽन्यथाभावलक्षणं विनाशमवाप्नोतीति भावः । कारणे बीजादौ नियत्यैव पृथक्तया लीनानां मूलारादीनां वर्णरसादीनाञ्च व्यवस्थितक्रमेण विद्यमानानामेव तथा 30 नियत्या क्रमेणाविर्भाव इत्याह-तथाचेति। आम्रफलं प्रथमं कषायरसं तथाऽऽम्लरसं तथा मधुररसं भवतीत्याह-तुवरेति, तुवर:-कषायः। अनुरूपं दृष्टान्तमाह-मायाकारेति, मायां करोतीति मायाकारः । व्यवस्थापूर्वकमेव नियत्या तिरोभावं दशेयति-यावदाम्रमिति, आम्रबीजं यावदाम्रफलं नियत्या प्रवृत्ता अवस्था अनुभूय पुनर्बीजमेव भवति, पुनश्च, मूलाद्यवस्थां प्राप्नोति, ततोऽपि बीजतामित्येवमाविर्भावतिरोभावधाराः प्रवर्तन्ते नियत्यैवेति भावः। ननु दग्धे बीजे कदाप्यकुरादेरनुत्पत्त्या नियतिकृताऽऽविर्भावतिरोभावाभावेन व्यभिचार इत्याशङ्कायामाह-दाहनियत्युदयेऽपीति । 2010_04 Page #295 -------------------------------------------------------------------------- ________________ नियत्या सर्वसिद्धिः] न्यायागमानुसारिणीव्याख्यासमेतम् રક (दाहेति) दाहनियत्युदयेऽपि ताः प्रतिनियता एवान्यथा च, दृश्यन्त इति वर्त्तते, कास्ताः ? तथा तथा प्रादुर्भावतिरोभाववृत्तयः; केषां ? यवतिलभस्मादीनां, अन्यादृग्यवतिलभस्मेत्यत्रापि प्रादुर्भावतिरोभाववृत्तयो नियता एव । ताश्च पुरुषकारमप्युल्लंघ्य तमन्तरेण सिद्धाः-पुरुषकारश्चान्तरेण सिद्धाः । किं कारणं ? पाककालस्यापि नियतिदर्शनात् , षष्टिकाः षष्टिरात्रेण पच्यन्त इत्याद्युदाहरणानि गतार्थानि, देशकालकर्तृकरणादिनियत्यैव पाकादिदर्शनात् । एवञ्चेत्युन्नयति--अनेनोक्तविधिना । व्यवस्थित एवार्थ-अव्यक्तस्यैवार्थस्य तत्र व्यक्तेः, सर्वं नियतमेव तत्तथा, तस्याश्च व्यक्तेर्व्यतिरिक्तमतिः पुरुषस्य,-सर्वकालं व्यवस्थितनियतादर्थादन्यो मृगव्याटो मया कृत इति मिथ्याभिमान एव, षष्टिकादयो वा केदारादिसंस्कारविधिना पाचिता इति, यस्मान्न तु नियतौ किञ्चिन्नास्ति, सर्वं विद्यमानमेव तिरोभूतं क्रिययाऽभिव्यज्यते कालादिनियत्यनुगृहीतम् । ___ अत्राह__कथमस्ति सर्व नियतौ ? यथा भूम्यम्ब्वादेविना न भवति केवलाया एव वीजनियतेराम्रफलपाकादि, कालातपवातादिभ्यो हि पाकः, तथाऽकालेऽपि भूमिखननादिभ्यः काले वापि न भवति पाको द्रव्यान्तरसंयोगादिना स्तम्भितायां शाखायाम् , द्रावणाद्वा। अन्यच्च तथातथा तस्य ज्ञातुरिच्छानुविधानेन वस्तुनियतिवैपरीत्यमिति नियमाभावात् कृतकत्वाच्चानित्यत्वं ताभ्याञ्च नियत्यभाव इति। 16 कथमस्तीत्यादि यावन्नियत्यभाव इति, यदुक्तं त्वया नियतौ सर्वमस्तीति तत्कथमस्ति ? यथा भूम्यम्ब्वादेविना न भवति केवलाया एव बीजनियतेराम्रफलपाकादि, रूपरसगन्धस्पर्शसंख्यासंस्थानान्यादिग्रहणात् । भूमिरम्बु वायुरातपः काल इत्येतानि भूम्यम्ब्वादीनि, तद्व्याचष्टे-कालातपवातादिभ्यः पाकस्तस्माद्भूभ्यम्बुकालवातातपाद्यपेक्षत्वान्न बीजनियतावस्त्यङ्करादि । तत्फलपाकादिवत्तथाऽकालेऽपि कालनियतेर्व्यभिचारो दृश्यते भूमिखननादिभ्यः फलादीनामप्राप्तेऽपि काले पाकदर्शनात् , आदि- 20 ग्रहणात् कोद्रवपलालवेष्टनवणकरणादिभिः। काले वापीति, प्राप्तेऽपि पाककाले न भवति पाको द्रव्या दाहोऽपि नियत्यैव भवति, तथा च बीजानां दाहे पूर्वमिवाविर्भावतिरोभाववृत्तीनामभावेऽप्यन्यादृक्षा एव ता नियतिबलेनैव तथाप्रतिनियता इति नाविर्भावतिरोभावव्यभिचारो न वा तत्र पुरुषकार एव कारणम् , तमन्तरेणापि नियतिबलेनैव तत्र तासां सिद्धेरिति भावः । कथं पुरुषकारमन्तरेण व्रीह्यादिफलाविर्भावः पुरुषप्रयत्नात्तद्दर्शनादित्याशक्य समाधत्ते-किं कारणमिति, पाककालनियतेरप्यावश्यकत्वात्, न हि तामन्तरेण पुरुषकारमात्रात् कार्यसिद्धिदृश्यते इति भावः । उदाहरति-25 षष्टिका इति, षष्टिदिनसाध्या व्रीहि विशेषा इत्यर्थः, उदाहरणान्तराण्यपि मूलकृता दर्शितानीति सम्भाव्यते, तान्यत्रानुपलम्भानोद्धृतानि । एवं च कार्यसिद्धौ देशकालकर्तृकरणादिनियत्यवश्यंभावितया मृदादितो घटादिद्रव्यं मया कृतमिदमिति केदारादिसंस्कारेण मया षष्टिकादयः पाचित इति वा पुरुषस्याभिमानो मिथ्याभूत एवेति निगमयति-अनेनोक्तविधिनेति। अव्यक्तस्यैवेति, विद्यमानस्यैवानभिव्यक्तस्यार्थस्य तत्तन्नियत्याऽभिव्यक्तेरित्यर्थः । न विति, न हि नियतिः किञ्चित् प्रत्यसमर्था, येनान्यापेक्षा पुरुषादेरिव तस्याः स्यादिति भावः । अथ नियतेः सर्वसमर्थतायां व्यभिचारमुद्भावयति-कथमिति, 30 नियतिसद्भावेऽपि बीजादितो भूम्यादिव्यतिरेके आम्रादेः पाकाद्यसंभवात् भूम्यादेरप्यपेक्षा तस्या अस्ति, पाको हि कालातपवातादिभ्यो भवत्यतो न नियतिः सर्वसमर्थेति भावः । ननु कालनियत्यनुगृहीता सा करोतीत्याशंक्याह-तथाऽकालेऽपीति. वृक्षादित आम्रफलाद्युपचित्य खनित्वा भूमिं तत्र निक्षिप्य घासादिनाऽऽच्छाद्याकालेऽपि पाकादेनिवर्तनात् कालनियतेरपि व्यतिरेकव्यभिचारः। अन्वयव्यभिचारोऽप्यस्तीत्याह-काले वापीति, प्राप्तेऽपि पाककाले पाको न दृश्यते, वृक्षायुर्वेद ___ 2010_04 Page #296 -------------------------------------------------------------------------- ________________ द्वादशारनयचक्रम् [विधिविध्यरे न्तरसंयोगेन स्तम्भितायां-यथा शाखायां चावबद्धायां वृक्षायुर्वेदविधानेन द्रव्यान्तरसंयोगेनैव, द्रावणाद्वा-सहकारतैलग्रहणार्थं कोमलस्य प्राप्तगन्धावस्थस्य द्रवीभावात्तैलत्वेन, आदिग्रहणात् पक्षिखञ्जरीटादिभक्षणात् । अन्यञ्चेत्यादि, न केवलमात्मस्वरूपापरित्यागेनैव पाकभावः किन्तर्हि ? अन्यच्च तथा. तथा यथायथा पुरुषो ज्ञाता स्वयमिच्छति तथातथा तस्य ज्ञातुरिच्छानुविधानेन वस्तुनियतिमतीत्य पुष्पा.: दीनां वर्णसंस्थानादिवपरीत्यम् , यथोत्पलस्य पार्श्वे रक्तता पाश्वे नीलता, मातुलिङ्गफलस्य रक्तता दिवर्णता तद्वासितबीजस्य, तथा कूष्माण्डफलस्य घटवर्धितस्य घटाकारता । योनिप्राभृतादिभ्यश्चान्यथैव सर्वयोन्युत्पत्तयः, द्विविधा योनिर्योनिप्राभृतेऽभिहिता, सचित्ताऽचित्ता च, तत्र सचित्तयोनिद्रव्याणि संयोज्य भूमौ निखाते दन्तरहितमनुष्यसदिजात्युत्पत्तिः, अचित्तयोनिद्रव्ययोगे च यथाविधि सुवर्णरजतमुक्ता प्रवालाद्युत्पत्तिरिति, इति नियमाभावः,-इत्थं काले चापाकादकाले च पाकादर्थान्तरापेक्षत्वात् पुरुषे10 च्छायनानुविधानाच्च नियमाभावः, नियमाभावात् कृतकत्वं पाकादेः कृतकत्वाचानित्यत्वं-अभूतस्य भावो भूतस्य चाभाव इत्यर्थः, ताभ्याञ्च नियत्यभावः, इतिः परिसमाप्त्यर्थः, एप पूर्वपक्षः । अत्रोच्यते न, तथानियतित्वात् , बीजादिनियतिरेव ह्युदकादिषु वर्तते उदकादिनियतिश्च वीजादिध्वन्योऽन्यव्यतिहारेण, तन्नियमानुरोधेन हि तेषां सर्वेषां नित्यप्रवृत्तिरन्योऽन्याविनाभावात् , 15 तथा ह्याह-उदकं पतितं सभावकं निर्भावकञ्च, यदा हि बीजनियतिरङ्कुराधभिव्यक्तेरभिमुखी भूता तदा तस्या देश उदकस्थ एवाकरोद्भावने प्रवत्तमानः सभावक इत्युच्यते, अन्यदा तु विपर्ययः। (नेति) न, तथानियतित्वात् , यथोक्तं त्वया कालाप्रवृत्तिनियतित्वादकालप्रवृत्तिनियतित्वाच नियत्यभाव इति तन्न, तथानियतित्वात्-सापेक्षनियतित्वात् , तद्दर्शयति,-बीजादिनियतिरेव हीत्यादि, 20 हिशब्दो यस्मादर्थे, यस्मात् सैव हि बीजादिनियतिरेकैवोदकादिषु वर्त्तते काले वायावातपे पुरुषे तदिच्छाप्रयत्नयोश्च वर्त्तते, आदिग्रहणात् । उदकादिनियतिश्च बीजादिषु वर्त्ततेऽन्योऽन्यव्यतिहारेण, तन्नियमानुरोधेन हि-परस्परनियमानुरोधेन, हिशब्दो यस्मादर्थे, यस्मादेवंरूपा तेषां सर्वेषां नियति विहितप्रणाल्या तथाविधद्रव्यान्तरेण बद्धायां शाखायां विलम्बेन फलनिष्पत्तेः फलाभावस्य वा दर्शनात्, कोमलस्य प्राप्त सुरभिगम्धस्याम्रफलादेः तत्तैलग्रहणाय वृक्षायुर्वेदाभिहितरीत्या द्रावणाद्वा पाकानिष्पत्तेः, मध्य एव फलस्य पक्ष्यादिभिर्भक्षणाद्वा 25 व्यभिचार इति भावः । अथ नियत्यैव यदि आम्रफलादिर्भवेत्तर्हि खस्वरूपपरित्यागेनैव भवेत् , न चैवमस्ति, पुरुषेच्छानुगुण पाकस्य वस्तुनियतिमतिलंघ्यापि भावादित्याह-न केवलमिति । वैपरीये दृष्टान्त उच्यते-यथेति। अर्थान्तरापेक्षत्वात्नियतिव्यतिरिक्ताथोपेक्षणादित्यर्थः । कृतकत्वं-मया कृतमिदमिति बुद्धिविषयत्वम्-अनित्यत्वं-कारणेऽसत एवोत्पत्तिः निर. स्वयश्च विनाश इत्यर्थः । ताभ्याञ्च, पाकापाकाभ्याश्चेत्यर्थः । यदुक्तं भवता साक्षेपं व्यभिचारादि तत् सर्व तथाविधनियत्यैव भवतीत्युत्तरयति-न तथानियतित्वादिति । कालेति, काले फलादेरप्रवृत्तेर्नियतित्वादकाले प्रवृत्तेर्नियतित्वादि30 त्यर्थः । तथा तथा परस्परापेक्षयैव नियतेः क्लप्तत्वादित्याह-सापेक्षनियतित्वादिति । तथा च बीजभूम्यम्बुतेजोऽनिल. कालपुरुषादिषु यावत्सु फलमुत्पद्यते तावत्खेव नियतेः सद्भावादकाले पाकत्वेनाभिमतस्य सामग्रीमध्ये तावत्सु कालादिष्वेव नियतेः सद्भावादेव पाकाविर्भाव इति न व्यभिचारः, तथा काले पाकादर्शनमपि तथाविधनियत्यभावादेवेति भावः, परस्परकरणं व्यतिहारः। परस्परापेक्षाः बीजादिगतास्सर्वा नियतयः सङ्गत्य कार्यनिर्वाहकाः, न त्वेकस्या अभावे कायनिर्वर्तनाय 2010_04 Page #297 -------------------------------------------------------------------------- ________________ भावाभावकत्वे ] न्यायागमानुसारिणीव्याख्यासमेतम् २४७ स्तस्मात्तेषां सर्वेष / मितरेतरनियत्या नित्यप्रवृत्तिरन्योऽन्याविनाभावात्, तथैव प्रवर्त्तत इत्यर्थः । तथा ह्याहेति लोकसिद्धं ज्ञापकं दर्शयति - सहभावेन वर्त्तत इति सभावकम्, निर्गतो भावोऽस्मादिति निर्भावकम्, किं तत् ? उदकं पतितमिति, तद्भावना यदा हि बीजनियतिरिति, अङ्कुराद्यभिव्यक्तेर्यदाऽभिमुखीभूता बीजनियतिर्भवति तदा तस्या नियतेर्देशः - अंशो भागोऽवयवः स उदकस्थ एव सन्न रोद्भावने प्रवर्त्तमानः सभावक इत्युच्यते, तद्भावांशापेक्षयोदकमपि सभावकमित्युच्यते भेदविव- 5 क्षायां बहुव्रीहिसमासाश्रयणात्, मतुब्लोपाद्वा अभेदोपचाराच्च भाव एवोदकमिति, स च भावोऽङ्कुरादिर्वनस्पत्यौषध्यादेः, मतुप्प्रत्यय निर्देशोऽपि भेदेनोपपद्यते तद्यथा - अस्त्यस्मिन्नस्य वा भावोऽङ्करस्त - स्मिन्नुदके तस्मात् सभावकमिति । अन्यदा तु विपर्ययः-क्षाराम्लाद्युदकेऽङ्कुरादयो न सन्तीति नियतत्वाद्विपर्ययः, तस्मादभावकमुच्यते तज्जलमिति । एवं भूमिवायुकालप्रभृतिष्वपि सभावकाभावकत्वे । यदुक्तं पुरुषस्य ज्ञातुरिच्छानुविधा - 10 नेन वस्तुनियतिवैपरीत्यमिति तन्न, तत्रापि नियतेरेव कारणत्वात् पुरुषो व्यग्रोऽव्यग्र इत्यादि हि नियतेरेव, सापि तादृशी, एवमप्रयुक्तेषु स्वातंत्र्यादेव नियतिः प्रयुक्तेष्वपि करणादीनां क्षमत्वाक्षमत्वप्रात्यप्राप्त्यादौ तथा नियतत्वात्, एतेन पाकादिदोषाः प्रत्युक्ताः । ( एवमिति ) ऊपर भूमावभावः सस्यादेः, पादसौकुमार्यादेर्भावः सुकृष्टे केदारादौ वा सर्वबीजानामङ्कुरादिभावः । पूर्ववायावभावोऽङ्कुरादेः भावस्तु महिषीकार्पासप्रसूत्यादेरन्यस्य पुष्पादेरन्यस्य 15 फलादेः । मनुष्याणाञ्च पूर्ववायावभावः, तद्यथोक्तं 'दिवास्वप्रमवश्यायं प्राग्वातं वा तु वर्जयेत्।' सस्यानामुत्तरे वायौ न भावः । प्रावृष्युप्तानां भावः, वैशाखादिष्वभावः । प्रभृतिग्रहणेनाऽऽतपेऽतिमृदावतितीक्ष्णे चाभावः, समे भावः, आतपाभावेऽप्यभाव एवेति । एवं तावदबुद्धिपूर्वप्रवृत्तेषु कालाङ्कुरादिष्व चेतनेषु नियतिरुक्ता, बुद्धिमत्स्वपि नियतिरेव यदुक्तं प्राक् त्वया पुरुषस्य ज्ञातुरिच्छानुविधानेन वस्तुनियतिवैपरीत्यमिति, तन्नोपपद्यते, तत्रापि नियतेरेव कारणत्वात्, कुतः ? पुरुषो व्यप्रोऽव्यत्र इत्यादि नियतेरेव 20 क्षमन्त इत्याह- परस्परेति इदं नियतेरनेकत्वमभ्युपेत्य, इतरेतरनियत्या नित्यप्रवृत्त्युक्तेः । यद्वा नियतिरेकैव, यैव बीज - नियतिः सैवोदकनियतिः, यैवोदकनियतिः सैव बीजनियतिः । एकनियत्याश्रयाणां सर्वेषां बीजोदकादीनामन्योन्याविनाभावेन प्रवृयाऽङ्कराद्यभिव्यक्तिर्नान्यथेति भावः । सभावकमिति, कार्यनिर्वर्त्तनोन्मुखापर नियतेः स्खसाङ्गत्येनोपोद्बलकत्वं सभावकत्वं तद्विपरीतत्वं निर्भावकत्वमित्यर्थः । एतत्सङ्गमयति-अङ्कुराद्यभिव्यक्तेरिति । इदश्च नियतिरेकैव बीजभूमिजलवातातपकालादिषु वर्तत इत्यभिप्रायेणोक्तमिति प्रतिभाति, बीजनियतेरेव भागेनोदकादौ वृत्तेरुक्तत्वात् यादृशजलादिसंयोगेनाङ्कुरोद्भू- 25 तिस्तादृश एव जलादौ बीजनियतेरवयवतो वृत्तित्वं नान्यस्मिन् जलादौ, अवयवशो यत्र जलादौ ब्रीहिनियतेः सत्त्वं तदपेक्षया तज्जलादिरपि सभावक उच्यते भावो विद्यते यस्मिन्निति भेदविषयबहुव्रीह्याश्रयणादिति भावः । मतुबलोपा ति, भाव एवोदकमित्यत्र भावशब्दस्य गुणवाचित्वेन 'गुणवचनेभ्यो मतुबो लुबिष्ट' इति लोपो बोध्यः, मतुप्प्रत्ययं विधाय तल्लोपविधाने गौरवादाह - अभेदोपचाराच्चेति । भावपदविवक्षणीयमाह स चेति । बहुव्रीहिवन्मतुप्प्रत्ययेन निर्देशोऽपि भेदे सत्येव सम्भवतीत्याह - मतुबिति । भूमिवाय्वादेः सभावकत्वाभावकत्वे दर्शयति-उपरेति । 30 ऊषरादेः सस्याय भावकत्वं पादसौकुमार्यादि सभावकत्वम् । सुकृष्टकेदारादेः सर्वबीजानामङ्कुरादिसभावकत्वमिति भूमेस्ते विज्ञेये । अङ्कुराद्यभावकत्वं पूर्ववायोः महिषीप्रसूत्यादि सभावकत्वं मनुष्यप्रसूत्यभावकत्वञ्च दिवाखापाद्यभावकत्वं प्राग्वातस्याहतद्यथोक्तमिति । अवश्यायस्तु नीहारः । उत्तरवायोः सस्याद्यभावकत्वम् प्रावृट्काल स्योप्तबीजादिसभावकत्वं वैशाखादेस्तदभावकत्वमिति । इत्थमचेतनस्य सभावकत्वाभावकत्वे प्रतिपाद्य चेतनस्य प्रतिपादयितुमाह- बुद्धिमत्स्वपीति । पुरुषस्य व्यग्रत्वाव्यग्रत्वाद्यपि नियतेरेवेत्याह- तत्रापीति । पुरुषप्रेरितानामप्रेरितानां वा चेतनाचेतनानां तत्तद्विषयेषु प्रवृत्तिरपि 35 2010_04 Page #298 -------------------------------------------------------------------------- ________________ २४८ [ विधिविध्यरे यतो भवति, साप्यापेक्षिकी तादृशी नियतिरेव, आदिग्रहणात्कुशलोऽकुशलः पुरुष इत्याद्यपि नियतेरेवेति । एवमप्रयुक्तेषु - स्वातंत्र्यादेव परनियोगानपेक्ष प्रवृत्तिषु नियतिः प्रयुक्तेष्वपि नियतिरेव । करणादीनां - करणाधिकरणकर्त्तृकर्म सम्प्रदानापादानानां क्षमत्वं तत्तत्क्रियासाधनसमर्थत्वमक्षम त्वमसमर्थ - त्वम्, यथोक्तं- 'एतत् परशोः सामर्थ्यं पत्रतृणे न' इत्यादि । तेषामेव कर्त्तृसान्निध्यं प्राप्तिः, असान्निध्य5 मप्राप्तिः, आदिग्रहणात् प्राप्तानामपि करणादीनामन्तरे विना इत्येवमादेः कारणादङ्कुरायुत्पत्त्यनुत्पत्त्योनियतिरेव कारणम्, तथानियतत्वादिति, एतेन पाकादिदोषाः प्रत्युक्ताः - प्रतिषिद्धाः, यदुक्तं त्वया काले न पाकोsकाले पाक इत्यादयो दोषा इति तदपि तथानियतत्वादित्येतेनैव न दोषाय, कालाकालयोरपाकेन पाकेन च तेषां तेषां भावानां नियतत्वात् सैत्र नियतिस्तथातथा नियता भवतीति । द्वादशारनयचक्रम् किञ्चान्यत्- 10 सर्वज्ञोऽपि च न नियतिमन्तरेण, तामेवासौ नियतिमखिलां पश्यन् सर्वज्ञो भवति स हि भव्याभव्यसिद्धादिभेदेषु पुरुषेषु गतिस्थित्यवगाहवर्त्तनारूपरसादिशरीरवाङ्मनःप्राणादिपरिणतिरूपामसङ्कीर्णामनादिमध्यान्तां वस्तुनियतिमेकामनेकरूपां बन्धमोक्षप्रक्रियानियतिसूक्ष्मां पश्यन्ननन्तकालमव्याबाधसुखं तिष्ठतीति । सर्वज्ञोऽपि चेत्यादि, यदपि च सम्यग्दर्शनज्ञानचारित्रतपोभिर्ज्ञानावरणाद्य शेषकर्मक्षयात् केव - 15 लज्ञानप्राप्तिः सार्वज्ञ्यं पौरुषेणेति मन्यसे तदपि मा संस्था नियतिमन्तरेणेति, कथं तर्हि मन्तव्यम् ? सार्व नियतेरेव भवतीति, तामेवासौ नियतिमखिलां पश्यन् सर्वज्ञो भवतीति, तथैव च नियत्या नान्यथेति । स हि भव्यभव्य सिद्धादिभेदेषु पुरुषेषु गतिस्थित्यवगाहवर्त्तनारूपरसादिशरीरवाङ्मनः प्राणादिपरिणतिरूपामसङ्कीर्णामनादिमध्यान्तां - कालत्रयेऽपि अनुत्पत्तिमविनाशां स्वेन रूपेणाविपरिणामां लोकस्थित्यनतिक्रमेणाप्रच्युतस्वरूपां वस्तु नियतिं - बीजादिनियताङ्कुरादिवस्त्वात्मिकामेकां - सर्वभेदेष्वभिन्नामनेक20 रूपां - तेषु भेदेषु तद्रूपनियतित्वादनेकां बन्धमोक्षप्रक्रिया नियतिसूक्ष्मां - जीवकर्मणोरनाद्येन सम्बन्धेन नियतेरेव महिम्ना नान्यस्या इत्याह- एवमिति । नियतिरेव प्रयोजिकेति भावः । करणादीन्यपि तथैवेत्याह- करणेति । एतदिति यदेतत् समाने उद्यमननिपतने परशुना छिद्यते न तृणेन न वा पत्रेण तत्परशोः छेदने सामर्थ्यलक्षणनियतिसद्भावादेवेति भावः । तेषामेवेति करणादीनामित्यर्थः, करणादीनां कार्यानुकूलनिखिलकारणसमवधानासमवधाने नियतिकृते एवेति भावः । कालाकालाभ्यामपाकपाकलक्षणव्यभिचारनिराकरणायाह-यदुक्तमिति । सार्वश्यमपि पुरुषस्य नियति कृत25 मेवेत्याह- सर्वज्ञोऽपीति । सर्वं समस्तं द्रव्य प्रदेशपर्याय नियतिरूपं वस्तु जानाति नियतिबलसमुपलब्धसमस्तावरणक्षयाविर्भूत केवलसंवेदनेनावबुध्यते विशेषत इति सर्वज्ञः, न तु पुरुषकारादिनिर्वर्त्यं सार्वयमित्याह - यदपि चेति । स हि भव्येति, ' सः - सर्वज्ञः, पुरुषास्त्रिविधाः भव्याः अभव्याः सिद्धाश्चेति, सिद्धिगमनयोग्यनियतिमन्तो भव्याः, तद्विपरीतनियतिमन्तोऽभव्याः सिद्धास्तु न भव्या नाप्यभव्याः, सिद्धत्वादेव योग्यत्वायोग्यत्वविरहात्, एवं त्रिविधेषु पुरुषेष्वित्यर्थः । गतीत्यादि, गतिलक्षणो धर्मः, स्थितिलक्षणोऽधर्मः, अवगाहनालक्षणमाकाशम्, वर्त्तनालक्षणः कालः, रूपरसादिमान् 30 षुद्गलः, तथा शरीरवाङ्मनः प्राणादिरूपेण असङ्कीर्णतया परिणता नियतिरेवेत्यर्थः, सा चादिमध्यान्तर हितेत्याह- अनादीति, एवंविधा केत्यत्राह - वस्तुनियतिमिति, तस्या एकानेकरूपतामाचष्टे - एकामिति, सामान्यात्मनैकामित्यर्थः । सामान्यतः स्थूलभूतां नियतिमुक्त्वा सूक्ष्मरूपां तामाह-बन्धमोक्षेति, बन्धखरूपमाचष्टे - जीवकर्मणोरिति, जीवस्य कर्मणश्च योऽयं परस्परो योगः सोऽनादिः परस्परं शरीरकर्मणोः सन्तानस्य बीजाङ्कुरबत् हेतुहेतुमद्भावेनानादित्वात् तस्मात् किं पूर्वं जीवः, पश्चात् कर्म ? किं वा पूर्वं कर्म पश्चाज्जीव इत्याशङ्का नास्ति । तच कर्म ज्ञानदर्शनावरणवेदनीयमोहनीयायुर्नामगोत्रा 2010_04 Page #299 -------------------------------------------------------------------------- ________________ कालवादारम्भः] न्यायागमानुसारिणीव्याख्यासमेतम् सम्बद्धयोः कार्यकारणभूतैर्मिथ्यादर्शनादिभिर्नियतिवशात सन्तत्यानाद्यो बन्धः। भव्येषु बन्धोद्वर्तनसमर्थसम्यग्दर्शनादिभावनियतिविवर्त्तान्मोक्षहेतोरमूर्तस्वभावस्य ज्ञानदर्शनवीर्यसुखादिस्वात्मनः स्वात्मन्यवस्थानं मोक्ष इत्येतां बन्धबन्धकबन्धनीयबन्धविधानाद्यने कभेदप्रभेदबन्धप्रक्रियां व्रतसमितिगुप्ति[यति]धर्मानुप्रेक्षापरीषहजयचारित्रसंवरां द्वादशविधतपोऽनुष्ठान निर्जरां क्षेत्रकालगतिलिङ्गतीर्थप्रत्येकबुद्धबुद्धबोधितज्ञानावगाहनान्तरसंख्याऽल्पबहुत्वाद्युपायव्याख्येयां कृत्स्नकर्मक्षयाच्याबाधात्यन्तैकान्तसुखात्मिकाश्च । मोक्षप्रक्रियां परमसूक्ष्मां पश्यन्ननन्तकालमव्याबाधसुखं तिष्ठति, एषा च बन्धमोक्षप्रक्रिया दिङ्मात्रमुपदर्शिता, अतिसूक्ष्मत्वाद्बहुवक्तव्यत्वाच्च नात्र परीक्षाकाले शक्या वक्तुम् । यथोक्तं-'लोगम्मि जीवचिंता सबागमकोसिया दुरोगाहा । तत्तो वि कोसियतरी चिंता बंधे य मुक्खे य ॥' इतिः परिसमाप्त्यर्थः, इत्थं नियतिवादः परिसमाप्तः ॥ अथ काल वादः 10 अपरो द्रव्यार्थो विधिविधिनयविकल्प आह नायमपि नियतिवादः परितोषकरः, एवं तर्हि भावनयाऽनयैव त्वदुक्तया युगपदयुगपन्नियतार्थवृत्तेर्न नियतिरेव, किन्तर्हि ? काल एव भवतीति भावितं भवति । (नायमपीति) एवं तहीत्यादि, येयमुक्ता ज्ञाज्ञस्वतंत्रास्वतंत्रत्वान्न ज्ञ एव भवितुमर्हति, किं तर्हि ? नियत्यैव युगपदयुगपञ्चानेकधा क्रियादिकार्यकारणभावनियतमेतदिति भावनयाऽनयैव 15 त्वयोक्तया युगपदयुगपन्नियतरूपादिबीजाङ्कराद्यर्थवृत्तेर्न नियतिरेव भवति, किं तर्हि ? काल एव भवतीति भावितं भवति 'अपरस्मिन्नपरं युगपच्चिरं क्षिप्रमिति काललिङ्गानि' (वै. द. २।२।६) इति वचनात् , युगपदयुगपन्नियतार्थानां वृत्तेर्भवनार्थत्वात् , वर्तनस्य काललक्षणत्वादिति । न्तरायरूपमष्टविधम् , तैः जीवस्य प्रतिप्रदेशं प्रकृतिस्थित्यनुभागप्रदेशात्मकतया संश्लेषणं बन्धः, तत्र मिध्यादर्शनस्य प्राधान्यात प्राथम्येनोपादानम् , आदिनाऽविरल्यादेर्ग्रहणम् । मोक्षस्वरूपमाख्याति-भव्येष्विति, भव्यजीवेष्वेव कर्मसन्ततेरनादे- 20 रात्यन्तिकक्षयसम्भवात्तदुपादानम्, कर्मबन्धस्योद्वर्त्तनेऽन्यथाकरणे समर्था या सम्यग्दर्शनज्ञानचारित्रलक्षणभावनियतिः तस्याः परिणामविशेषादित्यर्थः। तथाविधनियतिवशात् प्रध्वस्तकर्मणोऽमूर्तज्ञानदर्शनवीर्यसुखादिवरूपस्यात्मनः खस्वरूपेणावस्थानं मोक्ष इति भावः । एवं बन्धमोक्षखरूपमुक्त्वा बन्धप्रक्रियामादर्शयति-बन्धबन्धकेति,जीवकर्म संश्लेषो बन्धः, सकषाय आत्मा बन्धकः, ज्ञानावरणीयादीनि बन्धनीयानि, प्रतिप्रदेशं प्रकृतिस्थित्यनुभागप्रदेशरूपतया बन्धनं बन्धप्रकारः । मोक्षोपयोगिनं सप्रभेदं संवरमादर्शयति-वतेति. निर्जरामाचष्टे-द्वादशेति, इत्थमुक्तान् जीवाजीवानवसंवरनिर्जराबन्धमोक्षानभिधाय 25 तन्निरूपणोपायभूतं द्वारमाचष्टे-क्षेत्रेति, क्षेत्रादयो वस्तुनो व्याख्याप्रकाराः । कृत्नेति, सम्यग्दर्शनज्ञानचारित्रेभ्योऽष्टप्रकारस्यापि कर्मणः सामस्त्येन प्रलयात् बाधारहितं दुःखलेशेनाप्यसंसृष्टं निरवधि सुखलक्षणं मोक्षमित्यर्थः, तदेवं सर्वज्ञः पूर्वोदितं निखिलं वस्तु पश्यन् निरवधिकालं परमसुखस्वरूपतयाऽवतिष्ठते इति भावार्थः । लोगम्मि इति 'लोके जीवचिन्ता सर्वागमोत्कृष्टा दुरवगाहा । ततोऽप्युत्कृष्टतरी चिन्ता बन्धे च मोक्षे च ॥ इति छाया । अथ कालवादमुत्थापयितुकाम आह-अपर इति । पूर्व नियतिवादिना 'अधिकज्ञाज्ञस्वतंत्रास्वतंत्रस्वविषयनियतकर्तकरणाधिकरणकर्मादिनियतशक्तिदर्शनात् देवदत्तकाष्ठ-30 स्थालीतन्दुलोदकादीनां तन्नियमकारिणा कारणेनावश्यं भवितव्यं तेषां तथाभावान्यथाभावाभावादिति नियतिरेवैका कति भावना प्रोक्ता तयैव कालस्य सिद्धिर्न नियतेरित्याह-येयमुक्तेति। कालसाधक्वैशेषिकसूत्रमुपन्यस्यति-अपरस्मिन्निति अपरस्मिन् वस्तुन्यपरमिति परस्मिन् परमिति युगपदिति चिरमिति क्षिप्रमिति प्रत्ययो यतो भवति तत् सर्वस्य कारणमाधारश्च द्रव्य काल उच्यत इति भावः । पदार्था यौगपद्यनायौगपद्येन वा नियताः तेषां तथा वर्तनमेव भवनं वर्तनञ्च काल एव, तल्लक्षणत्वा द्वा० न० ३२ 2010_04 Page #300 -------------------------------------------------------------------------- ________________ २५० द्वादशारनयचक्रम् तद्भावनार्थमाह- इह युगपद स्थायिनो घटरूपादयः किं परस्परं प्रविभक्तितः स्वेनैव भवन्ति उत काल सामर्थ्यात् ? तत्र तावन्न केचिदपि वस्तुप्रविभक्तितः, तेषां सहोपलभ्यमानानामपि तद्व्यतिरेकेणाभावात्, भिन्नेन्द्रियग्राह्यत्वादेव च तेषामैक्याभावाद्यौगपद्यमतो युगपद्वृत्तिप्रख्यानात्मकं नात्मानं कालमन्तरेण न ते युगपद्भवितुमर्हन्तीति रूपादयो युगपदित्ये - तत् काल सामर्थ्यात् एवं घटो ग्रीवादयो मृल्लोष्टादयः पृथिवी मृदादयो द्रव्यं पृथिव्यादयो द्रव्यादयो भाव एव तथावृत्तेस्तथाभवनात् । " (इति) इह युगपदस्थायिनो ये घटरूपादयस्ते किं परस्परं प्रविभक्तितः खेनैव भवन्त्युत काल सामर्थ्यादिति वस्तुरूपेण तावश्चिन्त्यते । तत्र तावन्न केचिदपि वस्तुप्रविभक्तिः, भवन्तीति 10 वाक्यशेषः- रूपरसगन्धस्पर्शशब्देभ्यः प्रविभक्त्या - प्रविभागेन सद्रूपेण प्रविभक्तितो वा कारणान्न भवन्ति, तैः सहोपलभ्यमानानामपि तद्व्यतिरेकेणाभावात्, भिन्नेन्द्रियग्राह्यत्वादेव च तेषामैक्याभावाद्यौगपद्यं-नानात्वं सिद्धम्, न भिन्नस्य यौगपद्यम्, युगस्य - स्कन्धयोः पतनं युगपत्, एवमन्यत्रापि । अनेकाश्रयं यौगपद्यमतो रूपादयो युगपद्वर्त्तन्त इत्येषा वृत्तिप्रख्यातिर्दृष्टाऽर्थतः, शब्दतोऽपि वर्त्तनं कलनं संख्यानं प्रथनं बुद्ध्या शब्देन वा निरूपणमिति वृत्तिरेव, तस्मात् कलनं काल 15 इत्यक्षरार्थानुसारेण वर्त्तनं कालस्तं कलनात्मानं युगपद्वृत्तिप्रख्यानात्मकमन्तरेण न ते केचिद्रूपादयो युगपद्भवितुमर्हन्ति, तस्माद्रूपादयो युगपदित्येतत् कालसामर्थ्यात् एवं सूक्ष्मा रूपादय उक्ताः । स्थूला अप्येवं घटो ग्रीवादयः, तथावृत्तेः- युगपद्वृत्तेः कस्य ? कालात्मनः । एवं वृत्तिश्च भवनमित्यत आहतथाभवनादिति, मृल्लोष्टादयः - मृदिति लोष्टादय एव युगपद्वृत्तेः पृथिवी मृदादय एव तथावृत्तेरेवं मृल्लोष्टात् भस्मसिकतादयः, एवं द्रव्यं पृथिव्यादयः - पृथिव्यप्तेजोवाय्वाकाशादयो युगपद्वृत्तयो 2010_04 [ विधिविध्यरे ६० तस्येत्याह- युगपदिति । अथ युगपदवस्थायिवस्त्वपेक्षया कालसाधनमाह-इह युगपदिति । परस्परमिति, घटापेक्षया रूपादेः, रूपापेक्षया घटादेः, रूपरसादेर्वा परस्परमित्यर्थः तथा च घटरूपादयः किं स्वेनैव विभिन्ना भवन्ति, उत केनचित् कारणेनेति शङ्कार्थः । तत्र केचिदपि घटरूपादयः पदार्था न खेनैव प्रविभक्ता भवन्ति किन्तु केनचित्कारणेनैव तच्च कारणं तथावर्त्तनलक्षणः काल एवेत्याह-तत्र तावदिति । रूपादिभ्यो घटादेः सहोपलभ्यमानत्वेऽपि रूपादिव्यतिरेकेण घटादेरभावात्, यदि हि स्वरूपेणैव भेदो भवति तर्हि रूपादिभिन्नतया तत्प्रतीयेत, न चैवम्, तस्मान्न खेनैव प्रविभक्तिरित्याह - रूपर 25 सेति । ननु घटरूपादेर्यदि सहोपलंभनियमस्तर्ह्यभेदः स्यादित्यत्राह - भिन्नेन्द्रियेति, रूपस्य चक्षुर्ब्राह्यत्वाद्वटादेः स्पर्शनेन्द्रयेणापि ग्राह्यत्वान्नाभेदस्तयोरित्यर्थः, नाभिन्नस्य यौगपद्यं सम्भवति, तस्यानेकाश्रयत्वाद्रूपादीनामनेकत्व मे षितव्यम् । तथा च तेषां युगपद्वृत्तित्वं कालमन्तरेण न भवितुमर्हतीति काल एवैकं कारणं सर्वेषामिति भावः । प्रख्यातिः - प्रसिद्धिः । एवं यौगपद्यमर्थतोऽभिधाय शब्दतोऽपि वर्त्तनमाह - शब्दतोऽपीति, कल शब्दसंख्यानयोरिति धातुः कलनं कालः- संख्यानं संशब्दनं वा भावे णप्रत्ययः, स च नवपुराणादीनां वा पर्यायाणां कथनलक्षणः कालः । कलयन्ति वुझ्या मासिकोऽयं सांवत्सरिकोऽयमित्यादि30 रूपया वस्तु निरूपयन्ति तस्मिन् सतीति कालः, चेतनाचेतनद्रव्यस्यावस्थानरूपं वर्त्तनं पर्यायलक्षणं काल इति शब्दार्थनिर्णयः । एवं सूक्ष्माणां युगपद्वृत्तिं प्रख्यानात्मकं कालमुक्तत्वा घटग्रीवादिमृल्लोष्टादिस्थूलानां युगपद्वृत्त्यात्मना भवनं कालसामर्थ्यादित्याहस्थूला अपीति । ग्रीवादीनां युगपद्वर्त्तनं घटः, तथाभवनात् लोष्टादिसमुदायो मृत्, मृल्लोष्टादय एव पृथिवी, पृथिव्यतेमोवाय्वादय एव द्रव्यं द्रव्यगुणादयो भावः, एतेषां युगपद्भवनात् घटमृदायाख्या भवन्ति, एवं वर्त्तनं काल एवेति भावः । 2 , Page #301 -------------------------------------------------------------------------- ________________ नियतिवादे दोषाः] न्यायागमानुसारिणीव्याख्यासमेतम् २५१ द्रव्यम् । द्रव्यादयो भावः, द्रव्यगुणकर्मणां सप्रभेदानां भाव इत्याख्या, युगपद्भवनात्, एवं तावद्युगपद्वृत्तिः काल एव भवतीति भावितम् । क्रमवृत्तिनियतिरपि काल एव भवतीति भाव्यते तत आह अयुगपद्भाविनोऽपि भवितुकामस्य वस्तुनो वृत्त्यात्मककालाभावेऽनुपपत्त्यापत्तेः वर्तनाभावाद्वन्ध्यासुतवत् सति च तदुपपत्तेः कालात्मकता । अयुगपद्धाविनोऽपीत्यादि यावदापत्तेः । अयुगपद्भवितुं शीलमस्येत्ययुगपद्भावी, तस्य अयुगपद्भाविनो भवितुकामस्य-भवनाभिमुखस्य बीजाङ्कुरादेर्वस्तुनो यदि वृत्त्यात्मककालभावो नाभ्यु पगम्यते ततो वर्त्तनादतिरिक्तस्य कस्यचिदप्यनुपपत्तिरापद्यते वर्तनाभावाद्वन्ध्यासुतवत्, ततश्चानुपपत्त्यापत्तेः, सति वर्तनात्मके काले तदुपपत्तेः कालात्मकता । एवं तावनियताभ्युपगमः काल. मन्तरेण न भवतीति युगपदयुगपद्वृत्त्यात्मकः, काल एव भवतीत्युक्तम् । इदानीं नियतिवादिनो दोषोऽभिधीयते नियतेस्तु सर्वात्मकत्वात्स्वभावोपालम्भवन्नियत्युपालम्भोऽपि त्वामपि प्रति समानः, सदा सर्वस्यातीतानागतानाकारतावद्वर्त्तमानानाकारता स्यात् वर्तमानाकारतावदतीतानागताकारताऽपि स्यात् । नियतेस्त्वित्यादि यावत्सदा सर्वस्य, यत उक्तस्त्वया स्वभाववादिना प्रति बाल्यकौमार-15 यौवनमध्यमाद्यवस्था युगपत् स्युः, सर्वाकारस्वभावत्वाद्देवदत्तादेः, अङ्कुरपत्रकाण्डाद्यवस्थाश्च युगपत् स्युज़्यादेरित्युपालम्भः, स एव नियतेः सर्वात्मकत्वात् कस्मात्सर्वाकारनियतमेव न भवतीति स्वभावोपालम्भवन्नियत्युपालम्भोऽपि त्वामपि प्रति नियतिवादिनं प्रति समानः सदा-सर्वकालं सर्वस्य वस्तुनस्तस्य तस्येति कालाभावेऽतीतानागतवर्तमानाविशेषात् , दृष्टा चातीतानागतानाकारता वर्तमानाकारता च, वृत्त्यात्मककालाभावानियतेश्चाविशेषादतीतानागतानाकारतावद्वर्त्तमानानाकारता स्यात् , 20 वर्तमानाकारतावदतीतानागताकारतापि स्यात् , न च दृष्टाऽतीतानागताकारता वर्तमानानाकारता वा। अयुगपदिति सहैव भवितुं शीलं येषां नास्ति ते बीजाङ्कुरनालकाण्डादयः स्वस्ख कारणे सन्तोऽपि निखिलेतरकारणसमवधानेऽपि न सह भवन्ति, किन्तु क्रमेणैवेत्यवं वर्तननियमो यतः स काल एव, नियामककालाभावे हि वर्त्तनाया असम्भवेन वृत्तिरहितवस्त्वभावाद्वन्ध्यापुत्रवद्वीजादय आपद्यन्त इति तथाविधः काल एषितव्य इति भावः । नियतार्थेति, योगपद्येनायौगपयेन वा नियता ये रूपादयो बीजादयश्चार्थाः तेषामभ्युपगम इत्यर्थः । ननु 'नच खाभावात् बालादिकाल एव युवतादियुगप-25 दभावे भेदक्रमनियतावस्थोत्पत्तिस्थितिच्यतिदर्शनात् , तत्तथानियतिवस्तु, तदनभ्युपगमे सर्वाविवेकेऽवस्थाखभावाद्यभावादभ्यपगमविरोधस्ते जायत' इति खभाववादिनं प्रति नियतिवादिनोक्तदोषस्तवापि प्रसज्यत इत्याह-नियतेस्त्विति, नियतिरपि हि सर्वात्मिका तथा च खभाववादे य उपालम्भः स एव नियतिवादेऽपि, नियतेः सर्वात्मकत्वे हि कस्मात् सर्वकालनियतं वस्तु न भवति,भवत्येवेत्याह-स एवेति, समानतामाचष्टे-सर्वकालमिति । भूतभविष्यद्वर्तमानाख्यास्त्रयः कालविभागातदभावे तु सर्वं सर्वदा भवेत् , न वा भवेत् , न चैवम् , वर्तमानाकारताया वस्तूनां दर्शनात् वर्तमानाकारतया हि प्रकाशनं दर्शनम् , अती- 30 तानागताकारताभ्याश्च तिरोधानम्, कालाभावे त्वेवं न स्यादिति भावः । ननु नासतामुत्पादो न सतां विनाश इति सत्येव वर्तमानाकारताबदतीताकारताऽनागताकारता च, एताश्च वस्तुधमाः, यस्य धर्मस्य समर्थहेतुसम्पातस्तस्योदयोऽपरयोरनावि. 2010_04 Page #302 -------------------------------------------------------------------------- ________________ द्वादशारनयचक्रम् [ विधिविध्यरे स्यान्मतमतीतानागताकारता वर्त्तमानाकारतावन्नियता विद्यमानैव तिरोभूतत्वान्नोपलभ्यते, वर्त्तमानाकारता त्वाविर्भूतत्वादुपलभ्यत इत्युक्तत्वादनुत्तरमित्यत्रोच्यते--- अपि च तथापि नैव कालातिक्रम इति स्वीक्षितमपि कालादृते नान्यत् कारणमवस्थानां क्रमेण रूपादीनां वा युगपदवस्थापकमालक्ष्यते, अस्मात् कललार्बुदपेशीघनादिक्रमेण 5 नियतानन्तराभिव्यक्त्यैवाऽभ्युपगतमपि कालं नियतिमात्रग्राहदोषेण स्वपक्षरागाच्चानिच्छता त्वयाऽऽत्मा तेभ्यो गुणेभ्योऽपनीयते । २५२ अपि च तथापि नैव कालातिक्रम इति, एवमपि व्याकारताया युगपद्वृत्तायाः क्रमेणाविर्भाव तिरोभावावतीतमनागतमिति चैतत्सर्वं कालवाचिशब्दार्थसामर्थ्यप्रतिपादितं कलनं वर्त्तनं भवनमन्तरेण न स्यादतः कालस्यानतिक्रमणीयतेति, स्वीक्षितमपीत्यादि, एतेन प्रकारेण सुष्ठु परीक्षितमपि 10 कालाते नान्यत् कारणमवस्थानां बाल्यादीनामङ्करादीनाञ्च क्रमेणावस्थापकं रूपादीनां वा युगपदवस्थापकमालक्ष्यते, अस्मात् त्वया नियतानन्तरव्यक्त्यैवाभ्युपगमतः काल :- सप्ताहं कललं भवति, ततः सप्ताहमर्बुद, एवं पेशी घनमित्येवमादिक्रमेण गर्भादिषु पूर्वोक्तावस्थानां पूर्वस्यानन्तरावस्थाऽऽभि - यज्यत इत्यनयै नियतानन्तराभिव्यक्तत्या कालमभ्युपगतमपि नियतिमात्रग्रहदोषेण स्वपक्षरागाश्चानिच्छता त्वयाऽऽत्मा तेभ्यो गुणवत्कालपक्षपातकृतगुणेभ्योऽपनीयते । मा भूद्राह इत्युक्तेऽतिनिष्ठुरत्वा15 चित्तपीडेति ग्राहवद्राह इति प्राग्व्याख्यातगौणशब्देनोच्यते, अथवा ग्राहोऽभिप्रायः, ग्राहयतीति ग्राहस्तस्याभिप्रायस्य दोषेण स्ववचनाभ्युपगतमपि कालमपश्यन् कालतत्त्ववादित्वावाप्ययशोधर्मादिगुणगणादात्मानमपनयसि । 20 यदि नियतिकृतैवार्थप्रवृत्तिस्तथापीदं पूर्वमिदं पश्चादिदमिदानीमिदं युगपदिति न युज्यते, सर्वेषां तेषां बीजादौ नियतेः सन्निहितत्वात् । यदि नियतिकृतेत्यादि यावन्न युज्यते, नैवमभ्युपगन्तुं शक्यं नियतिकृतैवार्थानां प्रवृत्ति - रिति, अनन्तराभिहितदोष सम्बन्धात् कालत्वस्योक्तत्वाच्च, अभ्युपेत्यापि नियतिकृतत्वं दोषं ब्रूमः, इदं र्भूततेति न काले नास्ति किञ्चित् प्रयोजनमित्याशङ्कते - स्यान्मतमिति । युगपदाकारत्रयसद्भावेऽपि । पर्यायेणाविर्भावतिरोभावी तथातीतानागतादिव्यवहारश्च न कालेन विना सम्भवतीत्युत्तरयति अपि चेति । अभिव्यञ्जक कारणान्यपि कालेन प्रयुक्ता - न्येवाभिव्यञ्जयन्ति नान्यथा क्रमयौगपद्यनिर्वाह इति भावः । नियमतोऽनन्तरमवस्थानामभिव्यक्ति ब्रुवता त्वयाऽपि कालोऽभ्यु25 पगत एवेत्याह-अस्मात्त्वयेति, पूर्वोक्तावस्थानां कललार्बुदपेशी घनाववस्थानाम्, पूर्वं तथा नियत्या विद्यमानाया एवावस्थायास्तथा नियत्योत्तरमभिव्यक्तिरिति पूर्वोत्तरकालावभ्युपगच्छन्नपि कालकारणं त्वं नं ब्रूषे तत्र केवलं स्वपक्षराग एव कारणं तत्रानुरको गुणवत्कालकारणत्वं नाभ्युपैषीति भावः । अत्र ग्राहशब्दो न जलचरवाचकः, जलचरत्वेन नियतिवादिनोऽभिधानेऽतिनिष्ठुरत्वेन तस्य चित्तपीडा भवेदिति तन्मा भूदिति करुणया ग्राह इव ग्राह इति गौणशब्द एव प्रयुक्तो मूलकृतेत्याह- मा भूदिति गौणशब्द एवात्र प्रयुक्त इत्यत्र नियामकाभाव इति चेत्तदाप्याह- अथ वेति । कालेति कालतत्त्ववादित्वादवाप्यो यो यशो - 30 धर्मादिगुणगणस्तस्मादित्यर्थः । ननु बाल्यादिरूपादीनां नियतिकृतत्वं मयोक्तमेव किं कालकारणेन, क्लृप्तकारणेनैव निर्वाहेऽतिरिक्त कालकल्पना वैयर्थ्यादित्याशङ्कायामाह - यदीति, अतीतानागतवर्त्तमानयौगपद्याद्यवगाहि सकलजन प्रसिद्धाबाधितव्यवहाराणां नियत्या निर्वाहयितुमशक्यत्वादतिरिक्तस्य सवाधारस्य सर्वकारणस्य कालतत्त्वस्य सिद्धिरित्युत्तरयति - तथापीद्मिति, यदि कालो न स्यात्तर्हि बीजादावेव मूलाङ्कुरादीनां तत्तन्नियतीनाश्च सत्त्वेन सदैव मूलादीनामुपलम्भः प्रसज्येत, क्रमयौगपद्य व्यवस्थापका 2010_04 Page #303 -------------------------------------------------------------------------- ________________ नियतिवैयर्थ्यम् ] न्यायागमानुसारिणीव्याख्यासमेतम् २५३ पूर्वमिदं पश्चादिदमिदानी मिदं युगपदिति न युज्यते-पूर्वादयः कालत्रयवाचिनः, युगपदित्यभिन्नकालवाची शब्दः, तत्तु कालमन्तरेण लोकप्रसिद्धं व्यवहारजातं न युज्यते । कारणान्तरमप्याह-सर्वेषां तेषां बीजादौ नियतेः सन्निहितत्वात् ,-बीजे मूलाङ्कुरपत्रनालादीनां नियतेः सन्निहितत्वात् , शुक्रशोणितावस्थायामेव कललार्दुदगर्भार्भकादीनां नियतेः सन्निहितत्वात् पूर्वादिक्रमवृत्तिता युगपद्वृत्तिता वेति न युज्यते । नियतेरेवेति चेन्न, आनर्थक्यात्, इह तु नियत्यानर्थक्यमेव, पूर्वादिभिरेव कृतप्रयोजनत्वात् किं नियत्या? यत्पूर्व तद्बीजादि यत्पश्चात्तदङ्करादीत्येवमादिविकल्पव्यवहारेषु काल एव भवतीति भावितम्। (नियतेरिति) स्यान्मतमेतदपि नियतेरेव युगपद्वर्त्तनं पूर्वादिक्रमवर्तनश्चेत्यादि, एवकारात् कालादिनिराकरणमित्येतच्चायुक्त आनर्थक्यात्-नियतेः पूर्वादीनां वा नैरर्थक्यात् । यदि नियतिरेव 10 कारण पूर्व पश्चादिदानी युगपदिति कालवाचिशब्दोपादानं तदर्थाश्रयणश्चानर्थकम् , तदभावे सति नियत्यैव कृतप्रयोजनत्वात् । तदुपादाने वा नियत्यानर्थक्यम् । इह तु नियत्यानर्थक्यमेवेति मन्यस्व कालप्रत्येकार्थव्यापारार्थानां पूर्वादीनामवश्याभ्युपगम्यत्वात्तैरेव कृतप्रयोजनत्वात् किं नियत्या प्रयो. जनम् ? इह पूर्वादिभिरित्याद्यक्षरै वितार्थत्वात् , यदर्थं नियतिरुपादीयेत एतन्नास्तीत्यभिप्रायः, तत्तु पूर्वादिभिः कृतमेव, यत्पूर्व तद्बीजादि यत्पश्चात्तदकुरादीत्येतयोः पूर्वापरशब्दयोः क्रमात्मककालवाचि-16 त्वादिति तन्निदर्शयति-एवमादिविकल्पव्यवहारेषु काल एव भवतीति भावितम् । किश्चान्यत् सर्वसङ्ग्रहेणैव वा पूर्वापरयोः कारणकार्यत्वात् कालत्वाच्च नियतेरेवासिद्धेर्व्यवहारासिद्धिरन्यथा, पूर्वादिषु तु समाश्रितेषु नियत्या किं क्रियते । (सर्वेति) सर्वसनन्हेणैव वा यत्कारणं तत्पूर्वं यत्कार्य तत्पश्चादिति क्रमवर्तिनां भावानां 20 कारणकार्यत्वेन सङ्ग्रहात् पूर्वापरयोः कारणकार्यत्वात् कालत्वाञ्च काल एव भवतीति, एतस्म क्रमव्यवहारस्य सिद्ध्यर्थ त्वयाऽनुक्रमाथं पुरुषं स्वभावमन्यद्वा कारणं तत्कार्यश्वाश्रित्याप्यवश्य पूर्वादय भावादित्याह-सर्वेषामिति । पूर्वादिक्रमवृत्तिता युगपदृत्तिता च तथाविधनियतेरेव भवतीत्याशङ्कते-नियतेरेवेति, तथासति कालनियत्यन्यतरवैयर्थ्यमित्युत्तरयति-आनर्थक्यादिति एवकारव्यावर्त्यमाह-एवकारादिति । अन्यतरानर्थक्यमेव स्पष्टयति-यदिति । तदभावे सति-कालवाचिशब्दाभावे सतीत्यर्थः । तदुपादाने वा कालवाचिपूर्वादिशब्दोपादाने वेत्यर्थः। 25 तर्हि कालवैयर्थ्यमस्मदिष्टमेव सिद्धमित्यत्राह-इह विति, प्रकृते विचारे त्वित्यर्थः । हेतुमाह-कालेति, क्रमसहभावे. नाभिव्यक्तिनियामकतया नियतिखीकारो व्यर्थः सकलजनप्रसिद्धाबाधितपूर्वापरादिव्यवहारनियामकतया कालस्यावश्यकत्वेन तेनैव तथाविधाभिव्यक्तिसम्भवेन नियतेस्तन्नियामकतया स्वीकारो व्यर्थ एवान्यथासिद्धत्वादिति भावः । विकल्पः-इदं पूर्वमिदं पश्चादित्याद्यनुभवः तत्पूर्वकः शब्दप्रयोगलक्षणव्यवहारश्चासाधारणकालकृत इति भावः। सर्वसङ्ग्रहेणैव वेति, क्रमवर्तिनां हि भावानां कार्यकारणत्वेन सङ्ग्रहो भवता कृतः, तत्र यत्कारणं तत्पूर्व भवति कार्य च पश्चाद्भवति, ते च पूर्वत्वापरत्वे 30 कालव्यतिरेकेण न सम्भवतः, अभ्युपगतश्च कार्यकारणयोः क्रमः, नच स तावन्नियत्या सम्भवति, कालव्यतिरेकेण तस्या , अप्यनियतत्वात् , एवञ्च पूर्वत्वापरत्वे कालविशेषे एव, तदभ्युपगमे च किं नियत्या, पूर्वादिव्यवहारस्य कालेनैव सिद्धेरिति भावः । अनुक्रमार्थ-क्रमव्यवहारनिर्वाहाय, पूर्वादिकालाभ्युपगममन्तरेण नियतिरेव न सिद्ध्यति पूर्वादिव्यवहारनिय 2010_04 Page #304 -------------------------------------------------------------------------- ________________ २५४ द्वादशारनयचक्रम् [विधिविध्यरे साश्रियणीया एव, नियत्यादिमात्रेण पूर्वाद्यनपेक्षेण व्यवहारासिद्धेः, नियतेरेवासिद्धेर्व्यवहारासिद्धिरन्यथेति, पूर्वादिभिर्विना बीजादीनामनियतत्वात् स्वभाववन्नियत्यभावो नियत्यभावाव्यवहारासिद्धिरिति । मम पुनः कालवादिनः पूर्वादिषु तु समाश्रितेषु नियत्या किं क्रियते ? सिद्ध्यत्येव नियत्या विनापि क्रमव्यवहारः पूर्वादिभिरेव कृतत्वादित्यर्थः । B किश्चान्यन्नियतिवादे त्वन्यायेन तु हिताहितप्राप्तिप्रतिषेधार्थाचारोपदेशावनर्थको, चशूरूपग्रहणनियतिवत्, नियत्या सिद्ध्यत्स्वसिद्ध्यत्सु वा किं यत्नोपदेशाभ्याम् ? अयत्नत एव तथा सिद्धेः। (त्वदिति) त्वन्यायेन तु-त्वदीयेनैव न्यायेन विदुषां हिताहितेत्यादि, हितप्राप्त्यर्थ आचारो लौकिक:-कृषिवाणिज्यसेवादिरोदनपचनभोजनादिश्च दृष्टार्थः, तदुपदेशश्च-एतत्कुरु, इदं ते श्रेय 10 इति, लोकोत्तरश्चादृष्टार्थो यमनियमादिः, अहितप्रतिषेधार्थश्च लौकिकः क्षारविषकण्टकाग्निशस्त्रादिपरिहारार्थः, तदुपदेशश्च बालादीनां मा कार्षीरिति । लोकोत्तरश्चादृष्टार्थो हिंसानृतस्तेयाब्रह्मादिभ्यो विरतिः श्रेयसीति, तावतावाचारोपदेशावनर्थको स्याताम् , नियत्यैव ह्यवश्यम्भाव्यर्थोऽनों वेति किमाचारोपदेशाभ्याम् । किमिव ? चक्षुरूपग्रहणनियतिवत् , यथा चक्षुषा रूपं पश्यन्तं पुरुषं नियत्या स्वभावतोऽन्येन वा केनचित्कारणेन त्वदभिमतेन सिद्धत्वात् , पुरुषकाराइते यो ब्रूयात् 'चक्षुषा रूपं 15 पश्य मा द्राक्षीर्जिह्वयेति किं तेन कृतं स्यात् ? तथा नियत्या सिद्ध्यत्स्वसिद्ध्यत्सु वा किं यत्नोपदेशाभ्याम् ? किं कारणं ? अयत्नत एव तथा सिद्धेः, ओदनकवलाद्यास्यप्रवेशोऽपि प्रक्षेपयत्नादृते त्वन्मतेन सिद्धयेत् , अप्रक्षिप्ते कवले क्षुत्प्रतीकारः स्यादित्यादि योज्यम् । यत्नोऽपि नियतित एव चेत् सर्वलोकशास्त्रारम्भप्रयोजनाभिधानानर्थक्याल्लोकागमविरोधौ, भावस्यान्यथाभावाभावात् । 20 (यत्नोऽपीति) स्यान्मतं योऽप्यसौ यत्नो नियतित एव, एषोऽप्याचारोपदेशरूपस्तृप्तिप्रयोजनौदनपचनास्यप्रक्षेपादिरूपश्च, तथा तथा नियतित्वादित्येवं चेन्मन्यसे ततः सर्वलोकशास्त्रारम्भप्रयोजनाभिधानानर्थक्याल्लोकागमविरोधौ-यथासंख्यं लोकविरोध आगमविरोधश्च, सर्वलोकस्य सर्वशास्त्राणाञ्चारम्भप्रयोजनयोस्तदभिधानस्य चानर्थक्यम् । बुभुक्षाप्रतीकारप्रयोजन ओदनपाकारम्भः सह प्रयोजनेन तृप्त्यादिना, तदुपदेशवचनारम्भप्रयोजनानि चानर्थकानि लोके, शास्त्रेषु च धर्मार्थ 25 मनासामर्थ्यात् , अतो न व्यवहारसिद्धिरित्याह-मम पुनरिति । नियतिवादेऽनुपपत्त्यन्तरमभिधत्ते-त्वन्यायेन विति, तुशब्द एवार्थे, हितप्राप्तिफलको योऽयमाचारो लौकिकोऽलौकिको वा, तथाऽहितप्रतिषेधफलको लौकिकोऽलौकिको वा य आचारस्तदुपदेशो व्यर्थः, तथाविधनियत्यैव हिताहितयोः प्राप्तिपरिहारयोः सिद्धः स्पष्ट मन्यत् । अनर्थकत्वे हेतुमाह-नियत्यैव हीति, दृष्टान्तं सङ्गमयति-यथेति । सर्वे आचारोपदेशा अपि न नियतिमन्तरेण सम्भवन्तीत्याशङ्कते यत्नोऽपीति, तथा सति लोकविरोध आगमविरोधश्च प्रसज्यते भवतो निरोधासम्भवात् , अभवतः कारकासम्भवाल्लौकिकप्रवृत्तिनिवृ30 स्थुपदेशानां निरर्थकत्वादित्याह-सर्वलोकेति । असौशब्दस्यैवार्थमाह-एषोऽपीति । ओदनपाकादौ तृप्तिबुभुक्षाप्रशा न्त्यर्थ लौकिकी प्रवृत्तिरोदनादिकं कुर्वित्याद्यभिधानञ्च यल्लोके दृश्यते तस्य विरोधः, अलौकिकी च धर्माद्यर्थी प्रवृत्तिस्तज्ज्ञापकशाबारम्भः तदनुसारेण विदुषामुपदेशश्च दृश्यमानो यस्तस्य विरोध इति दर्शयति-यथासंख्य मिति । हेतुमाह-भाव 2010_04 Page #305 -------------------------------------------------------------------------- ________________ क्रियाकालयोरभेदः] न्यायागमानुसारिणीव्याख्यासमेतम् काममोक्षास्तदर्थाश्च शास्त्रारम्भास्तदुपदेशाश्वानर्थकाः प्राप्नवन्ति । किं कारणं ? भावस्यान्यथाभावाभावात् , यस्मान्न लेनैव भाविनोऽभावः, अभाविनश्च भावः, तस्माद्धावस्यान्यथाभावाभावात् सर्वलोकशास्त्रारम्भप्रयोजनाभिधानानर्थक्यम् , तस्माच लोकागमविरोधौ, लोके सर्वागमेषु चारम्भपयो. जनाभिधानानां प्रसिद्धत्वात् । किश्चान्यत् क्रियात एवौदनतृप्त्यादिफलप्रसूतेश्च प्रत्यक्षविरोधः, एवं नियतेरेवैवमिति चेत्र, कालानन्तरक्रियाया एवैवंक्रियानियतिरिति संज्ञामात्रे विसंवादात् , एवमपि क्रियासिद्धौ कालासिद्धिरिति, न कालानन्तरत्वात् क्रियायाः। (क्रियात इति) क्रियात एवौदनसिद्धिः, नौदासीन्येनासितुः कदाचिन्नियतेरेव केवलायाः । सिद्धस्य चौदनस्य फलं तृप्तिः, सापि मुखे कवलप्रक्षेपासनादि क्रियात एव भवन्ती दृष्टा, 10 ओदनजन्यतृप्तेर्बळवारोग्यादिफलञ्चान्तर्गतात्मरसरुधिरादिविभागपरिणमनक्रियातः, तस्याश्च क्रियाप्रसाध्यतृप्यादिहेत्वोदनसिद्धिसिद्धौदनजन्यतृप्तिबलवर्णारोग्यादिफलप्रसूतेः प्रत्यक्षत्वान्नियतित एवेति वादे प्रत्यक्षविरोधः । एवं नियतेरेवैवमिति चेत्-एवंविधैषा नियतिः क्रियानियतिरित्युच्यते, अस्याः क्रियानियतेरोदनतृप्त्यादिफलप्रसूतिनियतिरित्येतञ्चायुक्तम् , कालानर्थान्तरक्रियाया एवैवं क्रियानियतिरिति संज्ञामात्रे विसंवादात्-अभ्युपगतं तावत्त्वया एवं नियतेरेवैवमिति ब्रुवता काष्ठादिसाधनसन्दर्भया 15 लौकिक्या पचिक्रिययैवौदनसिद्धितृप्त्यादिफलप्रसूतिनियतिरिति, एवंशब्दस्य तदर्थत्वात् , सा च क्रिया नियतिः फालक्रियापर्यायत्वात् कालनियतिः, नियतेः क्रियायाश्चैकार्थत्वात् तस्मादावयोः संज्ञामात्रे विप्रतिपत्तिर्नार्थे । अत्राह-एवमपि क्रियासिद्धी कालासिद्धिरित्यत्रोच्यते, न, कालानर्थान्तरत्वात् क्रियायाः, क्रिया काल इत्यनर्थान्तरम् , कालेनैव क्रियाख्येनैव नियतिरिति ब्रुवता स एव काल इत्युक्तं भकति, कालक्रिययोरनन्तरत्वात् कालनियतिः क्रियानियतिरिति संज्ञामात्रे विसंवादात् पूर्ववदिति । 20 स्पेति, नहि नियत्या भवन्तं कञ्चित् लोकशास्त्रारम्भाभ्यामन्यथा कर्तुं शक्यते अभाविनं वा ताभ्यामेव कत्तुं शक्यत इति भावस्यान्यथाभावाभावाल्लोकशास्त्रारम्भी वृथैवेति भावः । किञ्च लोके ओदनपचनादिक्रिययैव तृप्यादिफलं दृश्यते न तु नियत्या, तथासत्यकर्तुरपि ओदनतृयादिफलं भवेन चैवमतो न नियतिकारणकत्वमित्याह-क्रियाया एवेति, एवशब्दोऽयोगव्यवच्छेदाय अयोणे फलस्य व्यवच्छेद इति भावः । पचनस्य फलमोदनं तस्य फलं तृप्तिः, सा च न मुखप्रक्षेपग्रसनादिव्यतिरेकेण, आदिशब्देन तृप्तेः फलं बलादिक ग्राह्य, तदपि नान्तरात्मनो रसरुधिराद्यनुकूलपरिणमनक्रियाव्यतिरे-25 केणेति भावः । क्रियात एवौदनादेदृष्टत्वात् प्रत्यक्षविरोध इत्याह-तस्याश्चेति । ओदनतृह्यादिफलप्रसूतिरपि तथाविधनियतेरेव भवति, एषैव च क्रियानियतिरित्युच्यत इत्याशङ्कते-एवं नियतेरेवेति, एवं वदता भवता क्रियाया एव नियतित्वमुक्तं सा क्रियैव काल उच्यते, नियतेर्हि एवं वं विशेषणतयोपादीयते, तच्चैवंविधत्वं पूर्वापरीभाव एव कारणकार्यत्वापरपर्यायः पूर्वत्वमपरत्वञ्च क्रियैवेति कालापरपर्यायक्रियाया नियतित्वोक्त्या कालः खीकृत एव त्वया,. परन्तु तां कियां काल इत्यनुक्त्वा नियतिरिति नाम कियते तत्रैवावयोर्विवादः पर्यवसितो न वस्तुनीति भावः । ननु क्रियायाः सिद्धिरस्तु नाम कालस्य कथं 30 सिद्धिः येन नाममात्रे विसंवादः स्यादित्याशङ्कते-एवमपीति, क्रियात एवौदनतृप्त्यादिदर्शनेऽपीयर्थः । क्रियेव काल उच्यत इत्युत्तरयति-कालानर्थान्तरत्वादिति, भावानां हि क्रमवन्तः क्रियाविशेषाः कालाधीनत्वात् काल एवेति व्यवह्रियन्ते. भावानां स्थितिप्रसवनिरोधावस्थासु कालव्यवहारस्याविनाभावित्वात् , अतश्चेष्टाहेतुत्वान्यापार एवाभेदेन काल उच्यते, ततः क्रियासिद्धौ कालः सिद्ध एवेति नाम मात्र एव विसंवाद इति भावः। अथ काललक्षणक्रियाया एव नियतित्वेनाभ्युपगमे 2010_04 Page #306 -------------------------------------------------------------------------- ________________ २५६ द्वादशारनयचक्रम् [विधिविध्यरे किश्चान्यत् नियतिप्रतिपादनपरिक्लेशाभ्युपगमाच्च नावश्यम्भावाव्यभिचारिदर्शनविपर्ययार्थप्रवृत्तेरभ्युपगमविरोधः, स्ववचनपक्षधर्मत्वादीनां प्रवृत्त्यैव निराकरणं प्रमाणमन्तरेणापीति । (नियतीति) पुरुषकालस्वभावादिदर्शनानां नियत्यैवाव्यभिचारिणां-तदविनाभाविनामव्य5 भिचारादेव त्वयाऽभ्युपगतानां परवादिभिश्च स स एवेत्यभ्युपगतानां त्वया पुनस्तद्विपर्ययार्थ-नियतिरेव कारणं न कालादय इति प्रतिपादनाथ प्रवृत्तिरङ्गीकृता । यदि तानि दर्शनान्यनया प्रवृत्त्याऽपनीयन्ते नावश्यम्भावीनि तानि, अथावश्यम्भावीन्येव नापनीयन्तेऽनयापि प्रवृत्त्या ततो नियत्यर्थ परदर्शनविपर्ययमापादयामीत्ययमभ्युपगमो निवर्तत इत्युभयथाऽभ्युपगमविरोधः । स्ववचनपक्षधर्मत्वादीनां प्रवृत्त्यैव निराकरणं-येयं पक्षहेतुदृष्टान्ताद्यवयवोच्चारणे प्रवृत्तिस्तया स्ववचनं परमतनिरा10 करणसमर्थमिति मतं प्रवृत्त्युपलभ्यं स्वत एव नावश्यम्भवतीति स्वीक्रियते, तदा नियत्यभावः, अथावश्यं स्वत एव भवति प्रवृत्तिरनार्थका प्रतिपादनासमर्थवचनिका, प्रवृत्तिवचनयोरनियतार्थत्वात् , हेतुः पक्षधर्मों हेयार्थप्रतिपत्तिनियतोऽवश्यंभावी प्रवृत्तिमन्तरेण चेत् प्रवृत्तिरनर्थिका, नावश्यंभावी चेन्नियत्यभावः, एवं दृष्टान्तोऽपीति व्याख्येयम् । अतः प्रवृत्त्यैवाभ्युपगतया वचनहेतुदृष्टान्तानां निराकरणं प्रमाणमन्तरेणापीति । 16 कथं पुनराचारोपदेशानर्थक्यदोषाभावः ? लोकागमादिविरोधाभावश्चेत्येतत्प्रतिपादनार्थमाह अतः इयं भावनोच्यते, धर्मार्थकाममोक्षाः कालकृताः एवं चतुर्वर्गसाध्यसाधनसम्बन्धार्थाः सर्वशास्त्रारम्भाः कालसामर्थ्यादेव सफलाः, उक्तभावनावत् । __ अत इत्यादि, अतः-प्रागभिहितकालकार्यत्वहेतोः सर्वलोकशास्त्रारम्भप्रयोजनाभिधानानां सर्वशास्त्रार्थत्वायेयं पुनर्भावनोच्यते, धर्मार्थकाममोक्षाः कालकृताः, एवं चतुर्वर्गसाध्यसाधनसम्ब 20 कालवादप्रतिक्षेपपूर्वकं नियतिव्यवस्थापनं केवलं तव प्रयास एव, कालवादिनैव कालस्य व्यवस्थापितत्वात् किमपरमवशिष्यते यत्त्वया प्रतिपादनीयं भवेदित्याह-नियतीति । पुरुषेति, स स एवेति, पुरुष एव काल एव खभाव एवेत्यर्थः । ननु पुरुषादिवादिभिरविनाभावित्वेनाभ्युपगतानां पुरुषकालस्वभावानां पुरुषकालनियतित्वेन संज्ञामात्रामभिधायाभ्युपगमे तेषां नियतित्वप्रतिपादनं तव क्लेश एव, निरूपणीयान्तराभावात. तथा तन्मतप्रतिक्षेपपूर्वकं नियतिरेव कारणमिति प्रतिपादनार्थमङ्गीकृतप्रवृत्तिपरित्यागादभ्युपगमविरोधः, पुरुषादीनामवश्यंभावित्वेनाभ्युपगतत्वात् , नियतेरेव कारणत्वे पुरुषादीनामनावश्यकतया क्रियानियत्याद्यभ्युपगमविरोधाचेति भावः। तमेवाभ्युपगमविरोधं स्फुटयति-यदि तानीति, तर्हि पुरुषादीनामभ्युपगमो व्यर्थ इति भावः। तेषां सार्थकत्वे वाह-अथावश्यमिति। ननु त्वदीया परमतनिराकरणप्रवृत्तिः पुरुषादीनां नावश्यम्भावित्वाव्यभिचारिणीति मन्यते तर्हि नियत्यभाव एव स्यात्, प्रवृत्त्या पुरुषादिनियतीनां नावश्य भावित्वसिद्धः, यदि तु प्रवृत्तिर्न नावश्यंभावित्वाव्यभिचारिणी तर्हि तेषामवश्यं भावित्वात्तनिराकरणाय त्वदीया प्रवृत्ति निष्फलैवेत्याह-येयमिति ववचनं परमतनिराकरणसमर्थम. तथाविधप्रवृत्तरित्यनुमानं विवक्षितमिति प्रतिभाति । हेतु30 रिति, प्रवृत्तिव्यतिरेकेण हेतुरपि यदि हेयार्थप्रतिपत्ताववश्यनियतस्तत एव तर्हि तत्सिद्धौ प्रवृत्तियों भवेत् , यदि प्रवृत्तिरप्यपेक्षिता तदा नियतत्वाभावः सिद्ध्येदिति च प्रतिभाति । ननु कालवादे कथमाचारस्योपदेशस्य नानर्थक्यं लोकागमादेरविरोधश्च तथाविधकालादेव सर्वसम्भवादित्याशङ्कते-कथं पुनरिति, सर्वशास्त्राणि हि धर्मार्थकाममोक्षलक्षणचतुवर्गफलानि, तदर्थमेव तेषां प्रवृत्तेः, तथा च धर्मादिशास्त्रयोः कार्यकारणत्वेन कालकार्यत्वानानर्थक्यमित्याह-अत इति । 2010_04 Page #307 -------------------------------------------------------------------------- ________________ सर्वस्व कासात्मता] न्यायागमानुसारिणीब्याख्यासमेतम् न्धार्थाः सर्वशास्त्रारम्भाः कालसामादेव सफला नान्यथेति प्रतिपद्यस्व, कथं ? उक्तभावनावत् , उक्ता भावना रूपादिघटादियुगपद्वृत्त्यात्मककालरूपं बीजाङ्कुरादिपूर्वोत्तरक्रमवृत्त्यात्मककालरूपञ्च जगदनियतपरिणतश्चेति, तस्मादुक्तभावनावदनियतेधर्माद्यर्थानामाचाराणां पूर्वापरीभूतक्रियात्वात् क्रियार्थत्वाञ्चोपदेशानां कालस्य च पूर्वापरीभूतस्य क्रियात्वात् सार्थकाः शास्त्रारम्भाः । यथा ब्राह्मणस्य वसन्तेऽन्याधानं, वणिजां मद्यस्य, ईश्वराणां क्रीडादीनाम् , निष्कम.. णमित्यादि यावद्विमोक्षं यतीनाम्। यथा ब्राह्मणस्येत्यादि, एवञ्च कृत्वा कालकृतत्वात् क्रियाक्रियाफलानां धर्मार्थकाममोक्षार्थैः शाखैरेव विहिताः क्रियाः, तद्यथा यथाक्रमं धर्मादिषु-ब्राह्मणस्य वसन्तेऽम्याधानम् , वसन्ते ब्राह्मणो यजेत प्रीष्मे राजन्यः, शरदि वा यजेत वैश्यः' इत्यादिवचनात् । तथा वणिजां मद्यस्य, आधानमिति वर्त्तते । ईश्वराणां क्रीडादीनाम् , उद्यानगमनवासन्तिकवस्त्रालङ्कारमाल्यगन्धभोजनादिसेवनं 10 रमणमिति, आदीनामित्यादिग्रहणात् सन्धिविग्रहासनयानादिगुणानुष्ठान मियादि । निष्क्रमणमित्यादि यावयतीनाम् , निष्क्रमणकालादारभ्य यावद्विमोक्षं, विमोक्षणसात्मकर्मवियोगफलस्य मोक्षस्य कालो यतीनां निष्कमणादेः कालः, यथोक्तं 'अप्पणो निक्खमणकालं आमोएता चइत्ता रजं (कल्पसूत्रे) इत्यादि । तथा दण्डकपाटमन्थानलोकपूरणक्रियामिः तत्काले कर्मत्रिकस्वाऽऽयुषा समीकरणमित्यादि । अनियतचेतनाचेतनत्वपरिणतिक्शाजीवपुद्गलानामनाद्यनन्तवर्तनात्मस्वतत्त्वानां वृत्तेः 18 कलनात्मक रूपं भूयो भूयो विपरिवर्ततेऽतोऽतीतानागतवर्तमानवतैनात्मकमेकं कूटस्थमविपाल्यनपायोपजनविकार्यनुत्पत्त्यवृख्यव्यययोगीत्यादिनित्यलक्षणं कलनं कालस्वरूपतदात्मकत्वभावेनैव वर्तते । अनियतचेतनाचेतनत्वेत्यादि यावत् कलनं कालस्वरूपतदात्मकत्वभावेनैव वर्त्तते, अनियतं चैतन्येनोपयोगरूपादित्वेन रूपे चेतनाया उपयुक्तत्वात् , अचेतनत्वेनाप्यनियतं, चैतन्योपयो- 20 गापस्योपयुक्तत्वात् , अयवा तृणादेर्गवाद्यभ्यवहृतस्य सुखदुःखादिचैतन्यापत्तेर्द्रव्यस्य प्राणाद्यापत्तेकथं तद्वि:यमित्याह-उक्तभावनावदिति। धर्माद्यर्थानामिति, धर्मादिलक्षणफलस्य तद्विषयप्रवृत्तेश्च पूर्वापरीभूतकियास्मतया शास्त्रोपदेशानाच तत्र पुरुषप्रवृत्त्यर्थत्वात् कालस्य पूर्वापरीभूतक्रियात्मकतया सार्थकत्वं शास्त्रारम्भाणां सर्वेषामिति भावः। धर्माधर्ष शास्त्रविहिताः क्रियाः क्रमेणाह-यथेति, ब्राह्मणराजन्यवैश्यानां वसन्तग्रीष्मशरत्सु अन्याधानं धर्माय, वेश्यस्य मद्याधानमर्थाय, राज्ञां क्रीडायाधान कामाय, यतीनां निष्क्रमणादिक्रियाः मोक्षायेति भावः । क्रीडापदग्राह्यमाह-उस नगमनेति। आदिपदमाघमाह-सन्धिविग्रहेति, सन्धिविग्रहयानासनद्वैधसमाश्रयाः षड्गुणाः प्रभावोत्साहमंत्रजाः शकयस्तिम इति नीतिशास्त्रम् । अपणो इति, आत्मनो निष्क्रमणकालं ज्ञानेनावलोक्य त्यक्त्वा राज्यमिति छाया, शैलीशीकरणं सातावेदनीयनायगोत्राख्यकर्मत्रिकस्वाऽऽयुषा समीकरणं भगवतः समुत्पन्न केवलस्य सप्तसामयिकमाह-तथा दण्डेति, तत्र प्रथमक्षणे आत्मनो दण्डकरणं द्वितीये कपाटकरणं तृतीये मन्थानकरणं चतुर्थे लोकपूरणं पुनरुपसंहारप्रक्रियया पञ्चमे मन्धानकरण षष्ठे काटकरणं सप्तमे दण्डकरणमिति । कालात्मत्वं सर्वस्याह-अनियतेति, जीवो हि चेतनत्वेनैव किन्तु परस्पररूपापत्याउनाद्यनन्तशः परिणममानो वर्तते, तथावर्तनाखरूपाणां जीवपरमाणूनां भूयो भूयो विपरिवृत्त्यभ्या. वृत्तिभ्यां वृत्तिवर्तनाकलनात्मकोऽतीतानागतवर्तमानात्मक एकः काल एवेति भावः । अनियतमिति, जीवो न चेतनत्वेनैव नियतः, नवा पुद्गलोऽचेतनत्वेनैव, रूपाद्यचेतनेधूपयुक्तस्य चेतनस्याचेतनत्वात् , अचेतनस्य च ज्ञानोपयोगात्मना परिणतस्म बेतनखरूपत्वादिति भावःप्रकारान्तरेणाचेतनस्य चेतनरूपतां दर्शयति-अथति एवं जीवाजीक्योरनायमन्तशोऽन्योऽन्य बा• न० ३३ 2010_04 Page #308 -------------------------------------------------------------------------- ________________ २५८ - द्वादशारनयचक्रम् -- [विधिविध्यरे व्यप्राणातिपातादिभावः, कालक्रमागतपरिणतिवशादुपशमक्षयक्षयोपशमोदयपरिणामभावैश्वे जीवपुद्गलयोरनाद्यनन्तशो वर्तनात् । न केवलं चेतनाचेतनयोः परस्पररूपापत्तिर्वृत्तिर्वर्त्तनम् , किं तर्हि ? अचेतनस्यापि पृथिव्यादित्वेनापि तथा, तद्यथा-एकजातित्वात् पुद्गलानां पृथिव्युदकज्वलनपवनवनस्पत्यादित्वेन विपरिवर्त्तमानपरिणतीनामनाद्यनन्तश एवंवृत्तिर्वर्त्तनं तस्याऽऽत्मा स्खं तत्त्वं येषां पर• माणूनां ते परमाणवः, तेषामनाद्यनन्तवर्त्तनात्मस्वतत्त्वानां वृत्तेः कलनात्मकं रूपं भूयो भूयो विपरिवर्त्ततेऽभ्यावर्त्तते च, रूपरसादिभेदेन विपरिवर्त्तते, तद्गुणभेदेनापि एकद्वित्रिसंख्येयानन्तगुणभागहीनवृद्ध्या कृष्णशुक्लत्वादिना वाऽभ्यावृत्तिः, एकांशस्यापि परमसूक्ष्मरूपादिभावपरमाणोरप्यनाद्यनन्तशोऽभ्यावृत्तिः, अतस्तदतीतानागतवर्तमानात्मकमेकं कूटस्थमविचाल्यनपायोपजनविकार्यनुत्पत्त्यवृद्ध्यव्यययोगीत्यादि (महा०-१-१-१) आदिग्रहणाद् ध्रुवादिसर्वनियलक्षणम् , एतदेव कलनात्मकं सत् 10 कारणमुपपद्यते, न तु पुरुषनियत्यादि, नित्यत्वं पूर्वापरीभूतभावात्मकविपरिवर्तकलनस्यादिमध्यावसानादर्शनादेवं लक्षणस्य नित्यत्वस्य तस्माद्विश्वविवर्त्तवर्तनायाः कलनं, काल इत्यभिसम्भत्स्यते । । तच्च द्विविधमस्मदाद्यसर्वज्ञं प्रत्यनुमानमात्रगम्यमविविक्तमुद्देशतोऽतीतानागतवर्तमानवर्त्तनाकलनम् , अमितपूर्णकोष्ठागारधान्यकलनवत् , सर्वज्ञं प्रति परमनिरुद्धे काले समये समये वृत्तविविक्तवर्तनासंख्यानं कालः । 18 (तचेति) तच्च कलनं द्विविधम् , अस्मदाद्यसर्वज्ञ प्रत्यनुमानमात्रगम्यमविविक्तम्-सर्ववस्तुसामान्यमात्रग्रहणम् , अमितपूर्णकोष्ठागारधान्यकलनवत् , यथा धान्यममित कोष्ठागारे पूरितं कुम्भशतसहस्रा-. धन्यतमपरिमाणमित्युद्देशतो गृह्यते तथोद्देशतोऽतीतानागतवर्तमानवर्त्तनाकलनमस्मदादिमिः । सर्वज्ञ प्रति परमनिरुद्धे काले समये समये वृत्ताया विविक्तया वर्तनायाः संख्यानं कलनं तत् कालः, कल संख्यान. इति प्रतीतेः। यथोक्तं 'जं जं जे जे भावे परिणमति पयोगवीससादवं । तं तह जाणाति जिणो 20 अपज्जवे जाणणा नत्थि ॥' ( आव०नि० गा० २६६७) इत्येतद्वर्त्तनात्मस्वतत्त्वकालनिरूपणम् । . स तथाभूतेन कलनार्थेन तां वर्तनामेव सामान्यामत्यजन् भूतो भवति भविष्यंश्चेति विशेषव्यपदेशं लभते नान्यः कश्चिन्नियत्यादिः, असत्त्वात् , अन्यथाऽन्यस्याभावात् , यथा कुसुमं परिणामैवर्तनमित्याह-कालक्रमागतेति । विजातीयपरिणामवत् सजातीयपरिणाममप्याह-न केवल मिति वैशेषिकमतवन्न परमाणवो विभिन्नजातीया नियताः किं त्वेकजातीयाः पुद्गला एव कालिकविचित्रपरिणामवशात् पृथिवीजलादित्वं भजन्त 26 इत्याह-एकजातित्वादिति तथा तथा वर्तनलक्षणपरिणामा जीवपुद्गलानामात्मान एव न व्यतिरिच्यन्त इत्याह-एवं वृत्तिरिति । वस्तुतो नित्यात्मनैकेन कालेन प्राण्यप्राणिरूपान् भावान् तेन तेन परिणामेन प्रकाशयन् कलयति भूतानीति काल उच्यत इति भावः । रूपरसादिभेदेन विजातीयेन परिणमनं विपरिणामः, सजातीयेनैव वृद्धिहानि विशेषाभ्यां परिवर्तनमभ्यावृत्तिरित्याह-रूपरसादीति । स च कालः संसर्गिवस्तुक्रियाविशेषोपहितनानात्वोऽप्येको नित्य इत्याह-अतस्तदतीतेति । ननु पूर्वोपरीभूतभावपरिणामकलनात्मकस्य कालस्य कथं नित्यत्वमुत्पादविनाशशालित्वादित्याशंक्य प्रवाहतस्तस्य नित्यत्वम् , 30 आदिमध्यावसानादर्शनादित्युत्तरयति-नित्यत्वमिति । कालस्य सर्वज्ञासर्वज्ञापेक्षया द्वैविध्येन संख्यानं भवतीत्याह-तच्चेति। अस्मदादिभिरसर्वज्ञैः कालः सामान्यरूपतयाऽनुमानेन गृह्यते महति धान्यागारे परिपूर्णधान्यराशेः कुम्भशतसहस्रादिपरिमितत्वेन सामान्यतो ग्रहणवदित्याह-अविविक्तमिति, साकल्येनेयत्तया ग्रहीतुमशक्यमित्यर्थः । सर्वज्ञस्तु प्रतिसमयभाविनं सूक्ष्मतममपि वर्तनापर्यायं सम्यक् पश्यतीत्याह-सर्वशं प्रतीति । सर्वज्ञः सर्वं यथावजानातीति प्रतिपादिकां गाथामाह-जं. जं इति । वर्तनात्मा काल एव भूतभविष्यद्वर्त्तमानरूपो भवतीत्यादर्शयति-स तथाभूतेनेति, त्रिविधः परिणामो भवति 2010_04 Page #309 -------------------------------------------------------------------------- ________________ झानादिनैक्यता कालस्य ] न्यायागमानुसारिणीव्याख्यासमेतम् २५९ खपुष्पं न भवति घटो वा पटतया, तदेव तद्भवति तदेव चान्यथाऽपि भवति, कारणभेदेनापि स एव तथा कलयन् वर्त्तनेन कल्पते तेन च तस्मै चेत्यादि । ... स तथेत्यादि, स एव-कालस्तथाभूतेन-वर्तमानरूपेण कलनार्थेन सामानाधिकरण्येन तां वर्त्तनामेव सामान्यामभिन्नामत्यजन भूतो भवति भविष्यश्चेति विशेषव्यपदेशं लभते, नान्यः कश्चिदकलनात्मकपदार्थो नियत्यादिः, असत्त्वात् । स एव कलनालक्षणो भावस्त्रिधा भिद्यते, तत्समानाधिकरण-5 त्वात् सत्त्वात्मकत्वात् , घटवत्, न व्यधिकरणो भूतो भवति भविष्यंश्चाकाल एव व्यधिकरणोऽसद्रूप एव, किं कारणं ? अन्यथाऽन्यस्याभावात् , अन्यो ह्यन्यथा न भवति, यथा कुसुमं खपुष्पं न भवति, खपुष्पं वा कुसुमं न भवति, घटो वा पटतया न भवति पटो वा घटतया न भवति, किं तर्हि ? तदेव तद्भवति, कुसुमेव कुसुमम् । तदेव चान्यथापि भवति, यथा कुसुममेव मुकुलितार्धविकसितसमस्तविकसितजरन्म्लानत्वादिना । एवं तावत् काल एव भाव इत्यभेदेन भवनं व्याख्यातम् । कार-10 णभेदेनापि स एव तथा कलयन् वर्त्तनेन कल्पत इति, कल्पनस्य कर्तृत्वमनुभवतीति कलनं भवतीत्यर्थः, स एव कल्पते-क्रियते कर्म भवतीत्यर्थः, पूर्वापरतया कार्यकारणभावात् , तेन च तस्मै चेत्यादि, तस्यैव कलनस्य शक्तिभेदात् तेन क्रियते इति करणता, तस्मै क्रियत इति सम्प्रदानता, आदिग्रहणात् तस्मात्तस्मिन्नित्यपादानाधिकरणभावोऽपि तस्यैव । इदानीं कालस्य त्रिधा भिन्नस्याप्यभेदोपदर्शनार्थं ज्ञानेन क्रियया चैक्यमुच्यते- 15 एवमेव च स वर्तमानातीतयोः कारणावस्थयोरेव कार्यस्याभिमुख्येन गृह्यते, यथासंख्यमेकत्र पटादिरेकत्र मेघादिः, एवमेव चेत्यादि, यावदेकत्र मेघादिरिति, ज्ञानेन तावदेकत्वं दृश्यते, एवमेवेति, यथैव कर्तृकर्मकरणादिशक्तिभेदेऽप्यभिन्नः कालस्तथा स वर्तमानातीतयोः कारणावस्थयोरेव-सप्तम्यन्तनिर्देशोs. धर्मधर्मिणोर्भेदमालक्ष्य धर्मपरिणामः लक्षणपरिणामोऽवस्थापरिणामश्चेति, तत्र भूतानां पृथिव्यादीनाञ्च धर्मिणां गवादिर्घटा- 20 मः, धर्माणाञ्चातीतानागतवर्तमानरूपता लक्षणपरिणामः, वर्तमानलक्षणापन्नस्य गवादेबाल्यकौमारयौवनवाधक्यमवस्थापरिणामः, घटादीनामपि नवपुरातनताऽवस्थापरिणामः, एवञ्च वर्तनालक्षणो धर्मः स खलु प्रादुर्भावकालेऽनाग. तलक्षणमध्वानं हित्वा वर्तमानं लक्षणं प्रतिपद्यते तथा वर्तमानलक्षणं हित्वाऽतीतं लक्षणं प्रतिपद्यते, हानमपि न विनाशो नवा उत्पत्तिः, किन्त्वाविर्भावतिरोभावावेव, अतो योऽनागतो धर्म आसीत् स एव वर्तमानभूतोऽतीतो भविष्यतीति त्रिलक्षणावियुक्त इति बोध्यम् । ननु सत एवाविर्भावतिरोभावदर्शनादर्थक्रियाकारिण एव च सत्त्वानियत्यादेश्चैकान्तनित्यस्यार्थक्रिया- 25 कारित्वाभावेनासत्त्वान्न कारणत्वमित्याह-नान्य इति । हेतुमाह-अन्यथेति,। यथेति, सन्नासद्भवतीत्यर्थः । खपुष्पं वेति. असद्वा न सद्भवतीत्यर्थः। तदेवेति. धर्मिणि वर्तमानस्यैव धर्मस्य वर्त्तमालक्षणस्यातीतानागतवर्तमानावस्थासु भावान्यत्वं भवति, भावः-संस्थानभेदः, यथा सुवर्णभाजनस्य भित्त्वाऽन्यथा क्रियमाणस्य भावान्यथात्वं भवति नतु सुवर्णान्यथात्वमिति भावः। तत्र दृष्टान्तमाह-यथा कुसुममेवेति । काल एव कर्तृत्वकर्मत्वकरणत्वसम्प्रदानत्वापादानत्वाधिकरणत्वान्यनुभवति शक्तिमेदादित्याह-कलन