________________
TO
- द्वादशारनयचक्रम्
[विध्यरे बनाः पञ्च विज्ञानकाया इति तत्कथम् ? यदि तदेकतो न विकल्पयति, यच्चोक्तमनेकप्रकारमिनेकानेकद्रव्योत्पाद्यज्ञानेत्यत्र कल्पनात्मकत्वप्रसङ्गोऽस्वलक्षणविषयत्वप्रसङ्गश्चेति चोदिते तत्सरिहारार्थमायतनस्वलक्षणं प्रत्येते स्वलक्षणविषया न द्रव्यस्वलक्षणमिति कथं तत्कल्पनापेतमित्यन्यत्र विचारः करिष्यते । इदमेव तावद्विचारयामो बुद्धवचनं कदाचिदेकेन द्रव्येण । ज्ञानमुत्पाद्यते कदाचिदनेकेनेति । अत्रापि कथमनेकप्रकारभिन्नसामान्यवृत्तिरूपायतनतायां
तद्रूपायतनं पश्यतस्तदालम्बनत्वात्तस्य स्वलक्षणविषयं तद्युज्यते ? तथा रूपविज्ञानकाय इति कथं? कथञ्च इति पश्यतः तस्यामेकप्रकारावच्छेदः? अविभागसमवस्थसमूहात्मकत्वात्, मणिसमूहप्रभानुविद्धवर्णसंस्थानवत् ।
(तत्रेति) अत्रापि कथमनेकप्रकारभिन्नसामान्यवृत्तिरूपायतनतायां यावत्पठ्यंत इति वक्त. 10 व्यम् , कथं वक्तव्यमिति सम्बन्धः, अनेकप्रकारे भिन्ने सामान्ये वृत्तिरस्य रूपायतनस्य तदनेकप्रकारभिन्नसामान्यवृत्तिरूपायतनं तद्भावस्तापायतनता तस्यां सत्यामनेकप्रकारभिन्नसामान्यवृत्तिरूपायतनतायां तद्रूपायतनं पश्यतः, समूहात्मकं तदालम्बनत्वात्तस्य, चक्षुर्विज्ञानस्य तद्विषयत्वात् , सामान्याख्यसमूहरूपायतनविषयत्वात् , कथं स्खलक्षणविषयं तद्युज्यते ? तथा सर्वरूपादिपञ्चविज्ञानकाया:,
रूपायतनतद्विज्ञानयोरुदाहरणमात्रत्वात्, कथं स्खलक्षणविषयाः पञ्चविज्ञानकायाः पठ्यन्त इति वक्त16 व्योऽत्र समाधिः । आयतनस्य सामान्यरूपत्वान्न स्वलक्षणतेत्यर्थः, कथञ्चेतीत्यादि, यावदेकप्रकाराव. च्छेद इति, कथमिति हेतुपरिप्रश्ने, चशब्दो दोषसमुच्चये। केन हेतुना तस्यामनेकप्रकारसामान्यवृत्तिरूपायतनतायाम् , इतिशब्दः प्रकारवाची, इत्थं नानारूपिरूपायतनं पश्यतः सञ्चितालम्बनतायामविभागसमवस्थसमूहात्मकत्वात्-अविभागेन-ऐक्यापत्त्या समवस्था यस्य समूहस्य सोऽयमविभागसमवस्थसमूहस्तदात्मकत्वाद्रूपायतनस्य कथमेकप्रकारावच्छेदः, न भवितुमर्हतीत्यर्थः। किमिव ? मणि20 समूहप्रभानुविद्धवर्णसंस्थानबत्, यथा नानावर्णानां मणीनां समूहे तत्प्रभयानुविद्धे वर्णसंस्थाने नास्त्येकप्रकारावच्छेदः तथैकद्रव्यावच्छेदाभाव इति ।
एकानेकेति एकस्मिन् द्रव्ये न चक्षुर्विज्ञानमुदेत्यतीन्द्रियत्वात् , अनेकद्रव्यालम्बनत्वे च समूहात्मकस्य तस्य काल्पनिकत्वेन कल्पनात्मकता विज्ञानस्य, अखलक्षणविषयता च स्यादिति प्रश्ने कृते सतीति भावः। रूपायतनात्मकं खलक्षणमालम्बनं न
द्रव्यलक्षणमित्युक्त कल्पनापेतं कथं तद्विषयं विज्ञानं स्यादिति दोष इत्याह-तत्परिहारार्थमिति । स्कन्धलक्षणस्य रूपाय25 तनस्य काल्पनिकत्वादिति भावः । अनेकप्रकारेति यतो रूपायतनता नीलपीताद्यनेकप्रकारभिने सामान्ये समूहरूपे
वृत्तिरतस्तं समूहात्मकं रूपायतनं पश्यतस्तदालम्बनं चक्षुर्विज्ञानं कथं खलक्षणविषयं स्यादिति भावः । पञ्चानां विज्ञानका• यानामपि न खलक्षणविषयत्वमित्याह-सर्वरूपादीति । रूपायतनस्यालम्बनत्वे तस्याविभक्तसमूहात्मकत्वादेकेन द्रव्येण
शानस्थानुत्पत्त्या नीलमेवेदं न पीतादीत्येवं कथमेकप्रकारावच्छेद इत्याह-कथञ्चति, तस्यां-रूपायतनतायाम् । मूले 'मायतनमात्रे कथितेऽपि तस्य दृष्टान्तमात्रतया पञ्चरूपाद्यायतनानां पञ्चविज्ञानकायानामपि ग्रहणं विज्ञेयमित्याह-रूपायत. 30 नेति । अत एव रूपविज्ञानकाय इत्यस्य सर्वरूपादिपञ्चविज्ञानकाया इति व्यावर्णितम् । आयतनस्येति, आयतनं हि सामान्यरूपं न खलक्षणात्मकमत एवात्र समाधिर्वक्तव्य इति भावः। नानारूपिसमूहात्मक रूपायतनं पश्यतो नानारूपा. बच्छेद एव स्थान त्वेकप्रकारावच्छेद एकद्रव्यावच्छेदो वेत्याह-इत्थं नानारूपीति । सञ्चितस्यालम्बनत्वे एकद्रव्यग्रहणासम्भ
____Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org