________________
5
द्वादशारनयच कम्
[ विध्यरे
स्वलक्षणविषयाणि च भवितुमर्हन्ति, किमिव ? नरसिंहवत् यथा नरस्याकारोऽधस्त्यः सिंहस्याकारः शिरोभागः, तदुभयाभेद गतेर्नरसिंह इत्युच्यते, एवं प्रकारादिज्ञानान्यपि भिन्नेष्वभेदकल्पनादेव स्युर्नान्यथेति । नरे सिंहे च नरसिंहाविति भिन्नयोरभेद गत्यभावाद दृष्टान्ततेति चेन्न, सञ्चययोरेवाभेदरूपत्वात् ।
९२
नरसिंहानेकप्रकारगतिरपि हि नरत्व सिंहत्वसञ्चययोः पूर्वं भेदेन दर्शनादभेदकल्पनात्मिकाऽभेदगतिरिति युक्ता, न तथा असञ्चयेषु तद्रव्येष्वणुषु, असञ्चितस्यादर्शनात् कुत एव तद्व्यवच्छेदादि सम्भाव्येत, एवं तावदेकेन द्रव्येणेत्ययुक्तम् ।
I
नरसिंहानेकप्रकारग तिरपि हीत्यादि, तयोर्हि प्रत्येकं नरसिंह इति च भिन्नयोरपि प्रकारगतिः, यस्मात् नरत्वसिंहत्व सञ्चययोः पूर्वं भेदेन दर्शनादभेदकल्पनात्मिकाऽभेद्गतिरिति युक्ता, 10 न तथा अभ्युपेत्यापि नरसिंहप्रकारगतिमेव च, असञ्चयेषु तद्रव्येष्वणुष्वित्यादि, सवितालम्बना: पञ्च विज्ञानकाय इति यदुक्तं त्वया तद्विस्मृत्येदमुक्तं यदेतदनेकप्रकारभिन्नं रूपायतनं तत्र कदाचिदेकेन द्रव्येण ज्ञानमुत्पाद्यत इति । चक्षुर्विज्ञानसमङ्गी नीलं विजानाति नो तु नीलमित्येतदपि विस्मृत्येदमुक्त कदाचिदनेकेन यदा तद्व्यवच्छेदो न भवति तद्यथा - मणिसमूहमनेकवर्णसंस्थानं पश्यत इति नीलपीताद्यनेकरूपस्य युगपद्ग्रहणाभ्युपगमे नीलैकरूपविज्ञानविरोधादित्यलं प्रसङ्गेन । प्रकृतमुच्यते - द्रव्यस• 16 त्स्वणुषु नीलपीतादिप्रकारग्रहणमेव नास्ति तदसंचये, किं कारणं ? असञ्चितस्यादर्शनात्, असश्चितानामदर्शनमतीन्द्रियत्वादित्युक्तम्, कुत एव तद्व्यवच्छेदादि ? सति हि दर्शने तद्व्यवच्छेदानवच्छेदप्रकारभिन्नत्वज्ञानानि सम्भाव्येरन्, असति दर्शने दूरादेव तानि न स्युः । एवं तावदेकेन द्रव्येणेत्ययुक्तम् ।
यदपि चोक्तमनेकेन द्रव्येण कदाचिज्ज्ञानमुत्पाद्यत इत्यस्मादनेकेनेति वचनात् तस्या20 नेकद्रव्यसंवृतिसत्त्वात् सामान्यता, सामान्यत्वादसत्कल्पनं तत्, तद्विषयाः पञ्चविज्ञानकाया असत्कल्पनविषयत्वादनुमानतदाभासज्ञानवदप्रत्यक्षमप्रमाणं वा, दूरान्मणिसमूहदर्शनवद्वा न स्वलक्षणविषयाः प्रसक्ताः ।
25
( यदपीति न च केवलमस्वलक्षणविषयतैव दोषः, किं तर्हि ? एकविज्ञानमनेकविषयताऽपि दूरदर्शनवदेवेति, बुद्धवचनासमञ्जसत्वप्रतिपादनप्रसङ्गेनेदमप्युपन्यस्तम् ।
यदपि च बुद्धेनोक्तं द्वयं प्रतीत्य चक्षुः प्रतीत्य रूपाणि च प्रतीत्य चक्षुर्विज्ञानं मनःप्रतीत्य धर्माश्चोत्पद्यते मनोविज्ञानमिति तद्विरुध्यते,
नराकारसिंहाकारसञ्चययोर्भेदेन दर्शनात्, अणू नान्त्वसञ्चितानां भेदेन कदाप्यदर्शनात् कथं तत्प्रकारादिव्यवच्छेद इति भावः । कदाचिदेकेनेति, अनेन सञ्चितालम्बनत्वं परित्यक्तम्, कदाचिदने केनेति, अनेन नीलादिविज्ञानाव्यभिचारित्वोक्तिस्त्यक्ता नीलज्ञानानुदयात्, अनेकेषां नीलपीतादीनां युगपचक्षुषा ग्रहणे स्वीकृतेऽपि नीलैकरूपज्ञानं विरोधान्न सम्भवतीति 30 भावः । पञ्चविज्ञानकाया इति, असत्कल्पनात्मक सामान्यविषयत्वादनुमानं यथा न प्रत्यक्षं तथैतेऽपि, अनुमानाभासश्रद्वाऽसद्विषयत्वादप्रमाणानि स्युः समूहालम्बनमणि समूहदर्शनवच्च स्वलक्षणविषया न भवेयुः । एकविज्ञानमिति, एक विज्ञा
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org