भवतीत्यर्थ इति । पूर्वोपरीभावेन कारणकार्यभावादिति भावः । कत्तकर्मत्वादि-30 शक्तिमेदादेव भेदव्यवहारोपपत्तेर्जगत्कारणस्य कालाख्यस्य न मुख्ये भेदोऽस्ति, वर्तमानशक्तिसम्बन्धेन भावानां सतामेवाभिव्यक्तिर्जन्म, अतीतानागतकालशक्तिसम्बन्धेन सतामेव तिरोभावोऽदर्शनमनभिव्यक्तिर्विनाशः प्राक्प्रध्वंसाभाव इति शक्तिभेदात् कार्यभेदोपपत्तौ कालभेदकल्पना निर्निमित्तेत्याह-यथैवेति । अतीतावस्थायामुत्तरावस्थाभिमुख्येन-अर्थक्रियाया -निवृत्ततया वर्तमानावस्थायाञ्च कार्यस्याभिमुख्येन-अर्थक्रियां कुर्वता स एव कालो गृह्यते न तु वर्तमानकालोऽतीतकालो वा भिन्नतया गृह्यत इति भावः । वर्तमानावस्थायामिति, पटादेः कार्यस्य वर्तमानावस्थायामेव तेन सह पूर्वाह्नापरा- 35 2010_04 Page #310 -------------------------------------------------------------------------- ________________ २६० द्वादशारनयचक्रम् यम् , कार्यस्याभिमुख्येन गृह्यते-कार्याङ्गीकरणेन तत्प्राधान्येन तदात्मनेति यावत् , वर्तमानायला कार्यस्याभिमुख्येन, अतीतावस्थायाश्चोत्तरावस्थाभिमुख्येन स एव कालो गृह्यते, किमुक्तं भवति । कल्पते-ज्ञायते । यथासंख्यमेकत्र पटादिरेकत्र मेघादिः, वर्तमाने पदादिः, अतीते मेघादिः, तद्यथा पुरुषो हि पूर्वाह्ने पटं पश्यन्नपराह्वेऽपि पट एवायं श्वोऽप्यपरेधुरुत्तरेधुरपि वा पट एवेति वर्तमानकालेऽपि । पटमेष्यत्कालेऽपि पटमेव मन्यते । मेघे चोन्नतमात्रे वर्षति पयः, ततः प्रलहीबीजमुत्पद्यते मूलङ्करादि भवति ततः प्रलहीपोण्डं ततः कार्पासः ततः सूत्रं ततः पद इत्यतीतकाल एवैष्यत्कालं पटं मन्यत इत्यतः कार्याख्याभिमुख्येन स एव कालोऽतीतो वर्तमानश्चाभेदेन गृह्यमाणो दृष्टस्तस्मादभिन्नः । एवं ज्ञानेनैक्यमापाद्य क्रिययाऽप्यैक्यमापादयत्यतिदेशेन ग्रहणवञ्च स एव क्रियते तथावृत्तेः क्रियया कल्पत इति नाममात्रेणैव भेदात् , तयो10 रप्यनागते कार्येऽतीतवर्तमानयोः कारणाख्याभिमुख्येन कार्याख्याभिमुख्यकारणैक्यवद्रहणकरणयोः समानता दृश्यते, यथा संयोगतन्त्वाधुदकगर्भसर्जनपाचनादिवर्तनपटत्ववत् । (ग्रहणवचेति ) ग्रहणवच्च स एव क्रियते, किं कारणं ? तथावृत्तेः,-एवं हि वर्त्तनं, सैव हि क्रिया यथा गृह्यते तथा क्रियतेऽप्यसावेवाभेदेनेति तत्कारकार्थं दर्शयति-क्रियया कल्पत इति, एवं सावदतीतवर्तमानयोः कारणयोः कार्याख्याभिमुख्येन ग्रहणकरणाभ्यामैक्यम् । नाम आख्या शब्दः, Wशब्दमात्रेणैव भेदात् । तयोरप्यनागते -तयोः कारणयोरप्यनागते कार्येऽतीतवर्तमानयोः करणाख्याभिमु ख्येन कार्याख्याभिमुख्यकारणैक्यवत् ग्रहणकरणयोः समानता-कल्प्यमानता दृश्यते ततोऽप्यैक्यमेव, तद्यथा-संयोगतम्त्वाादकगर्भसर्जनपाचनादिवर्तनपटत्ववत् , यथा तन्तूनां संयोगं दृष्ट्वा सूतकापासमलहीपोण्डप्रलहीमूलाङ्कुरादिजलसर्जनपाचनधारणमेघकलनानि वृत्तानि तथा च क्रियन्त इति तान्येव वर्त्तनानि पट इति एष्यत्पट एव, तथा तन्तुवायस्य ग्रहणकरणाभ्यां प्रवृत्तत्वात् वर्तमानातीतपत्ता दृष्टेत्यैक्यमेव । अत एव च कलनमेवैकं कार्यकारणवृत्तित्वेन विपरिवर्तितुं क्षममपुरुषकारमस्वभावमहादिकालस्यामेदेन ग्रहणं भवतीति ज्ञानेनैकत्वं तयोरिति भावः । अतीतावस्थायाञ्चेति उन्नतं मेघ दृष्ट्वा तदैव तस्मैको सरावस्थायाः पयोषीजमूलाङ्घरकार्पासादेः कालेनैक्यमभिमन्यते इति भावः । तदेवं ज्ञानेनैक्यं प्रतिपादयित्वा क्रिययाप्पैक्यमापादयति-ग्रहणवञ्चेति, ज्ञानवचेत्यर्थः, वर्तनालक्षणः काल एव यथा गृह्यते तथैवाभेदेन क्रियत इत्यर्थः । प्रलहीति, 26 'प्रलही ववणं तूलो रूवो इति पाई. ना० २५५ गाथा, 'पोंडा वमणी तस्य फलं' नि० चू० ३ उ० । सैवेति, वर्तनरूपैकेत्यर्थः, शब्दमात्रेणैवेति, अतीतवर्तमानयोः नाममात्रेणैव केवलं भेद इत्यर्थः । भूतमिदं भविष्यदिदमिति प्रत्ययौ ज्ञानेब समुत्पद्यमानौ खतो वर्तमानकालावपि विषययोः स्वकालविरुद्धयोभूतभविष्यतोराकारमपरित्यक्तवर्तमानखसंवेदनरूपेण धारयत इति वस्तुत ऐक्यं केवलं नामत एव भेद इति भावः प्रतिभाति । अथातीतवर्तमानयोः स्वखकार्येणाभेदं ग्रहणक्रियाभ्यामुपपादयित्वाऽनागतकार्यस्यातीतवर्तमानलक्षणकारणेन सह ग्रहणक्रियाभ्यामभेदं दर्शयति-तयोरपीति, दृष्टान्तं दर्शयति-कार्या30 ख्याभिमुख्येति, कल्प्यमानता-सम्पद्यमानता रूपान्तरापन्नतेति यावत् । तन्तुवायः पटं वयन् तन्तूनां संयोगं दृष्ट्वा तन्तूनां पूर्वपूर्वपरिणामलक्षणवर्तनास्तथोत्तरपरिणामलक्षणवर्तनाश्च गृह्णाति तथाकरोति चेति तस्य ग्रहणक्रियाभ्यां ताः सर्वा वर्तना अभिक्षा एव कालात्मान इत्याह-यथा तन्तूनामिति । रूतेति रूतशब्दस्तूलविशेषे, कार्पासपक्ष्माणि च, अथ वर्तनस्य क्वापि प्रतिबन्धाभावात् सर्वत्रानुवृत्तापित्वाच सर्वकारणत्वं तस्यैव, अपेक्षणीयान्तराभावात् , अतोऽयमेव कार्यकारणरूपेण परिवर्तनक्षम इत्याह-अत एवेत्यादिना । न पुरुषोऽनन्यसाधनम्, पुरुषकारणत्वे पृथिव्यायचेतनानां कारणानुरूपत्वासम्भ 2010_04 Page #311 -------------------------------------------------------------------------- ________________ पुरुषस्य संसराभावः] न्यायागमानुसारिणीव्याख्यासमेतम् नियतञ्च, संसारस्यात एवानादिकालवृत्तेरेव हेतोः पुरुषवाद्युक्तं सर्वमस्माद्भवति, पुरुषवाद्युकमुक्तिकमार्थतुरीयवचनादेव कालस्य समर्थितत्वात् ।। अत एव चेत्यादि, एतस्मादेव कारणाद्वर्त्तनस्याप्रतिघाताद्व्यापित्वाच्च कारणान्तरापेक्षा नास्ति, कलनमेव टेक-अनन्यसाधनं स्वयमेव कार्यकारणवृत्तित्वेन विपरिवर्तितुं क्षमम्, अपुरुषकार चेतनाचेतनेषु वृत्तेरभेदात् , अस्वभावं जीवाजीवात्मकपरिणतिक्रमविवृत्त्यजस्रत्वात् , अनियतं तबान्यथाभावविपरिवर्त्तवर्त्तनात्मकत्वादेव, संसाराभिरूपद्यणुकत्र्यणुकादिभूम्यम्बुव्रीह्याद्याहाररसरुधिरादि विपरिवर्तनस्य भावान्तरसङ्क्रमणलक्षणत्वात् संसारस्य अत एवानादिता, अनादित्वेन दूरमपक्षिप्ता नियत्यादिकारणान्तरापेक्षाऽनेन कलनेन, तस्मादनादित्वात् कालवृत्तिः । अस्या एव-कालवृत्तेरेव केवलायाः कारणान्तरनिरपेक्षाया हेतोः यदप्युक्तं पुरुषवादिना पुरुषक्रियात एव सर्वमिति तदस्मादेव कालाद्भवति, न तु पुरुषकारात् , अनादीनां योगपद्यादिमतां यौगपद्यपौर्वापर्ययुक्तवृत्तित्वात् , तयोग कालत्वात् , तेनैव किल पुरुषवादिना कालस्य समर्थितत्वादित्यत आह-पुरुषवाद्युक्तमुक्तिक्रमार्थतुरीयवचनादेव,-सुषुप्तावस्था विशुद्धयन्ती सुप्तावस्था भवति, सुप्तावस्था च जाग्रदवस्था भवति, जाप्रदवस्था विशुद्धा सती तुरीया मुत्तयवस्था भवतीति कालसामर्थ्यात् क्रमात्मलाभो घटते, तस्मात्सुषुप्तादेरवस्थाविशेषव्यवस्थानस्यानादिकालप्रवृत्त्यात्मकत्वं परमात्मनो वर्त्तनतत्त्वं स्यात्, तच्चास्मन्मत एव घटते न पुरुषवादे, क्रमाक्रमविकल्पाभावात् , अन्यथा व्यवस्थाचतुष्टयस्यैकसर्वगतनित्याक्रमकारणात्मकस्य कत-15 माऽवस्था प्रथमा द्वितीया तृतीया तुरीया वेति । किश्चान्यत् वृत्तिक्रमापादितकार्यकारणावस्थयोः कार्यकारणभावोपपत्तेमिथ्यादर्शनादिसामान्यविशेषहेतुभिः कर्मबन्धप्रक्रियोपपत्तेः संसारानादिता, तस्य तु परमात्मनो न युज्यते संसारो बन्धाभावात् , बन्धाभावः प्रदोषादिकारणाभावात् , प्रदोषाभावः कर्माभावात् कर्माभावो-20 शरीरत्वादकारणत्वाच्च । . बादित्याह-भपुरुषकारमिति । चेतनाचेतनेषु कालवर्तनाया अमेदेन सत्त्वादित्यर्थः । स्वभावोऽपि नानन्यसाधनम् , कालक्रमागतपरिणतिवशादेव जीवाजीवयोः परस्पररूपापत्तिवर्त्तनोपपत्तरित्याह-अखभावमिति। नियतिरपि नानन्यसाधनम. जीवाजीवानां तथाभावान्यथाभावलक्षणविपरिवृत्तेरनियमेन वर्तनादित्याह-अनियतमिति । एतदेवाह-संसाऐति। कालस्य जगद्रूपत्वाजगतश्चानादित्वेन नियत्यादिकारणान्तरापेक्षा नास्तीत्याह-अनादित्वेनेति । कालस्य कारणान्तरापेक्षा-25 भावादेव पुरुषादिवायुक्तानां सर्वेषां नासम्भव इत्याह-कालवृत्तेरेवेति । अनादितो युगपदृत्तीनां क्रमवृत्तीनाश्च योगाथा परभाववृत्तित्वयोः कालवर्तनरूपत्वस्य पुरुषवादिनापि समर्थितत्वादित्याह-अनादीनामिति, तयोः-युगपद्वृत्तित्वक्रमतित्वयोः सुषुप्तावस्थेति, सर्वविशेषविज्ञानप्रत्यस्तमयी सुषुप्तिः, अत्रान्तःकरणाद्युपाधिरभिभूतो भवति संस्कारात्मनाक तिष्ठते, बालेन्द्रियव्यापाररहिता विशेषज्ञानवती स्वप्नापरपर्याया सुप्तावस्था विशेषज्ञानसद्भावादेव सुषुप्त्यपेक्षया विशुद्धा, बाहोन्द्रियव्यापारेणापि युक्ता स्फुटावभासाऽत एव विशुद्धा जाग्रदवस्था निरावरणा सर्वसामान्यविशेषवस्त्ववभासा विशुद्धतमा तुरीयावस्था, अधिकाधिकविषयावगाहित्वाद्विशुद्धताऽत्र बोध्या, इत्येवं क्रमतयाऽत्मलाभः कालसामर्थ्यादेवेति भावः । एताहशावस्थाचतुष्टयेनानादिकालेन परमात्मनो या प्रवृत्तिः सा कालेनैव सङ्गच्छत इत्याह-तस्मादिति । कालानधीनत्वे क्रमाक मविकल्पासम्भवेन प्रत्येकमवस्थायाः सर्वदा विद्यमानताप्रसङ्गेन प्रथमद्वितीयाद्यवस्थानियमो न स्यादित्याह-क्रमाक्रमेति। कालवादे एव संसारस्थानादिता सम्भवति, पुरुषवादे संसारकारणासम्भवेन न संसारस्यानादित्वं संसारस्यैवासम्भवादिस्याह 2010_04 Page #312 -------------------------------------------------------------------------- ________________ २६२ द्वादशारनयचक्रम् [विधिविध्यरे ... (वृत्तीति) वृत्तिक्रमापादितकार्यकारणावस्थयोः कार्यकारणभावोपपत्तेमिथ्यादर्शनादिभिः सामान्यहेतुभिः प्रदोषनिह्नवादिभिश्च विशेषहेतुभिः कर्मबन्धप्रक्रियोपपत्तेः संसारस्यानादिता सन्तानाव्यवच्छेदाद्वा युज्यते, पुरुषवादिनः पुनः परमात्मनः शुद्धात्कूटस्थादिनित्यात् कार्यकारणाभ्यां द्वाभ्यामपि व्यतीतान्न युज्यते संसारो बन्धाभावात् , बन्धाभावः कारणाभावादशरीरत्वादकारणत्वाच्च, चशब्दा। सर्वगतत्वादेकत्वान्नित्यत्वाच्चेत्यादयोऽपि हेतवः । प्रदोषादिकारणाभावात् प्रदोषाभावः, कर्माभावादित्यादिगतार्थ यावत्संसारानादिता । .. अत्राह नियतिवादी तस्य संसारस्यैव तथानियतेः संसारो भवति पुरुषपुद्गलयोरित्यत्र ब्रूमः नापि तस्य नियतेः संसारानादिता, अतत्त्वात् , क्वचिदुपरमाभ्युपगमात् , यद्यन्न तन्न तन्नियतेदृष्टम् , घटपटवदिति, एवमेव तस्य स्वभावादित्येतन्न अतत्त्वात् , यद्यदेतन्न तत्तन्न 10 तत्स्वभावात् , घटपटवदिति।। (नापीति) नापि तस्य नियतेः संसारानादिता, कस्माद्धेतोः ? अतत्त्वात् , तद्भावस्तत्त्वं न तत्त्वमतत्त्वं तस्मादतत्त्वात्तन्नियतेनं भवति संसारः । तत्त्वं चास्य न भवति संसारस्य क्वचिदुपरमा. भ्युपगमात् । खहेतोः साध्याविनाभावित्वोपप्रदर्शनार्थमाह-यद्यन्न तन्न तन्नियतेदृष्टम् , यथा घटः पटनियतेनं भवति, पटोऽपि घटनियतेनं भवति, तस्माद्धटवत् पटवदतत्त्वान्नापि तस्य नियतेरिति साधूक्तम्। 16 किश्चान्यत्-एवमेव तस्य स्वभावात्-यदि ब्रूयात् तस्य स्वभावात्संसारानादितेत्येतन्न, नापि तस्य स्वभावात् , अतत्त्वात् , अतत्त्वमस्य पूर्ववन्मुक्त्यवस्थाभ्युपगमात् सिद्धम् । यद्यदेतन्न तत्तन्न तत्वभावाद्धटपटवदिति । एवं तावदनादिसंसारता नोपपद्यते नियत्यादिवादे कालमन्तरेणेत्युक्तम् । इदानीं कालवादे तदुपपत्तिरुपवर्ण्यते तस्मात्त्वनादिवर्तनात्मकत्वात् कालस्यैतदुपपद्यते , तद्यथा पृथिव्यादित्रीह्यादिवृत्ति20 वृत्तिकमेति, कालेऽभ्युपगम्यमाने सुषुप्त्यादीनामवस्थानां क्रमवर्तनसम्भवेन कार्यकारणत्वोपपत्तौ मिथ्यादर्शनादिभिः प्रदो षनिहवादिभिश्च कारणैर्जीवस्य कर्मबन्धोपपत्ती संसारस्यानादित्वं युज्यते, कालानभ्युपगमे कार्यकारणभावासम्भवेन बन्धकारणकर्माभावेन जीवस्य बन्धानुपपत्तो कथं संसारानादितेति भावः। कालकारणवादे संसारानादित्वं समर्थयति-वृत्तिक्रमापादितेति। पुरुषवादे तदनुपपत्तिमाह-पुरुषवादिन इति, अथ नियतिवादे पुरुषपुद्गलयोस्तथाविधनियत्यैव बन्धसम्भवेन संसारो भविष्यतीत्याशङ्कते-अत्राहेति । समाधत्ते-नापीति, संसारस्य नियतितोऽनादित्वं न सम्भवति, संसारस्यानियतत्वात्, अभ्युपगम्यते हि संसारस्य क्वचिदुपरमः, अतोऽनियतत्वमिति न नियतिकृतत्वं संसारस्येति भावः । तथा च जीवस्य संसा28 रानादिता न नियतिसाध्या अतद्रूपत्वात् , यद्यदतद्रूपं तत्तन्न तत्साध्यम् , यथा घटो न पटनियतिरूपो न पटनियतिसाध्य इति प्रयोगाभिप्रायेण हेतुमाह-अतत्त्वाति इति, संसारस्य नियतिस्वरूपताविरहादित्यर्थः । तद्रूपता कुतो नेत्यत्राह-तत्त्वञ्चास्येति तथा च संसारोऽनियतः क्वचित्तस्यात्यन्तोच्छेदाभ्युपगमात्, प्रलये हि संसार उच्छिद्यत इत्यभ्युपगम्यते भवतेति भावः। व्याप्ति ग्राहयति-यद्यन्नेति । एवं तस्य संसारानादिता स्वभावादपि न सम्भवत्युक्तयुक्तरेवेत्या दिति, यदि संसारस्यानादित्वं खभावस्तर्हि खभावस्यान्यथाभावासम्भवात् तथाविधस्वभावता संसारस्य सदा भवेत्, न तथाऽभ्युपगम्यते संसारस्य 50 सृष्टिप्रलयाभ्युपगमेन साद्यन्तत्वादित्याशयेन निराकरोति-अतत्त्वादिति, अतत्वभावत्वादित्यर्थः । हेत्वसिद्धिं निराकरोति अतत्त्वमस्येति, जीवस्यानादिसंसारत्वाभावो मुक्यवस्थाभ्युपगमात्. अनादिसंसारस्वभावत्वे जीवोऽनाद्यनन्तसंसारी भवेत्, तथा च मुक्तिने भवेदेव, खभावस्यान्यथाभावासम्भवादिति भावः। अत्रापि व्याप्तिं ग्राहयति-यद्यदेतन्नेति. यद्यत् अतत्व. भावं तत्तत् न तत्साध्यम् यथा घटो न पटखभावरूपो न पटखभावसाध्य इति । कालवादे तु कालस्यानादिवत्तेनात्मकत्वात् संसारानादिता युज्यत एवेत्याह-तस्मात्त्विति । यौगपद्यलिङ्गेन कालकृतसंसारानादितामाह-तद्यथेति । वृत्तिः पदार्थानों 2010_04 Page #313 -------------------------------------------------------------------------- ________________ कालादनादिसंसारः] न्यायागमानुसारिणीव्याख्यासमैतम् २६३ विवृत्तिप्रबन्धेनाऽऽत्मस्वरूपविषया क्रिया बन्धः स्निग्धरूक्षतया तेषां संश्लेषादन्यान्यरूपापत्तिः संसरणं, तच्चानादियुगपदुभयबन्धनात् तथा जीवपुद्गलयोरभिन्नवर्तनस्वतत्त्वयोः स्वसाध्येभ्य एव साधनात्मभ्यः स्वत एव बन्धक्रिया संसारक्रिया च वर्तनाभेदेन रूपभेदेन च, एवं कालस्यात्मस्वात्मन्येव क्रियाऽनात्मस्वात्मनि च युगपदेव बन्धसंसरणविहिता संसारानादिता युगपदभिन्नाऽनादिवृत्त्यात्मिका न न युज्यते । तस्मात्त्वनादिवर्तनात्मकत्वादित्यादि यावन्न न युज्यत इति, तस्मादिति-प्रस्तुता. कालात् संसारानादिता न न युज्यत इति सम्भत्स्यते, तुशब्दो विशेषणे, कालवाद एवैतदुपपद्यतेऽनादिसंसारित्वम् , यौगपद्यपर्यायत्वादनादित्वस्य, यौगपद्यस्य च कालप्रभावाऽविनाभावित्वात् , कलनवृत्तिपर्यायत्वाञ्च कालस्येति तत्प्रदर्शनार्थ हेतुमाह-अनादिवर्तनात्मकत्वात् कालस्य, कालो हि युगपदनादिवृत्त्यात्मकः । नन्विदं प्रागुक्तेन विरुद्धं पूर्वापरादिवृत्तेरयोगपद्यादिति चेन्न, वर्तनस्य योग- 10 पद्यात् , तद्यथा पृथिव्यादिव्रीह्यादिवृत्तीत्यादिदृष्टान्तदण्डकः । यथा पृथिव्यम्बुवाय्वाकाशपुरुषादयो युगपत् समेता लोकाख्यां लभमाना अनादयः, त एव च ब्रीहियवगोधूमचूतपनसादित्वेन स्त्रीपुरुषः महिषाजगवयगवादित्वेन च वर्तन्ते सहैव भूम्यादिव्रीह्यादित्वेन तादृश्योवृत्तिविवृत्त्योरव्यवच्छेदेन स्वत एवात्मा विषयोऽस्याः क्रियायाः सा, तेषां ब्रीह्यादिभूम्यादीनां वृत्तिविवृत्तिप्रबन्धेनात्मस्वरूपविषया क्रिया सैव च बन्धः, स्निग्धरूक्षवृत्त्या तेषां संश्लेषादन्यान्यरूपापत्तिः संसरणम् , तच्चानादियुगपदु-16 भयबन्धनात् संसरणं दृष्टम् , तथा जीवपुद्गलयोरभिन्नवर्तनस्वतत्त्वयोः स्वसाध्येभ्य एव साधनास्मभ्यः-हेतुकार्यभूतेभ्यः कारणेभ्यः परस्परसंश्लेषवर्तनेभ्य इव भूम्यादिनीह्यादीनां हेतुभ्यः स्वत एव बन्धक्रिया संसारक्रिया च वर्तनाभेदेन रूपभेदेन चेति दृष्टान्तप्रसिद्धार्थव्याख्यानम् । दार्शन्तिकव्याख्यानं तु कालस्यात्मस्वात्मनि क्रिया अनात्मस्वात्मनि चेति, कालस्याभिन्नवर्तनस्वतत्त्वस्य भूम्या वर्तनं, विवृत्तिः पदार्थानामन्योन्यरूपतया परिणामलक्षणं वर्तनम् , ते च युगपद्वर्तमानकाले यथा दृष्टे तथा भूतभविष्यतोरपी- 20 त्यनादितेति भावः । यौगपद्यापरपर्यायस्यानादित्वस्य कालाविनाभावित्वादित्याह-योगपद्यति। सर्ववस्तूनामनादितो योगपद्येन वर्तनात्मकः काल इत्याह-अनादीति । ननु पौर्वापर्येण वृत्तीनामनादिता प्रतिपादिता, अत्र तु योगपद्यवृत्तित्वस्योच्यत इति. विरोधइत्याशङ्कते-नन्विदमिति । वर्तनमेव हि योगपद्यं तच पौर्वापर्येणापि सङ्गच्छत इत्यविरोध इत्याह-वर्तनस्यति । तदेव दृष्टान्तेन प्रतिपादयति-तद्यथेति, पृथिव्यप्तेजोवाय्वाकाशात्मादीनां परस्परं मिलित्वा खखजात्यनुच्छेदेन वर्तमानकाल इव भूतभविष्यतोरपि वर्तनादनादिता तथावर्तनमेव च लोक उच्यते, न हि कदाचिदप्यनीदृशं जगद्भवति तथा तेषा-25 मेव व्रीह्यादिरूपेण स्त्रीपुरुषादिरूपेण च परिवर्तनं सहैव तस्यापि परिवृत्तिप्रवाहस्यानाद्यनन्तत्वेनानादित्वम् , ईदृशी भूम्यादि.. जीयादिक्ष्यादिवृत्तिपरिवृत्तिक्रिया स्वखरूपेण भवति, सैव विस्रसाक्रियोच्यते, सैव च तेषां परस्परं बन्धः, पुद्गलानाञ्च परस्पर संश्लेषादन्यान्यरूपापत्तिलक्षणं संसरणं स्निग्धत्वरूक्षत्वाभ्यां भवति, विषमगुणस्निग्धरूक्षाणां परमाणूनां परस्परं बन्धात् , एवज्वानादिकालेन तेषां योगपद्येन वृत्तिविवृत्तिलक्षणोभयबन्धनात् संसरणं भवतीति भावः । अमिन्नवर्त्तनेति, अभिन्नं वर्तनमेव खतत्त्वं ययोस्तयोर्जीवपुद्गलयोः खसाध्यसाधनभूतयोः परस्परं संश्लेषवर्तनेभ्यो बन्धक्रिया संसरणक्रिया च यथा भवति 30 तथैव केवलमचेतनानां भूम्यादिव्रीह्यादीनामपि खत एव वर्तनामेदेन विवर्तनारूपभेदेन च बन्धक्रिया संसरणक्रिया च भवति. तदेवं चेतनाचेतनयोः परस्परमचेतनस्य बन्धसंसरणे दृष्टान्ततयोपन्यस्ते इति भावः।दार्टान्तिकं कालं व्याख्याति-दान्तिकेति, दिवसपक्षमासर्वयनसंवत्सरादिलक्षणकालस्य चक्रन्यायेन भ्रमणं पल्योपमादिकालविशेषविशेषितं वा यस्य कस्यापि. जीवस्य नरकादिगतिषु संसरणं कालकृतबन्धसंसरणे विज्ञेये, पृथिव्यादिद्रव्याणाश्चानादिकालेन तेन तेन रूपेण वर्तनमनात्म.. _ 2010_04 Page #314 -------------------------------------------------------------------------- ________________ २६४ द्वादशारनयचक्रम् [विधिविध्वरे वित्रीयादिसंसरणवदेवात्मस्वात्मनि-जीवस्वरूपे क्रिया अनात्मस्वात्मनि-पुद्गलस्वरूपे या युगपदेव कधसंसरणविहिता-कालकृतबन्धसंसारविहिता-कृता, विधातुरन्यस्याभावात् सैषा संसारानादितायुगपदभिन्नानादिवृत्त्यात्मिका जीवपुद्गलयोः परस्परं स्वात्मपरात्मवृत्तिकृतबन्धसंसारानादिता न न युज्यते विरोधाभावादित्यभिप्रायः, एवं तावद्यौगपद्यलिङ्गकालकृतसंसारानादिता । पूर्वापरादिलिङ्गकालकृतसंसारानादिताप्यस्मिन् दर्शने न विरुद्ध्यत एवेत्यत आह इत्यनादितावर्त्तनाप्रभेदा एव भावान्तराणि क्रमेण प्राप्ताः भूम्यम्ब्वादियोगबीजोद्भेदमूलाङ्कुरपत्रनालकाण्डपुष्पफलशूककणतुषव्रीहिकुरुकतन्दुलोदनरूपा ओदनादप्यभ्यवहृताद्रसरुधिरमांसकलेवरमृन्मृत्पिण्डशिबकस्तूपकछत्रकस्थालककोशककुशूलघटकपालशकेरिका पांशु भूलिरजोभूम्यादित्वेन परमाणुष्यणुकादिसंघाता आरम्भप्रवृत्तिनिष्ठा उत्पत्तिस्थितिभना अपि "वर्तनात्मान एव । इत्यनादितावर्त्तनाप्रभेदा इत्यादि, इतिशब्दः इत्थमर्थे, इत्थमुपपादिता अनादिताया एक वर्सनायाः प्रभेदाः ते पूर्वापरादिक्रमात् , त एव भावान्तराणि क्रमेण प्राप्ताः । के त इति चेत् ? भूम्यम्ब्वादियोगः बीजोद्भेदः मूलमङ्कुर इत्यादि गतार्थ यावत् कुरुकतन्दुलौदनरूपा इति । ओदनादप्यभ्यवहृताद्रसादि यावत् कडेवरं कडेबरान्मृत् , मृदो मृत्पिण्डः, मृत्पिण्डाच्छिबकः, पुनर्यावद्भूम्यावित्वेन परमाणुव्यणुकादिसंघाताः जीवपुद्गलवृत्तिपरिवर्तिभेदेन, वर्त्तनेनैव आरभंते प्रवर्तते नितिछन्तीत्यारम्भप्रवृत्तिनिष्ठाः, पुनर्विपरिणामोऽन्यरूपेणाविर्भाव आरम्भः, प्रवर्तनं स्थिति:, निष्ठा तिरोधानमित्येतदनुपरतधर्मत्रयचक्रमयुगपद्वृत्तावपि, युगपवृत्तावपि पूर्वाभिहितबन्धसंसरणवदुत्पत्तिस्थितिमङ्गा गति वर्तनस्वास्मान एव, तदेव हि वर्त्तनं परिवृत्त्यपरिवृत्तिष्वित्यविरोधं कालकारणवादस्य दर्शयति । तत्प्रसिद्धिप्रदर्शनार्थमाह ननु कृषीवलादिभिरपि तथा तथा पर्युपास्यते, अविर्भूतश्ताङ्कुरकालो न तावद्यवाकुरकाल इत्याविभूतानाविभूतात्मा कालः। खात्मनि बन्धसंसरणविहिता क्रिया बोध्या, तदेवं योगपद्येन जीवाजीवानां तथा तथाऽनादितया वर्तनमेवानादिवर्तनात्मकत्वं कालस्य, अनादिकालात्तत्तव्यत्वेन तेषां परिणामादिति भावः। विधातरिति. चेतनाचेतनानामनादिकालेन वैनसिकतथाविधपरिणामादेव लोकस्यानाद्यनन्तत्वेन सृष्टिप्रलयाभावाल्लोककर्तुरनावश्यकतैवेति भावः । तदेवं जीवाजीवानां जीवत्वाजीव. 28 त्वादिसामान्यधर्मेण योगपद्येन वर्तनस्यानादित्वमुक्त्वा सम्प्रति विशेषधर्मेणापि तेषामनादिक्रमिकवर्त्तनात्मकत्वं वक्तुमाह-त्य. नादितेति, स एव पुद्गल उत्तरोत्तरप्रवर्धमानपरिणामैर्भूम्यम्वुतेजोवाय्वादिव्रीहिबीजादिभिर्वर्तमानः पुनरपचयपरिणामैः पुनः पुद्गलरूपतामाप्नोति तथा पुनरपि प्रवर्धमानपरिणामोऽपचयपरिणामश्च भवन् वर्तते पुनः पुनरेवमिति ऋमिकतत्तत्पर्यायवर्तन. रपि संसारानादिता, न हीदृशक्रमिकवर्तनायाः कदाप्युच्छेदो येन सादित्वं संसारस्य भवेदिति भावः । वर्तनापेक्षयाऽऽरम्भ प्रवर्तननिरोधानाह-वर्त्तनेनैवेति स्वस्वरूपापरित्यागेन, जीवपुद्गलादयः प्रतिक्षणमन्यान्यवर्तनान्यनुभवन्तीति आरम्भस्थितिनिरोधधर्मका इति भावः। विवर्तनापेक्षयापि तानाह-पनरिति. जीवपद्गलादयः क्षणे क्षणे भूम्यम्ब्वादिवीजाकुरादिपरिणामधारणादारम्भस्थितिनिरोधधर्मका अनादित इति भावः । तदेवं युगपद्वृत्तावयुगपद्वृत्तावपि ये उत्पत्तिस्थितिभा उक्तास्ते सर्वे पन्धसंसरणवद्वर्तनखरूपा एवेति कालात्मत्वं सर्ववस्तूनामित्यत्र न कोऽपि विरोध इत्याह-अनुपरतेति, उक्तार्थेऽनुभव प्रमाणयति-नन्विति, ननुरत्र निश्चयार्थकः कृषीवलादयो हि सम्प्रति चूताङ्कुरकाल आगतः, अतोऽस्माभिश्चूतबीज एवेदानीं वप• मीयो न यवबीजादिः, तत्कालस्यानाविर्भूतत्वादित्यनुभूय तथैव कुर्वन्तीति भावः। ननु द्रव्यक्षेत्रभावा अपि कालास्माना ____ 2010_04 Page #315 -------------------------------------------------------------------------- ________________ कालाद्भावमैदः] न्यायागमानुसारिणीव्याख्यासमैतम् २६५ .... (नन्विति) ननु कृषीवलादिभिरपि पर्युपास्यते इति, किं पुनर्विद्वद्भिरित्यर्थः, तथा तथायथा यथाऽसौ कालो व्यवतिष्ठते तथा तथा पुरुषः पर्युपास्ते, आविर्भूतश्ताङ्कुरकालो न तावदाविर्भूत इत्याविर्भूतानाविभूतात्मा । तस्मादेव च वर्तनालक्षणादवगमितद्रव्यक्षेत्रभावात्मनः कालात् परमनिरुद्धसमयत्वेनामिन्नादपि सुषमादिभेदात्मकाद्भावभेदाः सम्भवन्ति, स एष पुनरनुभावः कालस्य प्रभु । विभुत्वाभ्याम् । एकसमायामपि भावभेदाः संवत्सरवर्तनात् , संवत्सरे मासवर्तनात् , मासे दिनवर्त्तनात्, दिने मुहूर्त्तवर्तनात् , मुहूर्ते लग्नवर्त्तनादेवं नालिकायवादिभेदेन च भावभेदा नेया यावत् परमनिरुद्धसमयवर्त्तनेति, एकस्मिन्नन्यथेति चेन्न, कालदोषभावात् । तस्मादेव चेत्यादि, तस्मादेव वर्तनालक्षणात् कालादवगमितद्रव्यक्षेत्रभावा आत्मानोऽस्य तस्मादवगमितद्रव्यक्षेत्रभावात्मनः, अवगमितद्रव्यक्षेत्रभावात्मकादित्यर्थः, प्रागवगमितं द्रव्यं भूम्या- 10 दिनीयादिद्रव्यात्मा काल इति, घटो प्रीवादय इति क्षेत्रं भावो रूपादयो न केचिद्युगपदात्मिकां वृत्तिप्रख्याति कालमन्तरेणेति कालत्वावगमनं वर्त्तत एष, तस्माद्रव्याद्यात्मकात् कालात्, सुषमसुषमादिभ्य उत्सर्पिण्यवसर्पिण्याख्यकालभेदेभ्यः परमनिरुद्धसमयत्वेनाभिन्नादपि सुषमादिभेदात्मकाद्भावभेदाः सम्भवन्ति, तद्यथा-सुषमसुषमायां सुषमायां सुषमदुःषमायाश्चात्रैव भारते क्षेत्रे देवलोकवद्भवन्ति प्रतनुक्रोधमानमायालोभास्त्रिद्वयेकगव्यूतोच्छ्रितदेहास्तावत्पल्योपमजीविन्यो मिथुनधर्मिकाः प्रजा मत्ता- 15 प्रादिकल्पतरुकल्पितोपभोगविधयः, स्वादुसुरभिजला चतुरङ्गुलहरिततृणा निम्नोन्नतवर्जिता सुरभिस्वादुरसा सुखस्पर्शादिगुणा भूमिरित्यादि । स एष पुनरनुभावः कालस्य प्रभुविभुत्वाभ्याम् , काल एव हि प्रभवति विभवति च, सर्वभावभेदानामुत्पत्तिस्थितिप्रलयेष्वात्मप्रभेदमात्रत्वात् । तथा दुःषमसु. इत्युक्ता, अथ तस्मादेव भिन्नात् कालात् नानाविधा भावमेदा भवन्तीत्याह-तस्मादेव चेति, अवगमिताः-पूर्व व्यावर्णिता द्रव्यक्षेत्रभावा आस्मानः स्वरूपं यस्यासौ कालस्तस्मादिति विग्रहः, अमुमेवार्थमाह-प्रागवगमितमिति वर्तितुर्भूम्यादिब्रीह्या- 20 विद्रव्यादनान्तरभूतत्वाद्वर्तनालक्षणकालस्य भूम्यादिनीयादिकालद्रव्यमुच्यते, तस्यैव द्रव्यस्य यो विवृत्तिलक्षणः पर्यायापरनामा घटादिपरिणामः स क्षेत्रकालः, देशः प्रस्तावोऽवसरो विभागः पर्याय इत्यनान्तरत्वात् , तस्यैव गुणपर्यायो रूपादयो भावकाल इति, एते च युगपत्तिखरूपं वर्तनमनुभवन्तो न कालमन्तरेण भवन्ति तस्मात् कालत्वमेतेषामवगमितमिति भावः। एकरूपस्य कालस्य मेदान् तत्फलानि चाह-सुषमसुषमादिभ्य इति, सुष्टु शोभनाः समाः वर्षाणि यस्यां सा सुषमा 'निर्दुःसुवेः समसूते:'(सिद्धहे.२-३-५६) इति षत्वम् । सुषमा चासौ सुषमा च सुषमसुषमा। सुषमसुषमा, सुषमा, सुष-25 मदु:षमा, दुःषमसुषमा दुःषमा, दुःषमदुःषमेति क्रमेणांवसर्पिण्या अरकाः, उत्सर्पिण्याश्चैत एव व्युत्क्रमेण ज्ञेयाः, अवसपेन्ति क्रमेण हानिमुपपद्यन्ते शुभाभावा अस्यामित्यवसर्पिणी, अस्यां समस्ता अपि शुभा भावाः क्रमेणानन्तगुणतया हीयन्ते, अशुभाश्च . क्रमेणानन्तगुणतया परिवर्धन्ते, दशसागरोपमकोटीकोव्यात्मकोऽयं कालमेदः, इदमेव भरतकालस्वरूपम् । सुषमसुषमाधरक. त्रयाश्रयेण फलं दर्शयति-तद्यथेति, तत्र प्रजाधर्ममाह-प्रतन्विति, इदश्च सुषमसुषमाद्यरकत्रये विज्ञेयं युग्मिनां प्रतनुको. धाधुक्तः तथा त्रिगव्यूतोच्छ्रितदेहः प्रथमारकप्रथमसमये युग्मिनाम्, ततः प्रतिसमयं हासात् । द्वितीयारके सुषमाप्रथमसमये- 30 द्विगव्यूतोच्छृितदेहो युग्मिनाम् , तृतीयारके सुषमदुःषमायाः प्रथमसमये एकगव्यूतोच्छृितदेहो युग्मिनाम्, ततो हासात् तथाऽऽयुरपि विडेयम्, मत्तामृतात्रटिताङ्गदीपशिखाज्योतिषिकचित्राङ्गचित्ररसमण्यनगेहाकाराभिधानाः कल्पवृक्षा अन्वों भवन्ति, भूमिखरूपं दर्शयति-खाद्विति । तदेवं भावानां माहात्म्यं कालेनैव भवति, सर्वकार्यमात्रकारणत्वात् , कार्यकारणयो. रभेदाच काल एव तथा तथा प्रभवति, सकलवस्त्वाधारतया च विभुः न हि वर्तनव्यतिरेकेण कोऽप्यात्मलाभ लभत इति काल एवं प्रभुर्विभुश्चेत्याह-स एव इति । अथ दुःषमसुषमायरकत्रयाश्रयेण वस्तुवैचित्र्यमादर्शयति-तथा दुषमेति, दुःषम- 35 द्वा. न. ३४ 2010_04 Page #316 -------------------------------------------------------------------------- ________________ २६६ द्वादशारनयचक्रम् [विधिविण्यरे षमायां सुषमदुःषमासमत्वाद्भूयिष्ठसुखत्वाद्धर्माचारभूयिष्ठत्वाच्च मनुष्यलोकवद्भावभेदाः । दुषमायामाहारभयमैथुनपरिग्रहसंज्ञाप्राचुर्यादधर्मकर्मोन्मार्गप्रस्थानभूयिष्ठत्वाच्च तिर्यग्लोकवत् । दुःषमदुःषमायां नरकलोकवहुःखैकरसत्वात् । तथा कृतत्रेताद्वापरकलियुगसंज्ञाविभागेषु व्याख्याविकल्पमात्रभेदेषु युगेषु । किश्चान्यत्-एकसमायामपि भावभेदास्तत्प्रभुविभुत्वाभ्यामेव संवत्सरवर्तनात् सुभिक्ष। दुर्भिक्षादिभावभेदाः, एवमुत्तानार्था भावभेदा नेया यावदेकमुहूर्तेऽपि लग्नवर्त्तनात् , नालिकायवादिभेदेन च भावभेदा नेया यावत् परमनिरुद्धसमयवर्त्तनेति । एकस्मिन्नन्यथा, एकस्मिन्नपि काले उत्पातादिवर्तनाद्भावभेदव्यभिचार इति चेन्न, कालदोषभावात् , उत्पातोपघातस्यापि कालकृतत्वात् , कस्यचिद्भावस्य व्यक्त्युपघातात् कालेऽपि शुनो मैथुनाभाववत् , तस्य व्याधिकालमरणकालादीनां तथाभावात् । 10 तस्मादेव मुहूर्तजातानामपि पुरुषाणां तन्मात्रभेदप्रभेदस्वामिभृत्यादिभावभेदा अनुमा तव्या धूमादग्निवत् , तस्यैव च व्यापित्वात् , तथा युगपदेव पश्यतां विश्वदृश्वनामर्हतां प्रवचने कालज्ञानमवितथं दृश्यते, अद्यतनेऽपि केषुचित् पुरुषेषु । अतिसौक्ष्म्याचास्य तज्ज्ञानाभिमुखानां कचिद्वचनविसंवदनमपि दुरुपलक्ष्यत्वात् , छद्मस्थानां ज्ञेयानन्त्यादज्ञानबहुत्वाज्ज्ञानपरिमितत्वाच्च। 15 (तस्मादेवेति) तस्मादेव-आवलिकादिस्वरूपवर्त्तनाभेदादेव मुहूर्तजातानामपि पुरुषाणां तन्मात्रभेदप्रभेदस्वामिभृत्यादि, कश्चित्स्वामी कश्चिद्भत्यो भवतीति जन्मकालभेदाभावभेदा अनुमातव्याः धूमादग्निवत् , आदिग्रहणात् सुरूपकुरूपसुभगदुर्भगप्राज्ञाप्राज्ञादिभावभेदाः, तस्यैव च व्यापित्वात् , चशब्दात् प्रभविष्णुत्वाच्च, एवं हि कालकारणस्य प्रभुता व्यापिता च, यत एतद्वर्त्तना आवर्तपरिवर्तभेदेष्वभेदा । तथा तथा युगपदेव पश्यतां विश्वदृश्वनामर्हतां प्रवचने कालज्ञानमवितथं प्रमाणीभूतं तद्विषयं 20 सुषमायामवसर्पिण्यामादौ सुखभूयिष्ठता ततोऽन्ते सुखदुःखसमता भावभेदाश्च मनुष्यलोकवत् , तिर्यग्लोकवदुःषमायामधर्मकुमार्गगमनभूयिष्ठता आहारभयमैथुनपरिग्रहसंज्ञाधिक्यात् , दुःषमदुःषमायान्तु प्रचुरदुःखरूपता नरकलोकवद्भावभेदा इति । न. तावदेकस्यां समायामेकप्रकार एव भावभेदः, अपि तु संवत्सरभेदात् सुभिक्षदुर्भिक्षादिभावभेदा भवन्तीत्याह-किश्चान्यदिति। नन्वेकस्मिन्नपि कालेऽन्यकालीयभावभेदानामपि दर्शनाट्यभिचार इत्याशङ्कते-एकस्मिन्निति, एकस्मिन् काल इत्यर्थः अन्यथा-अन्यभावभेददर्शनादित्यर्थः, अमुमेवार्थ स्फुटीकरोति-एकस्मिन्नपीति । समाधत्ते-कालदोषेति, कालस्यैव 25 दोषेण तथाभावादित्यर्थः, कालेन विना कस्याप्यवर्तनात् उत्पातादिदोषाणामपि तेनैव भावात् , एकं प्रति तत्कालस्यानुकूलत्वेऽप्यपरस्य दोषरूपत्वसम्भवात् , इतरेषां तत्कालस्य मैथुनयोग्यत्वेऽपि शुनां तदनुगुणाभावादिवेति भावः । अत एवैकमुहूर्तस. म्भूतानामपि लमादिभेदसम्भवेन खामिभृत्यादिवलक्षण्यसम्भव इत्याह-तस्मादेवेति, एकस्मिन् स्थूलकालेऽपि सूक्ष्मकालमेदादेवेत्यर्थः । तन्मात्रेति, मुहूर्त्तादिकाले लमनालिकादिभेदप्रभेदैः स्वामिभृत्यादिभावभेदोऽनुमीयत इति भावः। तस्यै वेति-कालस्यैव प्रभुत्वाद्विभुत्वाच्चेत्यर्थः। एवंविधकालविज्ञानं भगवतोऽहत एव, तदीयप्रवचन एव च कालज्ञानं यथार्थ 30 दृश्यते, अद्यतनेष्वपि केषुचित् पुरुषेषु प्रवचनमहिनैव कालयथार्थज्ञानं दृश्यत इत्याह-तथेति । कालस्य व्यापित्वमेवाह यत इति, जलोद्धरणसमरिघट्टयंत्रावर्तनसदृक्षाः परावर्त्तमानकालस्य पुनः पुनर्वसन्तादिभावेनावृत्तयः ताभिरयं विभुस्तथा कालमुखप्रेक्षित्वाद्भावानामसो प्रभुरुन्मजननिमज्जनादिक्रीडाः सम्पादयन् वर्तमानादिरूपवैचित्र्येण स्वसामर्थ्याध्यासित. मात्मभेदमुपदर्शयतीति भावः। नन्वर्हतां प्रवचने कालज्ञानमवितथमित्युकं तन युक्तं तदुक्ते कचित्कालज्ञाने तथा काले तथा 2010_04 Page #317 -------------------------------------------------------------------------- ________________ कालज्ञानम् ] न्यायागमानुसारिणीव्याख्यासमेतम् २६७ दृश्यतेऽद्यतनेऽपि केषुचित् पुरुषेषु कलिबलमलीमसप्रज्ञेष्वपि । स्यान्मतं कचिद्विसंवाददर्शनात् कालज्ञानाप्रामाण्यमित्येतच्चायुक्तम् , अतिसौक्ष्म्याचास्य तज्ज्ञानाभिमुखानां कचिद्वचनविसंवदनमपि, प्रणिहितधियामपि पुंसां कचिज्ज्ञानविसंवादात् कालसौक्ष्म्यात्, दुरुपलक्ष्यत्वात् , किं कारणं, ? छद्मस्थानां ज्ञेयानन्त्यादज्ञानबहुत्वात् ज्ञानपरिमितत्वाच सर्वस्य सरागस्य ज्ञानादज्ञानं बहुलमिति । तथा च 'केसि णिमित्ता नियया भवंति केसिं च णं विप्पडिएति णाणं', अत एव । साशवं मत्वाऽऽहुरन्ये प्रसह्य यथा 'कालः पचति' इत्यादि । ये पुनर्विनिश्चितधियस्ते प्रसविं वदन्ति तद्यथा 'काल एव हि भूतानि कालः संहारसम्भवौ । स्वपन्नपि स जागर्ति कालो हि दुरतिक्रमः' इति ॥ (तथा चेति) तथा च 'केसि णिमित्ता नियया भवंति केसिं च णं विप्पडिएति णाणं' । अत एव साशङ्कमत्वाहुरन्ये न विनिश्चितं प्रसह्य यथा 'कालः पचति' इत्यादि, भूतानां वर्तनात्म-10 कात् कालादन्यत्वाभ्युपगमादनन्यत्वेन कालवर्त्तनात्मकत्वेनैव न विनिश्चितं तथा प्रजानामन्यत्वेन संहरणं सुप्तानां जाप्रतां वा तदन्यत्वेन निर्देशादविनिश्चितत्वात् साशङ्कमेव भेददर्शनानुपातेनोक्तत्वात् । ये पुनर्विनिश्चितधियस्ते प्रसदैवं वदन्ति तद्यथा-'काल एव हि भूतानि' भूतत्वेन कालस्यैव वर्तनात् , 'कालः संहारसम्भवौ' । यथोक्तं प्राक् रूपादयो न केचित् कालमन्तरेणेति, भूम्यादिब्रीडादिवदात्मन्येव संभवसंहारक्रिये इति च बन्धसंसाराविति वचनाञ्च स्वपन्नपि स जागर्ति-स एव स्वपिति ।। जागर्ति च, न तु स्वपन्यो जाप्रद्यो वा व्यतिरिक्तः कश्चित् , ते वा, ततः स्वप्रभेदक्रमसहवृत्तिमात्रत्वाजाप्रत्स्वपदवस्थायाः, सुप्तवृत्त्याऽऽविर्भूतात्मनस्तस्यैव कालस्य जाप्रवृत्त्याऽभिव्यक्तविक्रमत्वात् , कचित् क्रमेण भेदवृत्तिविजृम्भितत्वात् सामान्यवर्तनस्य सुप्तविबुद्धादिवप्रभेदेष्वव्याघातात् । इति कालकारणवादो विधिविधिविकल्प एष समाप्तः। विधफलाद्यनुदयेन विसंवाददर्शनादित्याशङ्कते-स्यान्मतमिति । कालस्यात्यन्तसूक्ष्मतया प्रणिहितमतेरपि छद्मस्थस्य पूर्णतया 20 तद्विज्ञानाभावादेव क्वचिद्विसंवादो नान्यथेत्युत्तरयति-अतिसौम्यादिति, क्षीणसकलदोषस्य भगवतो वचनस्य वितथार्थस्वाभावात् तद्वचनात् कालज्ञानमविसंवाद्येव परन्तु छद्मस्थानामम्माकमज्ञानबहुत्वेन ज्ञेयानामानन्त्येन च न यथावत्परिज्ञानमिति तद्वक्तृणामस्माकमेवात्र दोषो न तत्कालज्ञानस्येति भावः । अत्र प्रमाणमाह-केसिं इति । केषां निमित्ता नियता भवन्ति केषाञ्चन विप्रतिपद्यते ज्ञानमिति छाया। कालाद्भूतादीनामन्यत्वानन्यत्वयोनिर्णयविरहिणां वचनमाह-अत एव साशङ्कमिति, 'कालः पचति भूतानि कालः संहरते प्रजाः। कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः' इति (आव० ४०) कारिका, 25 अत्र भूतप्रजादीनां कालादन्यत्वेनोक्तेः कालवर्तनाव्यतिरेकेण निश्चयाभावादविनिश्चितत्वम् , निश्चतधियस्तु वर्तनाव्यतिरेकेण वदन्ति न तु व्यतिरेकेण यथा 'काल एव हि भूतानि कालः संहारसम्भवौ । खपन्नपि स जागर्ति कालो हि दुरतिक्रम' इति, इममेव भावमाचष्टे-ये पुनरिति यथोक्तमिति, अवगमितद्रव्यक्षेत्रभावात्मान इत्यत्र, तथा पृथिव्यादिव्रीह्यादिवृत्तिविवृत्तीत्यादिदृष्टान्तपूर्वकं कालस्यात्मन्यनात्मस्वात्मनि चेति पूर्वोक्तदान्तिकान्थेन संहारसम्भवक्रिययोः कालात्मताया विनिश्चितत्वादिति भावः । खपजाप्रदवस्थे कालस्वरूपे एव न तद्व्यतिरिक्ते, सुप्तवृत्त्याऽऽविर्भूतकालस्यैव जाग्रवृत्त्याऽभि- 30 व्यक्तरित्याह-न तु स्वपझ्य इति, खपजाप्रदवस्थयोर्व्यतिरिक्तो न कश्चिदास्ते, न वा कालव्यतिरिक्त ते अवस्थे किन्तु कालप्रभेदक्रमसहवृत्तिमात्ररूपे एवेति भावः । सहवर्तनमेवाह-सुप्तवृत्त्येति । क्रमवर्तनमाह-कचिदिति । अथ विधिविधि ____ 2010_04 Page #318 -------------------------------------------------------------------------- ________________ २६८ द्वादशारनयचक्रम् [विधिविध्यरे अथ खभा व वादः तद्विकल्प एव स्वभाववादोऽधुना ननु तैः सर्वैर्वादैः स्वभाव एव भवतीति भाव्यते, द्रव्यार्थप्रसवात् , यत् पुरुषादयो भवन्ति स तेषां भावः, यथा सर्वे भावाः स्वेन भावेन भवन्ति स तेषां भाव इति वचनात्, । येन येन भावेन यो भवति स तस्य भावस्तत्त्वम् , ततश्च तत्र ते भवन्तीति ते भवनस्य कर्तृत्वमनुभवन्ति, ज्ञानस्वातंत्र्यनियमवर्तनात्मकं तत्त्वमिति वदभिः स स स्वभाव एव परिगृ. हीतो भवतीति कारणान्तरपरिकल्पना व्यर्था । ननु तैः सर्वैरित्यादि, ज्ञः स्वतंत्रश्च पुरुष एव भवतीति, स्वातंत्र्ये सत्यपि ज्ञाज्ञरूपारूपक्रियाक्रियादिनियमान्नियतिरेवेति, सर्वत्र वर्त्तनतत्त्वः प्रभुविभुत्वाभ्यां काल एव भवतीति, एतैर्वादै10 नंनु स्वभाव एव भवतीति भाव्यते, भवन् भाव्यतेरेव प्रतिपाद्यते, किं कारणं ? द्रव्यार्थप्रसवात् , यत् पुरुषादयो भवन्ति स तेषां भावः, यथा सर्वभावाः खेन भावेन भवन्ति स तेषां भाव इति वचनात् , येन येन भावेन यो भवति स तस्य भावस्तत्त्वमात्मीयो भावः स्वभाव इत्यनान्तरम् , ततश्च तत्र ते भवन्तीति तदात्मनाऽभिसम्बध्यन्ते, पुरुषादीनामात्मानो भवन्ति तैर्भूयते यथास्वमिति भावेन तेषामभिसम्बन्धः, ते भवनस्य कर्तृत्वमनुभवन्ति, ज्ञानस्वातंत्र्यनियमवर्तनात्मकं तत्त्वमिति वदद्भिः 16 स स स्वभाव एव परिगृहीतो भवति, एवञ्च स्वभावपरिग्रहे सति कारणान्तरपरिकल्पना व्यर्थेति । अत आह तथा च स्वभावे सर्वस्वभावात्मनि भवति कर्तरि सिद्धे के ते पुरुषादयः? कि तैर्विना स्वभावस्य न प्रतिप्राप्तं कार्यम् । तथा च खभावे सर्वेत्यादि यावत् के ते, सर्वभावानां पुरुषादीनां खं खं भवनमात्मा 20 यस्य सोऽयं सर्वस्वभावात्मा तस्मिन् स्वभावे भवति-भवनस्यानुभवितरि कर्तरि-स्वतंत्रे भवति भवतेर्वा कर्तरि सिद्धे स्वभावे सिद्धस्यासाध्यत्वात् सिद्धौदनवदर्थान्तरनिरपेक्षिते तैरेव वादैः प्रतिपादिते के ते पुरुषादयः ? न ते भवन्तीत्यर्थः, किं तैर्विना स्वभावस्य न प्रतिप्राप्तं कार्यम् । स्यान्मतं तेषां स्वो भाव इति तानपेक्षत इति तदयुक्तम् , तेषामपि हि स्वत्त्वं स्वभावाविकल्पमेव खभाववादमभिदधाति-तद्विकल्प इति । तैः सर्वैर्वादैरिति, पुरुषनियतिकालवादैरित्यर्थः । एतमेवाह-श 25 इति । पुरुषनियतिकालानामपि तत्तद्रूपेण भवनात् तथा भवनखभावत्वात् सर्वैर्वादैः स्वभाव एव समर्थितो नान्यः कश्चिदिति • स्वभाव एव कारणं नान्यत् , न हि ते खेन खेन भावेन भवनाभावे आत्मलाभ लभन्त इति खभावस्तैरपि प्रतिपन्न एवेति भावः। द्रव्यार्थप्रसवादिति, द्रव्यरूपात् पुरुषादेनिखिलानामर्थानां प्रसवव्यावर्णनादित्यर्थः। यदिति, यस्मादित्यर्थः यस्मात् पुरुषादयो भवन्ति स पुरुषादीनां भावः खेन स्वेन भावेनैव सर्वेषां भवनात् तच्च भवनं तेषां तत्त्वम् , तदेव च स्वभाव उच्यते खकीयभावत्वात् , तत्त्वं हि तेषामसाधारणो धर्मः, तदभावे हि ते न भवेयुरेव, अतस्तत्त्वं तेषामात्मा, तस्मात् पुरुषवादिना 30 ज्ञानस्वातंत्र्यस्य नियतिवादिना नियमस्य कालवादिना वर्तनस्य तत्त्वव्यावर्णनात् ते ते खभावा एव परिगृहीता इति स्वभावेनैव कार्योपपत्तौ तदितरकारणान्तरपरिग्रहो वृथैवेति भावः । पुरुषादीनां व्यर्थतामाविर्भावयति-तथा चेति, सर्वेषां भावानां तेन तेन भावेन भवनमेव ह्यात्मा, तस्यैव भवनस्य सर्वभवनानुभवितुः स्वतंत्रकर्तुः सिद्धखभावस्यापरानपेक्षस्य तैस्तैर्वादिभिरपि प्रतिपादितत्वात्तव्यतिरिक्तानां पुरुषादीनामभ्युपगमो वृथा, खभावासाध्यस्य पुरुषादिसाध्यस्य कस्याप्यभावादिति भावः। ननु खभावो धर्मविशेषः धर्मश्च न धर्मिव्यतिरेकेण भवितुमर्हतीति पुरुषादयो धर्मिरूपेणापेक्षिता एवेति शङ्कते-स्यान्मतमिति। 2010_04 Page #319 -------------------------------------------------------------------------- ________________ समावसूलता] न्यायागमानुसारिणीव्याख्यासमेतम् पादितमेव, ते ह्यात्मानः स्वे, तद्भावः स्वत्वं तद्धि स्वात्मभिरेव, अन्यथा त एव न स्युरनात्मत्वात्, घटपटवत् , एवं पुरुषादयोऽप्यात्मानात्मत्वादात्मानो न स्युः खपुष्पवत् । (स्यान्मतमिति) स्यान्मतं तेषां स्वो भाव:-आत्मीयः स्वभाव इति तानपेक्षत इत्येतच्चायुतम् , यस्मात् तेषामपि स्वत्वं स्वभावापादितमेव, ते ह्यात्मानः स्वे, तद्भावः स्वत्वं तद्धि तेषां स्वत्वं पुरुषादीनां केनापादितं ? स्वात्मभिरेव, यद्येवं स्वो खो भावः स्वभावः, परस्परविविक्तः स्वभाव एवे-5 त्यापादितं स्वात्मभिरेव तत् , अन्यथा-यदि तदात्मत्वं तेषामात्मभावापादितमेव न स्यात् ततस्ते त एव न स्युरनात्मत्वात् , घटपटवत्, यथा घटः पटानात्मत्वात् पटो न भवति, पटोऽपि घटानात्मत्वाद्धटो न भवति, एवं पुरुषादयोऽप्यात्मानात्मत्वात् आत्मानो न स्युन स्युरेव वा, अनात्मत्वात् खपुष्पवत् । ___ तस्य स्वभावकारणत्वस्य व्याप्तिप्रदर्शनार्थमाह एवमेवैतदवश्यमत्रैव स्वभावव्यतिरिक्तार्थाभावात् तत्र तत्र स्वभावानतिक्रमात्स्वभावा एवेति सर्वैकत्वमभिन्नं वर्ण्यत इति स्वभावः प्रकृतिरशेषस्य । एवमेवेत्यादि, इत्थमेवैतदवश्यमत्रेव तत्र तत्र-यथा स्वभाववादे स्वभावानतिक्रमात् स्वभाव एवेत्यभिन्नम् , स्वभावव्यतिरिक्तार्थाभावात् , तस्य चामिन्नत्वात् , तथा तत्र तत्र पुरुषनियतिकालादिवादेऽप्युक्तविधिना पुरुषादिस्वभावानतिक्रमात् सर्वैकत्वमभिन्नं तद्भावत्वादेव वर्ण्यते, ज्ञात्मभवनस्य 10 नियमात्मभवनस्य वर्तनात्मभवनस्यान्यस्य च तस्य तस्य स्वभावादेव वर्णनात्, इतिशब्दो हेत्वर्थे, अस्मादुक्तहेतोः स्वभावः प्रकृतिरशेषस्य, योनिर्बीजं प्रभवः कारणमित्यर्थः। किश्चान्यत् पुरुषादीनाञ्च स्वत्वे सत्त्वानपोहात्तुल्ये काल एव भवनात्मा न पुरुषादय इति न . स्वभावाहते सिद्ध्यति तत्स्वतत्त्वस्य सत्त्वाविनाभावात् । पुरुषादीनाश्च स्वत्व इत्यादि द्रव्यार्थस्य कश्चिदपरित्यज्य वृत्तेः नयानां पूर्व विरोधित्वादु 20 धर्मिणोऽपि सत्त्वं न धर्मव्यतिरेकेणेति, धर्मबलादेव धर्मिणः सत्त्वात् खभाव एव मुख्य इत्युत्तरयति-तेषामपीति । तेषामपि-पुरुषादीनां खत्वमपि खभावापादितमेव, तत्र खं हि आत्मा पुरुषादिः तद्भावः खत्वं तच्च खत्वं पुरुषादीनां खात्मभिरेवापादितम् , तथा च धर्माः खखरूपेणैव भवन्ति नान्यापेक्षया, यदि ते धर्मात्मानः खभावाः स्वात्मनैव न भवेयुस्तर्हि तेऽनात्मत्वात्त एव .. न स्युः यथा घटः पटानात्मत्वात् पटो न भवति, एवं पुरुषादयोऽपि आत्मानात्मत्वात् आत्मानो न भवन्ति, अथ वाऽनात्मत्वात्ते 25 न स्युरेव खपुष्पवदिति । यद्वा धर्माणामात्मा धर्मी, तदभावे धर्मा एव न स्युः यश्चात्मा स एव खभावः, तथा धर्मिणामपि धर्म आत्मा, तदभावे धर्मिणो न स्युरिति सर्वेषां स्वभाव एवात्मा प्रधान कारणमिति भावः । सर्ववादेषु खभावस्यैव कारणत्वं वर्ण्यत इत्याह-एवमेवेति, इत्थमेवेत्यर्थः, अत्रेव-स्वभाववाद इव दृष्टान्तमेव सङ्कटयति-यथा स्वभाववाद इति यथा खभाववादे खभावमनुल्लंघ्याशेषं प्रत्येकस्यैव खभावस्य कारणत्वं तद्व्यतिरिक्तार्थाभावाद्वर्ण्यते तथैव तत्र तत्र पुरुषादिवादेषु तत्तत्वभावानतिक्रमेणैव सर्वैककारणत्वोपवर्णनात् खभाव एवैकं कारणमित्युपवर्णितमेव भवतीति भावः । उक्तार्थमेव 30 प्रकाशयति-पुरुषेति । पुरुषवादाभिप्रायेण ज्ञात्मभवनस्येति, नियतिवादापेक्षया नियमात्मभवनस्येति, कालवादाश्रयेण वर्तना. त्मभवनस्येति । पुरुषादीनाञ्चेति, पुरुषनियतिकालानां खत्वं स्वः स्खो भावः, स च सर्वत्र समानः पुरुषादीनां भेदेऽपि द्रव्यार्थाभिप्रायेण खभावस्य सर्वत्र कश्चिदप्यपरित्यज्य वृत्तेः, पुरुषादिनया एव पूर्वपूर्वं तत्त्वं विरोधात् परित्यज्योत्तरोत्तर 2010_04 Page #320 -------------------------------------------------------------------------- ________________ २७० द्वादशारनयचक्रम् [विषिविध्यरे प्रानुवृत्तेश्च कालस्य पुरुषाधपरित्यागेन वृत्तिं तावदर्शयति-कालवादे हि पुरुषादीनां स्वत्वं सत्त्वानपोहात , कथं सत्त्वमनपोढम् ? संसायनादित्वाभ्युपगमात् पुरुषसत्त्वम् , तस्मिन्नेव काले नियतेरप्यात्मत्वं सत्त्वानपोहात् सत्त्वानपोहश्च युगपदयुगपन्नियतार्थाभ्युपगमात्, एवं कालवादे नियतिपुरुषयोः सत्वाभ्युपगमः, तथा पुरुषवादे नियते: कालस्य चात्मत्वं सत्त्वानपोहात्, कथं सत्त्वानपोहः ? 6 मुक्तिक्रमाभ्युपगमात् कालसत्त्वानपोहः, अवस्थानियमाभ्युपगमान्नियतिसत्त्वानपोह इत्यादि, एवं नियतिवादे कालपुरुषयोः स्वत्वं-आत्मत्वं सत्त्वानपोहात्, कालसत्त्वानपोहोऽनाधनन्ता नियतिरिति कालसत्त्वाभ्युपगमात् तां सम्प्रपश्यन सर्वज्ञ इति पुरुषसत्त्वाभ्युपगमात् । एवं द्रव्यार्थस्य सर्वत्र सर्वसत्त्वात् स्वभाव इत्युदाहो भवति, तत्र सत्त्वानपोहात् स्वत्वे तुल्ये काल एव भवनात्मा न पुरुषादय इति न स्वभावाहते सिद्ध्यति, तत्स्वतत्त्वस्य सत्त्वाविनाभावात् । कालोदाहरणन्तु कालवादि10 दूषितपुरुषादिवादानामपि तद्दूषणेन दूष्यत्वात् तत्प्रतिपादनवत् प्रतिपाद्यत्वाच, यथोक्तं 'समनन्तरानुलोमाः पूर्वविरुद्धा निवृत्तिनिरनुशया' इति । कालवाद्याह न, अतुल्यत्वात् सत्त्वस्य, कालस्यैवैकस्य व्रीहिवत्तथा तथा भवनात् , पुरुषादेश्च पृथक् पृथक् भिन्नभावात्मभवनात् । 15 (नेति) न, अतुल्यत्वात् सत्त्वस्य, कालसत्त्वपुरुषसत्त्वयोरन्योऽन्येनातुल्यत्वात् , कथम तुल्यत्वं? कालस्यैवैकस्य व्रीहिवत्तथा तथा भवनात्, पुरुषादेश्च पृथक् पृथक् मिनभावात्मभवनात्, यथा ब्रीहिरेवैको मूलाङ्कुरादिभावेन भवति तथा काल एव तथा तथा वर्तनात्मा भवति ब्रीहिवत् मूलाङ्कुरादित्वेन तथा पुरुषादयो मिनभावात्मभवनादिति । अत्रोच्यते20 नन्वेवमपि कालस्यैव नान्यस्येति कारणकार्यनियमात्मा स एव तस्य स्वभावः।। नन्वेवमपि कालस्यैव नान्यस्येति, कालस्यैव भवनं न पुरुषादेरिति वचनात् सुतरां गृहन्ति, न तु द्रव्यार्थ इति भावः । तत्र कालस्य पुरुषाद्यपरित्यागेन वर्तनमाचष्टे-कालवादे हीति, अनादिसंसारखभावपुरुषाभ्युपगमात् , पुरुषसत्त्वस्याङ्गीकारे पुरुषखत्वं सिद्धमेवेति भावः । सहक्रमनियतार्थाभ्युपगमानियतिसत्त्वसिद्धौ नियतेरप्यात्मत्वं सिद्धमेवेत्याह-तस्मिन्नेवेति । पुरुषवादेऽपि कालनियत्योर्वर्तनमाह-तथेति । नियतिवादे कालपुरुषयोः स्वत्व25 माह-एवमिति । अनाघनन्तेति, सेयं व्यवस्थिता नियतिसंततिरनाद्यनन्तेत्यभ्युपगमात्तत्र कालसत्त्वमनपोढमेवं तामेवासौ नियतिमखिलां पश्यन् सर्वज्ञो भवतीत्युक्तेश्च पुरुषस्वत्वमप्यनपोढमिति तत्सत्त्वाविनाभावी तयोः खभावोऽप्यस्तीति भावः। इत्थं प्रत्येक पुरुषादिवादेषु कालादिखत्वस्य द्रव्यार्थस्य वृत्तः खभाव इत्यभ्युपगतो भवति. तथा च काल पुरुषादय इत्यभ्युपगमोऽपि कालस्य तथाविधखभावव्यतिरेकेण न सम्भवतीति स्वभावनिराकरणं तद्वादिनां दुराग्रह एवेत्याशयेनाह-एवमिति । कालस्यैवोदाहरणतयोपादाने हेतुमाह-कालोदाहरणन्त्विति, कालवादिना दूषिता ये पुरुषादिवादा30 तेषां कालदूषणेनैव दूष्यत्वात् , कालस्य प्रतिपादनवद्वा तेषां प्रतिपाद्यत्वाच तुल्यत्वादित्यर्थः । पुरुषादेर्न कालतुल्यतेत्याशते-नातुल्यत्वादिति, वर्तनालक्षणकालस्य तेषु तेषु भावेष्वस्खलद्वृत्तित्वात् , पुरुषादेस्तु न तथा, अचेतनतयापि भावात्, रूपादिपृथिव्यादिरूपताभ्युपगमात् , अथवा कालस्यैव भिन्नात्मभवनरूपः पुरुषोऽपि, अतः पुरुषसत्त्वं न कालसत्त्व. तुल्यमिति भावः । भवतु नाम सत्त्वमतुल्यम्, तथापि कालस्यैवासौ पुरुषो भवनात्मा, कालस्यैव सर्वकारणत्वाभ्युपगमात्, एवञ्च कालपुरुषयोः व्रीह्यकुरादिवत् कारणकार्यनियमाभ्युपगमादपि खभाव एव सिझ्यतीत्याह-नन्वेवमपीति, ननु पुरुषा 2010_04 Page #321 -------------------------------------------------------------------------- ________________ समावसापनम्] न्यायागमानुसारिणीम्यास्यासमेतम् २७१ कालस्यासौ भवनात्मेति स्वभाव एव परिगृहीतो भवति, यथा च त्वयोच्यते सत्वाचल्यता कालस्यैव श्रीह्यादिवदडरादिवञ्च पुरुषादीनां भवनमिति, तथा च पुरुषादीनां कारणकार्यनियमादपि चैव स्वभावः परिगृह्यते । कालः कारणं ब्रीह्यादिवत् कार्य पुरुषादयोऽङ्करादिवदिति । नियमात्मा स तस्य स्वभाव इति स एव स्वभावः परिगृह्यते परैः, पूर्वत्र सत्त्वस्य हेतुत्वेन विवक्षितस्य स्वत्त्वाविनाभावित्वेन भावना, इह सिद्धस्यैव स्वभेदेऽप्यभेदेन व्यवस्थितस्य सामान्यविशेषव्यवहारप्रसिद्धिभावनेति । विशेषः। ____ कालस्यैव तत्त्वाद्विभागाभावात्सामान्यविशेषव्यवहाराभाव एवेति चेदेवमपि स एव स्वभावः। व्यवहारप्रत्याख्याने च प्रागभिहितकालास्तित्वानुमानप्रत्याख्यानदोषः। यदपि च कालानुमानं युगपदयुगपद्वृत्त्योच्यते तदपि स्वभावानुमानमेव सम्पद्यते । युगपदयुगपद्वर्तनातिरिक्तस्य कस्यचिदभावादुद्देश्यनिर्देशार्थ घटरूपादि व्रीह्यङ्करादि चोदाहृतं तस्योद्देश्यस्य 10 निर्देश्यस्य च भावस्य तेन तेनात्मना भवनादेव तु स्वभावोऽभ्युपगतः। कालस्यैव तत्त्वादित्यादि, यावदभाव एवेति चेत् , स्यान्मतं भवतः त्रैकाल्यैककूटस्थत्वात् कालस्यैव तत्त्वात् कालवादे कारणं कार्यमिति विभागाभावादसौ सामान्यविशेषव्यवहाराभाव एव, मिथ्यात्वश्चास्य व्यवहारस्यासद्विषयत्वादिति चेत्, एवमपि स एव स्वभावो भवतीति वाक्यशेषः, कालस्यैव हि स स्वभावो यदसौ भवतीति स्वभावपरिग्रहः । किश्चान्यत् व्यवहारप्रत्याख्याने प्रागमिहित-15 कालास्तित्वानुमानप्रत्याख्यानदोषः, तद्यथा-पूर्वादिव्यवहारलब्धकालाभावश्चैवम् , अपूर्वादित्वात् , नियतिवत् , यथा पूर्वापरादिकारणकार्यव्यवहाराभावान्नियतिर्नास्तीत्युच्यते तथा कालोऽपि तदभावानास्तीति प्राप्तम् । यदपि च कालानुमानं युगपदयुगपद्वृत्त्या घटरूपादीनां ब्रीह्यड्डुरादीनाञ्चोच्यते तदपि स्वभावानुमानमेव सम्पद्यते, यस्मायुगपदयुगपदित्यादि युगपद्वर्तनात् क्रमवर्तनाचातिरिक्तस्य कस्यचिदभावात् काल एवेत्युद्देश्यनिर्देशार्थ घटरूपादि ब्रीह्यकुरादि चोदाहृतं तस्योद्देश्यस्य । निर्देश्यस्य च भावस्य 20 तेन तेनात्मना भवतो भवनादेव, तुर्विशेषणे स्वभावोभ्युपगत इति दर्शनार्थम् । ___ अथवा नैतद्युक्तिगम्यमेव स्वभावकारणं तथा च दृश्यते तेष्वेव तुल्येषु भूम्यवादिषु हेतुषु भिन्नात्मभावः प्रत्यक्षतोऽपि, कण्टकादि मूलतः क्रमहीनतनुरायतादि, पुनस्तदेव तीक्ष्णादिभूतम्, न पुष्पादि तादृग्गुणं, तच्च वृक्षादीनामेव, तत्रापि बब्बुलादीनामेव, न न्यग्रोधादीनाम् । दीनां खत्व इत्यादिप्रन्येनास्य पौनरुत्यमविशेषादित्याशङ्कायामाह-पूर्वति। तत्र हि सत्त्वं खत्वाविनाभावीत्युक्तम् , अत्र 25 च पुरुषादीनां खत्वस्य पुरुषभेदेऽप्यभेदेन सिद्धस्यैव कालपुरुषादीनां कार्यकारणभावेन व्यवस्थापितानां खभावभेदाद्विशेषरूपतेति सामान्यविशेषरूपतया तस्य विचारः कृत इति भावः । ननु कथं सामान्यविशेषव्यवहारः, तत्त्वभूतस्य कालस्य कूटस्थनित्यत्वेन विभागाभावात्, कारणमिदं कार्यमिदमित्यादिलोकव्यवहारस्य मिथ्याभूतत्वाचेत्याशहते-कालस्यैवेति । तथाभ्युपगमेऽपि खभावो दुरपह्नव एव, तथाभूतता कालस्यैव नान्यस्यैति खभावं विनाऽसम्भवादित्युत्तरयति-एवमपीति । कालस्य कूटस्थनित्यत्वेन व्यवहारस्य पूर्वापरादेरसद्विषयत्वे कालसिद्धिरेव न भवेत् , पूर्वापरादिव्यवहारनियामकतया हि भवद्भिः पूर्व 50 कालः साधितः, तदसद्विषयत्वे तत्कयं स्यादित्याह-व्यवहारेति । घटरूपादिबीयारादीनां सहक्रमभाविनां सहक्रमभावित्वं कालेनैव भवति, अतः कालसिद्धिरित्यपि न स्यात् , सहक्रमभावित्वस्य स्वभावादेवोपपत्तरित्याह-यदपिचेति। एतदेव साधयतियुगपदिति । उद्देश्येति, उद्देश्यस्य कालस्य निर्देशार्थ प्रकाशनार्थ घटरूपादियुगपद्वर्तनं बीगहुरादिक्रमवर्तनश्चोदाहृतं तचो. 2010_04 Page #322 -------------------------------------------------------------------------- ________________ २७२ द्वादशारनयचक्रम् [विधिविध्यरे " (अथवेति) अथवा नैताक्तिगम्यमेव स्वभावकारणम् , तथा च दृश्यते तेष्वेव तुल्येषु भूम्यबादिषु हेतुषु मिन्नात्मभावः प्रत्यक्षतोऽपि कण्टकादि, कण्टकस्य मूलतः क्रमहीनतनुरायतादि, आदिग्रहणात् पत्राङ्कुरादिसंस्थानवर्णादि भिन्नात्मभावः पुनस्तदेव-कण्टकादि तीक्ष्णादिभूतं-तीक्ष्णं तीक्ष्णतरं कुण्ठं कुण्ठतरं सविषं निर्विषमित्यादि, न पुष्पादि ताहग्गुणं सुकुमारादिस्वभावं सुरभिदुर्गन्धादिखभा• वञ्च । तच्च वृक्षादीनामेव-तञ्च कण्टकादि वृक्षवल्लीपादपानामेव, तत्रापि बब्बुलादीनामेव न न्यग्रोधादीनाम् । न वैषां मयूरचन्द्रकादीनां पक्ष्यादीनां न वा बर्हिणां पारावतादीनां कण्टकादि । तथा मयूराङ्गकबर्हादीनामेव पञ्चवर्णतावैचित्र्याणि । अत्राह च- 'कः कण्टकानां' इत्यादि, 'केनाञ्जितानि' इत्यादि। 10 मयूराङ्गकेत्यादि यावद्वैचित्र्याणि, बर्हादीनामेव पञ्चवर्णता नोदकादीनाम्, नान्यदपि च मयूरादिबर्हाण्येव विचित्राणि न शुकादिबर्हाणीति । अत्राह चेति, पूर्ववजिनवचनानुसारेणैव, कः कण्टकानामित्यादि, केनाञ्जितानीत्यादि, गतार्थे वृत्ते । इतर आह.. यदि स्वभाव एव कारणं किं कारणं न स्वभावमात्रादेव भूम्यादिद्रव्यविनिर्वृत्तिनिर16 पेक्षा कण्टकाद्युत्पत्तिर्भवेत् ? किञ्च कारणमन्यथापि न स्यात् सोऽपि कण्टकः किमर्थ कदाचित् किञ्चिद्विध्यति किञ्चिच्च नेति चेन्न, भूम्यादिस्वभावानपेक्षोत्पत्तिदर्शनात् स्वभावाव्यभिचाराच्च, तद्यथोत्पातादिष्वकण्टकानां वृक्षादीनां कण्टकाः, कण्टकिनाञ्चाकण्टका दृष्टाः उत्पातादिस्वभावनियमवशादप्यनपेक्षितद्रव्यकालादिरपि कण्टकाद्युत्पत्तिदृष्दैव । - यदि स्वभाव एव कारणमित्यादि यावत् किश्चिञ्च नेति, अर्थान्तरव्यपेक्षोत्पत्तिदर्शनान्न 20 स्वभाव एव कारणमास्यकवलप्रक्षेपवत् , दृष्टा च कण्टकादेरुत्पत्तिर्भूम्यादिद्रव्यविनिर्वृत्तिव्यपेक्षवा द्देश्यस्य निर्देश्यं यद्धटरूपादि तस्य स्वभावादेव भवनात् स्वभाव एवाभ्युपगन्तव्य इति भावः । न केवलं युक्तिमात्रगम्य स्खभा. वकारणत्वमपि तु प्रत्यक्षगम्यमपि तुल्यादपि कारणकलापात् कार्यवैचित्र्यस्य प्रत्यक्षतो दृष्टस्य तथाविधविचित्रखभावव्यति. रेकेणानुपपत्तेरित्याह-अथवेति, कण्टकादीति, कण्टको हि आयतोऽनुक्रमं हीनतनुर्भवति, सोऽपि नैकविध एव, किन्तु कोऽपि तीक्ष्णः कोऽपि तीक्ष्णतरः कोऽपि कुण्ठः कोऽपि कुण्ठतरः कोऽपि सविषः कोऽपि निर्विषश्च भवति । तदपि कण्टकादि 25 वृक्षादिषु बब्बुलादीनामेव भवति न त्वन्यत्रेति तत्र नियामकश्च खभाव एवेति भावः । निदर्शनान्तरमाह-मयूराङ्गकेति । कः कण्टकानामिति, कः कण्टकानां प्रकरोति तैक्ष्ण्यं विचित्रतां वा मृगपक्षिणाञ्च । खभावतः सर्वमिदं प्रवृत्तं न कामचारोऽस्ति कुतः प्रयत्नः ॥ इति पूर्णः श्लोकः । तथा 'केनाजितानि नयनानि मृगागनानां को वा करोति रुचिरागरूहान् मयूरान् । कश्चो. त्पलेषु दलसन्निचयं करोति को वा करोति विनयं कुटजेषु पुंसु॥इति चननु खभावस्यैव कारणत्वे तस्यार्थान्तरनिरपेक्षकारण. वाद्भूम्यम्ब्वादिवस्त्वन्तरापेक्षा कण्टकादीनां न स्यात्, दृश्यते च तेषां तदपेक्षेत्याशङ्कते-यदि स्वभाव एवेति भूम्या30 देव्याणां विनिर्वृत्तिः-परिणामस्तस्मान्निर्गताऽऽपेक्षा यस्या उत्पत्तेस्तादृशी कण्टकादेरुत्पत्तिर्भवेदिति विग्रहार्थः । कुतो वा कारण व्यतिरेकेणापि कण्टकादेरुत्पत्तिर्न स्यात् खभावस्यैव कारणत्व इत्याह-किश्चेति । अर्थान्तरेति, स्वभावव्यतिरिक्तार्थान्तरापेक्षकार्योत्पत्तिदर्शनेन न खभावस्येव कारणत्वं, दृश्यते हि अन्नादेस्तृप्तिकारणत्वेऽपि मुखकवलप्रक्षेपापेक्षयेव तस्य तृप्तिजनकत्वं नान्यथेति भावः। कण्टकाधुत्पत्तभूम्यादिद्रव्यपरिणामापेक्षाया दुर्निवारायाः खभावमात्रकारणत्वे व्यर्थता स्यादित्याह-दृष्टा ___ 2010_04 Page #323 -------------------------------------------------------------------------- ________________ समावाश्यकता] न्यायागमानुसारिणीव्याल्यासमैतम् २७३ नपह्नवनीया, सा च न स्याद्भूम्यादिद्रव्यनिर्वृत्तिव्यपेक्षोत्पत्तिः, स्वभावादेव स्वभावस्यार्थान्तरनिरपेक्षकारणत्वात् , यदि च स्वभाव एव कारणं किं कारणं न स्वभावमात्रादेव भूम्यादिद्रव्यवि. निर्वृत्तिनिरपेक्षा कण्टकाचुत्पत्तिर्भवेत् ? किञ्च कारणमन्यथापि न स्यात्-भूम्याद्यन्तरेण निर्वृत्तिः कण्टकस्य न स्यात् , किं वा कण्टकस्य सौकुमार्य कुसुमस्य वा तैक्ष्ण्यश्च न स्यात्, सोऽपि कण्टकः किमर्थ विध्यति, कुसुमं किं न विध्यति, किमर्थश्च कदाचिद्विध्यति तीक्ष्णोऽपि, सर्वकालं किं न विध्यति । कण्टकः, किमर्थं किंचिदेव विध्यति न सर्वम् , तमपि किञ्चित्कचिदेव प्रदेशे विध्यति, न सर्वत्रेत्यत्र विशेषहेतुर्याच्यः, दृष्टश्चायं नियमोऽर्थान्तरापेक्षः, स तु स्वभावस्यार्थान्तरनिरपेक्षत्वान्नोपपद्यत इत्यत्रोच्यते-न, भूम्यादिस्वभावेत्यादि यावदृष्टैव, यदुच्यते भूम्यबादिद्रव्यविनिर्वृत्त्यपेक्षा चोत्पत्तिदृष्टेयेतन्न, अनपेक्षोत्पत्तिदर्शनात् स्वभावाव्यभिचाराच स्वभाव एवेति मन्तव्यम् , तद्यथा-उत्पातादिष्वकण्टकानां वृक्षादीनां कण्टका:, कण्टकिनाश्चाकण्टका निध्यादिलिङ्गत्वेन दृष्टाः । यथोक्तम् 'अकण्टकाः 10 कण्टकिनः कण्टकाश्चाप्यकण्टकाः । विपर्ययेण दृश्यन्तो वदन्ति निधिलक्षणम्' इति । इत्थं सत्यामपि भूम्यादिद्रव्यनिर्वृत्तौ कण्टकाभावादसत्यामपि एतद्रव्यकालादिनिर्वृत्तौ कण्टकदर्शनाच नापेक्षाऽस्ति स्वभावस्य, किन्तूत्पातादिस्वभावनियमवशादनपेक्षितद्रव्यकालादिरपि दृष्टैव कण्टकाद्युत्पत्तिर्न पुनस्तत्स्वभावमन्तरेण सोत्पत्तिरस्तीति खभाव एवाव्यभिचाराद्व्यापित्वाच्च कारणमेषितव्यम् । किश्चान्यत् 15 अपि च भूम्यवादिद्रव्यविनिर्वृत्त्यपेक्षैव कण्टकनिर्वृत्तिरिति ब्रुवता ननु सैव स्वभावसिद्धिस्त्वयैव वय॑ते, भूम्यादिभ्य एव कण्टको भवतीति तत्स्वभाववर्णनात् , अन्यथा स्वभावात् किमन्यदत्र शक्यं वक्तुं कारणम् ?, तेषां तत्तत्स्वाभाच्यात् । अपि चेत्यादि, अपि च त्वया भूम्यबादिद्रव्यविनिर्वृत्त्यपेक्षैव-भूम्यादीन्येव वृक्षत्वेन कण्टकद्रव्यत्वेन तैक्ष्ण्यादित्वेन च निवर्तन्ते तत्संयोगनिर्वृत्त्यपेक्षा कण्टकनिर्वृत्तिरिति ब्रुवता ननु सैव 20 खभावसिद्धिस्त्वयैव वर्ण्यते । किं कारणम् ? भूम्यादिभ्य एव-भूम्यम्बुक्षेत्रबीजाङ्कुरादिद्रव्यनिर्वसिभ्य एव कण्टको भवतीति तत्स्वभाववर्णनात् , अन्यथा स्वभावात् किमन्यत्र शक्यं वक्तुं कारणम् ? भूम्यम्बुक्षेत्रबीजाङ्करादिभ्य एव कण्टको भवति न मृत्पिण्डादिभ्य इत्येव तेषां स्वभाव इति स्वभावस्यैव समर्थनं तदपि तेषां तत्तत्स्वाभाव्यात् । चेति । वैपरीत्यं कुतो न स्यादित्याह-किंवा कण्टकस्येति । कण्टकस्य वेधनखभावत्वेऽपि किमर्थ नरादीनां पादादेः क्वचि-25 देव प्रदेशे विध्यति न तूष्यादेः, खभावस्य सर्वत्र समानत्वात् , तस्मादीदृशप्रसङ्गभञ्जनाय विशेषहेतोरवश्यवाच्यतया स्वभावमात्रकारणत्वं व्याहतमेव भवेदित्याह-सोऽपि कण्टक इति । स्वभाववादी समाधत्ते-भूम्यादीति, कण्टकाद्युत्पत्तिर्हि न भूम्यादिद्रव्यपरिणाम मियमेनापेक्षते, उत्पातादौ तादृशपरिणामविशेषविरहेऽपि तदुत्पत्तिदर्शनात्, तथाविधपरिणामविशेषसद्भावेऽपि कण्टकाधुत्पत्त्यदर्शनाचान्वयष्यतिरेकव्यभिचारात्, न ह्यन्वयध्यतिरेकव्यभिचारेऽपि तदपेक्षत्वं केषामपि सम्मतम् , खभावविशेषस्य तु न कापि व्यभिचारो दर्शयितुं शक्य इति स एवाव्यभिचारित्वाझ्यापित्वाच्च कारणं भवितुमर्हतीति भावः । 30 किश्च भूम्यवादिद्रव्यपरिणामापेक्षयव कण्टकाद्युत्पत्तेरभ्युपगमेऽपि तथाखभावस्यैव कारणत्वं सेत्स्यतीत्याह-अपि चेति, तत्र हेतुमाह-भूम्यादिभ्य इति । तत्संयोगेति । भूजलतेजआदिसंयोगेत्यर्थः । अन्यथा स्वभावादिति, स्वभावव्यतिरेकेणात्र विषये किमन्यत् कारणं भवितुमईति, नैव भवितुमर्हतीति भावः । तदपि, तथा खभावसमर्थनमपीत्यर्थः, अथ द्वा. न.३५ ___ 2010_04 Page #324 -------------------------------------------------------------------------- ________________ [विधिविध्यरे किचान्यत्---- यथा पृथिव्यादिविश्वथा भावः पुरुषप्रयत्ननिरपेक्ष एव भवति, एवं निमित्तानामपि घटपटाद्युत्पत्तौ निमित्तता स्वाभाविकीति तत्कुत उत्पत्तिरिति सा प्रतिवस्तु स्वभाव एव, वयः क्षीरादिवत् । २७४ द्वादशारनयचक्रम् 5 यथा पृथिव्यादीत्यादि यावन्निमित्तानामपि निमित्तता स्वाभाविकीति, यथैवायं विश्वथासर्वथाऽनेकप्रकारं बीजाङ्कुरादिक्रमनिर्वृत्तिः कण्टकादिः पृथिव्यादिश्च भावः पुरुषप्रयत्ननिरपेक्षोऽप्रयत एव भवति । अथवा पृथिव्यादीनामेव प्रागभिहितन्यायेन वृक्षघटादिस्वभावाभ्युपगमात् यथा स्वभाव एव एवं निमित्तानामपि घटपटाद्युत्पत्तौ पुरुषकारसाध्याभिमतायां मृत्पिण्डदण्डचक्रसूत्रोदककुलालादिनिमित्तानां निमित्तता सापि स्वाभाविकी, ततो न स्वभावव्यतिरिक्तं किञ्चित् एवञ्च सर्वस्य 10 स्वाभाविकत्वेन तत्कुत उत्पत्तिरिति, १ या प्रागुक्ता त्वया भूम्यादिद्रव्यविनिर्वृत्त्यपेक्षैवोत्पत्तिरिति सा कुतः ? नास्त्येव, कारणं तस्मान्नास्ति, प्रागेवाभिव्यक्तेः विरचितलीनावस्थत्वात् तस्मात् सा - उत्पत्तिः प्रतिवस्तु स्वभाव एवायम्, वस्तु वस्तु - प्रतिवस्तु, स्वो हि भावः स्वभावः इति निरुक्त्या प्रतिवस्त्वात्मीयं भावमाचष्टे, वयः क्षीरादिवदिति दृष्टान्तः, यथा बाल्यकौमारादिवयोऽवस्थाः पूर्वविरचिता एवाविर्भवन्ति, यथा क्षीरदभ्युदस्विन्नवनीत घृतावस्थास्तथा घटादयो निमित्तस्वभावापेक्षाभिव्यङ्ग्यविर15 चितस्वभावा आविर्भवन्ति । यदि वाऽसौ नेत्थं स्यादुत्तरत्रापि न भवेदेवाभूतत्वात्, वन्ध्यापुत्रवत्, एवं मृदादिषु सतामेव घटादीनां निमित्तापेक्षस्वभावैवोत्पत्तिर्नाकाशादिषु । दृष्टा घटादीनां क्रियाया उत्पत्तिरिति चेन्न, प्रागनभिव्यक्तेः । यदि वाऽसावित्यादि यावद्वन्ध्यापुत्रवत्, यदि वाऽसावुत्पत्तिः स्वभावोऽस्मदभिहितो 20 न स्यादित्थं - पूर्वावस्थायामिव तत उत्तरत्रापि न भवेदेव, अभूतत्वाद्वन्ध्यासुतवत् । अस्यैवार्थस्य भाव - नार्थमाह-एवं मृदादिष्वित्यादि गतार्थं यावन्नाकाशादिषु । दृष्टा घटादीनां क्रियाया उत्पत्तिरिति चेत्--- स्यान्मतं दृष्टविरुद्धमुक्तं त्वया विद्यमानानां घटादीनां निमित्तापेक्ष स्वभावैवोत्पत्तिरिति, क्रियाया एव पृथिव्यादीनां यथा बीजाङ्कुरादिक्रमिकभावात्मना कण्टकादिभावेन भवनं पुरुषप्रयत्ननिरपेक्षेण प्रयत्नव्यतिरेकत एव दृश्यते, उपादानोपादेयभावाभ्युपगमेऽपि तेन तस्यैव भवनं नान्यस्येति स्वभावादेव नियमस्तथा पुरुष प्रयत्नसाध्यत्वाभिमतघटपटाद्यु25 त्पत्तिनिमित्तानामपि दण्डचत्रसूत्रोदककुलालतन्तुवायादिनिमित्तानां निमित्तत्वमपि खभावादेव, अन्यथाऽन्येषामपि निमित्तत्वप्रसङ्गः, इत्थं सर्वत्र स्वभावस्यैव नियामकत्वे तस्यैव कारणत्वौचित्येना पर कारणाभ्युपगमो व्यर्थ एवेत्याह-यथा पृथिव्यादीत्यादिना । एवञ्च सर्वस्य स्वाभाविकत्वे सिद्धे भूम्यादिद्रव्यविनिर्वृत्त्यपेक्षयैव कण्टकोत्पत्तिरिति त्वया प्रागुक्तं न समीचीनम्, भूम्यादिद्रव्यविनिर्वृत्तेः कारणत्वाभावादित्याह - तत्कुत इति । तस्मात् सोत्पत्तिः प्रतिवस्तु आत्मीयो भाव एव, कार्यत्वाभिमतानां कारणत्वाभिमतेषु कारणव्यापारात् प्रागप्यवस्थितत्वात् केवलं कार्यत्वाभिमतानामभिव्यक्तावेव कारणत्वाभिमतानां 30 प्रयोजकत्वात् बाल्यादिवयोवत्, क्षीरदध्यादिवदिति न काप्युपपत्तिर्न किमपि कारणमिति भावः । नास्त्येवेति, उत्पत्तिरेव नास्तीत्यर्थः, अत एव कारणमपि किमपि नास्तीति भावः । प्रागेवेति, कण्टकादेः कारणव्यापार पूर्वमपि सत्त्वात् कारणानां तदभिव्यञ्जकत्वादिति भावः । दृष्टान्तं सङ्गमयति-यथेति । वैपरीत्ये बाधकमाह-यदि वाऽसाविति । ननु कारणेषु पूर्वमविद्यमानस्यैव घटादेः दण्डचक्रकुलालादिव्यापारोत्तरकालमुत्पत्तेर्दर्शनाद्वस्तुस्वभावत्ववर्णनं दृष्ट विरुद्धमित्याशङ्कते - स्यान्मतमिति । स व्यापारो न घटोत्पत्तौ निमित्तमपि तु तदभिव्यक्तावेव, अतस्तयापारात् पूर्वं घटादिरनभिव्यक्तो यथाऽपवरक 2010_04 Page #325 -------------------------------------------------------------------------- ________________ २७५ अनभिव्यक्ताग्रहणम् ] न्यायागमानुसारिणीव्याख्यासमेतम् कुलालस्य घटादेरर्थस्योत्पत्तेर्दर्शनादित्येतञ्च न, प्रागनभिव्यक्तेः-क्रियायाः प्राक् सोत्पत्तिरनभिव्यक्ता, अपवरकघटवत् प्रदीपेन क्रिययाऽभिव्यज्यते नोत्पाद्यत इत्यदोषः। सा सत्यग्रहणनिमित्ताभावे स्वभावादेवेति, त्वयैवाभ्युपगतत्वादतिसन्निकृष्टमतिविप्रकृष्टं व्यवहितं वाऽञ्जनमन्दरादि चक्षुरादिना न गृह्यत इति यथा स स्वभावस्तथायमपीति किं न गृह्यते । ... (सेति) सा सत्यर्थेऽनभिव्यक्तिरग्रहणनिमित्तानामत्यासन्नविप्रकृष्टव्यवहितसमानाभिहाराभिभवसौम्येन्द्रियदौर्बल्यमनोवैयग्र्यपित्तोपघातादीनामभावे सति किमर्थं भवतीति चेन्मन्यसे वयमत्र ब्रूमः स्वभावादेवेत्यादि यावञ्चक्षुरादिना न गृह्यते, नचास्माभिरेव तद्वक्तव्य स्वभावादेव ग्रहणहेतुषु सत्स्वपि सतोऽर्थस्यानभिव्यक्ती स्वभाव एव कारण मिति, कस्मात् ? त्वयैवाभ्युपगतत्वात् , अतिसन्निकृष्टमतिविप्रकृष्टं व्यवहितं वा चक्षुरिन्द्रियरूपमञ्जनमन्दरादि न गृह्णात्यत्यन्तमित्यत्र केन त्वयैतत् 10 कारणेन प्रतिपन्नमिति पृष्टेनावश्यं स्वभावादिति वक्तव्यम् , अयं हि चक्षुषः स्वभावो यदतिसन्निकृष्टमञ्जनादि न प्रपश्यति, अतिविप्रकृष्टं वा मेर्वादीति । शेषेन्द्रियाणामपि स्वभावादेवातिविप्रकृष्टाद्यग्रहणं स्वविषयनियमश्चेति । किश्चान्यत् , यथा स स्वभावस्तथायमपि-यथा चक्षुषादीन्द्रियाणामात्मनोऽत्यन्तमतिसन्निकृष्टाद्यग्रहणं स्वभावस्तथाऽनभिव्यक्ताग्रहणं स्वभाव इति किं न गृह्यते । किश्चान्यत् 15 __ यथैतत्तथा किञ्चिदत्यन्तानुपलब्धिस्वभावमेव भवत्यात्मादि, तत्र न सन्त्यात्मादयोऽर्थी इति वृथैव विवदन्ति शाक्यादयः, तन्न पुरुषकामचारप्रवृत्त्यादिभ्यः किञ्चिदपि निर्वर्त्तते, किन्तु भूम्यबादिनीयङ्कुरादिमृद्धटाद्यभिव्यक्त्यनभिव्यक्तिस्वभावम् , वस्तुत्वात्तदात्मत्वात् , तन्न कुतः कस्यचिदर्थिनोऽप्येवं वा विपर्यय एव वाऽऽरम्भक्रियानिवृत्तयः । स्थितो घटादिः, ततश्च व्यापारेणानन्तरं सोऽभिव्यज्यते दीपेनेव घटादिरित्युत्तरयति-प्रागनभिव्यक्तेरिति।