SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ 5 ९४ 20 वादपरमेश्वरसंश्रयश्चैवम्, ( वादेति ) एवञ्च भवत एकान्तवादिनस्तत्त्यागेनाने कान्तवादाश्रयः । वादाः सर्व एव लोकं स्वसात्कर्त्तुं समर्थत्वाल्लोकस्येशते एकान्ता अपि तेषां तु सर्वेषामनेकान्तवादः परमेश्वरस्तद्वशवर्त्तिनामीष्टे, तेषां स्वार्थोन्नयनसमर्थानामपि परस्परविरोधदोषवतामुदासीनमध्यनृपतिवत्संध्यादिषड्गुणान्यतमगुणाश्रयिणां विजिगीषूणां परार्पणलक्षणसंश्रयगुणाधारः परमेश्वरः स्याद्वादः, तत्संश्रयेणैव 10 स्ववृत्तिलाभात्तदसंश्रये परस्परकायविलोपात् स्वयं विनाशाच्च तेषाम् । लौकिको व्यवहारनय आह न च नस्तेन विरोधः, तस्य लोकनाथत्वात्, स हीनः विलुप्यमानस्य लोकतत्त्वस्य त्राता, सर्ववादभेदयथार्थानां लोकसंवादेनोपग्राहयित्वा पालनात् । ( न चेति ) लोको हि व्यवहारनयस्तद्वशवर्त्तित्वेन तन्मतविलोकनाल्लोकस्य नाथत इति लोक15 नाथः स्याद्वादः कस्मात् ? स हि इनः, यतो विलुप्यमानस्यैकान्तवादिभिर्लोकतत्त्वस्य - लोकसारस्य सम्यग्दर्शनरत्नस्य त्राता - त्राणशीलत्राणधर्मा साधुत्राणकारी वेति, कथं त्रातेति चेत् ? सर्ववादभेदेत्यादि, लोकभूतानां सर्ववादानां भेदाः सर्ववादभेदाः नित्यानित्याद्येकान्ताः, तेषां यथार्था: - यथार्थभावा: - स्वविषयसमर्थनभाविताः, तेषां लोकसंवादेनोपग्राहयित्वा परस्परसाम्यावस्थापनेन पालनात् त्रातेत्युच्यते । द्वादशारनयचक्रम् [ विध्यरे (चक्षुरिति) स्थूलानां सूक्ष्मपूर्वकत्वात् कार्यानुमानसिद्धाः परमाणवः, तस्मान्नित्यानुमेयानां तेषां चक्षुर्विषयत्वाभ्युपगमेन च तयोरनुमानविरोधिता । किञ्चान्यत्-उक्तभावनावत्स्ववचनविरोधोऽपि उक्त भावना तद्वदुक्तभावनावत्, एवमेव च परमाणुरतीन्द्रियत्वाच्चाक्षुषश्चेत्यनुमानविरोधभावनयोक्तया तुल्यत्वादतीन्द्रियत्वाभिमतः परमाणुश्चक्षुर्विषयतामायातीति ब्रुवतः स्ववचनविरोधोऽपि । इतर आह कथं संश्रय इति चेत् ? अनेकात्मकरूपायतनाभ्युपगमात् । (कथमिति) अस्तु तावद्वादपरमेश्वरत्वं लोकत्राणात् स्याद्वादस्य, लोकत्राणश्च परस्पराविरोधोपादककरणाच्च तेषाम् । वादपरमेश्वरसमाश्रयः कथमेकान्तवादानामित्यत्रोच्यते, अनेकात्मकरूपायतनाभ्युपगमात्, अनेक आत्मा यस्य तदिदमनेकात्मकं रूपायतनं यत्तदेकेन द्रव्येण कदाचि - 25 चक्षुः प्रतीत्येति, परमाणुरूपस्य ह्यनेनाभ्युपगमेन चक्षुर्विषयतोता सा च न युक्ता परमाणूनां कार्यलिङ्गेन नित्यानुमेयत्वादतस्तत्साधकानुमानविरोधस्तद्वचनाभ्युपगन्तुः प्रसज्यत इति भावः । उक्तभावनावदिति, एवञ्चोक्तरीत्या परमाणोरतीन्द्रियत्वेन चाक्षुषत्वाभ्युपगमे यथाऽनुमानविरोधस्तथैवातीन्द्रियत्वाभिमतः परमाणुश्चक्षुर्विषयतामायातीत्युक्तौ स्ववचनविरोधोऽपि स्यादिति भावः । तयोः - परमाणुत्वचाक्षुषत्वयोः । वादपरमेश्वरेति, प्रत्येकमेकान्तवादा ईश्वराः, अनेकान्तवादः पर मेश्वरः, तद्वशवर्त्तिनामीशनात् ते हि वादा यद्यपि स्वस्वार्थोन्नयने समर्थास्तथापि परस्परं विरुद्धाः सन्धिविग्रहयानासनद्वैधसमा30 श्रयलक्षणगुणा मध्यस्थं नृपतिभासाद्याविरोधेन यथा वर्त्तन्ते तथा स्याद्वाद एकनयेऽपरनयार्पणलक्षणमाश्रयं दत्त्वा विरोधं परि० हरति, नयानामितरनयानपेक्षवृत्त्यभावात् तत्सापेक्षतयैव वृत्तेरिति भावः । तेन - स्याद्वादेन सह । अनेकात्मकेति -अनेकात्मकरूपायतनाभ्युपगमाद्वौद्धेन स्याद्वादः समाश्रितः तत्रैकेन कदाचिज्ज्ञानमुत्पाद्यते यदा नीलादिव्यवच्छेदः कदाचिदनेकेन Jain Education International 2010_04 د For Private & Personal Use Only www.jainelibrary.org
SR No.002584
Book TitleDvadasharnaychakram Part 1
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1948
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy