________________
विज्ञानोत्पत्तिविचारः] न्यायागमानुसारिणीव्याख्यासमेतम्
९३ यदपि च बुद्धेनोक्तं द्वयं प्रतीत्येत्यादि यावद्धर्मांश्चोत्पद्यते मनोविज्ञानमिति, यद्यनेकेन द्रव्येण ज्ञानमुत्पाद्यते साक्षाद्बुद्धेनोक्तं यदपि च द्वयं प्रतीत्येत्यादि विरुद्ध्यत इत्यभिसम्बन्धः, आध्यात्मिकमायतनं बाह्यश्च द्वयं प्रतीत्य विज्ञानस्योत्पत्तिर्भवति इत्युक्त्वा स्वयमेव पुनः प्रतिपृच्छय व्याकरोति, कतमहयं प्रतीत्य ? चक्षुः प्रतीत्य रूपाणि च प्रतीत्येत्यादि विभज्य वाच्यं गतार्थमेव तत् । द्वयषटात् विज्ञानषदूमुत्पद्यत इति पूर्वपक्षः, तथा चाह 'विजानाति न विज्ञानमेकमर्थद्वयं यथा । एकमर्थ । विजानाति न विज्ञानद्वयं तथा' इति, अत्रोत्तरमाह-अत्रापि चक्षुः प्रतीत्य रूपाणि च प्रतीत्य चक्षुर्विज्ञानस्योत्पत्तिर्भवतीति द्वयी गतिः । बहुवचननिर्देशः सञ्चयापेक्षयाऽतीन्द्रियाणामपि रूपाणां व्यक्तिपदार्थाश्रयः स्यात् , 'जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्याम्' (पा. अ० १ पा. २ सू० ५) इति जातिपदार्थाश्रयो वा । तत्र यदि व्यक्त्यपेक्षो निर्देशः सञ्चयाधारतया ततोऽयमेव संवृतिसत्सामान्यासत्कल्पनविषयाः पञ्चविज्ञानकाया न स्वलक्षणविषया इति दोषः, अथ द्रव्योक्तमेतज्जातीयाः 10 परमाणव एकरूपनिर्देशेन सर्व निर्देष्टव्या इत्येकस्मिन् बहुवचनं तत इहाभ्युपगमविरोधः, अभ्युपगतं त्वयाऽतीन्द्रियाः परमाणव इति तेन विरोधः।
अस्मिंश्चाभ्युपगमेऽन्यदप्यनिष्टापादनमुच्यते
बुद्ध्यादेरपि चैन्द्रियकत्वमतीन्द्रियत्वाद्रूपवत् , रूपं वा न चक्षुर्ग्राह्यं स्यादतीन्द्रियत्वाझुद्ध्यादिवत् , नन्वतीन्द्रियत्वं चक्षुग्रोह्यत्वञ्च परस्परतो विरुध्येतेति तन्मा मंस्थाः, भव-15 तोऽनिष्टापादनपरत्वात् , भवबुद्धिनिवर्त्तनफलत्वाचास्य प्रयोगस्येति । अथापि यश्चात्र विरोध: सम्भाव्येत स तुल्यः परमाण्वैन्द्रियकत्वेन ।
बुद्ध्यादेरपि चैन्द्रियकत्वमतीन्द्रियत्वाद्रूपवदिति, बुद्धिसुखदुःखेच्छाद्वेषवेदनादयो धर्माश्चाक्षुषाः स्युर्भवत्परिकल्पिताः, अतीन्द्रियत्वाद्रूपवत्, परमोऽणुः परमाणुः अणुशब्दः सूक्ष्मपर्यायः, परमशब्दस्तदतिशयवाची, स चातीन्द्रियत्वे घटते तस्यातीन्द्रियस्यैन्द्रियकत्व-चाक्षुषत्वं यथाविरु- 20 द्धमेवमिदमपि बुद्ध्यायेन्द्रियकत्वं तुल्यमिति समानदोषतया विरोधोद्भावनमस्तु को दोषः ।
किश्चान्यत्
चक्षुः प्रतीत्य रूपाणि च प्रतीत्य चक्षुर्विज्ञानमुत्पद्यत इति चातीन्द्रियत्वादनुमानविरोधः, उक्तभावनावत्स्ववचनविरोधोऽपि । नस्यानेकविषयत्वं दोषः, विजानाति न विज्ञानमेकमर्थद्वयं यथेत्युक्तरिति भावः। द्वयषट्कादिति, चक्षुरूपश्रोत्रशब्दघ्राणग- 25 न्धरसनारसत्वस्पर्शमनोधर्मलक्षणाद्वयषट्वाच्चाक्षुषादिविज्ञानषट्कमुत्पद्यत इत्यर्थः । द्वयी गतिरिति, रूपाणीति बहुवचननिर्देशो द्विधैव सम्भवति संचयाधाररूपव्यक्त्यपेक्षया जात्यपेक्षया वेति भावः। तत्र व्यक्त्यपेक्षनिर्देशाङ्गीकारे विज्ञानानां सञ्चितालम्बनत्वात् सञ्चयस्य च संवृतिसत्त्वात्सामान्यरूपतयाऽसद्रूपत्वात् कल्पनात्मकत्वं स्यात् । जात्यपेक्षनिर्देशाङ्गीकारे चैकपरमाण्वालम्बनत्वापत्त्या परमाणोरतीन्द्रियत्वाभ्युपगमविरोध इत्याह-तत्र यदीति। अतीन्द्रियस्याप्यन्द्रियकत्वे दोषमाह-बुद्ध्यादेरपीति अत्रैन्द्रियकत्वं चक्षुर्ग्राह्यत्वं विवक्षितम् । अतीन्द्रियत्वचक्षुर्ग्राह्यत्वयोर्विरुद्धत्वादेव भवतोऽनिष्टमा- 30 पाद्यते मया यद्येकद्रव्यालम्बनत्वं चक्षुर्विज्ञानस्याभ्युपगम्यत इत्याह-भवत इति । असावनुमानप्रयोगोऽतीन्द्रिये परमाणी भवदीयां चाक्षुषालम्बनताबुद्धिं निवर्तयति, एतावदेवास्य प्रयोगस्य फलमित्याह-भवद्वद्धीति । अथापीति बुद्ध्यायेन्द्रियकत्वे यो विरोध उद्भाव्यते भवता स एव विरोधः परमाण्वन्द्रियकत्वेन तुल्यो न त्वेकशेषः कर्तुं पार्यत इति भावः ।
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org