ननु कुतो घटादे: 20 प्रागनभिव्यक्तिर्ग्रहणहेतूनां सद्भावेऽपि, अग्रहणहेतोरभावादियाशंक्य समाधत्ते-सा सतीति, अग्रहणनिमित्तानामत्यासन्नत्वादीनामभावे सति साऽनभिव्यक्तिः खभावादेव भवति, यथा विद्यमानमपि वस्तु अतिसनिकृष्टत्वादिदोषतश्चक्षुरादिना न गृह्यते इत्येतन्नियमो ग्राह्यग्राहकाणां खभावात्तद्वदिति भावः । अत्यासन्नेति, लोचनस्थमजनादि अतिसामीप्यान्न गृह्यते, वियत्युपतन् पतत्री सन्नप्यतिदूरतया प्रत्यक्षेण नोपलभ्यते, कुड्यादिव्यवहितं राजदारादि न गृह्यते, समानाभिहारः-सजातीयपदार्थमिश्रणम् , यथा तोयदविमुक्तानुदबिन्दून् जलाशये न पश्यति, अहनि सौरीभिर्भाभिरभिभूतं प्रहनक्षत्रमण्डलं न दृश्यते, 25 इन्द्रियसमिकृष्टं परमाण्वादि सौक्ष्म्यात् प्रणिहितमनसापि न गृह्यते, विद्यमानमपि रूपरसादि इन्द्रियदौर्बल्यान्न गृह्यते, कामाधुपहितमना मनस इतरव्यासङ्गेन स्फीतालोकमध्यवर्तिनमिन्द्रियसन्निकृष्टमप्यर्थ न गृह्णाति, पित्तादिनोपहितमिन्द्रियं विद्यमानमपि शंखादौ धावल्यं न गृह्णातीति वस्तूनां विद्यमानानामप्यग्रहणनिमित्तान्येतानि भाव्यानि । मयैव तथानभिव्यक्ती कारणं स्वभाव इति नोच्यते, किन्तु त्वयाऽपि तथाऽभ्युपगत एवेत्याह-न चास्माभिरिति । कथमभ्युपगतं मयेत्यत्राह-अतिसन्निकृष्टः मिति । अतिसन्निकृष्यदेरग्रहणे यथा खभावो नियामकस्तथाऽनभिव्यक्तस्याप्यग्रहणे खभाव एव नियामक इति । यथैषा प्राग् घटादेरनभिव्यक्तिः खभावस्तथैवात्मादेरत्यन्तमनुपलब्धिरपि तथाखभाव एवेत्याह-यथैतदिति। . एवं स्वभावादेव तस्यानुपलब्धेः शाक्यादयो तथाखभावमविद्वांसो वृथैव नास्त्यात्मादिरिति विवदन्तीत्याह-तत्रेति । तथा च सर्वेषां खभावहेतुकत्वात् पुरुषात् तद्बुद्धेः तदिच्छायास्तत्प्रयत्नाद्वा न किश्चिदपि निर्वर्तते व्यभिचारादित्याह-तन्नेति । भूम्यवादीति, भूम्यबादौ व्रीयङ्करादेः मृदि घटादेः कदाचिदनभिव्यक्तिः कदाचिच्चाभिव्यक्तिरिति स्वभाव एव, तथा 2010_04 Page #326 -------------------------------------------------------------------------- ________________ २७६ द्वादशारनयचक्रम् [लिपिविण्यो (यथेति.) यथैतत्तथा किश्चिदत्यन्तानुपलब्धिस्वभावमेव भवत्यात्मादि-आत्माकाशकालदिगादयः कार्यत एव नित्यानुमेयाः पदार्थाः सौम्याद्वायेन्द्रियाविषयास्तत्स्वभावगः, तत्र नास्थात्मा नास्ति कालो धर्माधर्माकाशदिगादयो वाऽर्था न सन्तीति वृथैव विवदन्ति शाक्यादयः स्वभावभेदमविद्वांसः । तस्माद्यदुच्यते त्वया क्रियातो घटादि निर्वर्त्तत इति तन्न पुरुषकामचारप्रवृत्त्यादिभ्यः 6 किश्चिदपि निर्वर्त्तते, पुरुषात् तदिच्छातः तत्प्रवृत्तेः-तत्प्रयत्नाद्वीर्यादित्यर्थः, आदिग्रहणात्तबुद्धिनृप खामिनियोगादिभ्यः, सर्वत्र व्यभिचारदर्शनात् । किं तर्हि ? भूम्यबादिव्रीह्यङ्करादिमृद्धटाघभिव्यक्तयनभिव्यक्तिस्वभावम् , स्थैर्यादिः पृथिव्यादिस्वभाव एव, वस्तुत्वात्तदात्मत्वात्, यथाऽऽपो द्रवाः, स्थिरा पृथिवी चलोऽनिलो मूर्तिहीनमाकाशमुष्णोऽग्निरित्यादिषु स्वभाव एव, तन्न कुतः कस्यचिदर्थि नोऽप्येवं वा विपर्यय एव वाऽऽरम्भक्रियानिवृत्तयः? आपो द्रवा भवन्तु स्थिरा पृथिवी चलोऽ10 निलोऽग्निरुष्णो वियदमूतं भवस्वित्येवमर्थिनोऽपि पुरुषस्य नारम्भो न चेष्टा न च निर्वृत्तिर्वा तथा विपर्ययेऽपि मा भूद्रवं जलं स्थिरा भूश्चलोऽनिलोऽग्निरुष्णो मूर्तिमानाकाश इत्यारम्भः क्रिया निवत्तिर्वा, स्वभावस्यान्यथाकर्तुमशक्यत्वात् , एवं घटादिष्वपि योज्यं स्वाभाविकत्वम् । तथा चाहुः "चित्रकः कटुकः पाके वीर्योष्णः कटुको रसे। तद्वदन्ती प्रभावात्तु विरेचयति सा नरम् ॥ इति, प्रभाव इति स्वभावपर्यायत्वाद्रसादेरपि स्वभावत्वात् स एव 16 तथा तथा वण्यते इति, तस्मात् कथं घटोत्पत्त्यादि सम्भाव्यते ।। तथा चाहुरिति स्वाभाविकत्वविज्ञापकमाह-चित्रक इति, कटुकरसः कटुकविपाकः उष्णवीर्यश्चित्रकस्तद्वहन्ती कटुकरसा कटुकविपाकोष्णवीर्या, विशेषस्त्वस्याश्चित्रकात् प्रभावेन विरेचयति, प्रभाव इति स्वभावपर्यायत्वाद्रसादेरपि स्वभावत्वात् स एव सामान्यविशेषाभ्यां तथा तथा वर्ण्यत इति । तस्माद्यत्त्वयोक्तं क्रियातो घटाद्युत्पत्तिरिति तत्र पृथिवीमृत्पिण्डशिवकादिक्रमापत्तव्यघटात्मनः 20 स्थैर्यात्मवन्न स्त उत्पत्तिविनाशौ, उक्तहेतुत्वात् , अस्माद्धेतोः कथं घटोत्पत्त्यादि सम्भाव्यते, ? आदिग्रहणाद्वक्ष्यमाणौ विनाशविपरिणामावपि कथं सम्भाव्येते ?, नैव सम्भावनीयं तत्रयमित्यर्थः । स्यान्मतम् कुलालप्रयत्नप्रेरितदण्डचक्रसूत्रोदकमृदादीनां पुरुषाभिसन्ध्यनुरूपघटाद्युत्पत्तिविनाभूम्यादेः स्थिरत्वादिः स्वभाव एव, तेषां तदात्मत्वात् , तथैव वस्तुत्वाच्च, अत एव च भूम्यादीनां स्थिरत्वादिविधानेऽस्थिर25 त्वादिविधाने वा कस्याप्यर्थिनो नारम्भो न वा चेष्टा न च वा निर्वृत्तिरिति भावः । तत्वभावा इति, बाह्येन्द्रियाविषय खभावाः अनुपलब्धिस्वभावाः तेषामतीन्द्रियत्वेनानुमानमात्रगम्यत्वादिति भावः । स्वभाव एवेति, कारणमिति शेषः। भूजलादीनामनुरूपखभावापेक्षयाऽऽरम्भादिवैयर्यमाह-आपो द्रवा इति । भ्वम्ब्वादीनामननुरूपखभावापेक्षयापि आरम्भादिवैयर्थ्यमाचष्टे-तथा विपर्ययेऽपीति । तत्र हेतुमाह-स्वभावस्येति । खभावस्यैव सर्वत्र नियामकत्वे वैद्यकसम्मतकारिकां प्रमाणयति-तथा चाहुरिति । प्रभावशब्दस्य स्वभावार्थतामादर्शयति-प्रभाव इतीति । खभाव एव सामान्य30 विशेषाभ्यामनेकधा वर्ण्यत इत्याह-स एवेति । कारिका व्याचष्टे-कटकरस इति । फलितार्थमाह-तस्मादिति, स्थिरखरूपस्यात्मनो यथा नोत्पत्तिर्न वा विनाशस्तस्य तथाविधखभावत्वात्तथा पृथिवीमृत्पिण्डशिवकादिक्रमेण भवनं घटादेः खभाव इति न तस्य क्रियात उत्पत्तिा विनाशो वा केनापि कत्तुं शक्यत इति भावः । अथ खभावस्यैव केवलस्य कारणत्वे घटादेरुत्पत्त्यादौ पुरुषप्रयत्मदर्शनात् प्रत्यक्षविरोध इत्याशङ्कते-कुलालेति । पुरुषाभिसन्धिः-पुरुषेच्छा, पुरुषो यथा यथा ___ 2010_04 Page #327 -------------------------------------------------------------------------- ________________ पुरुषप्रयासानर्थक्यम् ] न्यायागमानुसारिणीम्याक्यासमेतम् २७७ शविपरिणामफलैः सम्बन्धदर्शनान्न स्वभाव एवेत्येतच्चायुक्तम्, प्रवृत्तिमतां हि स स्वभाव एव, फलस्वभावानुरूपाः प्रवृत्तयोऽत एव व्यवस्थिताः । व्यवस्थितप्रवृत्तिफलस्वभावे भावे पुरुषप्रयासस्तर्ह्यनर्थक इति चेत्सत्यमेतत् प्रयासोऽनर्थकः, इत्थमनर्थकोऽप्यसौ पुरुषस्यास्त्यव स्वभावादेव । (कुलालेति, अयुक्तमिति ) यस्मात् प्रवृत्तिमतां स स्वभाव एव यथोक्तं प्राकू निमि- 5 तानां निमित्तता स्वाभाविकीति, तस्मात्स्वभाव एव । किचान्यत् फलस्वभावानुरूपाः प्रवृत्तयोऽत एव व्यवस्थिताः - स्वभावादेव मृत्पिण्डदण्डादिभिरेव घटो भवतीति ज्ञात्वा चक्रमूर्ध्नि मृत्पिण्डं संस्थाप्य दण्डग्रहणचक्रभ्रमणादिव्यापारा घटफलयोग्याः क्रियास्तदनुरूपा व्यवस्थिताः । तथा तुरीवेमशलाकादिसाधना: सूत्रोपादानतन्तुसन्ताननवापनवयन क्रियाः पटफलस्वभावानुरूपा व्यवस्थिताः । एवं कृषिसेवावाणिज्य परिव्रज्यादिप्रवृत्तयः स्वभावमेव हेतुं समर्थयन्यो दृश्यन्ते लोके व्यवस्थिताः | 10 आसां नाप्युत्कर्षो नाध्यपकर्षः कश्चित् फलानुरूपाः प्रवृत्तयः प्रवृत्त्यनुरूपं फलं तत्र तत्रेति व्यवस्थितफलप्रवृत्तिता स्वभावादेवेति । स्यान्मतं व्यवस्थितप्रवृत्तिफलस्वभावे भावे पुरुषप्रयासस्तनर्थक इति चेत्सत्यमेतदिति, प्रयासोऽनर्थकः - यथा त्वं ब्रूषे तथैव, स्वभावसामर्थ्यादेव प्रवृत्तेर्निवृत्तेश्च फलसिद्ध्यसिद्ध्योरनर्थक एव प्रयास इति त्वया सदोषाभिमतोऽप्ययं पक्षो मया तत्त्वभावभ्रंशभयान्न त्यज्यते, इत्थमनर्थकोऽप्यसौ प्रयासः पुरुषस्यास्त्येव - सन्नेव स्वभावादेव । यथोक्तं- 'स्वभावतः प्रवृत्तानां निवू - 15 तानां स्वभावतः । न हि कर्त्तेति भावानां यः पश्यति स पश्यति ।।' इति, प्रवृत्तिनिवृत्त्योर्भावानां स्वभाव स्वातंत्र्यमेव स हि स्वो भाव आत्मा वस्तूनां प्रवृत्तनिवृत्तानामित्युक्तत्वात् । 1 प्रवृत्तिनिवृत्त्योरानर्थक्ये किंकृता किंफला वा प्रवृत्तिरतः स्वभावानुरूपप्रवृत्तिप्रतिज्ञाव्याघात इति चेन्न, तत्स्वाभाव्यादेव, प्रवर्त्तितव्यमित्येव हि प्रवर्त्तन्तेऽप्रतर्कतो वस्तुनि, अक्षिनिमेषधातुकण्टकादिवत् । मृत्पिण्डादितो यद्यदभिनिर्वर्त्तयितुमभिकांक्षते तथैव तत्प्रवृत्त्या कार्योदय दर्शनादिति भावः । ननु घटपटाद्युत्पत्तौ पुरुष - कारसाध्याभिमतायां मृत्पिण्डदण्ड चक्रसूत्रोदककुलालादिनिमित्तानां निमित्ततापि स्वाभाविकीति पूर्वमेवोक्तत्वात् स्वभाव एव तत्रापि नियामक इत्युत्तरयति - प्रवृत्तिमतामिति । प्रयोजनान्तरमप्यत्राह - फलस्वभावेति, एतादृशफलस्येयमेव प्रवृत्ति - रनुकूला सदृशी वा, नान्येत्यत्र स्वभाव एव नियामक इति भावः, एतमेवार्थं निदर्शनैर्द्रढयति-स्वभावादेवेति । ननु स्वभावादेव यदि फलप्रवृत्त्योर्व्यवस्था तर्हि पुरुषप्रवृत्तेः स्वभावादेव सिद्धौ पुरुषं प्रवर्त्तयितुं क्रियमाणः प्रयासो लोके दृष्टो 25 व्यर्थः स्यादित्याशङ्कते - स्यान्मतमिति । तत्रेष्टापत्या समाधत्ते - सत्यमेतदिति । सत्यमित्यर्धाङ्गीकारे, तत्राज्ञीकृतांशमाख्याति - प्रयासोऽनर्थक इति, तद्विशदीकरोति - यथेति पुरुषप्रयासवैयर्थ्य लक्षणदोषसमाक्रान्ततया त्वयाऽभिमतो - प्ययं पक्षो मया स्वभावविनाशभयान्न त्यज्यते इष्यत एवायं दोष इति भावः । अनङ्गीकृतांशमादर्शयति- इत्थमनर्थको 5पीति, प्रयासस्य व्यर्थत्वेऽपि पुरुषस्य सोऽस्त्येव, तथा स्वभावादेव तस्येति भावः । तदर्थे प्राचां तच्छ्लोकेन सम्मतिमादर्श - यति - यथोक्तमिति भावाः स्वभावेन प्रवर्तन्ते स्वभावेनैव निवर्त्तन्ते न हि कोऽपि कर्तास्ति, एवं यो वेद स एव धीमानिति 30 तदर्थः । अमुमेव भावार्थमाह-प्रवृत्तीति । तदेव समर्थयति स हीति । ननु बुद्धिपूर्व पुरुष प्रवृत्तिनिवृत्त्योरनर्थकत्वे पुरुषस्य प्रवृत्तिनिवृत्ती केन कारणेन किमर्थं वा भवतः, तथा च फलानुरूपाः प्रवृत्तय इत्यभिधानं व्याहतार्थं पुरुषप्रवृत्त्यादेः फलाननुरूपत्वादित्याशङ्कते - प्रवृत्तिनिवृत्त्योरिति । तस्य प्रवृत्त्यादिः स्वभावादेव, न तु केनचित्कारणेन कस्मैचन प्रयोजनाय वा, किन्तु विचारव्यतिरेकेणैव मया प्रवर्तितव्यमित्येव प्रवर्तते यथाऽक्षिनिमेषादिप्रवृत्तिरिति प्रतिविधत्ते - तत्स्वाभाव्यादे 2010_04 20 Page #328 -------------------------------------------------------------------------- ________________ ર૭૮ द्वादशारनयचक्रम् [विधिषिध्यरे .. (प्रवृत्तीति) प्रवृत्तिनिवृत्त्योरानर्थक्ये किंकृता किंफला वा प्रवृत्तिरतः स्वभावानुरूपप्रवृत्तिप्रतिज्ञाव्याघात इति चेन्न व्याघातः, तत्स्वाभाव्यादेव, यस्मात् प्रवर्त्तिव्यमित्येव प्रवर्तन्तेऽप्रतर्कतो वस्तुनि, प्रकृष्टस्तर्कः प्रतर्कः, अनेनोपायेनार्थस्य सिद्धिरिति य ऊहः स तर्कः, न प्रतर्कोऽप्रतर्कोऽप्रतर्कत एव वस्तुनि प्रवर्तितव्यमित्येव प्रवर्त्तन्ते स्वभावादेव, यथा-अक्षिनिमेषधातुकण्टकादिवत् , यथाऽक्षिनिमेषो. उन्मेषावनर्थकावबुद्धिपूर्वी च, पुरुषेणाऽऽहताहारस्य रसरुधिरमांसमेदोऽस्थिमज्जाशुक्रादित्वेन विभजनम् , कण्टकतीक्ष्णभवनश्चेत्येवमादिप्रवृत्तयस्तथा घटादिफलस्वभावानुरूपाः प्रवृत्तयोऽप्रतर्कत एवेति । एवञ्च लोकप्रसिद्धिवशाधदि हेतुतो यद्यहेतुतो यदस्तु तदस्तु. उभयथापि स्वभावानतिवृत्ति, तत्रानादिप्रवृत्तस्वभावकारणमात्मभवनमाविर्भावतिरोभावरूपेणैकं नित्यमिति न तस्योत्पादो विनाशो विपरिणामो वा, ततोऽनादिप्रवृत्तस्वभावकारणव्यत्यासे हिताहितप्राप्ति10 परिहारार्थशास्त्रव्यर्थता, पुरुषस्य क्रियायाः फलस्य च तथाऽस्वभावत्वात् , ततोऽन्यथोत्पादविनाशविपरिणामेभ्यः घटार्थ प्रवृत्तेषु पट उत्पद्येत विनाशार्थं प्रवृत्तेष्वविनाशो विपरिणामार्थ प्रवृत्तेष्वविपरिणामश्चेति स्वभावानियमान्नोत्पादविनाशविपरिणामाः सन्ति । एवञ्चेत्यादि, एवञ्च कृत्वा लोकप्रसिद्धिवशाद्यदि हेतुतो यद्यहेतुतो यथासंख्यं घटकण्टकादि बुद्ध्यबुद्धिपूर्वनिर्वृत्ताभिमतं यदस्तु तदस्तु, उभयथाऽपि स्वभावानतिवृत्ति, एवमेतदात्मभवनमनादि16 प्रवृत्तखभावकारणं जगतः पृथिव्यब्बीजाङ्करादिषु स्थिरद्रवादिस्वभावाविर्भावतिरोभावादिरूपेणैकं नित्यञ्च नोत्पद्यते न विनश्यति न चान्यथा भवतीति प्रतिपत्तव्यम् , उत्पाद विनाशविपरिणामानामनादिप्रवृत्तस्वभावकारणविरोधित्वात् , एवञ्च तत्रानादिप्रवृत्तस्वभावेत्यादि यावद्विपरिणामो वेति, पूर्वपक्ष उत्तानार्थः, उत्तरपक्षस्तु ततोऽनादिप्रवृत्तस्वभावकारणव्यत्यासे इति प्रत्युच्चारणमात्मभवनविपयेये, दोषः हिताहितप्राप्तिपरिहारार्थशास्त्रव्यर्थता-धर्मार्थकाममोक्ष फलप्राप्त्युपायविधानार्थानि तदपाय20 परिहारार्थानि च शास्त्राणि व्यर्थानि स्युः, किं कारणं ? पुरुषस्य क्रियायाः फलस्य च तथाऽस्वभावत्वात्-कर्तृकरणकर्मादिसाधनानां तदङ्गसम्पन्नायाः क्रियाया धर्मार्थकाममोक्षाणामन्यतमस्य तत्फलस्य वाऽन्योऽन्यानुरूपेणानात्मत्वादित्यर्थः, परस्परानुरूपानभ्युपगमेऽन्यथोत्पादोऽन्यथा विनाशोऽन्यथा वेति । तर्कशब्दार्थमाह-अनेनेति । दृष्टान्तमाकलयति-यथेति । उपसंहारमाह-एवञ्चेति, खभावस्यैव सर्वत्र नियाम• कत्वे सिद्धे लोके या बुद्धिपूर्वा दण्डचक्रादिसाधना घटादिप्रवृत्तिः या च निर्हेतुकाऽबुद्धिपूर्वा च कण्टकादि प्रवृत्तिः सा सर्वापि 25 खभावादेव भवति, एवं खरूपतो भवनमानादितः खभावादेव प्रवर्तते, अत एवाविर्भावतिरोभावेण भूम्यबादिव्रीह्यकुरादि मृद्घटादिखभावो नित्य इति नापूर्वतया प्रयत्नादितः कोऽप्युत्पद्यते विनश्यत्यन्यथा भवति वेति भावः। उत्पादविनाशविपरिणामानामभावे हेतुमाह-उत्पाद विनाशेति. अनादित आविर्भावतिरोभावादिरूपेण प्रवृत्तः खभावहेतुकत्वात्तेन सहोत्पादा दीनां विरोधित्वमिति भावः । पूर्वपाठ इति स्यादिति भाति, पूर्वोत्तरपक्षयोरनिर्देशात्, एवमुत्तरपाठ इत्यपि। । अनादिप्रवृत्तेति, यदि आत्मभवने कारणमनादितः प्रवृत्तं खभावरूपं न भवेत्तदा हिताहितप्राप्तिपरिहारप्रयोजनशास्त्रसा30 थक्यं दुरापास्तं भवेत् , यतो धर्मादिफलप्राप्युपायः कदाचिदधर्मादिफलप्राप्युपायोऽपि भवेत् , अतत्वभावत्वादिति भावः। एनमेवार्थमाह-पुरुषस्येति, पुरुषपदविवक्षितमाह-कर्तृकरणेति, क्रियापदार्थमाह-तदङ्गसम्पन्नाया इति, तस्या अङ्गभूतेभ्य कर्तृकर्मादिभ्यः समधिगताया इत्यर्थः । फलपदं व्याचष्टे-धर्मार्थेति । तथाऽखभावत्वपदं व्याख्याति-अन्योऽ. न्येति. परस्परं योग्यखभावताविरहादित्यर्थः । तत्रानिष्टमाह-परस्परेति । तथाऽभावत्वादिति हेतोः समर्थनपर ततोऽन्य 2010_04 Page #329 -------------------------------------------------------------------------- ________________ खभाववैधम् ] न्यायागमानुसारिणीव्याख्यासमेतम् २७९ विपरिणामश्चाननुरूपेणेति यावत् । ततोऽन्यथोत्पादविनाशविपरिणामेभ्य इति पुरुषादिसाधनक्रियाफलानां तथाऽनात्मत्वं समर्थयति-घटार्थं प्रवृत्तेषु-घटोत्पत्त्यर्थं प्रवृत्तेषु पट उत्पद्येत, तद्विनाशार्थ प्रवृत्तेष्वविनाशः, विपरिणामार्थं प्रवृत्तेष्वविपरिणामश्चेति स्वभावानियमानोत्पादविनाश विपरिणामाः सन्ति, यदि स्युरयथाभिप्रेताः स्युः स्वभावानियमादिति स्वभावापरिग्रहे शास्त्राणामर्थवत्ता न युज्यते । - अतः शास्त्रार्थवत्त्वाय घटादेः कारणमन्विष्यमाणं वरमिदमेव कारणं स्वभावः, । तत्कारणं द्विधा प्रतिवस्तु स्व एवाऽऽत्मीय एवात्मैव वा भावः, स चैकोऽपि कर्तृकर्मकरणादिकारकभेदं स्वशक्तिभेदादेव लभते, तद्यथा स एवानुभवति सोऽनुभूयते । - (अत इति) अतस्तस्मात् सिद्धशास्त्राणामनतिशयत्वादनिष्टत्वाचानर्थक्यस्य शास्त्रार्थवत्त्वसिद्ध्यर्थश्च घटादेः कारणमन्वेषणीयं तच्च कारणमन्विष्यमाणं शास्त्रार्थवत्त्वाय वरमिदमेव कारणं स्वभावः, नातोऽन्यद्विमर्शरमणीयतरमस्ति, कुतोऽन्यन्नास्ति ? यत्तत्कारणं स्व एवाऽऽत्मीय एवात्मैव 10 वा भावः, कतमोऽसौ ? सङ्ग्रहेण द्विधा प्रतिवस्तु, जीवाजीवव्यवस्थितो योऽस्ति सभावः य आत्मा स भावः, स्वभाव इति च परभावनिराकरणार्थमुच्यते, यथोक्तं 'किमिदं भंते ! अस्थि त्ति वुच्चति ? गोयमा! जीवा चेव अजीवा चेव' तथा 'किमिदं भंते ! समएत्ति वुश्चति ? गोयमा! जीवा चेव अजीवा चेव ।' (भगवत्याम्) एवमावलिकोच्छासनिःश्वासप्राणस्तोकलवमुहूर्ताहोरात्रकालविभागाः रत्नप्रभादि भूमयो द्वीपा समुद्राः पर्वताद्याश्च नेयाः। स चैकः स्वभावः पूर्ववदशेषनित्यत्वलक्षणयुक्तोऽपि कर्तृकर्मकर- 15 णादि कारकभेदं स्वशक्तिभेदादेव लभते, तद्यथा-स्वसाधनविशेषस्वभावादेव विशेषो भवति, स एवानुभवति स एवानुभूयते, एतद्व्याख्यार्थोदाहरणत्वेन कारकद्वयं कर्त्तकर्मकारकभेदा एव शेषकारकाणि इति प्रदर्शनार्थम् , सोऽनुभवति-कर्मफलं भुले, सोऽनुभूयते-स्वभावभेदेनात्मनैव भुज्यतेऽपि स एव । थोत्पादेत्यादिमूलमित्याह-तथाऽन्यथेति । एवञ्चाभिमतसाधनेभ्योऽभिमतफलानिष्पत्तेरनभिमतफलनिष्पत्तेश्च प्रत्यक्षादिविरोधः शास्त्रानर्थकत्वञ्चेति भावः। तथा च शास्त्रवैयर्थ्यपरिहाराय कार्यस्यानुरूपे कारणे गवेषणीये विचारतो रमणीयतरं खभा-20 वलक्षणमेवानुरूपं कारणं योग्यं नान्यदित्याह-अत इति । स्वभावस्यैव योग्यकारणत्वे हेतुमाह-यत्तदिति, यस्मात् खभावलक्षणं कारणं प्रतिवस्तु द्वैविध्येन वर्तते, आत्मीयेन भावेन, आत्मभावेन च धर्मधर्मिमावेन द्रव्यपर्यायभावेनेति यावत् । सिद्धति, प्रामाणिकशास्त्रेषु निष्फलत्वस्य स्तोकमपि शङ्कितुमशक्यत्वादनिष्टत्वाचेत्यर्थः । शास्त्रार्थवत्त्वेति शास्त्राणामर्थवत्त्वसिद्ध्यर्थमनुरूपमेव कारणं गवेषणीयमिति स च स्वभाव एव युक्त इति भावः । जीवाजीवेति, जीवेऽजीवे च व्यव. स्थितो यो भावः स खः-आत्मीयो भावः ससाखभावो धर्मरूपः, तथा य आत्मा जीवाजीवरूपो भावः स एव खभावो धर्मि-25 रूपः, सर्वं हि वस्तु आत्मीयेनैव भावेन भवति न परभावेनेति भावः। वस्तुद्वैविध्ये आगमं प्रमाणयति-यथोक्तमिति 'किमिदं भगवन् ! अस्तीत्युच्यते? गौतम ! जीवा एवाजीवा एवं' तथा,-किमसौ भगवन् ! समय इत्युच्यते ? गौतम ! जीवा एवाजीवा एवं' इति छाया। अस्तीति समय इति आवलिकेत्यादिप्रतीति विषया जीवा अजीवा वेत्यर्थः। स चात्मभवनलक्षण. खभाव एकोऽपि पूर्ववन्नित्योऽपि शक्तिमेदात् कर्ता कर्म करणं सम्प्रदानमित्यादिमेदं लभत इत्याह-स चैक इति । खसाधनभूतखभावविशेषादेव साध्यखभावविशेष इति दर्शयति-तद्यथेति । स एवेति, स एवानुभवतीत्यनेन खभाव- 30 विशेषस्यैवानुभवनकर्तृत्वमाविष्कृतम्, स एवानुभूयत इत्यनेन च तस्यैव खभावविशेषस्यानुभवकर्मत्वमाविष्कृतम् । कारकद्वयस्यैवोदाहरणे कारणमाह-कर्तृकर्मेति । करणसम्प्रदानापादानादिकारकाणि कर्तृकर्मकारकभेदखरूपाण्येवातस्तरप्रदर्शनेन तेऽपि प्रदर्शिता एवेति, सर्वेषां हि कारकाणां साम्यत्वेन क्रिया साधारणी, ततश्च सर्वेषां तस्याः कर्तृत्वम् , अवान्तरन्यापारविवक्षायान्तु दिरूपत्वम् , उत्तच 'निष्पत्तिमात्रे कर्तृत्वं सर्वत्रैवास्ति कारके । म्यापारभेदापेक्षायां करणत्वादिसम्भवः' इति । सर्वस्य 2010_04 Page #330 -------------------------------------------------------------------------- ________________ २८० द्वादशारनयचक्रम् [विधिविध्यर तस्कथमनुभवत्यनुभूयते चैति तदर्थप्रदर्शनार्थमाह स्वयं द्रव्याण्येव कर्माकर्मत्वस्वभावानि संयुज्यन्ते वियुज्यन्त इति संसारमोक्षौ स्वभावतः, अन्योऽन्यसंयोगवियोगविपरिवर्त्तनेन विपरिवर्त्तमानोऽपि स्वभावात्माऽव्याबाधः साध्यासाध्यद्वैतरूपवदद्वैतरूपत्वात् , यथा कनकाश्मनि सुवर्ण द्विधाऽविर्भवत् क्रियाक्रियाभ्यां 5 तत्स्वभावः, अन्तरेण धातुवादं यथा कनकाविर्भावस्तथा कर्मविवेकस्वाभाव्यादेव भव्यजीवानामात्माविर्भावः, सम्यग्दर्शनादिज्ञानपूर्विकया तु क्रियया कैवल्यप्राप्तिर्धातुवाद क्रिययेव कनकोत्पत्तिः केषाश्चिदनाविर्भाव एव कर्माविवेकस्वाभाव्यात् । खयं द्रव्याणीत्यादि, स्वयमेव द्रव्याणि-आत्मनैव कर्माकर्मत्वस्वभावानि द्रव्याणि संयुज्यन्ते वियुज्यन्ते च, तेषामेव स्वभावभेदानां द्रव्याणां संयोगविभागौ बन्धमोक्षौ देशसर्वविकल्पौ तद्विक10 ल्पविचित्रसुखदुःखजन्ममरणवैषम्ये, तयोः स्वाभाव्येन स एव भवतीति संसारमोक्षौ स्वभावतः । यथा ब्रीहिरेवाङ्कुराउनुभवनात्माऽनुभवत्यनुभूयते च, अन्योन्यसंयोगवियोगविपरिवर्तेन विपरिवर्तमानोऽपि स्वभावात्माऽव्याबाधः, साध्यासाध्यद्वैतरूपवान् स्वजात्यपरित्यागादद्वैतरूपो व्यवस्थित एव सर्वत्र भव्याभव्यजीवराश्योः । को दृष्टान्तः ? यथा कनकाश्मनि सुवर्ण द्विधाऽविर्भवत् क्रियाक्रियाभ्यां तत्स्वभावः, कचिन्नास्येव कनकमिति सोऽपि स्वभावः, तथा केषाश्चित् स्वयमेव कर्मापगमादात्मविशु15 घ्याविर्भावः कैवल्यम्, यथा भरतमरुदेव्यादीनामिति । अत आह तदृष्टान्तत्वेन-अन्तरेणापि धातुबादं कनकाविर्भावस्तथा कर्मविवेकस्वाभाव्यादेव भव्यजीवानामात्माविर्भावः, सम्यग्दर्शनशानपूर्विकया तु क्रियया प्राचुर्येण कैवल्यप्राप्तिर्धातुवाद क्रिययेव कनकोत्पत्तिरिति स्वभाववैचिच्यादेव, तथा केषाश्चिदनाविर्भाव एव कर्माविवेकस्वाभाव्यात् । एवञ्च तदुभयस्वभाववर्णनादात्मानो द्विविधा भवसिद्धिकाश्चाभवसिद्धिकाच, अभ 20 स्वभावरूपत्वे कथं बन्धमोक्षौ भवेतामविशेषादित्यत्राह-स्वयं द्रव्याण्येवेति द्रव्याणि जीवाजीवात्मकानि खात्मनैव कर्मत्वस्वभावभाजि देशसर्वभेदेन संयुज्यन्ते, अकर्मत्वखभावभाजि च देशसर्वभेदेन वियुज्यन्तेऽतः संसारमोक्षौ खभावत एवेति भावः । व्रीहिरेवाकुरखभावेन भवनडरमनुभवति, स एवाडरादिरूपेणानुभूयते चेति दृष्टान्तमादर्शयति-यथा व्रीहिरेवेति। एवं व्रीहिरेव भूम्यवादिसंयोगवियोगाभ्यामडरादिरूपेण विपरिवर्त्तमानोऽपि सर्वत्र खभावस्याबाधितत्वादस्खलवृत्तित्वम् , कर्माकर्मलक्षणद्वैतरूपवानपि खजात्यपरित्यागादद्वैतत्वेन व्यवस्थितः सर्वत्रेत्याह-अन्योऽन्येति । साध्यासाध्येति, भेदवदभेदात्मा खभाव इति भावः तत्र दृष्टान्तमुपदर्शयति-यथा कनकाऽश्मनीति, यस्मिन् धम्यमाने सुवर्णमेति स धातुः त्रिविधः, पापणरसमृत्तिकाभेदात् , प्रच्छन्नरूपेण सर्वोऽपि कृतरूपेणाकृतरूपेण विविधो भवति, एवमात्माविर्भावोऽपि द्विविधो भवन् स्वरूपेणैक इति भावः । क्वचिच्च पाषाणादौ खणाभावोऽपि स्वभावादेवेत्याह-क्वचिदिति । तदेवं दृष्टान्तं विविच्य दान्तिकं विवेचयति-तथेति । यथा धातुवादकियाव्यतिरेकेण क्वचित्कन काविर्भावस्तथा भव्यविशेषस्याकृतक एव कैवल्य लक्षणखरूपाविर्भाव इति भावः । केषां तथाविर्भाव इत्यत्राह-यथेति । केषाश्चिद्धातुवादक्रियया कनकाविर्भाववत् सम्यग्दर्श१० मादिप्रचुरक्रियया कैवल्यलक्षणस्वरूपाविर्भाव इत्याह-सम्यग्दर्शनेति । क्वचित् कनकस्यात्यन्तमनाविर्भाववदभव्यजीवानां कैवल्यात्माविर्भावो नास्त्येवेत्या-ना केषाश्चिदिति । तत्र जीवद्वैराश्यमाख्याति-एवञ्चति भवेन भवैर्वा सिद्धिर्येषां ते भवा-भाविनी सिद्धिमुक्तियेषान्ते भवसिद्धकाः, न भवद्धिका अभवसिद्धिकाश्चेति जीवा द्विविधाः जोवस्य भव्यत्वाभब्यस्वाभ्यतरखभावत्वादितिभावः । ननु भव्यत्वाभब्यत्वयोः खाभाविकत्वे खभावस्थ जीवत्वादिवदुच्छेदासम्भवाभिवाणासम्भवः, 2010_04 Page #331 -------------------------------------------------------------------------- ________________ २८१ 16 भव्यकर्मसान्तता] न्यायागमानुसारिणीव्याख्यासमेतम् व्यजीवकर्मणोः सन्तानस्याव्यवच्छेदस्वभावादनन्तता, भव्यस्य तु विशुद्धिविशेषस्वाभाव्येन व्यवच्छेदात् सान्तता स्वभावादेव । यदि हेतुरन्यो मृग्येत तेनानन्त्यमस्यापि स्यादनादित्वादाकाशवत् । एवञ्च तदित्यादि, एवञ्च कृत्वा स्वभावनयबलेनात्मानो-जीवा द्विविधाः भवसिद्धिकाश्चाभवसिद्धिकाश्चेति, तदुभयस्वभाववर्णनात् । अभव्यजीवकर्मणोरित्यादि, भव्यस्य तु विशुद्धीत्यादि च । गतार्थ वाक्यद्वयम् । अनादेर्जीवकर्मसंतानस्य व्यवच्छेदाव्यवच्छेदौ स्वभावादेवेति नात्र कश्चिद्भव्यकर्मसन्तानसान्ततायामभव्यकर्मसन्तानानन्ततायां वा हेतुश्शक्यो वक्तुमन्यः स्वभावात् । यदि हेतुरन्यो मृग्येत तेनानन्त्यमस्यापि स्यात्, कस्य ? भव्यकर्मसन्तानस्याप्यनन्तत्वं स्यात्, कस्मात् ? अनादित्वादाकाशवत् , स्वभावमनिच्छद्भिरनादित्वहेतुरभ्युपगन्तव्यो जायते, सोऽनिष्ठानन्तत्वसाधनाय भवति । अथाऽऽनादित्वहेतुसद्भावेऽपि तत्सान्ततेष्टौ वाऽऽकाशसान्ततेत्यत आह . 10 तदन्तवत्त्वे आकाशमपि सान्तं स्यादनादित्वाद्भव्यकर्मवत् । अथाप्यस्यानादित्वे सत्यहेतुरन्तो भवति ततो निर्हेतुकत्वहेतुकान्तत्ववद्भव्यकर्मसन्तानस्य निर्हेतुकत्वहेतुकादित्वसिद्धिः कस्मान्न भवतीति स्वभाव एव शरणं कारणवादिनां तदपायस्वभावत्वान्मोक्षस्येति । एवं तावद्भव्यसंसारोच्छित्तावभव्यसंसारानुच्छित्तौ च हेतुवादे चोदिते स्वभावाश्रयेण परिहार उक्त एवं सर्व चोयेष्वतिदेश्यः। (तदिति) तदन्तवत्त्वे आकाशमपि सान्तं स्यादनादित्वाद्भव्यकर्मवदिति-स्वभाव एवान्तत्वे कारणं न हेतुरन्योऽस्ति हेतुवादेन मृग्यमाणः । अथाप्यस्य-भव्यसंसारस्यानादित्वे सत्यहेतुरन्तो भवति-निर्हेतुकोऽन्त इष्यते ततो यथा चास्यानादित्वे संसारस्याहेतुरन्तो भवति तथा तस्य विरोधी पुनर्निर्हेतुकत्वहेतुकान्तत्ववद्भव्यकर्मसंतानस्य निर्हेतुकत्वहेतुकाऽऽदित्वसिद्धिः कर्मसन्तानस्य कस्मान्न भवतीति वाच्यमत्र विशेषकारणं स्वभावाहेतुवादिना, मम पुनः स्वभाववादिनः स्वभाव एव सर्वत्र कारणं 20 व्यापित्वात् , इतिशब्दो हेत्वर्थे, इत्यतः कारणादित्थं स्वभाव एव शरणं कारणवादिनाम् , कथं कृत्वा ? नित्यावसायित्वाद्भव्यत्वस्य, सिद्धस्य च भव्यत्वाभव्यत्वविरहादित्याशङ्कायामाह-अभव्यजीवेति, भव्यजीवस्य कर्मसन्तानोsनादिखभावप्रागभावस्य सान्ततावत् स्वभावादेव व्यवच्छिद्यते, अभव्यजीवस्य तु अनादिस्वभावजीवत्वादिवत्खभावादेव न व्यवच्छिद्यते, न तु कश्चित्तथाभावे स्वभावव्यतिरिक्तो हेतुरिति भावः। कुतः खभावव्यतिरिक्तहेत्वभाव इत्यत्राह-यदि हेतुरिति । यदि तत्र स्वभावो नाङ्गीक्रियते सर्वत्र हेतुरेव नियामक इतीष्यते तर्हि अनादिभावस्यानन्तत्वव्याया भव्यकर्मसंतानस्याकाशवद- 25 नन्तत्वमेव स्यादनादित्वात् , तच्चानादित्वमनिष्टमेवेति खभाव एव नियामकोऽगत्याजीकार्य इति भावः अनादित्वस्य सान्तत्वव्याप्यत्वाङ्गीकारे तु गगनमपि सान्तं भव्यकर्मसन्तानवत् स्यादित्याह-तदन्तवत्व इति, एवञ्च कारणेऽन्विष्यमाणे खभावव्यतिरि'ककारणालाभात् स एव हेतुरभ्युपेय इत्याशयमाह-स्वभाव एवेति अनादेरभव्यकर्मसन्तानस्याहेतुमन्तरेणान्तवत्त्वे सोऽन्तो निर्हेतुको जातः, तथा च तदन्तं प्रति निर्हेतुकत्वमेव हेतुः सम्पन्नः, यथा चास्याभव्यकर्मसन्तानस्यानादेर्निर्हेतुकत्वहेतुकान्तवत्त्वं तथा भव्यकर्मसन्तानस्यापि निर्हेतुकत्वहेतुकादिमत्त्वं कुतो न स्यात्, अन्त एव निर्हेतुकत्वहेतुको भवति न स्वादिरित्यत्र विशे-80 षकारणं खभावकारणत्वमनभ्युपगच्छता भवताऽवश्यं वाच्यम्, न त्वस्ति च किञ्चित् , अस्माकं तु सर्वत्र खभावस्य व्यापकस्य कारणत्वादेव सर्वत्र निर्वाह इत्याशयेनाह-अथाप्यस्येति । खभावकारणवादिनो मम तु भव्यस्यानादिकर्मसन्तानस्यापि सम्यग्दर्शनादिसाध्यतदपायस्वभावमोक्षशालित्वं तस्य तथाविधस्वभावत्वान्न त्वभव्यकर्मसन्तानस्य तस्यानन्तत्वखभावादिति युज्यत इत्याहकथं कृत्वेति । भव्यकर्मसन्तानात्यन्तोच्छेदखभावत्वान्मोक्षस्येत्यर्थः। इत्थं भव्याभव्यकर्मसन्तानविषयकपूर्वोत्तरपक्षप्र द्वा० न० ३६ 2010_04 Page #332 -------------------------------------------------------------------------- ________________ २८२ द्वादशारनयचक्रम् [विधिविध्यरे तदुपायस्वभावो मोक्ष इति-सम्यग्दर्शनादिरत्नत्रयोपायसम्पन्नभव्यकर्मसन्तानात्यन्तोच्छेदस्वभावो मोक्ष इति । एवन्तावद्भव्यसंसारोच्छित्तावभव्यसंसारानुच्छित्तौ च हेतुवादे चोदिते स्वभावाश्रयेण परिहार उक्तः, एवं सर्वचोद्येष्वतिदेश्यः, यथा भव्याभव्यसंसारोच्छित्त्यनुच्छित्योर्विशेषहेतुर्वाच्य इति चोदिते स्वभावादेवेति व्यवस्थोक्ता तथा जीवाजीवरूप्यरूपिसक्रियाक्रियत्वादिविशेषाः कुत इति 5 चोदिते स्वभावादेव तस्य व्यवस्था समाश्रयणीया । स्वभावानभ्युपगमे तु साधनदूषणाभावाद्वादहानं ते प्राप्तम् , यथा पक्षहेतुदृष्टान्तादयः साधनं तद्दोषोद्भावनं दूषणञ्च स्वेन भावेन व्यवस्थितमन्यथा न साधनं न दूषणञ्च स्वभावापेतावयवार्थत्वात् , तस्मात् स्वभाव एव प्रभुत्वविभुत्वाभ्यां कारणं जगतः। खभावानभ्युपगमे त्वित्यादि यावद्वादहानं ते इति, यदि स्वभावो नाभ्युपगम्यते ततः 10 साधनदूषणाभावस्ततो वादत्यागः, तद्यथा पक्षहेतुदृष्टान्तादयः खेन भावेन सम्पन्नाः साधनम् , पक्षः साध्यत्वेनेप्सितोऽविरुद्धोऽनिराकृतः, हेतुः पक्षधर्मः सपक्षे सति विपक्षाघ्यावृत्तः, दृष्टान्तः साध्यानुगतहेतुदर्शनं, असति साध्ये हेत्वसत्त्वप्रदर्शनश्च तद्विपर्यये तदाभास इति साधनं स्वेन भावेन भवति, तत्साधनदोषोद्भावनं दूषणं तदन्यथोक्तिर्दूषणाभास इति च वेन भावेन व्यवस्थितमभ्युपगम्य साधनं - दूषणं तदाभासञ्च विवदिषुरसि संवृत्तः, अन्यथा न साधनं न दूषणञ्च खभावापेतावयवार्थत्वादिति 15 वादत्यागस्ते प्राप्तः, तस्मात् प्रभुत्वविभुत्वाभ्यां स्वभाव एव कारणं जगत इति । एवं तावत्स्वभाववादः । अनया च दिशा शब्दब्रह्मतत्त्वभेदसंसर्गरूपविवर्त्तमात्रमिदं जगदित्यादिकारणवादा भिद्यन्ते संज्ञाभेदात् , ते पुनः सर्वेऽपि परमार्थद्रव्यार्थस्य विधिविधिनयस्य स्वरूपमस्पृशन्त एव प्रवर्तन्ते, संक्षेपेणायं हि सर्वोऽपि यत्तः सामान्यभिन्नस्वरूपोपादानेनैव स्वाभिमतनिराकरणाय भवति भिन्नार्थीभ्युपगमात् । 