________________
एकानेकद्रव्यालम्बनम् ] न्यायागमानुसारिणीव्याख्यासमेतम्
किश्चन्यत्
एकस्य च द्रव्यस्य कदाचिदग्रहणादेकेन द्रव्येण कथं चक्षुर्विज्ञानमुत्पाद्यते ? तस्मात् किमेतद्बुद्धवचनं बुद्धवचनमिति चिन्त्यताम् । रसनानास्वादितरसाज्ञानवच्चक्षुषाऽगृहीतेषु चक्षुर्विज्ञानं नास्ति । . (एकस्येति) एकस्य च द्रव्यस्य परमाणोः सर्वदाऽप्यतीन्द्रियस्य ग्रहणाभावादेकेन द्रव्येण । कथं चक्षुर्विज्ञानमुत्पाद्यते ? न कदाचित् कथञ्चिदुत्पाद्यत इत्यर्थः । तस्मात् कदाचिदेकेन द्रव्येण ज्ञानमुत्पाद्यते यदा नीलादिप्रकारव्यवच्छेदो भवतीति किमेतद्बुद्धवचनं बुद्धवचनमिति चिन्त्यताम् । किमिव पुनरेकस्य द्रव्यस्य कदाचिदग्रहणाचक्षुर्विज्ञानं नोत्पाद्यत इति चेत् , उच्यते रसनानाखादितरसाज्ञानवत्-रसनेन्द्रियेणानास्वादिते यथा रसज्ञानं नोत्पद्यते एवं चक्षुषाऽगृहीतेषु चक्षुर्विज्ञानं नास्ति ।
यदि चास्य बुद्धवचनस्य बुद्धवचनत्वसिद्ध्यर्थमेकेन द्रव्येण ज्ञानमुत्पाद्यत इत्यभ्युपगम्यते ततः-10 एकद्रव्यज्ञानोत्पादे तु सञ्चितालम्बनकल्पना निरर्थिकैवेति तदभ्युपगमविरोधः।
(एकेति) यदा चैवं प्रत्येकं चक्षुर्विषयता अणूनामिष्यते तदेदमपरं बुद्धवचनमबुद्धवचनं निरर्थकञ्च जायते, कतमत् ? सञ्चितालम्बनाः पञ्चविज्ञानकाया इति, एतस्य च सत्यत्वे तदसत्यता स्थितैवेति परस्परतो वचनद्वयविषयोऽभ्युपगमविरोध इत्यत आह-तदभ्युपगमविरोधः ।
किश्चान्यत
16
तत्प्रकारावच्छेदानवच्छेदानेकप्रकारभिन्नत्वमित्येतान्यपि ज्ञानानि न भवितुमर्हन्ति, रूपायतनस्य सश्चितगतेरेव, नरसिंहवत् ।
तत्प्रकारावच्छेदेत्यादि यावत्सश्चितगतेरेव, तत्प्रकारः, अवच्छेदः, अनवच्छेदः, अनेकप्रकारभिन्नत्वमित्येतान्यपि ज्ञानानि न भवितुमर्हन्ति, कस्मात् ? रूपायतनस्य सश्चितगतेरेव, सश्चितमेव हि रूपायतनं, गम्यते वा सञ्चितमतो न प्रकार इति ज्ञानं घटते, प्रकृष्टः कारः प्रकारः, नील: 20 पीत इत्ययमस्माद्विशिष्ट इति परस्परतोऽत्यन्तभेदाभावे प्रकाराभावादभेदगतिः, सामान्येन तु प्रकार. ज्ञानं घटते । तथाऽवच्छेदोऽन्यस्मादन्यस्य भेदाभेदविकल्पनात् , तथाऽनवच्छेदः। अनेकेत्यनेकेन च प्रकारेण भिन्न इति भिन्नानामभेदगतिः, सञ्चितगतेरभेदगतेश्च न प्रकारादिज्ञानान्यकल्पनात्मकानि
वेन नैकेन द्रव्येण चक्षुर्विज्ञानमुत्पाद्यत इत्याह-एकस्य चेति । किमेतदिति, एतद्बुद्धवचनं किं बुद्धस्य तत्त्ववेत्तुर्वचनं भवितुमर्हति नैवेति भावः । एकद्रव्येति, एकस्मादणुलक्षणाद्रव्याद्यदि चक्षुर्विज्ञानमुत्पद्यत इत्यभ्युपगम्यते एकद्रव्याव-28 च्छेदाय तर्हि सञ्चितालम्बनकल्पना किमर्था, यदि च चक्षुर्विज्ञानस्य सञ्चितमेवालम्बनं यथार्थ तर्हि कदाचिदेकेन द्रव्येण चक्षु. विज्ञानमुत्पाद्यत इत्ययथार्थम् , अस्य वा यथार्थत्वे सश्चितालम्बनाः पञ्च विज्ञानकाया इत्ययथार्थमिति वचनद्वयस्याभ्युपगमो विरुद्ध इति भावः । तत्प्रकारेति, सञ्चितं नानारूपिरूपायतनमभिन्न प्रकारादिज्ञानानि च भिन्भेष्वभेदकल्पनाद्भवन्ति, नीलपीतादिप्रत्येकपरमाण्वग्रहे कथं तत्प्रकारादिज्ञानानि स्युः सञ्चितस्यैव भेदेन ज्ञानात्, अनेकप्रकारभिन्नसामान्यवृत्तिरूपायतनतेत्यपि न सङ्गच्छते सञ्चयेऽनेकप्रकाराणां ज्ञानाभावात् , एवमवच्छेदः नीलमेवेदं न पीतादीत्येवं रूपः एवं व्यवच्छेदाभावश्च न घटत 30 इति । सश्चितस्यैवाभेदस्यैव च ज्ञानात् नीलादिप्रकारादिज्ञानानि कल्पनात्मकान्येव, नाकल्पनात्मकानि न वा खलक्षणविषयाणीत्याह-सञ्चितगतेरिति । तयोहीति, नराकारसिंहाकारसञ्चययोर्नरसिंहाविति नरसिंह इति च प्रकारगतिर्युक्ता, अन्यदा
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org