20 (अनया चेति) अनया च दिशा शब्दब्रह्मतत्त्वभेदसंसर्गरूपविवर्त्तमात्रमिदं जगदिति, यतः 'अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् । विवर्त्ततेऽर्थभावेन प्रक्रिया जगतो यतः' ॥ (वाक्यप० कारः जीवस्यैवारूपित्वं निष्क्रियत्वञ्चाजीवस्यैव रूपित्वं सक्रियत्वं चेत्यादौ भावनीय इत्यतिदिशति-एवं तावदिति । स्वभावानहीकारे दोषान्तरमभिदधाति-स्वभावेति.खेन खेन भावेन व्यवस्थिताः पक्षहेतदृष्टान्तादयः साध्यसाधनसमर्था भवन्ति, नान्यथेति दर्शयति-तद्यथेति । तत्र पक्षादीनां खभावं दर्शयति-पक्ष इति, यो हि साध्यत्वेनेप्सितो न विरुद्धो न निरा25 कृतश्च सोऽयं पक्षस्वभावः साध्यत्वप्रकारकेच्छाविषयत्वं लोकप्रमाणाविरुद्धत्वं तथैवानिराकृतत्वं तदर्थः हेतोश्च पक्षधर्मत्वं सपक्षवृत्तित्वं विपक्षव्यावृत्तत्वञ्च खभावः, दृष्टान्तस्य तु साध्यानुगतहेतुप्रदर्शनविषयत्वं साध्याभावानुगतहेत्वभावप्रदर्शनविषयस्वच खभावः, उक्तखभावानामभावे पक्षादय आभासा भवन्तीति पक्षहेत्वादिसाधनं खेन भावेनैव समर्थ भवति, दूषणमपि तत्साधने दोषोद्भावनस्वभावम् , तद्विपर्यये तु दूषणं दूषणाभासरूपमेव, एवंविधपक्षादीनामभ्युपगमे त्वया खभाववादः स्वीकृत एव, : अन्यथा साधकबाधकाभावाद्वाद एव त्वया कत्तुं न शक्यते, त्वदीयपञ्चावयववाक्यानां स्वभावरहितार्थप्रतिपादकत्वात् तथा 30च खभाव एव सर्वसाधनसमर्थत्वात् सर्वव्यापित्वाच सर्वकारणमिति तात्पर्यार्थः। एवं स्वभावकारणवादं समर्थ्य एवमेव शब्द ब्रह्ममयं जगदिति शब्दब्रह्मवादोऽपि विज्ञेय इत्यतिदिशति मूलकारः-अनयाच दिशेति। स्वभाववादोक्तदिशेत्यर्थः । सर्वेऽपि कारणवादा एते न विधिविधिनयखरूपा इति निराकरोति-ते पुनरिति । अनादीति, यतः सर्वधर्मपरिकल्पनातीतं भेदसंसर्गसेमतिक्रमेण सर्वामिःशक्तिभिः समाविष्ट विद्याविद्याप्रविभागरूपं व्यवहारानुपातिभिर्धर्माधमैः सर्वावस्थास्वनाश्रितञ्च, अत एवाना 2010_04 Page #333 -------------------------------------------------------------------------- ________________ एतनयास्पर्शित्वमेषाम् ] न्यायागमानुसारिणीव्याख्यासमेतम् २८३ कां० १ श्लो० १) इत्यादिकारणवादा भिद्यन्ते संज्ञादिभेदात् । ते पुनः सर्वेऽपि परमार्थद्रव्यार्थस्य विधिविधिनयस्य स्वरूपमस्पृशन्त एव प्रवर्त्तन्ते, यस्मात् संक्षेपेणायं सर्वोऽपि यत्नः सामान्यभिन्नखरूपोपादानेनैव स्वाभिमतनिराकरणाय भवति, तद्यथा-पुरुषवादिनः पुरुषादन्यदवस्तु, अपुरुषत्वाद्वन्ध्यापुत्रवत् तथा नियतेरन्यदनियतित्वात् , वर्तनादन्यदवर्तनात्वात् , स्वभावादन्यदस्वभावत्वाद्वन्ध्यासुतवदवस्त्विति ब्रुवतां पुरुषनियतिकालखभाववादिनामात्मात्मवस्तुनो द्रव्यार्थवृत्तस्य तत्पर-5 मार्थस्य तत्त्वानां सर्वैकत्वनित्यत्वकारणमात्रत्वसर्वगतत्वानां धर्माणां प्रतिपादनार्थमुद्यतानां वादिनां अन्यदवस्त्विति खतो भिन्नान्यार्थाभ्युपगमेनैव तत्प्रतिपादनं नान्यथेति तत्प्रतिपादनार्थो यत्रः सामान्यभिन्नखरूपोपादानमन्तरेण नास्तीति स यत्नः स्वाभिमतपुरुषाद्यर्थनिराकरणायैव भवति, भिन्नार्थाभ्युपगमात् । कथमिति तदर्शयति- . .. 10 पुरुषवादे तावज्ज्ञानमयो न रूपादिमय इति रूपादीनां तन्मयत्वात्तानि च रूपादीनि कार्यात्मानः, तेषां तन्मयत्वे कार्यत्वानेकत्वानित्यत्वासर्वत्वानि पुरुषस्यैव प्राप्तानि । तस्मात् पुरुषस्यैकत्वनित्यत्वकारणत्वसर्वत्वानि निराक्रियन्तेऽवस्थानां पुरुषमयत्वात् । अवस्थावच्च पूर्वादिनियत्यादिष्वपि। ' (पुरुषवाद इति) पुरुषवादे तावत् ज्ञानमयो न रूपादिमय इति रूपादीनां-तत्सुषुप्तावस्था- 15 मात्रत्वाभिमतानां तन्मयत्वात्-ज्ञानात्मकपुरुषमयत्वात् , तानि च रूपादीनि कार्यात्मानः कार्यात्मनां तन्मयत्वे-चेतनैककारणात्मत्वे कार्यत्वानेकत्वानित्यत्वासर्वत्वानि पुरुषस्यैव प्राप्तानि तन्मयत्वात् प्रत्येकपरिसमाप्तत्वाञ्च तेषां प्रत्यक्षत उपलभ्यत्वाच्च । तस्मात् पुरुषस्यैकत्वनित्यत्वकारणत्वसर्वत्वानि दिनिधनं तद्ब्रह्मेति प्रतिज्ञायते यतोऽनवच्छिन्न रूपाभिमतानामपि विकाराणां प्रकृत्यन्वयात्, व्यापकश्च सर्वशब्दरूपतया सर्वशब्दो. पग्राह्यतया च शब्दतत्त्वमभिधीयते तच्चानिमित्तत्वादक्षरम् । विवर्ततेऽर्थभावेनेति, एकस्य तत्त्वादप्रच्युतस्य भेदानुकारेणासत्या. 20 विभक्तान्यरूपोपग्राहिता विवर्त्तः, स्वप्नविषयप्रतिभासवत् शब्दार्थोभयरूपमिति भावः, प्रक्रियेति, यतः शब्दाख्याडुपसंहृतकमाद्ब्रह्मणः सर्व विकारप्रत्यस्तमये वर्तमानादव्याकृतात् पूर्व विकारप्रन्थिरूपत्वेनाव्यपदेश्याज्जगदाख्या विकाराः प्रक्रियन्ते इति . श्लोकार्थः । सर्व कार्यजननशक्तिमतोऽनादिनिधनब्रह्मणो भेदसंसर्गः शक्तिभेदमूलकारोपितभेदसंसर्गरूपं विवर्तात्मकं जगदित्यर्थः, विभागः.संसर्गः संयोगः । एते हि कारणवादाः परमार्थद्रव्यार्थविधिविधिनयस्वरूपं न स्पृशन्त्येव, केवलं पदार्थप्रपञ्च संक्षेपेण निरूपयितुमेव तत्तद्वादिनां प्रयासः, स च वस्तुतः खाभिमतनिराकरणायैव भवति, खस्मात्सामान्याद्भिन्नस्यान्यस्यार्थ.25 स्योपादानादित्याशयेनाह-संक्षेपेणेति । भावार्थ दर्शयति तद्यथेति पुरुषनियतीति, पुरुषादिवादिनां द्रव्यार्थतयाभिमतस्य खखपुरुषादिवस्तुनः सर्वैकत्वनित्यत्वकारणमात्रत्वसर्वगतत्वप्रतिपादनाय प्रयत्नोऽन्यदवस्त्विति खेतरार्थनिषेधमुखेनैव दृश्यते, तथा निषेधन्तोऽपि पुरुषादितो भिन्ना अवस्था अभ्युपगच्छन्त्येव, तेनैव खाभिमतनिराकृतिर्भवतीति भावः । सामा. न्येति, सामान्यात्मकस्वाभिप्रेतपुरुषादिभिन्नवस्तुखरूपस्वीकारव्यतिरेकेणेत्यर्थः । भिन्नार्थति, पुरुषादिव्यतिरिक्तार्थाभ्युपगमादित्यर्थः । कथं खाभ्युपगमव्याघात इत्यत्राह-पुरुषवादे तावदिति, पुरुषो हि वस्तुतो ज्ञानमय एव न रूपादिमयः, 30 रूपादयश्च पुरुषस्य चतुरवस्थासु सुषुप्तावस्थामात्रम्, अतो रूपादयः पुरुषस्य कार्यात्मानः, तेषाश्च तदात्मत्वं पुरुषस्यैव जगद्रूपेण परिणतत्वात् , एवञ्च तदात्मत्वे रूपादिनां पृथक् पृथक् प्रत्यक्षतो दृश्यानामनेकत्वानित्यत्वकार्यत्वासर्वगतत्वेभ्यः . पुरुषोऽपि अनेकानित्यकार्यासर्वगतरूपः स्यात् , एकनित्यादिरूपो न स्यात् , इत्येवं सर्वस्य पुरुषात्मकत्वप्रतिपादनयनो द्रव्यार्थतयाऽभिमतपरुषादेः सर्वैकत्वादिनिराकरणलक्षणदोषेण दषित इति भावः। इममेव भावमाविष्करोति परुषवादे ताव. दिति टीकायाम् । अवस्थाभ्युपगमेन यथा पुरुषवादे खाभिमतनिराकरणं दोषस्तथा बाल्यादिपूर्वोत्तराद्यवस्थासु नियत्यादे- 35 2010_04 Page #334 -------------------------------------------------------------------------- ________________ २८४ द्वादशारनयचक्रम् [विधिविध्यरे निराक्रियन्ते, अवस्थानां कार्यकारणात्मनां पुरुषमयत्वात् , उक्तः पुरुषात्मकत्वप्रतिपादनयत्नस्य द्रव्यार्थवृत्तसर्वैकत्वाद्यभिमतनिराकरणदोषोऽवस्थाश्रयणात् । अवस्थावच्च पूर्वादिनियत्यादिष्वपीत्यतिदेशेन नियतिकालस्वभावेष्वपि स्वाभिमतनिराकरणम् , तेषामपि दर्शयत्यवस्थावचेति, यथा सुप्तसुषुप्तजाप्रद्विमुक्त्यवस्थाभेदेन भिन्नान्यरूपोपादानेनैव स्वाभिमतनिराकृतिः पुरुषवादेऽभिहिता तथा बाल्या. 5 दिपूर्वोत्तरावस्थासु तथा नियतिवर्तनास्वभावादिभेदाभ्युपगमादेव स्वाभिमतनियत्यादिनिराकरणम् । अथ भाव वा दः स्वभाववादे तु अतिशयश्चायं, आदावेव भेदोपादानात् सम्भवव्यभिचारवृत्त्यनुमत्या भावविशेषणस्वशब्दोपादानात् , यथा नीलमुत्पलमिति, तथैव चार्थस्य निरूपणात् , (स्वभाववाद इति) स्वभाववादे तुशब्दो विशेषणे, विशेषोऽस्य स्वमतनिराकरणदोषात् , 10 अतिशयश्चायम् , किं कारणं ? आदावेव भेदोपादानात् , इतरे सृष्टिप्रदर्शनद्वारेण दूरं गत्वा पश्चा - दमुपादते स्वभाववादी पुनरुत्थान एव भेदमुपादत्त इत्ययमतिशयः । कुतो भेदोपादानमिति चेत् ? सम्भवव्यभिचारवृत्त्यनुमत्या भावविशेषणस्वशब्दोपादानातू, सोऽपि सम्भवे व्यभिचारे च विशेषणम् , यथा नीलमुत्पलमिति, नीलत्वं चोत्पले सम्भवति व्यभिचरति च कदाचिदुक्तमपि तदृष्टमुत्पले भ्रमरादिषु च नीलत्वमतो विशेषणं भवतीति नीलञ्च तदुत्पलश्च तदिति, एवं भेदवृत्त्यनुमत्या विना 15 विशेषणोपादानाभावात् , तथेहापि भावशब्दवाच्यस्यार्थस्य स्वशब्दाभिधेयविशेषणार्थ स्वशब्दोपादानं भेदाधारसम्भवव्यभिचारवृत्त्यनुमत्यैव सहितं यथासम्भवानुमत्या विना न विशेषणं तथा नान्तरेण व्यभिचारमपि विशेषणं भवति तत्र व्यभिचारो विरुद्ध्यते द्रव्यार्थवादस्पैक्यादित्यभिप्रायार्थः । तथैव भेदाभ्युपगमात्तत्रापि स्वाभिमतनिराकरणं दोषः खयं भाव्य इत्यतिदिशति-अवस्थावच्चेति । तद्भावमाह-यथेति । खभा ववादस्तु मूलत एव भेदगर्भ इत्याख्यातुमाह-स्वभाववादे विति, खमतनिराकरणदोषादस्य विशेषतां सूचयितुं तुशब्द 20 उपात्त इत्याह-तुशब्द इति तमेव विशेषमादर्शयति-अतिशयश्चायमिति, आदावेवेति , कारणावस्थायामेवेत्यर्थः । पुरुषादयस्तु न कारणावस्थायां भिन्नखरूपाः, अपि तु कार्यावस्थायामेवेत्याह-इतर इति कथं स्वभाववादी प्रथममेव भेद गृह्णातीत्यत्राह-सम्भवेति खभाव इत्यत्र हि भावशब्दस्य स्वशब्दो विशेषणम् , तच विशेषणं सम्भवे व्यभिचारे च सार्थक भवेत् यथोत्पले नीलत्वं सम्भवतीति तेन तद्विशिष्यते, तथा नीलत्वं उत्पलेऽन्यत्र भ्रमरादौ च दृष्टमिति भ्रमरादिव्यावृत्तये उत्पलपदमुच्यते नीलोत्पलमिति नीलपदं सम्भवं व्यभिचारश्चानुमत्य विशेषितम् । तथा विशेषणविशेष्ययोरभेदे विशेषणं 25 व्यावर्तकमेव न भवेदिति तदुपादानं व्यर्थमेवेति भेदोऽपि तयोरभ्युपेय इति विशेषणे स्वीकृते भेदवृत्तिरप्यनुमतैव भवेत् । तथा च भाव खत्वेन विशेषयता भवता सम्भवव्यभिचारवृत्त्यनुमतिः भेदवृत्त्यनुमतिश्चाङ्गीकृतैव, तदङ्गीकारश्च द्रव्यार्थवाद, विरुद्धः, तद्वादस्यैक्यविषयत्वादिति भावः । भावार्थमाह-सोऽपीति, खशब्दोऽपीत्यर्थः, 'सम्भवे व्यभिचारे च स्याद्विशेषणमर्थवदिति न्यायादिति । दृष्टान्तं घटयति-यथेति । नीलत्वस्य व्यभिचारं दर्शयति-तइष्टमिति, नीलत्वं दृष्टमित्यर्थः । एवं तयोर्मेदवृत्तिस्वीकार आवश्यक इत्याह एवमिति, यदि नीलमुत्पलञ्चाभिन्नार्थ स्यात्तन्यतरोपादानं निरर्थकं स्यात्, न 30 त्वेवम् , नीलत्वस्योत्पलभ्रमरादिसाधारणत्वात् , उत्पलत्वस्य च श्वेतनीलादिसाधारणत्वात् तयोर्मेदवृत्तित्वम् । दार्टान्तिकमाचष्टे तथेहापीति, स्वभाव इत्यत्र स्खो भावः स्वकीया सत्तेत्यर्थः, भावे आत्मीयत्वस्य सम्भव इति तेन विशेषितो भावः, परभावव्या वर्तनाय खेति विशेषितश्च, तथा स्वत्वस्य भावस्य च भेदवृत्तिरप्याश्रयणीया, तदेतद्व्यार्थवादविपरीतमिति भावः। न केवलं मयैव शब्देन चार्थेन च भेदापादनं क्रियते भवतापि भूम्यादिकण्टकादित्वेन भावस्य भेदेन निरूपणादित्याह-तथैव चार्थ _ 2010_04 Page #335 -------------------------------------------------------------------------- ________________ खशब्दस्य वैयर्थ्यम् ] न्यायागमानुसारिणीव्याख्यासमेतम् २८५ चार्थस्य निरूपणादिति, न केवलं स्वशब्दोपादानमात्रादेव भेदोऽङ्गीकृतः किं तर्हि ? अर्थोऽपि भूम्यादिकण्टकादित्वेन तथा निरूप्यते उत्तरेण ग्रन्थेन भेदप्राधान्येनैव भावितेनार्थोऽपि भिन्नो विशेषणत्वेन नोपादातुं योग्यः। तद्यथा यदयं भवतीति भूयतेऽनेनेति वा भाव इत्यावयोर्भावशब्दार्थव्युत्पत्तौ तुल्यता, स्वश-5 ब्दार्थो विशेषणत्वेन प्रतीयमानश्चिन्त्यः, सोऽस्वव्यावर्त्तनार्थः, तदर्थत्वाच्चेतरेतराभावमात्रविषयः, स्वपराभावादितरेतराभावार्थाभावस्ततश्चास्वाभवने वर्त्तते, न तु भावस्वरूपप्रतिपादनमिति भावार्थासंस्पर्शान्न किञ्चिदनेन। __ यदयं भवतीत्यादि, तत्र स्वशब्दभावशब्दयोरर्थव्युत्पत्तौ भावशब्दार्थव्युत्पत्तिस्तावद्भाववादिनः स्वभाववादिनश्चावयोः शब्दार्थव्युत्पत्तौ भावशब्दस्य भवतीति भावो भूयतेऽनेनेति वा भाव 10 इति तुल्यता, तस्याञ्च तुल्यतायां न कश्चिद्विसंवादः । स्वशब्दार्थो वा विशेषणत्वेन प्रवर्त्तमानश्चिन्यः, सोऽस्वव्यावर्त्तनार्थः-न स्वो भावः अस्खो भावो न भवतीत्यस्वव्यावर्त्तनं तस्यार्थः । स्वशब्दश्च भावस्यैवात्मपर्यायस्य वाचकः, तस्माद्विशेषणत्वादस्वव्यावरीनार्थः सम्पद्यते, तदर्थत्वाचेतरेतराभावमात्रविषयः-स्वः परो न भवति परोऽपि खो न भवतीति, स्वपराभावादितरेतराभावार्थाभावः भावाभाव इति यावत्, ततश्चार्थाभावार्थत्वादस्वाभवने वर्तते, अस्वो न भवतीयेषोऽस्य मुख्योऽर्थों 15 जायते न तु भावस्वरूपप्रतिपादनमिति भावार्थासंस्पर्शान्न किश्चिदनेन । स्यान्मतं भावमपि ब्रूत इति एतच्चायुक्तम् तस्मान्न तत्रोपक्षीणशक्तित्वात् स्वभवनस्य प्रयोजकः, अर्थो वा स्वशब्दं न प्रयोजयति, शब्दवृत्तिविरोधात् । एतदपि वा स्वशब्दस्य नैवास्ति, अस्वस्याभूतत्वाद्वन्ध्यापुत्रवत्, न चाभूतो व्यावर्त्तनाय, अथ सोऽस्वस्तथा, ततः स भाव एव तस्य भावशब्दवाच्यार्थवत् 20 किं व्यावृत्त्याऽनर्थिकया है। स्येति।भेदपक्षेऽपि विशेषणं व्यर्थमित्याह-भेदप्राधान्येनैवेति, यद्यर्था भिन्नरूपतया यदा भावितास्तर्हि खत एवं व्यभिचाराद्यसम्भवात् किमर्थ भावो विशेषणीय इति तथापि स्वशब्दोपादानं निरर्थकमिति भावः। भाववादी खभाववादिनं प्रत्याह-यदयमिति, आवयोर्भावशब्दार्थे समत्वेऽपि भावविशेषणत्वेनोपादीयमाने खशब्दार्थे तु विवाद इति भावः । चिन्त्यतामेव प्रकटयति-स इति, खशब्द इतरव्यावर्तनफलः स्यात्, प्रायो विशेषणानां खेतरव्यावर्तकत्वनियमादिति भावः । अखव्यावर्त्तनार्थत्वादेव खशब्द इतरेतराभावमात्र विषय इत्याह-तदर्थत्वाञ्चेति । कथमस्वव्यावर्त्तनं स्वशब्दार्थ इत्यत्राहखशब्दश्चेति, खः परो न भवति परोऽपि वा खो न भवतीतीतरेतराभाव एवास्यार्थ इत्यर्थः । मात्रपदं भाववाचकत्वमस्य नेति सूचयति । भवतु खशब्द इतरेतराभावमात्रविषयः ततश्च को दोष इत्यत्राह-स्वः पर इति । खः परो न भवति, अत्र परभेदः स्वस्मिन् , परः खो न भवतीत्यत्र परस्मिन् वभेदश्च प्रतीयते, परन्तु सर्वस्यैव भावमात्रत्वात् स्वपराभावेन नेतरेतराभावलक्षणोऽर्थो विद्यते, यद्वा खः परो न भवतीत्यनेन पराभावः परः खो न भवतीत्यनेन च खाभावः प्रतिपादित इति खपरा-30 भावः सिद्धः, भावस्यैवाभाव आयातः, अत एवोक्तं-भावाभाव इति यावदिति । तथा च किमित्यत्राह-ततश्चेति, एवञ्च स्वशब्दस्याखाभवनमेव मुख्योऽर्थो न भावोऽपि, तस्मात् खशब्दो न भावमाख्यातीति किं खशब्देन भावविशेषणेन प्रयोजनमिति भावः । अथ खशब्दो भावमप्याचष्ट इत्याशङ्कायामाह-तस्मादिति, अखाभवन एव वर्तनात्तत्रैव च तस्य वाच ___ 2010_04 Page #336 -------------------------------------------------------------------------- ________________ २८६ द्वादशारनयचक्रम् [विधिविध्यरे (तस्मादिति) तस्मान्न तत्रोपक्षीणशक्तित्वात् स्वभवनस्य प्रयोजकः, अतिभार एष हि शब्दस्य यदेकः स्वशब्दः परभवनव्यावृत्तिस्वभवनप्रतिपादनञ्च युगपत् सकृदुचरितः कुर्यात् , अतो न प्रयो. जक:-न वाचक इत्यर्थः । अर्थो वा स्ववाचकं स्वशब्दं न प्रयोजयति शब्दवृत्तिविरोधात् , तस्मादस्वभवनव्यावर्तनमेवार्थः। एतदपि वा-अस्वभवनव्यावर्त्तनं स्वशब्दस्य नैवास्ति, किन्त्वर्थागतेरभ्यु। पेत्यैतद्विचारितम् । किमर्थं नास्तीति चेत् ? उच्यते-अस्वस्याभूतत्वात् , भावस्यैव भूतत्वादित्यर्थः, स्वशब्दार्थाभावान्न स्वशब्दं प्रयोजयति, वन्ध्यापुत्रवत्, तदभावाद्भावशब्दव्यतिरिकार्थविषयाभिमतः स्वशब्दोऽपि नास्तीत्यत आह-न चाभूतो व्यावर्त्तनाय, प्रभवतीति वाक्यशेषः, अभूतत्वाद्वन्ध्यासुतवत् । अथ सोऽर्थोऽस्वः तथा-भूत एव, ततः स भाव एव, भावादेव तस्य-स्वशब्दवाच्यार्थस्य भावशब्दवाच्यार्थवत् किं व्यावृत्त्याऽनर्थिकयेति स्वशब्दस्य व्यावाभावाद्यावृत्तिरनार्थका, व्याव10 ार्थाभावश्च तस्य भावत्वादित्युक्तम् । स्यान्मतं तस्याभावाव्यावर्त्यता विशेषणार्थवत्ता चेत्येतच्चायुक्तम् , तस्य भावत्वप्रसङ्गात्, न ह्यसतः प्रसङ्गोऽस्ति, अप्रसक्तस्य व्यावत्येता वाऽस्ति, अब्राह्मणवचनेन ब्राह्मणत्ववत् , तस्माद्यदपि व्यावर्त्यते तदपि भवेदेव, व्यावर्त्यत्वादब्राह्मणवत् । वैधम्र्येण असत्, असतोऽप्रसक्तत्वादप्रसक्तस्य चाव्यावर्त्यत्वात्, खपुष्पवत् , किञ्चित्वाद्वस्तुत्वादर्थत्वादेः, 16 स्ववत् । (स्यान्मतमिति) स्यान्मतं तस्य व्यावय॑स्याभावाव्यावर्त्यता विशेषणार्थवत्ता चेत्येतचायुक्तम् , तस्य भावत्वप्रसङ्गात् , न ह्यसतः प्रसङ्गोऽस्ति, अप्रसक्तस्य व्यावय॑ता वाऽस्ति, अब्राह्मणवचनेन ब्राह्मणत्ववत् , न ह्यब्राह्मणवचनेन ब्राह्मणोऽप्रसक्तो व्यावय॑ते, यथोक्तम् 'नबिवयुक्तमन्यसदृशाधि कत्वशक्तेः परिपूर्णतया न स्वभवनस्यापि वाचकत्वमिति भावः। न वाऽर्थः स्ववाचकत्वेन स्वशब्द प्रयोजयतीत्याशङ्कते अर्थों 20 वेति । न तावदर्थस्य तथाविधा शक्तिरस्ति, क्वाप्यदर्शनात्, सत्त्वेऽपि शब्दस्य तथाविधिशक्त्यभावे अर्थबलेन वाचकत्वस्य शब्दशक्तिविरोधित्वात् , अशक्तस्यापि वाचकत्वेऽतिप्रसङ्गादिति भावः। उपक्षीणशक्तिकत्वं वर्णयति-अतिभार इति, सकृदुच्च रितस्य शब्दस्य सकृदेकार्थोपस्थापकत्वेन खाभवनव्यावृत्तिस्त्रभवनयोरर्थयोरेकदोपस्थापकत्वमत्यन्तभारभूतं न सम्भवतीति भावः। खभवनव्यावृत्तिरूपमर्थ खशब्दस्याभ्युपगम्य दोषमुदीर्य सोऽप्यर्थोऽस्य न सम्भवतीत्याचष्टे-एतदपि वेति । अखस्येति, खभिन्नस्य भावभिन्नस्येत्यर्थः, अभूतत्वात्-भवनरूपत्वानुपपत्तेः, भावस्यैव भवनरूपत्वात् , अतोऽस्वस्यैवाप्रसिद्धेः कथमख 26 व्यावृत्तिः स्यात् , अतः खशब्दार्थतयाऽभिमतस्यैवाभावेन कस्य वाचकः स्वशब्दः? को वा अर्थः स्वशब्दं प्रयोजयतीति भावः। अर्थस्यैवाभावेन भावव्यतिरिक्तार्थवाचकत्वेनाभिमतः खशब्दोऽपि नास्त्येवेत्याह-तदभावादिति । अविद्यमानः शब्दो न च व्यावर्त्तनाय प्रभवति, अभूतत्वाद्वन्ध्यासुतवदित्यर्थः । ननु सोऽर्थोऽस्खलक्षणो भवनधर्मैव, तव्यावृत्तिफलकः खश. ब्दोऽस्त्येवेत्युच्यते तर्हि अस्वस्य भावत्वादेव तद्व्यावृत्तिवाचकः स्वशब्दो व्यर्थः, व्यावाभावात् , भावलक्षणस्यास्वस्य भा शेषणेन खशब्देन व्यावर्तयितुमशक्यत्वात् , न हि यद् यद्विशेषणं तत्तद्विरुद्धमभिधातुमीष्टे इत्याशयेनाह-अथ सोऽर्थः 10 इति । ननु भावस्याभावाव्यावर्तनाय खशब्दोपादानमत एव तस्य व्यावृर्त्यता स्वशब्दस्य विशेषणस्य चार्थवत्तेत्याशङ्कते स्यान्मतमिति, तस्य-अखभूतस्याभावस्य । यद्यभावस्य व्यावय॑त्वमुच्यते तर्हि तस्य भावत्वं स्वीकार्य भवेत् , प्रसक्तस्यैव व्यावर्तयितव्यत्वात् ,न ह्यसतः प्रसझोऽस्ति येन तद्यावर्तनाद्विशेषणं सार्थकं भवेदित्युत्तरयति-तस्य भावत्वप्रसङ्गादिति । दृष्टान्तमाख्याति-अब्राह्मणेति, तत्र मानमादर्शयति-यथोक्तमिति-महाभाष्ये ३.१।१२ सूत्रे उक्तत्वादित्यर्थः, तथा हि नजिवयुक्तमन्यसदृशाधिकरणे तथा ह्यर्थगतिः, नयुक्तमिवयुक्तं वा यत्किञ्चिदिह दृश्यते ततोऽन्यस्मिंस्तत्सदृशे कार्य 2010_04 Page #337 -------------------------------------------------------------------------- ________________ स्वभावाभावः] न्यायागमानुसारिणीव्याख्यासमेतम् २८७ करणे तथा ह्यर्थगतिः' (महाभाष्ये ३-१-१२) इति । भावशब्दार्थव्यावृत्त्यर्थं कर्थोपादानात् , यदयं भवतीति, भावशब्दस्य स्वशब्दविशिष्टस्य स्वरूपोक्तस्वशब्दोऽप्यनर्थकः । तस्माद्यदपि व्यावर्त्यते तदपि च भवेदेव, व्यावय॑त्वादब्राह्मणवत्, वैधयेण असत् , तत्कुतः ? असतोऽप्रसक्तत्वादप्रसक्तस्य चाव्यावर्त्यत्वात्, खपुष्पवत् । व्यावर्त्यस्य सत्त्वेऽनुमानान्तरमप्याह-किञ्चित्वाद्वस्तुत्वादर्थत्वादादिनहणात् प्रमेयज्ञेयसत्त्वादिभ्योऽपि, दृष्टान्तः स्ववदिति, यथा स्वं व्यावाद्विभक्तत्वात् किचिद्वस्त्वर्थः । प्रमेयं ज्ञेयं सच्च तथा व्यावर्त्यमपि सत् ज्ञेयं प्रमेयमर्थो वस्तु किञ्चिद्वा प्रसक्तत्वादेव, तस्मात्तद्भवेदेव। किश्चान्यत्. अयश्च स्वभावः किं व्यापी प्रतिवस्तु परिसमाप्तो वा? तत्र व्यापित्वे त्यक्तस्वपरविशेषणः स्यादेकरूपत्वात् , प्रतिवस्तुत्वे किं तेन कल्पितेनाभिन्नफलेन लोकवादात्? . अयश्च स्वभाव इत्यादि, अयश्च त्वदिष्टः स्वशब्दविशिष्टो भावः किं व्यापी प्रतिवस्तु 10 परिसमाप्तो वा ? यदि व्यापी सर्वगत एक एव, तस्मिन् व्यापित्वे त्यक्तस्वपरविशेषणः स्यात् , एकरूपत्वात् , तस्य पररूपाभावात् स्वशब्दोपादानं परशब्दोपादानञ्च निरर्थकमेव । अथ वस्तुनि बस्तुनि परिसमाप्तेः प्रतिवस्तु, ततः प्रतिवस्तुत्वे किं तेन कल्पितेनाभिन्नफलेन लोकवादात्, लोकवादो हि घटस्य घट एव स्वभावो नान्यः, पटस्य पट एवेति श्रूयते, घटादिपृथग्भूतो न कश्चिदेक इति स यदि तथा प्रतिवस्तु कल्प्यते न किञ्चित्तेन लोकवादाभिन्नफलेनार्थः कल्पितेन, तस्मान्नैकः कश्चित्स्वभावो 15 यथा पूर्व स्वभाववाद्युपवर्णितः सिद्ध्यति, किं तर्हि ? लौकिक एव सिद्ध्यति । किश्चान्यत् स्वभावाभाव एव च प्रसक्तः, तद्यथा-प्रत्येकमात्रवृत्तिघटायेव घटादीनि इतरेतराभावात् , परस्परमस्वभवनपरिग्रहात् कुतः क चासौ स्वभावः ? विज्ञायते, तथा यर्थो गम्यते, अब्राह्मणमानयेत्युक्ते ब्राह्मणसदृश एवानीयते, नासौ लोष्टमानीय कृती भवति, तथा प्रकृतेऽपि 20 खशब्दो भावसदृशस्यैव व्यावर्त्तकः स्यात्, नान्यथा, न चास्ति कश्चिद्भावसदृशो यो व्यावत्येतेति भावः । ननु भवनलक्षणस्य भावस्यात्मपर्यायरूपस्य व्यावय॑त्वमिति चेत्तत्राह-भावशब्दार्थेति । तस्य भवतीति भाव इति कर्थविशिष्टभावशब्देनैव व्यावर्तनादित्यर्थः। तथा चाखभवनव्यावर्त्तनं खशब्दस्य नैवास्तीति सर्वे भावाः खेन भावेन भवन्तीति खभावशब्दार्थव्यावर्णने भावशब्दविशेषणत्वेनोक्तोऽपि खशब्दोऽनर्थक इत्याह-भावशब्दस्येति, खशब्दविशिष्टस्य भावशब्दस्य खभाव इत्येवं रूपस्य योऽयं खरूपः अर्थव्यावर्णनं तत्रोक्तो यः खशब्दः खेन भावेन भवन्तीत्येवं रूपे खशब्दः सोऽप्यनर्थक 25 इत्यर्थः प्रतिभाति, एवञ्च खशब्देन यद्यावयं तदपि भवेदेव व्यावय॑त्वादेव, अब्राह्मणवत्, असच न व्यावय॑म् , असतः प्रसक्त्यभावेन व्यावय॑त्वासम्भवात् स्वपुष्पवदित्याह-तस्माद्यदपीति । व्यावयं सदेव भवतीति व्यावय॑त्वहेतुना साधितमपि पुनर्हेत्वन्तरैः साधयति-किञ्चित्वादिति, स्ववदिति, व्यावर्त्तनीयवदित्यर्थः तच यथा व्यावात् पृथग्भूतं किश्चित् वस्तु अर्थः प्रमेयं ज्ञेयं भवत् सद्भवति तथा व्यावर्त्यमपीति भावः, प्रकारान्तरेण खभाववादं निराचष्टे-अयश्चेति, खभावोऽयं यदि वस्तुमात्रव्यापी तर्हि तस्यैकरूपत्वेन विशेषणविशिष्टत्वमयुक्तम् , निरर्थकविशेषणत्वात् , एवञ्च तत्र खशब्द- 30 स्यान्यस्य वा विशेषणत्वेनोपादानं व्यर्थमव्यावर्तकत्वादित्याह-यदि व्यापीति । एतद्दोषपरिहाराय तस्य प्रतिवस्तु परिस. माप्तता यदीष्यते तर्हि लोकवादाभिन्नफलत्वमेवेति पृथक् तस्य कल्पनावैयर्थ्यमित्याह-अथ वस्तुनीति । लोके हि घटस्य घट एव खभावः पटस्य पट एव खभावो नान्यः कश्चिद्धटपटादिव्यतिरिक्तो दृश्यत इत्याह-लोकवादो हीति । अत एव पूर्व स्वभाववादिप्रोक्तदिशा न कश्चिदपर्वः स्वभावः सिद्ध्यति. अपि तु लोकव्यवहारविषय एव सिदित्याह-तस्मान्नैक इति । 2010_04 Page #338 -------------------------------------------------------------------------- ________________ ... २८८ द्वादशारनयचक्रम् [विधिविध्यरे .. (खभावाभाव इति) स्वभावाभाव एव च प्रसक्तः, तद्यथा-प्रत्येकमात्रवृत्ति च घटायेक घटादीनि, घट एव घटः, पट एव पटः, पटे घटो नास्ति, न घटे पट इतीतरेतराभावात् परस्परमखभवनपरिग्रहः कृतो भवति, ततः परस्परमस्वभवनपरिग्रहात् कुतः क्व चासौ स्वभावः स्यात् ? यापपत्तिद्वारेणार्थः तत इदमुपपत्तिमुखमस्य भावविषयैकार्थे स्वत्वे स्वत्वादनन्यो भाव इति चेत्सत्यम् , न किञ्चिदन्यत् स्वं नामेति किमत्र भेदेन क्रियते घटादिना पटादिभावविशिष्टेन? द्रव्यार्थस्वरूपस्याभिन्नत्वात् । (भावेति) य एव भाव स एव स्व इत्यनयोरनर्थान्तरत्वमेवेति, सत्यम् , न किश्चिदन्यत् स्वं नामेति, इतिशब्दो हेत्वर्थे, ततः किमत्र भेदेन क्रियते घटादिना पटादिभावविशिष्टेन ? द्रव्यार्थस्वरूपस्याभिन्नत्वात् , भेदेन यदुच्यते घट इति पटादिना भावव्यावर्त्तनार्थभेदेन घटस्य भावो न 10 पटस्येति वो भावो न परभाव इति च पुरुषादिवादवद्भेदान्तरकल्पनेन द्रव्यार्थस्वरूपविरोधिना भेदा धारेणेति । . सोऽपि यदि भावः भवतीति भावस्वरूपादभिन्न एव, अथ न भवति भेदो भावः, तदस्तित्वमेव नाभ्युपेमोऽभवनात् खरविषाणवत् । सोऽपि यदीति, सोऽपि च धटादिभेदो भावो वा अथाभावो वा ? यदि भावः, भवतीति 15 भावः एव, भावस्वरूपादभिन्न एव, अतः कोऽयं भेदो नाम घटादिर्भावव्यतिरिक्त इति स्वयमेवोक्तो भेदाभावः । अथ न भवति भेदः, भावो न भवति नानुभवति भवनं न वाभाव एवाभ्युपगम्यते तदस्तित्वमेव नाभ्युपेमः, अभवनात् खरविषाणवत् ।। इतर आह ननु घटस्य भाव इति व्यतिरेकषष्ट्या व्यपदिश्यमानत्वात् पटादिव्यतिरेकेण घट एव 20 भवनस्य कर्तेति, न, भवनस्यैव तथातथाभवनात् , स एव हि भावो घटपटादिर्भवति, हस्तादिभवनकारणयोः पुरुषभवनकारणवत्, न हि हस्तादौ भवति कुर्वति वा देवदत्तो न भवति न करोति वा, अतो भावत्वेऽभावत्वे वा नास्त्येव भेदो घटादेरिति । दोषान्तरमाह-स्वभावाभाव इति । सर्वं हि वस्तु प्रत्येकस्मिन्नेव पर्याप्तं नान्यत्रात्मानं संक्रामयति घटो हि घट एव, न पटो भवति, पटोऽपि पट एव, न घटो भवति, सजातीयविजातीयव्यावृत्तखरूपत्वात्, न हि खमन्यरूपेण भवति, ततश्च सर्व25 मस्खभवनरूपमिति कुतो हेतोः पटादौ घटादेः स्वस्य भावो भवेदिति नास्ति स्वभाव इति भावः, उपपत्तिद्वारेणैवार्थसिद्धिन. वाइमात्रेण, अत उपपत्तिर्वक्तव्येत्युपपत्तिर्यदीष्यते तर्हि तामपि वदाम इत्याह-यदीति । आशङ्कापूर्वकं तामादर्शयति-भावेति खत्वं यदि भावसमानाधिकरणं खो भाव इति तदा य एव भावः स एव खः, य एव खः स एव भाव इति तयोः परस्परमभेदाद्भाव एव स्यात् किं खपदेनेत्याशङ्कार्थः । नास्ति भावव्यतिरिकं खमतः पटादिभावाद्विशिष्टो न घटादिलक्षणो. भेदः उभयोर्द्रव्यार्थतयाऽभेदात् , अतो न भेदेन किञ्चित् प्रयोजनम् , अत एवायं घटस्य भावो न पटस्य अयमात्मीयो भावो 30 म परस्येत्यादिरूपा द्रव्यार्थस्वरूपविरोधिनी भेदकल्पना नोचितेत्युत्तरयति-न किञ्चिदन्यदिति । भेदोऽपि विचार्यमाणो. म साधुतामङ्गीकरोतीत्याह-सोऽपीति । विचारमारचयति-सोऽपि च घटादिभेद इति, किं घटादिलक्षणो भेदो भावो वा स्यादभावो वा तत्र यदि स भावस्तर्हि भवनधर्मत्वात् न भावखरूपाद्भिन्न इति घटादिलक्षणो भेदो न भावभिन्न इति प्रसङ्गात्त्वयैव भेदाभावः साधितः. यद्यसौ भेदो न भवनधर्मा न तद्यसौ भावः, भवनस्याननुभवनात् , नाप्यसावभाव एव, तथाविधस्य खरविषाणादिवदस्तित्वाभावादेवाभवनादिति भावः । ननु घटस्य भाव इति, घटस्य भाव इत्यत्र षष्टी. 2010_04 Page #339 -------------------------------------------------------------------------- ________________ भावकारणता ] न्यायागमानुसारिणीव्याख्यासमेतम् ( नन्विति ) ननु घटस्य भाव इति व्यतिरेकषष्ट्या व्यपदिश्यमानत्वात् पटादिव्यतिरेकेण घट एवैति न तु स्वतोऽपृथग्भूतेन भवनेन, ततः पटादिभेदेन भवनस्य कर्त्ता घट एवेति, अत्रोच्यते, न, भावस्यैव तथा तथा भवनात् न ब्रूमो घटस्य भवनं न पटस्येति भेदव्यपदेशो नास्तीति स पुनरुपचरितो घटादिभिरभिन्नस्यैकस्य भावस्यैव तथा तथा तेन तेन प्रकारेण घटपटादिना भवनात्, अन्यथा पटादयो न भवन्त्येव भवनव्यतिरिक्तत्वादित्युक्तम्, स एव हि भावो घटपटादिर्भवति हस्ता- 5 दिभवनकरणयोः पुरुषभवनकरणवत्, घटादीनां भावाव्यतिरेकात् पुरुषाव्यतिरिक्तहस्तादिभवनवदिति । तद्दर्शयति- न हि हस्तादौ भवति कुर्वति वा देवदत्तो न भवति करोति वा, हस्तादौ भवनकर - णयोः कर्त्तृत्वे प्रतिपद्यमाने तत्समुदायस्यावश्यं तत्प्रतिपत्तेः, समुदायसमुदायिनोश्चानन्यत्वात् । उपसंहरति-अतो भावत्वेऽभावत्वे वा नास्त्येव भेदो घटादेरिति, भवने प्रस्तुते करोतिग्रहणं किमर्थम् ? सर्वधातूनां भवनार्थत्वप्रदर्शनार्थम्, तत आह-यतो भुवोऽर्थमभिदधति सर्वधातव इति । एतस्मा - 10 द्वावान्न पढादिर्भिन्न इति । तच्च प्रत्यस्तमितनिरवशेषविशेषणं भवनं सर्ववस्तूनां मूलं स्फटिकवत् सर्वबिम्बप्रति - बिम्बसामान्यम् । २८९ ( तचेति तच प्रत्यस्तमितनिरवशेषविशेषणं भवनं - निमग्नानि विलीनानि प्रत्यस्तमितानि यत्रैव भावे निरवशेषाणि विशेषणानि स्व इति पर इति वा घटः पट इत्यादि वा सर्ववस्तुभेदास्तदेव 15 भवनम् सर्ववस्तूनां स्फटिकवत् सर्वबिम्बप्रतिबिम्ब सामान्यं - मुद्रा प्रतिमुद्रान्यायेन भिद्यमानानामात्मरूपाणां स्फटिकवदनेकधा दृश्यमानानां बिम्बभूतानां प्रतिबिम्बभूतानाश्च सामान्यमभिन्नं बीज - मित्यादि तत्स्वरूपवर्णनान्येवं प्रकाराणि निर्विशेषणस्याद्यंशपरिकल्पनयेति । तत्कथं भाव्यत इति चेदुच्यते तदेव हि भवनं व्रीह्याद्यङ्कुरादि वा तदेव च मृदादि साध्यं साधनञ्चैकं भवनमेव 20 ब्रीहिबीजं तथा अहेयं सदा तदवस्थमेव भवनात्, पुरुषस्य हस्त्यादियावद्भवनवत्, पुरुष · सम्बन्धार्था, सम्बन्धश्च सम्बन्धिनोर्भेदे सत्येवापेक्ष्यते न हि खस्य स्वस्मिन् सम्बन्धोऽपेक्ष्यते ततश्च घटस्यैव भवनप्रतीतेः तस्य घटएव कर्ता घटएव भवति नतु पटाद्यभेदेन घट: कर्ता, पटादिसम्बन्धित्वेन भवनस्याप्रतीतेः घटपटादेः भावस्य च भेद सङ्कार्थः । न तु स्वत इति, न तु खतोऽपृथग्भूतेन भवनेन घटपटादिर्भवतीत्यर्थः । अथ घटस्येदं भवनं न पटस्येत्यादि • भेदव्यपदेशो न निराक्रियतेऽस्माभिः अपि तु स उपचरितः, भवनस्यैव घटपटादिरूपेण भवनात् घटभवनयोर्भेदे 25 हि घटो न भवतीति भाव एव न स्यात् खपुष्पवदित्याह - भवनस्यैवेति । दृष्टान्तमाचष्टे - हस्तादिभवनेति, हस्ता देर्भवने करणे च पुरुषादेर्यथा भवनं करणश्च तद्वदित्यर्थः, समुदायसमुदायिनोरभेदादिति भावः । दृष्टान्तं स्फुटीकरोति न हीति । तचेति, निरवशेषाणि निखिलानि विशेषणानि - घटपटादिलक्षणानि प्रत्यस्तमितानि - अन्तर्लीनानि यस्मिन् भावे तथाविधो भावः सर्वस्य मूलभूतं कारणमित्यर्थः । स्फटिकवदिति, बिम्बप्रतिबिम्बभावेनानेकधा दृश्यमानानां भावानां यथा स्फटिकरषत् सामान्यं तथा भावोऽपि सर्वेषां सामान्यमिति भावः । अत्र मूलं सम्यङ् नोपलब्धं वेदितव्यम् 30 निर्विशेषणस्येति, घटस्य भवनं पटस्य भवनं मठस्य भवनमित्यादौ विशेषणविरहितं भवनमेव प्रधानं तत्त्वमभ्युपेय ततो घटपटादिप्रकाराणां निरूपणमित्यर्थो भाति । तदेव हीत्यादि, यथाऽऽत्मात्मानमात्मनैव परिणमयति तथा भवनमपि वीहि मृदादिलक्षणमभिन्नकर्तृकरणसाधनसाध्यं भवति, व्रीह्यादिनानाविकल्पेषु भवनस्य कदाप्यप्रच्युतेरिति भावः । द्वा० न० ३७ 2010_04 Page #340 -------------------------------------------------------------------------- ________________ २९० द्वादशारनयचक्रम् [ विधिविध्यरे एव हि हस्त्यादिर्मृदादिश्च भवति तथा भवनमेव पृथिव्यम्बुमृदादिर्भवति, एकत्रैवोपयुक्तार्थत्वात् । घटादेर्भवनस्य भेदेऽसत्त्वमेव भावाद्भिन्नत्वात् खरविषाणवत् । " तदेव हि भवनं व्रीह्यादीत्यादि यावत्साधनञ्चैकं भवनमेव व्रीहिबीजम् आदिग्रहणादम्बुक्षेत्रकालादि, अङ्कुरादिवा, तदेव च मृदादि - मृल्लोष्टवत्राश्मसिकतादि च भवनमेवेति वर्त्तते साध्यं D साधनश्च भवति, पुरुषवा दिव्याख्यातन्यायेन स्वयमेव विश्वमादि वर्त्तते, यथा तदभिन्नकर्तृकरणादिसाधनं साध्यश्च तथा भवनमेवात्माव्यतिरिक्तं साधनं साध्यञ्चैकमेव, तथाऽहेयमपरित्याज्यं भवनमेव व्रीह्यादिविकल्पानन्त्येऽपि तदवस्थमेवाप्रच्युतमात्म स्वरूपाद्भवनात् सदा-सर्वकालम् । को दृष्टान्तः ? पुरुषस्य हस्त्यादि यावद्भवनवत् । यथा घटादेरभिन्नतया पुरुषो हस्त्यश्वपर्वतसरित्समुद्रादिप्रपश्ञ्चानभिनयति स्वतः सृजत्युपसंहरति च तथा तथा भवनात् चेतन हस्त्यादयो न ततः केचिद्भेदेन 10 भवन्ति हस्त्यादिप्रपञ्चेन तु पुरुष एव हस्त्यादिर्मृदादिश्च भवति, आदिग्रहणाश्चित्रलेप्य काष्ठपुस्तादिर्भवति तथा भवनमेव पृथिव्यम्बुमृदादिर्भवति न भेदः कश्चिद्भवनादेर्घटादेः । किं कारणं ? एकत्रैवोपयुक्तार्थत्वात् । घटादिरभवनस्तस्य - भवनाद् भेदेऽसत्त्वमेव, भावाद्भिन्नत्वात्, खरविषाणवत् । भावाद्भिन्नोऽपि घटो भवत्येव चेत्तस्य भवने वन्ध्यापुत्रोऽपि भवेदघटत्वात् । 15 ( भावादिति ) भावाद्भिन्नोऽपि घटो भवत्येव चेत् ? तस्य भवने वन्ध्यापुत्रोऽपि भवेत् । एतस्य दिङ्मात्रत्वाघटत्वादात्मनाभावात्, पटवत्, घटभवनं हि घटस्तदभावोऽघटस्तस्य भावः । तस्मादुघटत्वात् - घटात्मनाऽभावात् । एनमेवार्थं व्याचष्टे - आत्मनाऽभावात् पटवत्, घटवदेव वा तद्भावाद्भेदाभावाच्च भाव एव विकल्पोऽत्र न सत्यः । 20 आत्मनाऽभावादिति, साधनान्तरमेव वा अन्यात्मनाऽभावादिति यावत् पटवत्, यथा पटो घटात्मनाऽभवन् घटो न भवत्येवं घटोऽपि घटात्मनाऽभवनाइटो मा भूत्, घटात्मनाऽभवनञ्च भावाद्भिन्नत्वाभ्युपगमात् सिद्धम्, न चेदेवं वन्ध्यापुत्रोऽपि भवेत्, घटात्मनाऽभवनात् घटवत् । घटवदेव वा तद्भावाद्भेदाभावाच्च घटादिभेदाभावाच्च भाव एव विकल्पो न सत्यः । तथा तथा भवनादिति, पुरुषस्यैव हस्त्यादिचेतनरूपतया मृदायचेतनरूपतया भवनात्, न हि पुरुषात् हस्त्यादयो मृदा25 दयो वा पार्थक्येन भवन्ति, एवं भवनमपि चेतनाचेतनरूपेण भवतीति भावः । घटादीनां भवनात्मकत्वाभावे दोषमाह - घटादिरभवन इति । घटोऽसन् भावाद्भिन्नत्वात् खरविषाणवदित्यर्थः । एवमसत्त्वमापाय सत्त्वमप्यापादयति - भावादिति । वन्ध्यापुत्रः सन् भावाद्भिन्नत्वात् घटवदिति भावः । भावाद्भिन्नत्वं हेतुः सूचनमात्रं तेनान्येऽपि हेतवो बोध्या इत्याह-एतस्येति, घटभवनं घटपदेन विवक्षितमित्याह - घटभवनमिति । घटात्मनाऽभावादिति हेतौ घटपदं निरर्थ - कत्वात् परित्यज्य व्याकरोति - आत्मनाऽभावादिति । हेत्वन्तरमेव वायं हेतुरित्याह- अन्यात्मनाऽभावादिति, यथा 30 पटः स्वापेक्षया अन्येन घटात्मनाऽभवन् घटो न भवति तथा घटोsपि घटात्मनाऽभवनाइटो न स्यात् न च घटस्य घटात्मनाऽभवनमसिद्धम्, भावभिन्नत्वेन तत्सिद्धेरुक्तत्वादिति भावः । यदि घटो घटात्मनाऽभवन्नपि भवतीत्यभ्युपगम्यते तर्हि घटवदेव वन्ध्यापुत्रोऽपि भवेदित्याह - न चेदेवमिति उपसंहरति-तद्भावादिति, तस्मात् घटादेर्भावाद्भिन्नवाभावाद्भाव एव सर्व घटः पट इत्यादि विकल्पस्तु न सत्य इति भावः । विविधप्रकारेण भवने कारणं दर्शयति 2010_04 Page #341 -------------------------------------------------------------------------- ________________ faceपाद्यसम्भवः ] न्यायागमानुसारिणी व्याख्यासमेतम् इदानीं भेदकारण दिशमुद्राह्य दूषयिष्यन्नाह - विकल्पो हि भेदसंसर्गपरिणामैर्भवेत्, न चास्य भेदः संसर्गः विपरिणामो वा एकत'वात्मकत्वात् प्रतिस्वत्ववत् । 1 विकल्पो हीत्यादि, विकल्पो न सत्यः, स तु भवन्ने भिस्त्रिभिः कारणैर्भवेत् भेदसंसर्गपरिणामैः, तत्र भेदेन - घटाद्भिद्यमानात् कपालानि परस्परतो भिन्नानीति गृह्यन्ते । संसर्गेण - तन्तूनां संघातेन पट- 5 स्तन्तुभ्योऽन्य उत्पन्न इति । परिणामेन -क्षीरं दधित्वेन परिणतं दधि क्षीरादन्यत्, एतेषाञ्चान्यतोक्तिः प्रयोजनादिनानात्वाल्लोके प्रसिद्धेति । एता भेदवाद्युपपत्ततो भवेयुः, तत्र न चास्य भेदो न संसर्गो न विपरिणाम इत्येतास्तिस्रः प्रतिज्ञा एकहेतुसाध्याः, कोऽसौ हेतुः ? उच्यते - एकतत्त्वात्मकत्वात् तस्य भावस्तत्वमेकं तत्त्वमनन्यत् स एवाऽऽत्मा स्वभाव इत्येकतत्त्वात्मा तद्भावादेकतत्त्वात्मकत्वात्, प्रतिस्वत्ववत् यथा स्वं स्वं प्रति प्रतिस्वम् त्वन्मतेन भिन्नानामसाधारणः स्वात्मा यः स तु भाव 10 इत्येवैतत्वात्मकत्वान्न भेदसंसर्गपरिणामात्मकः तथा भावोऽपीति नास्ति विकल्पो भावस्य । अथापि स्याद्विकल्पः सोऽस्मन्मतेनैव न भेदाभ्युपगमेनेत्याह " विकल्प्येत च भाव एव नाभावः खपुष्पादिरसत्त्वादिति भावस्यैव घटपटादिना भवनं नास्य भेदः कश्चित् तस्यापि तत्त्वादेव कुतोऽत्र विकल्पः । " २९१ " ( विकल्पयेत चेति) विकल्प्येत च भाव एव नाभावः खपुष्पादिरसत्त्वादिति भावस्यै - 15 वास, भाव एकनित्य सर्वगतत्वादिधर्मा तस्यैव घटपटादिना भवनं नास्य भेदः कश्चित् भेदश्चाभवनात्मकत्वादित्युक्तम् । तस्मादसत्त्वादसौ न विकल्प्येत भेदः खपुष्पवत् अतः सम्भाव्यमानश्च स्वभाव एव विकल्पितस्त्वन्मतेऽपि तस्यापि भावस्यापि तत्त्वादेव - प्रागुक्तहेतुप्रकारेण तत्त्वादेकत्वादेव कुतोऽत्र भावे विकल्पः ? 2010_04 20 इतर आह ननु भेदः प्रत्यक्षत एव पूर्वोत्तराद्युत्पत्तिविनाशवस्तुप्रविभक्तत्वाद्गृह्यते अभेदश्च न गृह्यते । ननु भेदः प्रत्यक्षत इत्यादि यावदभेदश्च न गृह्यते, पूर्वोऽयमुत्तरोऽयं घट इति दिग्भेदेन, आदिग्रहणादूर्ध्वाघोदक्षिणापरभेदेन च गृह्यते घटादि:, तथोत्पन्नो विनष्ट इत्युत्पत्तिविनाशाभ्याम्, वस्तुतोऽपि घटपटादि, रूपरसादि स्वरूपभेदेन - कृष्णो रक्तः खण्डः शकल इत्यादि, एभिः कारणैः 25 विकल्पो हीति । एवं मेदकारणमुपदर्य निराचष्टे - तत्र न चास्येति, भावस्य भेदो नास्ति संसर्गे नास्ति परिणामो नास्ति, इति पृथक् पृथक् प्रतिज्ञात्रयम् हेतुस्तु सर्वत्र एकतत्त्वात्मकत्वादित्येक एव दृष्टान्तः प्रतिखत्ववदिति, प्रतिस्खं विद्यमानो योsसाधारणो धर्मों भावलक्षणस्तदात्मक एव सर्वे भेदसंसर्गपरिणामा नानेकात्मका इति नास्ति विकल्पो भावस्येति भावः । विकल्पयेतेति, भाव एवं घटपटादिना विविधप्रकारेण भवितुमर्हति नाभावो निस्वभावत्वात् सोऽपि विकल्पो न भेदरूपोऽभ वनात्मकत्वात् खपुष्पवदिति भावः । ननु भेदस्यैव प्रत्यक्षेण दिक्कालप्रभवविनाशवस्तुभेदैर्विभक्ततया गृह्यमाणत्वादभेदस्म 30 तथा तथा भवनं न प्रत्यक्षप्रायमित्याशङ्कते - ननु भेद् इति । देशादीनां भेदकानां क्रमेण निदर्शनमाह पूर्वोऽयमित्यादिना पूर्वी घट इत्यादी घटविशेषणतया प्रतीयमानाः पूर्वादयः घटादौ पाश्चात्य घटादिभेदमादर्शयन्ति, अन्यथा पूर्वादीनां प्रतीयमा Page #342 -------------------------------------------------------------------------- ________________ २९२ द्वादशारनयचक्रम् [विधिविध्यरे प्रविभक्तत्वादर्थानां भेदेन गृह्यमाणानां कथं भेदाभावः ? पूर्वोत्तरशब्दाभ्यां देशकालपरिमाणक्रमा अपि गृहीताः, एवं प्रत्यक्षतो ग्रहणम् , अभेदश्च न गृह्यते, प्रत्यक्षत एवेति वर्त्तते ।। __ अत्रोच्यते, नास्ति किञ्चिद्भावव्यतिरेकेण पूर्वमुत्तरं वा, ततः किं तदपूर्व यदुत्पद्यते पूर्व वा विनश्यतीति पूर्वोत्तरादिदिक्कालोत्पत्तिविनाशवस्तुप्रविभागाभावात् किं तत् प्रविभक्तं प्रविभज्यते प्रविभक्ष्यते वा ? अतो नाभावो भेदो भवति । अत्रोच्यत इति, पूर्वोत्तरादिभेदाभावं प्रतिपाद्य प्रत्यक्षत्वाभावश्च प्रतिपादयिष्यन् भेदाभापप्रतिपादनार्थं तावदाह-नास्ति किञ्चिदिति । भावव्यतिरेकेण किश्चित् पूर्वमुत्तरं वा नास्त्येव प्रागुक्तकारणत्वात् , ततः किं तदपूर्व यदुत्पद्यते, पूर्व वा विनश्यति ? इति, पूर्वोत्तरयोरभावादेवोत्पत्तिविनाशौ न स्तः, तत एव वस्तुप्रविभागोऽपि, तस्मात् पूर्वोत्तरादिदिकालोत्पत्तिविनाशवस्तुप्रविभागाभा10 वात् किं तत् प्रविभक्तं प्रविभज्यते प्रविभक्ष्यते वा? यत्तदेवंधर्म तदेव नास्तीति नापूर्व भावादन्यत पूर्वोत्तराद्यस्त्यतो नाभावो भेदो भवति । कथं तर्हि भेदप्रत्यक्षता इति चेदुच्यते___ स एव ह्युत्पाताधुदकाग्निवत्तद्विरोधिधर्मापत्त्याऽन्यथा वर्तमानोऽन्यथापि वर्तत एव । भिद्यमानं हि वस्त्वेवं भिद्यते स्वरूपादविपर्ययगत्या, यद्यभावो भावो भवेत् स तु न भिद्येत 15 कथञ्चित् । उपचितापचितभवनो वा स एव भावो न भिद्यत इति न काचिदवस्था दधिघटादिरादिनिधनविभागवती, क्षीरदध्याद्यवस्थास्वेकरूपत्वाद्भवनस्य । स एव ह्युत्पातायुदकाग्निवदिति, यावदन्यथापि वर्तत एव, यथोत्पाते ज्वलनमुदकस्य शीतद्रवादिगुणस्य सतोऽपि तद्विरोध्यग्निधर्मापत्त्या दृष्टो भेदोऽन्यथा वर्तमानस्यान्यथावर्त्तनम् , आदिग्रहणानिध्युपलब्धित्वेन भूम्यबादिवर्तनं भेदेन । तद्यथोक्तं महाकालमते 'ऊष्मा सहस्रसंख्ये 20 धूमो लक्षे ज्वलनं कोटौ' इति । तथा चित्रकर्मादी हसनरोदनस्थानसंक्रान्त्यादिभेदरूपेण स एव भावो भवतीति तस्मान्नास्ति भेदः । भिद्यमानं हि वस्त्वेवं भिद्यते स्वरूपादविपर्ययगत्या, ययभावो भावो नानां निर्विषयत्वप्रसङ्गः, अतः पूर्वादिप्रतिभासनमेव भेदप्रतिभासनमिति भेदस्य प्रत्यक्षग्राह्यतेति भावः । पूर्वोत्तरशब्देनोपलक्षितानाह-पूर्वोत्तरेति देशशब्देन पृथुबुनादयो घटादेरवयवा ग्राह्याः। कालभेदेन यथा मासिकोऽयं सांवत्सरिकोऽयं घट इत्यादि,परिमाणभेदेन यथा-महानयं दीर्घोऽयं हखोऽयमित्यादि । अथ पूर्वादयो न भावव्यतिरिक्ताः सन्ति, भावव्यतिरिक्तत्वे 25 हि भवनधर्मत्वाभावाद्गगनकुसुमवदेवाभावस्तेषामतो न तैरर्थानां भेदोऽभूद्भवति भविष्यति वेति भेदस्यैवासिद्धेः कथं प्रत्यक्षप्रा ह्यत्वमित्युत्तरयति-नास्ति किश्चिदिति । यत्तदेवमिति । यत्तदेवंप्रकारः पूर्वोत्तरादिरूपो धर्मो यस्य वस्तुनस्तदेवं. धर्म पूर्वोत्तरादिविशिष्टं घटादिवस्तु नास्तीति भावव्यतिरिक्तं पूर्वोत्तरादि न विद्यतेऽत एव नाविद्यमानाद्धटपटादिभेदो भवितुमर्हतीति भावः । ननु तर्हि भेदस्याभावे कथं पूर्वोऽयमुत्तरोऽयमूोऽयमधरोऽयमित्यादिभेदस्य प्रत्यक्षत्वमित्यत्राह-स एवेति । यथोत्पात इति, यथा हि उत्पातसमये शीतस्पर्शद्रवत्वादिगुणविशिष्टं तोयः तद्विरोध्यमिधर्मापत्त्या ज्वलनरूपतया 30 भवति स एवान्यथा वर्तमानस्यान्यथा वर्तनलक्षणो भेदः तथा निध्यादिरहितस्य भूम्यादेर्निध्यादिविशिष्टतया वर्तनमेव भेद इति भावः । तत्र प्रमाणभूतं श्लोकमाह-ऊष्मेति, उदके सहस्रसंख्यावदणुप्रवेशे ऊष्मा भवति लक्षसंख्याणुप्रवेशे धूमो जायते कोटिसंख्याणुप्रवेशे चोदकस्य ज्वलनं जायत इति तदर्थः । दृष्टान्तान्तरमाह-तथा चित्रेति । भेदप्रतीतिमुपपादयतिभिधमानं हीति, वस्तु खखरूपमजहदेव भिद्यते इत्यर्थः, यद्यभावोऽपि भावः स्यात्तर्हि अभावाभावयोमेंदो न स्यात्, 2010_04 Page #343 -------------------------------------------------------------------------- ________________ मैदस्याप्रत्यक्षता] न्यायागमानुसारिणीव्याख्यासमेतम् २९३ भवेत् भावस्ततो न भिद्येत कथञ्चिदित्यभावो न भवति । भावादभावो हि भिन्नः, उपचितापचितभवनो वेति स एव भावो न भिद्यत इति, कथञ्चिदुपचितापचितभवनो वेति सम्बन्धः, यावद्भवितव्यं तावदेव न न्यूनो नाधिको वा भवति स भावः। इतिशब्दो हेत्वर्थे, उपचितापचितभवनाभावे दधिघटाद्यवस्थानामादिनिधनविभागाभावदर्शनादिति हेतुः, तं दर्शयितुमाह-इति न काचिदवस्था दधिघटादिरादिनिधनविभागवती-आदिः प्रागविद्यमानस्योत्पत्तिः, निधनं विद्यमानस्य विनाशः, विभागोऽन्य- 6 त्वम् , एते चादिनिधनविभागा दधिघटाद्यवस्थानां न सन्ति, पूर्वोत्तरोत्पत्तिविनाशवस्तुप्रविभागाभावस्य प्रतिपादितत्वात् ततस्तदभावात् नोपचीयते नापचीयते चासौ भावः क्षीरदध्याद्यवस्थास्वेकरूपत्वाद्भवनस्य मृत्पिण्डघटाद्यवस्थासु चेति । एतस्य हेतोरसिद्धिं परिहरन् परपक्षेऽनिष्टापादनेन तत् साधयति यदि स्यात् सा खपुष्पावस्थापि तत्रयधर्मा स्यात् सर्वतो व्यावृत्तत्वात् दधिघटवत् । 10 महापृथिवीवियदवस्थे सादिनिधनविभागे स्याताम् , इतरेतरासत्त्वात् घटवत्, घटोऽपि वाऽनादिः अत एव, आकाशमहापृथिवीवदिति । यदि स्यादित्यादि, आदिनिधन विभागवती यदि स्यात् सा दधिघटाद्यवस्था खपुष्पावस्थापि तत्रयधर्मा स्यात् , सर्वतो व्यावृत्तत्वात् , दधिघटवत् । सर्वतो व्यावृत्तत्वं च सिद्धं घटस्य, दधिघटाधवस्थानाश्च भेदाभ्युपगमात् । तथानिच्छतस्तद्विपर्ययेण खपुष्पधर्मापादनं घटस्य, गतार्थ साधनद्वयम् 15 महापृथिवीवियदवस्थे सादिनिधनविभागे स्यातामितरेतरासत्त्वात् , घटवत्, घटोऽपि वाऽनादिःअनाविरनिधनो निर्विभागश्च स्यादत एव-इतरेतरासत्त्वादेव आकाशमहापृथिवीवदिति, घटभेदाभ्युपगमेनैवैतत्साधनमनिष्टापादनमिति । एवं तावदुपचितापचितभेदाभावः । यदप्युक्तं प्रत्यक्षत एव भेदो गृह्यत इति तहणमपि नैव भेदस्याभावादेव, अभावः कल्पनात्मकत्वात् , कल्पनात्मकश्चासन् , 30 बस्तुनोऽन्यथात्वात् , सा च कल्पना देशतः कालतो वा स्वरूपत एव भिन्नेष्वर्थेष्वभेदकल्पना भवनस्य खरूपस्यात्यागेनोभयोर्भावत्वप्रसङ्गात् ; भावाद्भिनो ह्यभावः, तस्मान्नाभावो भवतीति भावः । न न्यून इति, मापचयभाव इत्यर्थः, नाधिको वेति न वोपचयभाव इत्यर्थः, न हि भावस्योपचयापचयभावो भवतीति भावः । अत्रार्थे हेतुमाह-उपचितापचितेति । कुत आदिनिधनविभागा दध्यादीनां न सन्तीत्यत्राचष्टे-पूर्वोत्तरेति । तदभावादिति, पूर्वोत्तरोत्पत्तिविनाशवस्तुप्रविभागाभावादित्यर्थः । उपचयाद्यभावे साधनमाह क्षीरदध्यादीति, तत्रयधर्मेति आदिनि- 25 धनविभागवतीत्यर्थः, तत्र हेतुमाह-सर्वतो व्यावृत्तत्वादिति, सर्वस्माद्भिनत्वादित्यर्थः । तत्रासिद्धिं वारयति-सर्वत इति । यदि तथापि खपुष्पावस्थायाः तत्रयधर्मत्वं नाङ्गीक्रियते तर्हि तद्वद्धटाद्यवस्थानामपि तत्रयधर्मता न स्यादित्याहतथानिच्छत इति । आदिनिधनविभागाभावे भवनस्यैकरूपत्वं सर्वतो व्यावृत्तत्वञ्च हेतुद्वयं स्फुटार्थमित्याह-गतार्थमिति । सर्वतो व्यावृत्तत्वाभ्युपगमे दोषान्तरमाह-महापृथिवीति, एतयोर्नित्यत्वाभ्युपगमादनिष्टप्रसञ्जनं बोध्यम् तथाप्येतयोरनादिनिधनविभागात्मकत्वे घटादिरपि तथा स्यादित्याह-घटोऽपि घेति । इतरेतरासत्त्वं-भेदस्तस्य घटा-30 दावभ्युपगम्यैवायमनिष्ट आपाद्यत इत्याह-घटमेदेति । भेदस्य प्रत्यक्षेण यद्हणं पूर्वमभिहितं तदपि न युक्तं भेद स्यैव प्रत्यक्षविषयतयाऽभिमतस्य खपुष्पवदभावात्, अन्यथा तस्यापि प्रत्यक्षतो ग्रहणं भवेदित्याह-तब्रहणमपीति । कथं मेदस्याभावः प्रत्यक्षतो गृह्यमाणस्य, अन्यथा भावस्थापि अभावप्रसङ्गादित्याशङ्कायामाह-अभाव इति । भावस्यै. 2010_04 Page #344 -------------------------------------------------------------------------- ________________ २९४ द्वादशारनयचक्रम् [विधिविध्यरे स्यात् , देशकालाद्यभेदे वा भेदकल्पना स्यात् , उभयथाप्यसद्रूपत्वं कल्पनायाः, इह तु देशकालाभ्यामभेदो नास्ति, घटादेः कपालादित्वेन भिद्यमानस्य वस्तुनो यावत् परमाणुशो रूपादिशोऽनभिलाप्यत्वशश्च भेदात् , कालतश्च क्षणे क्षणेऽन्यत्वात् , तस्मादनभिलाप्य. परमार्थस्य च वस्तुनो घट इति रूपादिरिति ग्रहणमसदध्यारोपात्मकम् , देशकालाभेदा5 भावात् , खपुष्पवत् । (तब्रहणमपीति) तद्ब्रहणमपि नैव भेदस्याभावादेव खपुष्पग्रहणवत्, अभावः कल्पना. त्मकत्वात् , तस्य भावैक्यस्य साधितत्वाद्भेदः कल्पनात्मकः, कल्पनात्मकश्चासन् , वस्तुनोऽन्यथात्वात् , सा च कल्पना देशतः कालतो वा स्वरूपत एव वा भिन्नेष्वर्थेष्वभेदकल्पनाद्वा स्यात् देशकालाद्यभेदे वा भेदकल्पना स्यात् उभयथाऽप्यसद्रूपत्वं कल्पनायाः । इह तु त्वन्मतेन देशका10 लाभ्यामभेदी नास्ति भेद एव, घटादेः कपालादित्वेन भिद्यमानस्य वस्तुनो यावत् परमाणुशो रूपादिशोऽनभिलाप्यत्वशश्च भेदादभेदाभावः, कालतश्च क्षणे क्षणेऽन्यत्वात् , तस्मादनभिलाप्यपरमार्थस्य च वस्तुनो घट इति रूपादिरिति वा ग्रहणमसध्यारोपात्मकं देशकालाभेदाभावात् खपुष्पवत्, खपुष्पे इव खपुष्पवत् , तत् प्रत्यक्षाभासमेवेत्यर्थः । __ यदप्युच्यते अभेदश्च न गृह्यते प्रत्यक्षत इति तदपि न यस्मात्15 अभेद एव तु गृह्यते प्रत्यक्षतः भावस्याभिन्नत्वाद्गृह्यमाणस्य च भावत्वात् । (अभेद इति) अभेद एव तु गृह्यते प्रत्यक्षतः, किं कारणं ? भावस्याभिन्नत्वात्, गृह्य. माणस्य च भावत्वात् , नाभावो गृह्यते, यथा खपुष्पादि । यदि ब्रूयास्त्वम् अथ समस्त एव कस्माद्भावो न गृह्यते ? अत्र तु समस्तग्रहणं वक्ष्यामः, त्वां तु किश्चित् 20 पृच्छामः पश्यता त्वया घटं किं. समस्त. एव घटो न गृह्यते ? परान्तरादिभागाः किं न प्रत्यक्षाः? आरादागा एव किं प्रत्यक्षाः? इति, किञ्च समानदोषत्वादचोद्यमेतत्-भावस्य सर्वगतस्याप्रत्यक्षत्वदोषो मम नास्तीति विशेष पश्यत एव युज्येत वक्तुमित्थं भवति तथा न भवतीति, न तु सर्वत्रैवादशेनभाक् पक्षो यस्य तस्य । कत्वाद्भेदो न वास्तविकः, किन्त्वन्यथा विद्यमानस्यान्यथा प्रतिभासनाद्भेदबुद्धिः कल्पनात्मिकैवेत्याह-तस्य भावैक्य25 स्येति, देशतः कालतः स्वरूपतो वा भिन्नेष्वर्थेषु अभेदस्य देशादितोऽभिन्नेषु भेदस्य वा कल्पना भवेत् , उभयथापीयमसद्रूपैवेत्याह-सा चेति । उभयविधकल्पनामध्ये भवन्मते देशकालादितोऽभेदो नास्त्येव, भेदस्यैवाङ्गीकारात्, देशादितश्च भिद्यमानं वस्तु यावत् परमाणु शो रूपादिशोऽनभिलाप्यत्वशश्च भिद्यते, एवञ्चानभिलाप्यस्य प्रत्यक्षाविषयस्य भेदस्य घटोऽयमिति रूपमिदमिति चाभिलाप्यतया प्रत्यक्षाभ्युपगमात् तदसत्, अध्यारोपात्मकमेव, अभेदाभावादित्याह पति । तथा च भेदप्रत्यक्षं प्रत्यक्षाभास एवेति भावः। तदेवं भेदः प्रत्यक्षेण गृह्यत इति निराकृत्याभेदो न 30 प्रत्यक्ष इत्येतत्पदं निराकरोति-अभेद एव त्विति भावो हि गृह्यते, स चाभिन्नात्मा, अतोऽभेद एव प्रत्यक्षविषय इत्यर्थः । ननु यदि भेदो न गृह्यते, गृह्यमाणश्चाभेदरूपो भाव एव, तर्हि पूर्णतया भावस्य ग्रहणं स्यात्ततश्च सर्वे सर्वज्ञा एव भवेयुः, सर्वग्रहणादित्याशङ्कते यदि ब्रूया इति, अस्योत्तरमने प्रश्नानन्तरमेव वदाम इत्याह अत्र त्विति । प्रथमं तव दुराग्रहव्यपनोदनाय त्वां किञ्चित् पृच्छामः येनानेकप्रकारेण पराजितस्त्वं निरुत्तरीभूय 2010_04 Page #345 -------------------------------------------------------------------------- ________________ अमेदपक्षएव दर्शनम्] न्यायागमानुसारिणीव्याख्यासमेतम् अथ समस्त एव कस्माद्भावो न गृह्यत इति, अत्र तु समस्तग्रहणं वक्ष्यामः सकारणम् , त्ववाहविनिवृत्त्यर्थत्वात्तावत्त्वां किञ्चित् पृच्छामो नानाहतमुखो मूकस्तिष्ठत्विति, अथ भेदपक्षे पश्यता त्वया घटं किं समस्त एव घटो न गृह्यते ? इति, परान्तरादिभागाः किं न प्रत्यक्षाः ? आराद्भागा एव किं प्रत्यक्षाः ? इति, अत्र विशेषकारणं कथयेति । किश्चान्यत्-समानदोषत्वादचोद्यमेतत् । उभयोः समानो दोषो नासावेकश्वोद्यः, भावस्य सर्वगतस्याप्रत्यक्षत्वदोषो मम नास्तीति स्वपक्षे भेदस्य प्रत्यक्षत्वादिति विशेषं तव पश्यत एव युज्येत वक्तुमित्थं भवति तथा न भवतीति, एतदपि सम्भावनयोच्यते, न तु सर्वत्रैवादर्शनभाक् पक्षो यस्य तव तस्य, न तु युज्यत एवेत्यर्थः, सर्वत्रैव न घटे न रूपादौ वा न क्वचित् प्रत्यक्षता युज्यत इत्यर्थः, अथवा स्वपरपक्षयोः सर्वत्रैव, एतदुक्तं भवति-एवं हि स्वपक्षरागाविष्टो भवान् परमत्सरेण स्वदोषं नैव पश्यति, स्वचरणलग्नपाशादर्शी प्रयोजनावस्थितामिषदर्शीव शकुनिः, त्वत्पक्षेऽत्यन्तदर्शनासम्भवादेव घटादेः प्रत्यक्षत्वाभावः। 10 इदानीमभेदपक्ष एव दर्शनं सम्भवति नान्यत्रेति वक्ष्याम इति यदुक्तं तदर्शयिष्यन्नाह तत्तु दर्शनमत्रैव निर्वर्त्तते न भेदपक्षे, इह यदेतत् सर्व तद्भाव एव, तस्य य एकदेशः तस्य ग्रहणे तस्यैव ग्रहणं ततोऽभिन्नत्वात्, तद्भावत्वात् देशस्वात्मवत्, तस्य ह्येकोऽपि प्रथनं प्रतिदेशःसवोविभक्तभवनवृत्त्यात्मकत्वात् सार्वरूपमनतिक्रान्तः ततोऽभेदपक्ष एव दर्शनम् । नन्वेकदेशश्च स एव चेति विप्रतिषिद्धमिति चेन्न ज्ञायमानत्वापेक्षयोक्तत्वात् त्वन्मत्या 18 सावयवदर्शनं नान्यस्येति । तत्तु दर्शन मिति, तत्पुनदर्शनं, तुर्विशेषे, विशेषेणात्रैव-अभेदपक्षे एव निर्वर्त्तते नान्यवेति-न भेदपक्षे यावन्निरुपाख्यत्वशो भेदादित्युक्तम् । दर्शनं तर्हि कथमिति तत्समर्थयति-इह-अभेदे भावे यदेतत्सर्वं तद्भाव एवाभिन्नत्वात्, तस्य-अभिन्नस्य भावस्य एकदेशो घटः, तस्य ग्रहणे-घटस्य प्रहणे तस्यैव ग्रहणं-भावस्यैव ग्रहणं समस्तस्य । किं कारणं ? ततोऽभिन्नत्वात्-ततो भावाद्भूटस्याभि-20 नत्वात् , घटाद्वा भावस्थाभिन्नत्वात् , तद्व्याचष्टे-तद्भावत्वातू-तस्यापि भावत्वात्तद्भावत्वात् , पर्यामूक इव तिष्ठेरित्याह-स्वाहेति । पृच्छां प्रकाशयति-अथेति । यत्रोभयोः समो दोषः परिहारोऽपि तादृशः । नैकः पर्यनुयोकव्यस्तागर्थविचारणे ॥ इति न्यायं दर्शयति-किश्चान्यदिति। भेदपक्षेऽमेदपक्षे च समस्तग्रहणविषये चोद्यदोषो तुल्याविति मन्मते भेदस्य सर्वतः प्रत्यक्षं भवति, न त्वमेदपक्षे भावस्य सर्वत इति न पर्यनुयोतन्य इति भावः। तथा भवता तु वक्तुं शक्यते भेदपक्षेऽनभिलाप्यपरमार्थस्य वस्तुनोऽतीन्द्रियत्वेन सर्वस्यैवादर्शनविषयत्वेन रूप-25 घटादेः सम्भावनयैव प्रत्यक्षस्य वक्तव्यतया नामेदपक्षं दूषयितुं समर्थों भवानिति निरूपयति-एतदपि सम योच्यत इति। सर्वत्रेत्यस्य व्याख्यान्तरमाह-अथ वेति । तात्पर्यमाख्याति-एतदुक्तमिति । अथाभेदपक्ष एव दर्शनं सम्भवतीत्यभिधातुमुपक्रमते-इदानी मिति । भेदपक्षे प्रत्यक्षासम्भवे हेतुं पूर्वमुदितमेव दर्शयति-यावदिति । अभेदपक्षे च सर्वस्यैव भावत्वाद्धटादेश्चैकदेशत्वाद्धटादेश्च प्रत्यक्षतो ग्रहणे तदभिन्नोऽपि भावस्समस्ततया गृहीत एवे. साह-इहामेदे भाव इति। हेतुमाह-ततोऽभिन्नत्वादिति, भावाद्गृह्यमाणस्य घटादेरभिन्नत्वादित्यर्थः, गृह्यमाणस्य 30 भावादभेदेऽपि भावस्य किमायातमित्यत्राह-घटाद्धति, तथा च घटाद्भावस्याभिन्नत्वात् सोऽपि गृहीत एवेति भावः। तमेव भावमाख्याति-तद्भावत्वादिति, घटस्थापि भावत्वादित्यर्थः । ततोऽभिन्नत्वतद्भावत्वयोर्न व्याख्यानव्याख्येयभावोऽपि तूभयोः पर्यायविशेषत्वाद्धत्वन्तरमेवेत्याह-पर्यायान्तरेणेति, घटस्य भावादभिन्नत्वादेव घटोऽपि भाव एव.स चासौ भावश्च तद्भावस्तस्मादिति विग्रहः, तद्भावत्वादेव समस्तो भावोऽपि गृह्यत एवेत्यर्थः । तत्र व्याप्तिमादर्शयति _ 2010_04 Page #346 -------------------------------------------------------------------------- ________________ द्वादशारनयचक्रम् [विधिविध्यरे यान्तरेण हेत्वन्तरं वा घटोऽपि भाव एव चाभिन्नत्वात् , यो यो भावः स स तद्ब्रहणेन गृह्यते, दृष्टान्तो देशस्वात्मवत्-तस्य देशस्य स्वात्मा-देशस्य भावः स्वं तत्त्वं भावादभिन्नत्वात् तद्भावत्वाद्गृह्यते भाववत्, तथा देशग्रहणे समस्तो भावः तद्भावत्वाद्गृह्यते, एतद्भावनार्थमाह-तस्य ोकोऽपि प्रथनं प्रति देशः, हि शब्दो यस्मादर्थे, यस्मात्तस्यैकोऽपि देशः प्रख्यान् सर्वाविभक्तभवनवृत्त्यात्मकत्वात्-सर्वेण समस्तेन भावेन अविभक्तां भवनमित्येवैकां वृत्तिमनुभवत्यात्मरूपामिति सोऽपि देश: सर्वभावात्मा, प्रागुक्तपाण्याद्यवयवपुरुषात्मत्ववत्, अत आह-तस्य ह्येकोऽपि प्रथनं प्रतिदेशः सर्वाविभक्तभवनवृत्त्यात्मकत्वात् सार्वरूपमनतिक्रान्तः, ततोऽनेन न्यायेन देशग्रहणे समस्तग्रहणमित्यभेदपक्ष एव दर्शनं नान्यत्रेति । नन्वेकदेशश्च स एव चेति विप्रतिषिद्धमिति चेन्न ज्ञायमानत्वापेक्षयोक्तत्वात् त्वन्मत्या सावयवदर्शनं नान्यस्येति, नन्वेकदेशः सावयव इव निरवयवोऽपि प्रख्यातीति मया 10 तथोक्तम् , परमार्थतस्तु निविभाग एवासावुक्तो वक्ष्यते च । अथवा प्रथनं विस्तारो विस्तीर्णत्वात्तस्य भावस्य, प्रथनं देशं प्रतीत्य देशः, तस्माचाविभक्त इत्युक्तम् । अत आह___ न चास्योद्धोधस्तिर्यग्दिक्षु मूर्तिविवर्त्तप्रत्यङ्गानामेकत्वाभिमतभेदवदेकत्वात् क्वचिदवच्छेदो विद्यते दक्षिणोत्तरयोरपि किमु घटपटयोर्भवनैकमूर्तिविवर्तानवच्छेदात् इति स भावो 15 ध्रुवः कूटस्थोऽविचाली अनपायोपजनोऽविकार्यनुत्पत्तिरवृद्धिरव्ययः । एतानि हि नित्यविशेषणानि भावस्यैव घटन्ते न पुरुषादीनाम् , उक्तवत् । (न चेति) यथैकत्वाभिमतस्य भेदस्य-घटादेर्मूर्तेः-शरीरस्य विवर्तानां-विभागानामृर्वाधस्तिर्यग्दिक्तयाऽङ्गावयवतया न परम्, किन्तु प्रत्यङ्गतया च पुरुषपाण्यादिवत् कपालादित्वेनावभास मानानामेकान्ताभेदः, चक्षुरादिग्राह्याभिमतः एकत्वानिर्विभागस्तथा भावविवर्त्तप्रत्यङ्गानां तदेकरवा20 निर्विभागः, तस्माद्भावस्य न कचित्तदभिमतभेदवदेकत्वादवच्छेदो विद्यते यथा वा घटादित्वेन यथा यो य इति । यत्र यत्र तद्भावत्वं तत्र तत्र तद्ग्रहणेन गृह्यमाणत्वमिति भावः । देशवात्मवदिति, देशः एकदेशः तस्य खात्मा-भावः खतत्त्वभूतः स च यथा ततोऽभिन्नत्वात्तद्भावत्वादेशग्रहणे समस्तो भावो गृह्यते तद्वदित्यर्थः, यथा घटादेः पुरोभागे गृहीते पूर्णो घटो गृह्यत एव तथेति भावः । अमुमर्थमेव भावयति-तस्य हीति, भावस्य हि घटादिलक्षण एकोऽपि देशः प्रथमानः समस्तभावेनापृथग्भूतो भवनलक्षणैकात्मकतया सार्वरूप्यं नातिकामतीति अभेद 28 एवं गृह्यते प्रत्यक्षत इति भावः । ननु घट एकदेशश्चेत् कथं स एव. स एव चेत्कथमेकदेशः विरुद्धत्वात्तयोरित्याशङ्कते नन्विति । ज्ञानविषयत्वाभिप्रायेणैवमुक्तमित्युत्तरयति-ज्ञायमानेति । यथा त्वया सावयवो दृश्यत इत्युच्यते तथैव मयापि निरवयवोऽपि दृश्यत इत्युच्यत इति ज्ञानविषयत्वापेक्षया स चैकदेशश्चेत्युक्तम्, वस्तुतस्तु सावयवदर्शन नास्त्यैव, निर्विभागस्योकत्वाद्वक्ष्यमाणत्वाच्चेल्याह-नन्वेकदेश इति। प्रथनशब्दस्य व्यापकत्वार्थकतामभ्युपेत्यापि विभा गाभाव उक्त इत्याह-अथ वेति । भावस्य सर्वदिगवच्छेदेनापि विभागो नास्तीत्याह-न चास्येति. यथा पुरुषकरादे30 रवयवतया भासमानाकुल्याद्यपेक्षया भेदो नास्ति यथा वा घटादेरेकत्वेनेष्टस्य पृथुबुनग्रीवाद्यपेक्षया न भेदः तथा भावस्याप्येकदेशतयाऽभिमतघटाद्यपेक्षया ऊधिोभागाद्यवच्छेदेन वा नास्ति विभाग इत्याशयं स्फुटयति-यथैकत्वाभिमतस्येति । भङ्गावयवतयेति परं केवलमशात्मकावयवतयैवाभेदो न किन्तु प्रत्यङ्गतयापीति भावो गम्यते । यथा घटादित्वेनेति, यथा घटादित्वेन घटादेः रूपादित्वेन वा घटरूपादेरेकत्वाद्विभागो नास्तीति भावः । अत 2010_04 Page #347 -------------------------------------------------------------------------- ________________ प्रत्यक्षप्रामाण्यमिहैव] न्यायागमानुसारिणीव्याख्यासमेतम् २९७ . यदि रूपादित्वेन त्वदिष्टभेदवदेव । इतिशब्दो हेत्वथै, यस्माद्विभागावच्छेदाभावाद्धेतोः स भावो ध्रुवः त्रिध्वपि कालेषु, कूटस्थो माषराशिस्थमाषवत् सर्वेगैकीभूत एव, अविचाली-न स्थानात् स्थानान्तरं संक्रामति, अनपायोपजन:-कोष्ठागारधान्यवन्निर्गमप्रवेशापायोपजनौ भावस्य न स्तः, अविकार्यपिस्वस्थानस्थस्यापि नर्तकीभ्रूक्षेपादिवद्विकाराभावात्, अनुत्पत्ति:-प्रागभूत्वा घटादिवदुत्पत्यभावात, अवृद्धिः-अङ्करपत्रवदुपचयाभावात् , अव्यय:-वृक्षादिपत्राद्यवयवखण्डादिवव्ययाभावात् । एतानि हि 5 नित्यविशेषणानि भावस्यैव घटन्ते न पुरुषादीनाम् , अत्र भावे ध्रुवादिनित्यलक्षणयोगः परपरिकल्पितभेदासम्भविधर्मत्वेन व्याख्यातः, स्वरूपतो निदर्शनाभावादुक्तवदिति च पूर्वोत्तरोत्पत्तिविनाशवस्तुप्रविभागाभाषायुक्तो नित्यैकसर्वात्मकत्वातिदेशः । किश्चान्यत् अस्य प्रत्यक्षप्रमाणसिद्धिरिहैव, यथार्थवस्तुविषयत्वात्, अन्यत्रानुमानतैव भावे, सम्ब' 10 न्धैकदेशप्रत्यक्षप्रत्ययशेषसिद्ध्यात्मकत्वात् ।। (अस्येति) अस्य प्रत्यक्षप्रमाणसिद्धिरिहैव-अभिन्नभावपक्षे प्रत्यक्षवादावस्य प्रत्यक्ष प्रमाणं सिमति, उक्तवदिति वर्त्तते । यथोक्तम् 'तस्प होकोऽपि प्रथनं प्रतिदेशः सर्वाविभक्तभवनवृश्यात्मक त्वात् सार्वरूपमनतिकान्तः, ततस्तद्भावत्वात्ततोऽभिन्नत्वात्तस्य य एकदेशस्तस्य प्रणे तस्यैव ग्रहणम्, देशखात्मवदिति उक्त भावप्रत्यक्षत्वम् , ततः सर्वप्रमाणज्येष्ठप्रत्यक्षप्रमाणसिद्धिरिहैव, यथार्थवस्तुवि-15 षयत्वात् । अन्यत्रानुमानतैव भावे-वस्तुपवादन्यत्र भेवपक्षेऽनुमानतैव प्रत्यक्षाभिमतस्यापि, कि कारणं ? सम्बन्धैकदेशप्रत्यक्षप्रत्ययशेषसिद्ध्यात्मकत्वात्-द्वयोः सम्बद्धयोः सम्बन्चे तदेकदेशप्रत्यक्षत्वे तत्प्रत्ययाच्छेषसिद्धिरात्मा--अनुमानस्येति तदात्मकं तत् । सम्बद्धैकदेश इति वा पाठः, यथोक्तम्-'सम्बद्वादेकस्मात् प्रत्यक्षाच्छेषसिद्धिरनुमानम्', सम्बद्धानां भावानां स्वभावेन चेत्यादिना सप्तविधेन कश्चिदर्थः कस्यचिदिन्द्रियस्य प्रत्यक्षो भवति, तस्मादिदानीमिन्द्रियप्रत्यक्षात शेषस्याप्रत्यक्षस्यार्थस्य या सिद्धिरनुमानं 20 एवासौ भावो ध्रुवादिलक्षणो नित्य इत्याह-स भाव इति । एते ध्रुवादिलक्षणा धर्माः भावस्यैव सम्भवन्ति, न तु परपरिकल्पितेषु भेदेषु, अत एते परपरिकल्पितमेदेष्वसम्भविनो धर्माः अत एवमेव व्याख्याताः, भावसहएसाम्पस कस्याप्यभावात् यथा स ध्रुवादिलक्षणस्तथाऽयं भावोऽपीति वक्तुमशक्यत्वादत आह-अत्र भावे इति । खरूपतो निदर्शनाभावे हेतुं सूचयति-उक्तवदिति, पूर्वोत्तरयोरभावादेषोत्पत्तिविनाशौ म स्वः, तत एव घस्तुप्रकिभागोऽपि न, तस्मात् पूर्वोत्तरोत्पतिविनाशवस्तुप्रविभागाभावात् किं तत् प्रविभकं प्रविभज्यते प्रविभक्ष्यते स्युक-25 त्वान्नास्ति तत्समः कोऽपि भावोऽत एवायमेव ध्रुवादिधर्मा सर्वात्मकचेति भावः। अथाभिमभावेऽसीक्रियमाणे सस्लेव प्रत्यक्ष प्रमाणतामञ्चति, प्रत्यक्षस्य निर्विभागवस्तुग्राहकस्वात् अर्थस्य निर्विभागत्वात्तस्य यथावस्तु विषयकरवम् । वस्सुनो मेदात्मकतायान्तु तस्यानुमानविषयत्वमेव, पुरोवर्तिभागमहणेऽपरेषामनुमानविषयत्वात् , सम्बद्ध कदेशज्ञानादपरसम्बद्धप्रहगात्मकरवादनुमानस्येत्याह-अयेति । उक्तवदित्यकमेव प्रकाशयति-यथोक्तमिति. पूर्वमनुपदमेवोक्तमित्यर्थः । वस्तुपक्ष:-अभिन्नवस्तुपक्ष इत्यर्थः । सम्बन्धैकदेशेति, सम्बन्धिनो योरवयवयोरवयवावयविनोर्वा यः सम्बन्ध: 30 संयोगस्तादात्म्यं वा तस्य य एकदेश एकावयवस्तस्य प्रत्ययात् प्रत्यक्षात् शेषस्यापरस्यावयवस्यावयविनो वा या सिद्धिनिर्णयः परिच्छेदो यो भवता प्रत्यक्षस्यास्मेति मन्यते सोऽनुमानस्यैवात्मेत्यर्थः । सम्बद्धानां 'भावानामिति, अविनाभावज्ञापकसम्बन्धेन स्वभावव्यापककार्यकारणपूर्वोत्तरसहचरत्वलक्षणेन सम्बद्धानां मध्ये कस्यचिदर्थस केनचिदिन्द्रियेण द्वा० न० ३८ 2010_04 Page #348 -------------------------------------------------------------------------- ________________ द्वादशारनयचक्रम् .. [विधिविध्यरे. तत् यथा धूमदर्शनादग्निरिति ज्ञानम् , तथाऽऽत्मेन्द्रियमनोऽर्थसन्निकर्षजपूर्वकं त्रिविधं पूर्ववदित्यादिलक्षणमेव तत्र संभवति, देशग्रहणस्याऽऽराद्भागविषयस्याशेषतद्वस्त्वसंस्पर्शादेकदेशग्रहणेन शेषग्रहणमनुमानमेव । तस्यानुमानत्वेऽपि मा स्थिरां बुद्धिं कार्षीरित्यत आह। कुतोऽनुमानताऽपि ? प्रत्यक्षत्वासिद्धेः, सम्बद्धयोः कदाचिदप्यग्रहणात्, प्रत्यक्षपूर्वत्वे तत्सम्भवात्, तदभावे तदसिद्धेः। (कुत इति) कुतोऽनुमानताऽपि ? प्रोक्तन्यायेन प्रत्यक्षत्वासिद्धेः, कथमिति चेत् ? सम्बद्धयोः कदाचिदप्यग्रहणात्, प्रत्यक्षकाले हि सम्बद्धयोर्युगपद्हणादुत्तरकालमेकदेशग्रहणाद्विशेषणादवगम्यमानमनुमानं स्यात् , तदेव तु प्रत्यक्षदर्शनं नास्तीत्युक्तम् , प्रत्यक्षपूर्वत्वे तत्सम्भवात् प्रत्यक्षसिद्धौ तद्वले10 नानुमानसिद्धिः सम्भाव्यते, तदभावे तदसिद्धेः, प्रत्यक्षत्वासिद्धेरनन्तरोक्तत्वादेव फुतोऽनुमानताऽपि ? । इतरो निराशीभूत आह तत् किमज्ञानमेवापद्यते ?, कुतोऽज्ञानमपि तत्प्रत्यक्षम् ?, प्रत्यक्षपूर्वकाज्ञानत्रयेऽनन्त - वात् , संशयविपर्ययानध्यवसाया अज्ञानविकल्पाः प्रत्यक्षपूर्वकाः तत्र संशयनीयविपर्ययितव्यविषयप्रत्यक्षात्यन्ताभावात् कुतः संशयविपर्ययौ, अनध्यवसायोऽध्यवसायपूर्वः, स चाधिकोs16 वसायोऽध्यवसायस्तव्यावृत्तिविषयाध्यवसायासम्भवात् कुतोऽनध्यवसायः । (तत्किमिति) तत्किमज्ञानमेवापद्यते ? आचार्य आह-कुतोऽज्ञानमपीति, न भवति त्वदभिमतं तत् प्रत्यक्षम् , कुतः ? प्रत्यक्षपूर्वकाज्ञानत्रयेऽनन्तर्भावात् , संशयविपर्ययानध्यवसाया अज्ञानविकल्पास्ते च प्रत्यक्षज्ञानपूर्वकाः, संशयस्तावत् 'सामान्यप्रत्यक्षाद्विशेषाप्रत्यक्षाद्विशेषस्मृतेश्च संशयः' (वै. अ. २ आ. २ सू. १७) तथा 'समानानेकधर्मोपपत्तेर्विप्रतिपत्तेरुपलब्ध्यनुपलब्ध्यव्यवस्थातश्च विशे20 षापेक्षो विमर्शः संशयः' (गौ० अ० १ आ० २३ सू.) इति, सामान्य विशेषयोः प्रत्यक्षपूर्वकत्वे प्रत्यक्षात् ततोऽपरस्याप्रत्यक्षस्यार्थस्य या सिद्धिस्तदनुमानमित्यर्थः । तथाऽऽत्मेन्द्रियेति, अत्र 'अथ तत्पूर्वकं त्रिविधमनुमान पूर्ववच्छेषवत् सामान्यतो दृष्टञ्च' (गौ० अ० १ आ. १ सू० ५) इति, अत्र तत्पूर्वकमित्यनेन लिङ्गलिगिनोः सम्बन्धदर्शनं लिङ्गदर्शनच्चाभिसम्बध्यते लिङ्गलिङ्गिनोः सम्बद्धयोर्दर्शनेन लिङ्गस्मृतिरभिसम्बध्यते, स्मृत्या लिङ्गदर्श. नेन चाप्रत्यक्षोऽर्थोऽनुमीयत इति तदनुमानं त्रिविधम् , तत्र पूर्ववत् यत्र-कारणेन कार्यमनुमीयते यथा-मेघोन्नत्त्या 25 भविष्यति वृष्टिरिति । शेषवत्तत् यत्र कार्येण कारणमनुमीयते यथा पूर्वोदकविपरीतमुदकं नद्याः पूर्णत्वं शीघ्रत्वञ्च दृष्टा स्रोतसोऽनुमीयते भूता वृष्टिरिति । सामान्यतो दृष्ट-व्रज्यापूर्वकमन्यत्र दृष्टस्यान्यत्र दर्शन मिति. यथा चादित्यस्य तस्मादस्त्यप्रत्यक्षाऽप्यादित्यस्य व्रज्येति (वात्स्यायनभाष्यम् ) ईदृशमनुमानलक्षणमेव भेदपक्षे प्रत्यक्षाभिमतस्य सम्भवति । तत्र हेतुमाह-देशग्रहणस्येति, इन्द्रियेण हि घटादेः पुरोवर्तिदेश एव गृह्यते, इति न प्रत्यक्षमशेष घटवस्तु स्पृश तीत्यर्थः । प्रत्यक्षस्यैव भेदपक्षेऽसम्भवात्तद्बलेन प्रभविष्णोरनुमानस्यापि न सम्भव इत्याशयेन कथयति-कुतोऽनु. 30 मानतापीति । हेतुमाह-प्रत्यक्षत्वासिद्धेरिति, तत्रापि हेतुमाह-सम्बद्धयोरिति, अविनाभावसम्बन्धेन सम्बद्धयोाप्यव्यापकयोरित्यर्थः, कदाचिदपि-अविनाभावग्रहणकाले, अनुमेयकाले वेत्यर्थः। कदाचित् पदं व्याख्यातिप्रत्यक्षकाले हीति, महानसादावविनाभावप्रत्यक्षकाले हि युगपद्वह्निधूमयोयुगपद्धहणात्ततश्च पर्वतादौ व्याप्यधूमादेर्दर्शनेनैकसम्बन्धिज्ञानादपरसम्बन्धिनोऽनुमानात्मकं ज्ञानं जायते, तच भेदपक्षे प्रत्यक्षस्यैवासम्भवेन कथं तज्ज्ञानमनुमानं स्यादिति भावः । अथ भेदवादी प्रत्यक्षेऽपि निराशीभूय किमस्माकं जायमानं प्रत्यक्षमज्ञानमेवेति पृच्छति-तत् किमिति, तत् प्रत्यक्षमित्यर्थः । तत्र संशयलक्षणं वैशेषिकसूत्रोदितमुपन्यस्यति-सामान्यप्रत्यक्षादिति 2010_04 Page #349 -------------------------------------------------------------------------- ________________ अमलं मलं भाति] न्यायागमानुसारिणीव्याख्यासमेतम् २९९ समानानेकधर्मत्वादीनि विशेषणानि स्युर्नान्यथा स्थाणुपुरुषादिष्विति संशयनीयार्थाभावान्न संशयः, तत एव विपर्ययितव्याभावान्न विपर्ययस्त्वन्मतेनैवेत्यत आह-संशयनीयविपर्ययितव्यविषयप्रत्यक्षात्यन्ताभावात् । अनध्यवसायोऽध्यवसायपूर्वः, स चाधिकोऽवसायोऽध्यवसायः प्रत्यक्षज्ञानं, एतदभावस्योक्तत्वात्, नाध्यवसायोऽनध्यवसाय इत्यधिकावसायासम्भवाश्च तद्व्यावृत्तिविषयाध्यवसायासम्भवात् कुतोऽनध्यवसायः ? । तस्मात् यदुक्तं 'पुढवीकायिकादिजीवा अच्चामूढत्तमविपचिटुंति' इत्यादि तत्सत्यम् । । __ अन्वाह च यथा विशुद्धमाकाशं तिमिरोपप्लुतो जनः । सङ्कीर्णमिव मात्राभिश्चित्राभिरभिमन्यते ॥ तथेदममृतं ब्रह्म निर्विकारमविद्यया । कलुषत्वमिवापन्नं भेदरूपं विवर्त्तते ॥ अन्वाह चेति, तस्मिन् जिनप्रवचनप्रसिद्धाभेदभावनिर्विकल्पविधिविधिनयदर्शने भेदाभावं प्रत्यक्षानुमानसंशयविपर्ययानध्यवसायासम्भवमनुवर्तमानोऽन्योऽप्याह-यथा विशुद्धमाकाशमिति दृष्टान्तसमर्थनं तिमिरोपप्लुतदृष्टेविशुद्धे नभसि केशोण्डुकमशकमक्षिकामयूरचन्द्रिकाऽदिमात्राभिरवयवैर्वि- 10 ततमिति निरवयवेऽप्यसङ्कीर्णे सङ्कीर्णदर्शनं भवति तथेदमिति दान्तिको भावैकपरमार्थः, अमरणादमृतमविनाशात, बृहत्त्वाद्ब्रह्म निर्विकारं निस्तिमिरं व्योमवदवस्थितम् , नपुंसकनिर्देशः सर्वभेदाभिमतासद्विकारसाधारणत्वात् , अव्यक्त गुणसन्देहे नपुंसकलिङ्गप्रयोगवचनात् , भवनापेक्षया वा नपुंसकम् । अकलुषमपि सदविद्यया ज्ञानाभासेन कलुषत्वमिवापन्नमनापन्नमप्यभेदरूपमपि सद्भेदरूपमाभाति । एवं तावदमलं मलरूपेणाभातीत्युक्तम् ।। 18 इदानीमेकं सदनेकधा प्रविभज्यत इति ब्रूमःतस्यैकमपि चैतन्यं बहुधा प्रविभज्यते । अङ्गाराङ्कितमुत्पाते वारिराशेरिवोदकम् ।। संशयविशेष्ये पुरोवर्तिवस्तुनि स्थाणुपुरुषसाधारणधर्मस्योर्द्धत्वादेः प्रत्यक्षात् स्थाणुत्वपुरुषत्वलक्षणविशेषधर्माप्रत्यक्षात तयोधर्मयोः स्मरणाचायं स्थाणुर्वा पुरुषो वेति संशयो भवतीति तदर्थः, अत्रेकविध एव संशय उक्तः । न्यायमते तु पञ्चविधः संशय उक्तः, तमेव गौतमसूत्रोपन्यासेन दर्शयति-समानानेकेति, साधारणधर्मविशिष्टधर्मिज्ञानजन्यं, असाधारणधर्म-20 विशिष्टधर्मिज्ञानजन्यं विरुद्धार्थप्रतिपादकवाक्यजन्यं, उपलब्धेरव्यवस्थाजन्यं, अनुपलब्धेरव्यवस्थाजन्यच्च सत्यां विशेषधर्मप्रकारकज्ञानेच्छायां धर्मिण्येकत्र नानाविरुद्धधर्मज्ञानं संशय इति यथाश्रुतार्थः । तत्र संशयस्य प्रत्यक्षज्ञानपूर्वकत्वं दर्शयति सामान्यविशेषयोरिति, तज्ज्ञानमनध्यवसायरूपमपि न सम्भवतीत्याह-अनध्यवसाय इति, अध्यवसायपूर्वभावी अनध्यवसाय इत्यर्थः । स चाधिकोऽवसाय इति, अध्यवसायश्चाधिकावसायरूपः विशेषधर्मप्रकारकज्ञानरूपः स्पष्ट ज्ञानरूपः प्रत्यक्षज्ञानमिति यावत्, त्वन्मतेनैतदभावस्योकत्वात् कुतस्तत्पूर्वभाव्यनध्यवसायसम्भवः, अध्यवसायस्यैवाप्र-25 सिद्धेरिति भावः । अमुमेव भावमाचष्टे-अधिकावसायासम्भवाश्चेति, अनध्यवसायशब्दघटकेन नया हि अध्यवसायो व्यावर्तनीयः, तस्यैवाभावे कथमनध्यवसायसम्भव इति भावः। अत एव पृथिवीकायिकादिजीवानां भेदशून्यनिर्विकल्पज्ञानवत्त्वमागमे प्रोकं युक्तमेवेत्याह-तस्माद्यदुक्तमिति । तस्मिन् जिनप्रवचनेति, अर्हच्छासने प्रसिद्धो योऽमेदरूपो भावो निर्विकल्पः, तमेवाभ्युपगन्तृविधिविधिनये मेदो नास्ति प्रत्यक्षं अनुमानं वा नास्ति तथा संशयो विपर्ययोऽनध्यवसायो वा न सम्भवतीति मन्वानोऽपरोऽप्याहेत्यर्थः । गगनं निरवयवमसङ्कीर्णश्च तत्र यथा कलुषितनेत्रस्य केशोण्ड-30 कादिरूपेण सङ्कीर्णतया तस्य भानं भवति तथैवाभिन्नो भावो निरवयवो निर्विकारश्च, ज्ञानाभासेन च तत्र मेदरूपमा- . भासत इत्याशयेनाह-यथा विशुद्धमिति । उदाहरणमिदं निर्मलं मलरूपेण भासत इत्यर्थे विज्ञेयम्, अमेदरूपमपि सद्भेदरूपमाभातीत्येकरूपस्यानेकधा प्रविभागे दृष्टान्तं प्रदर्शयन्नाह-तस्यैकमपीति महाकालमते ह्युक्तं 'ऊष्मा सहस्रसंख्ये 2010_04 Page #350 -------------------------------------------------------------------------- ________________ द्वादशारनयचक्रम् [ विधिविष्यरे प्रकृतित्वमनापन्नान् विकारानाकरोति सः । ऋतुधामेव ग्रीष्मान्ते महतो मेघसंप्लवान् ॥ इति विविविविनयः समाप्तः । 15 166 तस्यैकमपीत्यादि, यथोदन्वतां तोयमुत्पातेऽङ्गारराशिवत् प्रज्वलदुपलक्ष्यते तथाऽस्याने करूपता मिथ्यैव प्रकृतित्वमिति, प्रकर्षेण कृतिः प्रकृतिः, घटपटादिपरो भेदः, तद्भावमनापन्नानेव विकारां5 स्तांस्तानेव घटपटादीन् आत्मभावादप्रच्युतान् नर्त्तकहस्तक्षेपादिकल्पानाकरोति सः, स्वतः स्वात्मानं भावाकाररूपेण सृजत्युपसंहरति च को दृष्टान्तः ? ऋतुधामेव, ऋतूनां धामा- इन्द्र इव, निर्मलमाकाशं ear वक्तारो भवन्ति महावर्षस्य गर्भ इति कुतो निर्मले नभसि वर्षसम्भवः ? तथापि तन्नैर्मस्याविनाशनेनैव शक्रः शक्रकार्मुकशतह्रदामहाघनस्तनितवर्षितकरकाधारावर्षादीन् सृजत्युपसंहरति चेत्युच्यते, क्षणेनैव पुनस्तादृग्वैमल्यदर्शनान्नभसः । यथेयमृतुधाम्नः सृष्टिः शुद्धगगनापृथग्भूतजलप्रकृति10 स्वाभिमतमेघादिरूपा तथा सर्वघटादिगवादिरूपा सृष्टिर्भावादेवोपसंहारश्चेति भावविधिविधिनयः समाप्तः । एवं तावद्वस्त्वर्थतो विधिविधिनयविकल्पाः पुरुषनियतिकालस्वभावभावा व्याख्याताः अनया दिशा शब्दब्रह्म विधिविधिनयग्रहाद्येककारणवादा उन्नयनीयाः । sarai तेषु शब्दार्थो वक्तव्यः, स च सामान्येनोच्यते सर्वेषां तुझ्यत्वात् स च द्विविधः पदार्थो वाक्यार्थश्च तत्र पदार्थस्तावत्--- एषु विधिविधिषु विकल्पः शब्दार्थः, उक्तेषु पुरुषादिष्ववस्थाभ्युपचरितप्रक्रियाभेदकल्पितविकल्पसत्त्वात्तद्वस्तुनिर्विकल्पत्वात्, विद्या तु तत्त्वज्ञानं साऽऽगमविकल्परूपा न भवितुमर्हति वाग्गोचरातिक्रान्तत्वात्तत्त्वज्ञान विषयानन्तात्मकैकपरमार्थस्य । ( एष्विति ) एषु विधिविधिषु विकल्पः शब्दार्थः, उक्तेषु पुरुषादिष्ववस्थाभ्युपचरितप्रक्रियाभेदकल्पितविकल्पसत्त्वात् तद्वस्तुनिर्विकल्पत्वात् । वस्तुत्वादिना ज्ञानतः सर्वस्यैकत्वाद्यस्य कस्य - 20 चिज्ज्ञाने सर्वस्य ज्ञातत्वात् । एतेन वक्तृत्वाद्यसमन्वयो व्याख्यातो दृष्टान्ताभावात्, सर्वस्य सर्व धूमो लक्षे ज्वलनं कोटो' इति तदेतत् पूर्व व्यक्तमेव । तस्य - जलस्यानेकरूपता ऊष्मधूमज्वलनादिरूपता । तथा मेदरूपं सदपि घटपटादिरूपेण भेदमनापन्नमेव तान् तान् सृजति उपसंहरति चेति भावः, दृष्टान्तमाह-ऋतुधामेवेति, ऋतुधामाशक्रः, शक्रकार्मुकः, -इंद्रधनुः, शतहहा- तडित, महाघनः - जीमूतः स्तनितं - गर्जितम् वर्षितं - वृष्टिः, करका - हिमो. पलवृष्टिः, धारावर्षः- अविच्छिन्ना वृष्टिः । दृष्टान्तदान्तिको संघटयति-यथेदमिति, विधिविधिनयनिरूपणमुपसंह25 रति- इति विधीति । अथ प्रोकेषु पुरुषादिवादेषु कः शब्दस्य वाच्योऽर्थं इति विचार्यः, स च शब्दार्थः पुरुषादिवादानां सर्वेषां परमार्थत एकस्यैव वस्तुनोऽङ्गीकारात् समतया सर्वमतसाधारण्येन विचार्यते न तु पृथक्तयेत्याह- इदानीमिति । निर्विकल्पवस्तुन एव पारमार्थिकतया तस्य च निर्धर्मकतया शक्यभावेन शब्दाविषयत्वादविद्याविरचितः काल्पनिक भेदकल्पितो विकल्प एव शब्दस्यार्थ इत्याशयेनाह - एष्विति । ननु निर्विकल्पवस्तुन एव पारमार्थिकत्वे विकल्पस्याभावेन तस्य कथं शब्दार्थतेत्याशङ्कायामाह - उक्तेषु पुरुषादिष्विति । जाप्रदाद्यवस्थाभिः अविद्यामूलाभिर्भेदकल्पनया पारमार्थिकविकल्पाभ्युपगमान्न 30 दोष इति भावः, मेदबुद्धेर्व्यावहारिक सत्यत्वाङ्गीकारादिति यावत् । मतेऽत्र सर्वज्ञसौलभ्यं दर्शयति-वस्तुत्वादिनेति, तथा च वस्तुस्वादिनैकस्य कस्यचिज्ज्ञानात्सर्वस्य ज्ञातत्वात्सर्वे सर्वज्ञा न तु कश्चिदसर्वज्ञ इति भावः । असर्वज्ञाभावादेव च वतुत्वात् कस्मिन्नप्य सर्वज्ञता साधनं न सम्भवति व्याप्तिप्राह कष्टान्ताभावादित्याह - एतेनेति । विकल्पस्थापार 2010_04 Page #351 -------------------------------------------------------------------------- ________________ 18 पदार्थविचारः] न्यायागमानुसारिणीव्याख्यासमेतम् ३०१ ज्ञत्वात् भेदाभावात् । एतमर्थमन्योऽप्यन्वाह 'शास्त्रेषु प्रक्रियाभेदैरविथैवोपवर्ण्यते । अनागमविकल्पा तु स्वयं विद्योपवर्तते ॥' (वाक्य. कां. २ श्लो० २३५) शास्त्रेषु सांख्ययोगवैशेषिकवेदशिरःप्रभृतिषु प्रकृतिपुरुषद्रव्यगुणादिमित्यानित्याद्वैतद्वैतत्रैताविपदार्थप्रक्रियाभेदैः विकल्पात्मकपदार्थप्रणयने यथाप्रक्रियमविद्यैवोपवर्ण्यते विकल्पस्यावस्तुस्वात् । विद्या तु तत्त्वज्ञानं साऽऽगमविकल्परूपा न भवितुमर्हति वाग्गोचरातिक्रान्तत्वात् तत्वज्ञानविषयानन्तात्मकैकपरमार्थस्य । यथोक्तं 'पण्णवणिज्जा भावा' (आव० । नि० ४८८) इत्यादि, आगमाभ्यासात्तु सम्यग्दर्शनज्ञानचारित्रतपोविशेषविशेषिताविद्यस्य सर्वमापविषया विद्या स्वयमेव स्वात्मनैवोपवर्त्तते, नाविद्यमाना कुतश्चिदानीयते, सा चानागमविकल्पेत्यत आह-'अनागमविकल्पा तु स्वयं विद्योपवर्त्तते' इति । तथा चान्यः 'विकल्पयोनयः शब्दा विकल्पाः शब्दयोनयः । तेषामन्योन्यसम्बन्धो नार्थ शब्दाः स्पृशन्त्यमी ॥' (न्यायमञ्जयाँ जयन्तभट्टेनोद्धृतेयम्) शब्वा इति शब्दानुमानप्रतिपत्तिहेतव इति । 10 __ अत आह ये त्वेते घटादिशब्दा मेघस्तनितवदेते शब्दा एव केवलाः श्रोत्रग्राह्यत्वान्नार्थस्वरूपस्य वाचकाः, नम्विदं प्रसिद्धिप्रस्तुतव्यवहारविरुद्धम्, अनोच्यते न बेमः प्रतिपादका इति, किं तर्हि ? वाचका इति ब्रूमः प्रतिपत्तृसङ्केतवशात्तदुपलक्षणत्वेन प्रतिपादकत्वं न विरुध्यते, मयूरविरुतवद्धि सकेताद्वयवहारानुपातेन । मार्थिकत्वं मतान्तरेष्वप्यभ्युपगतमिति दर्शयति-पतमर्थमिति, भेदकल्पितविकल्पस्याविद्यकत्वरूपमर्थमित्यर्थः। सांख्यमते हि भिषयोः प्रकृतिपुरुषयोरभेदज्ञाने तदन्यथाख्यापनार्थ प्रकृते दसर्जममवियाप्रयुक्तमेष, महि तादृशाविद्याभावे प्रकृतेः सर्जनं सम्भवति, पुरुषस्य अभ्यत्वज्ञापनायैव तत्सृष्ट्यभ्युपगमात् । एवं योगदर्शनेऽपि । वैशेषिकमते तु ईश्वरस्य जगत्सर्जने जीवीयादृष्टस्य निमित्तत्वात् कथञ्चिदविद्यामूलकमेव तत्सर्जनम् । वेदशिरःशास्त्रे-वेदान्तदर्शनेऽद्वैतद्वैतादिवस्तूनामेव पारमार्थिकतया भेदसर्जनमविद्यापूर्वकमेवेति विज्ञेयम् । विद्याखरूपमभिधत्ते-विद्या विति, तत्त्वज्ञानं विद्येत्युच्यते तच्च 10 म शब्दार्थः वाचामगोचरत्वात् तत्त्वज्ञानविषयीभूतस्य परमार्थस्यानन्तात्मकैकपुरुषादिवस्तुनः, अतो विद्या आगमार्थविकल्परूपा न भवतीति भावः । तत्र मानमाह-पण्णवणिज्जा भावा इति, 'प्रज्ञापनीया भावा अनन्तभागस्त्वनभिलाप्यानाम् । प्रज्ञापमीयानो पुनरनन्तभागः श्रुतनिबद्धः' इत्यावश्यकनियुक्तिगाथाछाया । आगमाभ्यासः क्वोपयोगी. स्याह-आगमाभ्यासास्विति, सम्यग्दर्शनज्ञानचारित्रतपोविशेषसमन्वितस्याविद्यावतः पुरुषस्य शास्त्राभ्यासात् खात्मनि विद्यमानैव खखरूपभूता विद्या सर्वभावविषया खात्मनैव प्रकाशतामुपयातीति भावः, अनागमेति, शास्त्रेषु प्रक्रियामेदैरविद्यैघोपवर्ण्यत इति पूर्वाधः । शब्दार्थस्य विकल्पमात्रत्वे कस्यचित् कारिकामुपन्यस्यति-विकल्पयोमय इति, शब्दा हि दुर्लभवस्तुसंपर्कविकल्पमात्राधीनजम्मानस्तिरस्कृतबाह्यार्थसमन्वयान् बिकल्पप्रायान् प्रत्ययानुत्पादयन्तो दृश्यन्ते अडल्यग्रे हस्तियूधशतमास्त इति, खमाव एव तेषामर्थासंस्पर्शित्वमित्यर्थः । योनिपदेन शब्द विकल्पयोः कार्यकारणभावः प्रकाशितः, शब्दा इत्यनेन लिङ्गोऽपि विवक्षित इत्याह-शम्दा इतीति । अथैते घटपठादिशब्दा नार्थखरूपप्रतिपादकाः, श्रोत्रप्रास्यत्वात् , मेघस्तमितवदित्याशते-खेतात. अर्थप्रतिपादनसमर्थत्वेनामिमताशब्दाः पक्षतयेष्टा न तु शब्दमा बाधितत्वादिप्रसङ्गादित्याशयेन ध्याचष्टे-घटादीति,वाचका इति मूलस्थपदस्याग्रिमशङ्कासमाधानानुसारेणार्थमाह-प्रतिपादका इति प्रतिपत्तिजमका इत्यर्थः । यद्यत्र प्रतिभाति तत्तस्य विषयः, यथाऽक्षजे संवेदने परिस्फुटं प्रतिभासमानवपुरर्थात्मा नीलादिस्तद्विषयः, शब्बजे लिपजे च संवेदने बहिरर्थस्वतत्त्वप्रतिमासरहितं खरूपमेव चकास्ति, अतः परिहृतबहिरर्थसम्बन्धः संविद्वपुरेव तस्य विषयः, न तु बहिरर्थः शब्दलियोर्विषयः, यदि विषयो भवेत् तदा सम्बन्धवेदनं विनैव ताभ्यामर्थप्रतीतिः स्यात्, न च सम्भवति शब्दलियोरथे सम्बन्धवेदनम्, सम्बन्धप्रतिपत्तिकालेऽर्थस्येन्द्रियगोचरत्वे तेनैव तस्य स्फुटमवभासाच्छन्दादिव्यापारस्य वैया प्रत्यक्षाभावेऽनुमानानवताराच । तस्माच्छन्दादिभ्यो बहिरासंस्पर्शिम्यः कल्पनाः प्रसूयन्ते 2010_04 Page #352 -------------------------------------------------------------------------- ________________ ३०२ द्वादशारनयचक्रम् [विधिविध्यरे (ये त्वेत इति) ये त्वेते घटादिशब्दा मेघस्तनितवदेते शब्दा एव केवला नार्थस्वरूपस्य वाचकाः, घटादिप्रतिपादनसमर्थाभिमता न प्रतिपादका इत्यर्थः । नन्विदं प्रसिद्धिप्रस्तुतव्यवहारविरुद्धं त्वयोक्तम् , अर्थस्याप्रतिपादका घटादिशब्दा मेघस्तनितवत् श्रोत्रग्राह्यत्वादिति, घटादिशब्दा इति च त्वद्वचनादेव तेषां घटाद्यर्थप्रतिपादनदर्शनादिति, अत्रोच्यते न ब्रूमः प्रतिपादका इति, किं तर्हि ? । वाचका इति ब्रूमः प्रतिपत्तृसङ्केतवशात्तदुपलक्षणत्वेन प्रतिपादकत्वं विकल्पात्मनोऽर्थविषयस्य न विरु ध्यते, यस्मात् मयूरविरुतं सङ्केताद्व्यवहारानुपातेन, यथा मयूरविरुतं त्रासमदहर्षस्थानगमनाद्यन्यतमावस्थाविशेषसहचरं श्रुतचरं तथोत्तरकाले कृतसङ्गतेः पुरुषस्य तादृग् विज्ञानमादधाति, एवं पुरुषोऽपि घटपटादिशब्दोच्चारणेन पूर्वसङ्केतवशात् पुरुषान्तराय स्वाभिप्रायमर्पयतीति न प्रसिद्धिव्यवहा रविरोधौ, तथैवाचेतनशब्देष्वपि कालाकालमेघस्तनितादिषु सङ्केतादेव शुभाशुभादिपरिज्ञानं दृश्यते । 10 अथवा ते सर्व एव शब्दास्तस्यैव चैकस्य ब्रह्मणो लक्षणार्थाः तदेकदेशत्वात् प्रागभिहि. तप्रत्यक्षप्रसिद्धिवत्, यथा गौर्विषाणी ककुद्मान प्रान्तेवालधिःसास्त्रावानिति, एवञ्च कृत्वाऽऽहु:-सर्वधातवो भुवोऽर्थमभिदधतीति। ____(अथ वेति) अथवा किमनेन प्रसिद्धिव्यवहारविरोधपरिहारपरिक्लेशेन ? अयमेव सुश्लिष्टः परिहारो व्यापी च तद्यथा-ते सर्व एव शब्दास्तस्यैव चैकस्य ब्रह्मणः-पुरुषाद्यन्यतमविधिविधिनयवि15 कल्पस्य यथोपपादितस्य त्वया रुचितस्यान्यतमस्य लक्षणार्थाः, तदेकदेशत्वात्, प्रागभिहितप्रत्यक्षप्रसिद्धिवत् यथा गौर्विषाणी ककुद्मान प्रान्तेवालधिः सानावानिति, यथैते विषाण्यादिशब्दाः गोरेकदेशवाचित्वासदुपलक्षणार्थाः प्रसिद्धाः, सङ्केतवशात् गोरेव वाचकाः, तदवयवानां तस्मादभिन्नत्वात् , एवं सर्वशब्दास्तदवयवानां ततोऽपृथक्त्वात् तस्यैव ब्रह्मणो वाचका इति वाचकत्वेऽप्युपपन्नः प्रसिद्धिव्यवहारावि ताभ्यश्च शब्दा इति कार्यकारणभावमात्रं तत्त्वं न वाच्यवाचकभाव इति भावः । ननु घटादिशब्दा इत्यनेन घटा20 द्यर्थप्रतिपादकाः शब्दा विवक्षणीयाः, अन्यथा धर्मिज्ञानमेव न स्यात्, तथा च घटाद्यर्थप्रतिपादकाः शब्दा नार्थ प्रतिपादका इति पक्षनिर्देशो व्याहतार्थः, तथा लोके घटादिशब्दा घटाद्यर्थप्रतिपादका इति व्यवहारश्च प्रसिद्धः तद्विरोधश्च स्यादित्याशङ्कते नन्विदमिति, घटादिशब्दा नार्थस्य वाचका इति प्रतिज्ञानमित्यर्थः । भ्रान्तोऽसि, न वयं घटादिशब्दा नार्थस्य प्रतिपादका इति वदामः किन्तु नार्थस्य वाचका इति. तथा प्रतिपत्तिशब्दयोजन्यजनकभावं न निषेधयामः, अपि तु शब्दार्थयोर्वाच्यवाचकभावमेव, तेन शब्दानां स्वाभिप्रायानुसारेण प्रतिपत्रा कृतसङ्केता25 नामर्थविषयविकल्पद्वारेणोपलक्षणतया प्रतिपादकत्वं न विरुद्धमित्याशयेनाह-न ब्रूमः प्रतिपादका इतीति । प्रदर्शितं दृष्टान्तं सजमयति-यथेति, यादृशयादृशत्रासाद्यन्यतमावस्थासहकृतं यादृशयादृशमयूरविरुतं प्रतिपत्रा श्रुतं स एव प्रतिपत्ता यदा कालान्तरे तादृशतादृशमयूरविरुतं शृणोति तदा तत्तस्य तादृशताहशत्रासाद्यवस्थापरिज्ञानं जनयति, तत्तदवस्थाविशेषेण तत्तद्विरुतस्य पूर्व तेन प्रतिपत्रा सङ्केतस्य गृहीतत्वादिति भावः । एवं दार्टान्तिकमपि सङ्गम यित्वा विरोधमुत्सारयति-एवं पुरुषोऽपीति । एवमेव सङ्केतबला देव मेघगर्जनादयः सकाला अकालाश्च शुभाशुभ30 फलज्ञानं पुरुषस्य जनयन्तीत्याह-तथैवेति । अथ प्रसिद्धिव्यवहारविरोधपरिहारार्थ शब्दानामवाचकत्वपक्षे क्लेशस्य महत आदरेणालम् , शब्दानां वाचकत्वेऽीकृतेऽपि न विरोधः सम्भवतीति समर्थयितुमाह-अथवेति, यथा गुणवाचका नीलादिशब्दगुणद्वारेण गुणिनं बोधयन्ति यथा चैत्रमैत्रादिशब्दाः तत्तच्छरीरद्वारेण तत्तदात्मवाचकास्तथैव घटपटादिशब्दा घटपटादिद्वारेण तदात्मनो ब्रह्मणो बोधका इत्याशयेनाह-ते सर्व एव शब्दा इति, "विषाणी ककुमान् प्रान्तेवालधिः सानावानिति गोत्वे दृष्ट लिङ्गम्' (वैशे० अ०२ आ० १सू०८) इति सूत्रोक्ता विषाण्यादिशन्दा.. 35 विषाणायेकदेशप्रतिपादनद्वारेण गोर्वाचकाः, अवयवावयविनोरभेदात् तथा सर्वे शब्दा इत्याह-यथा गौर्विषाणीति। 2010_04 Page #353 -------------------------------------------------------------------------- ________________ वाक्यार्थ विचारः ] न्यायागमानुसारिणीव्याख्यासमेतम् रोधः, अभिनैकभवनब्रह्मोपलक्षणार्थत्वे सर्वशब्दानां शब्दलक्षणविन्मतिसंवादिज्ञापकमाह-एवञ्च कृत्वाऽऽहुः, शब्दलक्षणविद इति वाक्यशेषः । सर्वधातवो भुवोऽर्थमभिदधतीति तेषामप्यस्मिन्नेव दर्शने करोत्यादिधातूनां सत्तार्थानतिक्रमेण स्वार्थप्रदभवनमुपपाद्य भुवं वदन्तीति भूवादयो वादिशब्दस्यौणादिकेबन्तत्वात्तथा भूवादिशब्दव्याख्यानान्नान्यथेति, उक्तः पदार्थः । satti वाक्यार्थ उच्यते- 2010_04 ३०३ एकोऽनवयवः शब्दो वाक्यार्थः, भवनस्यानवयवत्वात्, एष द्रव्यार्थो विधि विधिनयः, सङ्ग्रहदेशत्वाच्चास्य द्रव्यार्थता, इह तु द्रवति भवतीति द्रव्यं भवनं भावः, निबन्धनमस्य सोमिलब्राह्मणप्रश्ने 'किं भवं ? एक्के भवमित्यादिके व्याकरणे 'सोमिला ! एगे वि अहं दुवे वि अहं, अक्खए वि अहं अव्वए वि अहं, अवट्ठिए वि अहं, अणेगभूयभावभविए वि अहं” ( भग० श० १८ उ० १० सू० ६४७ ) इत्यादि ॥ ( एक इति ) स एकोऽनवयवः शब्दो वाक्यार्थः, वाक्यवार्थश्च वाक्यार्थः वाक्येन युक्तोऽर्थो वाक्यार्थः, वाक्यसम्बन्धाद्वाक्याद्वाक्यस्यैवार्थः । यथाहुः -- आख्यातशब्दः संघातो जातिः संघातवर्त्तिनी । एकोऽनवयवः शब्दः क्रमो बुद्ध्यनुसंहतिः ॥ पदमाद्यं पृथक् सर्वं पदं साकाङ्क्षमित्यपि । वाक्यं प्रति मतिर्भिन्ना बहुधा न्यायदर्शिनाम् || ( वाक्यपदीये का० २ श्लो० १-२ ) तत्र यैरेकोऽनवयवः शब्द इत्युक्तं तैर्विनिश्चित्योक्तं भवनस्यानवयवत्वात्तथैव पदवाक्यशब्दस्तदर्थाद्यात्मत्वादिति, न तु 15 अस्मिन्नर्थे शाब्दिकानां सम्मतिमाह एवञ्चेति, का सा सम्मतिरित्यत्राह - सर्वधातव इति भ्वादयः सर्वे धातवो भुवोऽर्थं भावं वदन्ति, अतः भाववचनो धातुः, न तु क्रियांवचनः, पचादीनां सामान्यविशेषभावेन करोतिना किं करोति ? पचति, पाकं करोतीत्येवं सामानाधिकरण्येऽपि अस्ति भवति विद्यतीनां करोतिना सामानाधिकरण्याभावाद्धातुत्वानापत्तेः, नहि भवति 'किं करोति ? अस्ति' इति । एवञ्च भवति पचति, भवति पक्ष्यति, भवत्यपाक्षीदिति साध्यसाधनभावेन भवति नैकाधिकरणवृत्तित्वलक्षणसामानाधिकरण्याद्भाववचनस्यैव धातुत्वम् भवतीति भावः पचादयश्च क्रियाः भवतिक्रियायाः कर्यो भवन्तीति 20 भावा उच्यन्ते आत्मभरणवचनो भवतिः, आत्मभरणञ्च सत्ताजन्मवृद्धिपरिणामापक्षयनाशरूपषड्भावविकारेषु नाशाख्यं षष्ठं भावविकारं मर्यादी कृत्य पञ्चस्खनुस्यूतं सदिति प्रत्ययवेद्यं रूपम् । न च वृक्षः लक्ष इत्यादिप्रातिपदिकानामपि भाववचनत्वाद्धातुत्वं प्राप्तमिति वाच्यम्. कर्मसाधनभावशब्दाङ्गीकारात् भाव्यते यः स भावः क्रिया हि भाव्यते, स्वभावसिद्धन्तु द्रव्यम् । न च माता भ्रातेत्यादिसम्बन्धिशब्दानामपि धातुत्वप्रसङ्गो मातृत्वं हि पुत्रजन्मना भाव्यते इति वाच्यम् भाववचना ये भूवादयः ते धातव इत्यङ्गीकारात्, एतेनैवाभिहितं सूत्रेण भूवादयो धातवः ( पा. १-३- १ ) इति भवतीति भूः भुवं 25 वदन्तीति भूवादयः वदेरयमौणादिक इञ्कर्तृसाधनः । जायमानमर्थं येऽभिदधति ते धातवः तेन सिद्धार्थाभिधायिनां न धातुसंज्ञा, अथवा भावस्य सत्ताया एवास्तिभवतीत्यादिषट्काराः, ब्रह्मसत्तैवानेकक्रियाविवर्त्तात्मिका कारकैः सम्बन्धादवसी - यमानसाध्यस्वरूपा जन्मादिरूपतया भासत इति । अथ वाक्यस्यार्थप्रकाशनायाह - एकोऽनवयव इति, वाक्यार्थोऽयं स्फोटवादिनां मतेन येनोश्चारितेन सास्नालाङ्गूलखर ककुद विषाण्यर्थरूपं प्रतिपद्यते स शब्दः स्फोटः ध्वनिः शब्दगुण इति, स्फोटो द्विविधः बाह्यः, आभ्यन्तरश्चेति, बाह्योऽपि जातिव्यक्तिभेदेन द्विविधः, तत्र जातिलक्षणस्य जातिः संघातवर्त्तिनीति व्यक्तिक्षणस्यैकोऽनवयवः शब्द इति, आभ्यन्तरस्य तु बुद्ध्यनुसंहति रित्यनेनोद्देशः । तत्र बहीरूप आन्तरो वा निर्विभागः शब्दार्थमयो बोधस्वभावः शब्दः, स्फोटलक्षणमेव वाक्यम्, यथा चित्रज्ञानं सर्वाकारमेकमेव, प्रविभागस्त्वस्य दृश्यभेदसमाश्रयेण क्रियते नीलपीताद्यनेकाकारमेव विज्ञानमुपजातमिति, वस्तुस्थित्या तत्र ज्ञाने आकारमेदो नास्ति तथा वाक्यवाक्यार्थयोः स्वरूपम् । वाक्यवाक्यार्थयोरखण्डत्वं च पानकरसमयूराण्ड कर सचित्ररूपनर सिंहगवयचित्रज्ञानवत् यथा वाक्यं निर्विभागं स्फोटलक्षणं वाचकं तथा वाक्यार्थोऽपि, अत उक्तं वाक्यञ्चार्थश्च वाक्यार्थ इति, उभयोरखण्डत्वादिति भावः । देवदत्त ! 35 गामभ्याजेत्यादौ वाक्ये देवदत्तादिपदानां पृथगर्थाभावात् । अत एवोक्तं - भवनस्यानवयवत्वादिति, स्फोटलक्षणस्य निरं 30 5 10 Page #354 -------------------------------------------------------------------------- ________________ 304 द्वादचारजयचकम् [विधिविध्यरे सर्वाण्येकस्यैव सर्वत्वादिति / चरितार्थ एष द्रव्यार्थों विधिविधिनयः / हेतो ऽस्मात्-सङ्ग्रहदेशत्वाचास्य द्रव्यार्थतेति सङ्घहो द्रव्यार्थः। स पुनर्द्विविधः सङ्घन्हो देशसङ्ग्रहः सर्वसङ्कन्हश्चेत्येवमादिशतप्रस्ता. रोऽसौ / आर्षे शतभेदश्रुतेर्नयानाम् , यथोक्तं 'एकेको य सयविहो सत्तनयसता हवंति एमेव" इति, (आ० भा० 226 नियु० 2264) सजन्हस्यापि द्रव्यार्थता 'तित्थयरवयणसंगहविसेसपत्थारमूलB वागरणी / दवढिओ य पज्जवणओ य सेसा वियप्पासिं' // इति (संमति० को० 1 गा० 3) वचनात् द्रव्यार्थसमासश्चादिनये व्याख्याता, तस्मात् सङ्ग्रहदेशत्वात्तदवयवत्वादस्य द्रव्यार्थतेति / द्रव्यशब्दस्य कोऽर्थः ? द्रवतीति द्रव्यम् , गुणसन्द्रावो द्रव्यम् , द्रव्यं भव्यं योग्यम् , भूप्राप्तौ इति प्राप्तियोग्यमिष्टार्थप्राप्तियोग्यं दारु, क्रियावदादिलक्षणं द्रव्य मित्येवमादि यथासम्भवं लक्षणं वाच्यम् / इह तु भवतीति भावः, प्राच्यचतुष्टये पुरुषादिस्वभावान्ते, भवनं भावोऽन्त्ये पूर्वोक्तवत् पूर्वबिरुद्धत्वा10 नयानाम् / द्रवति भवति गच्छति सततमिति द्रव्यम् , गत्यात्मकत्वात् , 'द्रव्यश्च भव्ये' इति वचनात् , न विकारावयवौ विधिविधिनयायुक्तत्वाद्गतार्थम् / किमेतत् सामान्यवादिना खमनीषिकयोच्यते त्वया, आहोविदार्षेऽपि निबन्धनमस्य दर्शनस्यास्ति यत एतनिर्गतमिति ? अनास्तीत्युच्यते-निबन्धनमस्य सोमिलब्राह्मणप्रश्ने 'किं भवं ? एक्के भवमित्यादिके व्याकरणे' 'सोमिला ! एगेवि अहं दुवे वि अहं, अक्खए वि अहं, अवए वि अहं, अवट्ठिए वि अहं, अणेगभूयभावभविए वि अहं' (भग० श.१८ उ० 15 10 सू० 647) इत्यादि निबन्धनमिति / एवं द्वितीयो विधिविध्यरः सविकल्पो नयचक्रस्य समाप्तः॥ शत्वात्, शब्दस्य स्फोटलक्षणस्य विभागो नास्ति, कुतस्तद्वाच्यस्य प्रभारूपस्यार्थस्य विभागः / / मूढ एव विभागेन प्रक्रियामेदं प्रक्रियामेदे चार्थभेदमसत्यमपि प्रतिपद्यत इति भावः। तित्थयर इति, 'तीर्थकरवचनसङ्ग्रहविशेषप्रस्तारमूलव्याकरणी। द्रव्यार्थिकश्च पर्यवनयश्च शेषा विकल्पास्तयोः' इति छाया, तदर्थश्च तीर्थ द्वादशाङ्गं -तदाधारो वा सङ्घः तत्करणात् तीर्थकर20 नामकर्मोदयाद्वा तीर्थकरा ऋषभादयः, तेषां वचनमाचारादि, तस्याभिधेयभूती सङ्ग्रहविशेषौ द्रव्यपर्यायौ तयोः प्रस्तारो विस्तारः तत्र सामान्यप्रस्तारस्य सङ्ग्रहव्यवहाररूपस्य विशेषप्रस्तारस्य ऋजुसूत्रशब्दादेरनुक्रमेण मूलव्याकरणी आद्यवक्ता व्यार्थिकः पर्यवनयश्च, शेषा नैगमादयोऽनयोरेव विकल्पा मेदा इति / एतेन सङ्घहस्य द्रव्यार्थत्वं विज्ञेयम् , तदवयवः देश: पुरुषादिवादाः, अत एषामपि द्रव्यार्थत्वमिति भावः / द्रव्यार्थशब्दस्य समासस्तु विधिनयान्ते प्रदर्शित एवेत्याह-द्रव्यार्थसमासश्चेति, द्रव्यस्य लक्षणप्रदर्शनाय सामान्येन द्रव्यशब्दार्थ व्याकरोति-द्रव्यशब्दस्येति / विधिनये दुर्गतिर्यात्रा द्रोरवयवो द्रव्य मिति व्युत्पादितः तस्य व्यवहारदेशत्वात्, विधिविधिनयस्य च सङ्ग्रहदेशत्वात् कथमस्य द्रव्यार्थता व्यवहारदेशत्वाभावादित्यत्राह-इह स्विति / विधिविधिनये इत्यर्थः, तत्र पुरुष नियतिकालखभावलक्षणचतुष्टयवादेषु भवतीति भावो द्रव्यशब्दार्थः, अन्ये च भाववादे भवनं भाव इति द्रव्यशब्दार्थो विज्ञेय इति भावः। विकारोऽवयवो वा न द्रव्यशब्दार्थ इत्याह-न विकारावयवाविति / एतेषां वादानां मूलनिबन्धनं पृच्छति-किमेतदिति / सोमिला एगेइति, हे सोमिल! एकोऽयमद्रावप्यहम्, अक्षयोऽप्यहम् , अव्ययोऽप्यहम् , अवस्थितोऽप्यहम्, अनेक तभावभविकोऽप्यहमिति छाया // इति बिजयलब्धिसूरि विरचिते विषमपदविवेचने नयचकस्य 30 - द्वितीयो विधिविध्यरः समाप्तः॥ 2010_04