________________
स्थावादसमाश्रयणम् ] न्यायागमानुसारिणीव्याख्यासमेतम् ज्ज्ञानमुत्पादयति कदाचिदनेकेनेति तद्वयवच्छेदाव्यवच्छेदाभ्यामिति तदभ्युपगमात् स्याद्वादसमाश्रयः, स्याद्वादैकदेशाश्च नया एकान्तवादाः, यथोक्तं-'भई मिच्छादसणसमूहमइयस्स अमयसारस्स । जिणवयणस्स भगवओ संविग्गसुहाहिगम्मस्स' (संमतेः गा. ५९) इति, नैताः खमनीषिकाः, लक्षणमपि तथैव नयानां, उक्तं हि 'द्रव्यस्यानेकात्मकत्वेऽन्यतमात्मकैकान्तपरिग्रहो नयः', स्वप्राधान्येनार्थनयनान्नयः, स च मिथ्यादृष्टिरनेकाकारार्थस्य विपरीतप्रतिपत्तित्वात् , अनेकात्मकवस्तुप्रतिपत्ति- 5 त्वात् स्याद्वादस्य याथार्यम् । कथं पुनर्लोकभूतेन व्यवहारनयेनैकान्तवादिनो निगृह्यन्त इति चेल्लोकनाथसमाश्रितत्वात्तेषाम् , लोकनाथपक्षसमाश्रय एव प्रतिवादिपक्षाभ्युपगमः, स निग्रहस्थानमेकान्तवादिनामभ्युपगमसमकालमेवावसितो वाद इति ।
अत्र चैकरूपायतनाधारतया त्वयाप्यनेकान्तवादोऽभ्युपगत एव, तदाधारतया हि तत्रेत्यधिकरणवाचिप्रत्ययान्तेन तत्रशब्देनाव्यतिरेकं रूपायतनमेवोक्तं तस्यैवारूपरूपता पुन-10 दर्शिता, कदाचिदेकेन द्रव्येण कदाचिदनेकेन ज्ञानमुत्पाद्यते इति ब्रुवता । एवञ्च तस्यैकस्यैवैकताऽनेकता च त्वयैवोक्ता तथाऽविभक्ततत्त्वेन ज्ञानोत्पत्तेः । दृश्यते हि तदेव रूपायतनं पश्यत एकमनेकश्च परमाणवस्तत्समूहश्चेति स्वलक्षणसामान्यविषयज्ञानोत्पत्तिः, उक्तहेतुवदेतदपि भेदाभेदात्मकम् ।
(अत्रेति) त्वयापि स्याद्वादाभ्युपगतानेकात्मवस्त्वेकानेकत्वानेकान्तवादोऽभ्युपगत एव, 15 यस्मादनेकप्रकारभिन्न इत्यादि यावदनेकवर्णसंस्थानं पश्यत इति, अत्र च वाक्ये एकमेव रूपायतनं ज्ञानाधारमभीष्टं यस्मात्तदाधारतया पुनस्तत्रेत्यधिकरणवाचिप्रत्ययान्तेन तत्रशब्देनानन्तरनिर्दिष्टमेव रूपायतनमव्यतिरेकमभेदं तस्य वस्तुन आगृह्योक्तम् , तस्यैवारूपरूपता पुनर्दर्शिता कदाचिदेकेन द्रव्येण कदाचिदनेकेन ज्ञानमुत्पद्यत इति ब्रुवता, रूपायतनस्यैवैकानेकसंख्यानिर्देश्यत्वमनभ्युपगच्छता कथं तत्रशब्दसामानाधिकरण्यमापादयितुं शक्यते यदि तदेकमनेकश्च न 20 स्यात्, इतरथा तत्र च रूपायतनेऽन्यत्र वेति स्यान्न तु भवति, तस्मादेवश्चेत्यादि, एवञ्चोक्तविधिना तस्य-स्वयैवोक्तस्य रूपायतनस्यैकस्यैव एकताऽनेकता चातस्त्वयैवोक्ता, कस्मात् ? तथाऽ
यदा तदव्यवच्छेद इत्यभ्युपगमाच । एकान्तवादरूपाः प्रत्येकं सर्वे नयाः स्याद्वादस्यैकदेशरूपा एवेत्याह-स्याद्वादेति,-अत्रार्थे पूर्वाचार्यगाथाप्रमाणमाह-भई इति, मिथ्यादर्शनसमूहमयस्य तथात्वेऽप्यमृतसारस्य संसारभयोद्विनैर्मोक्षाभिलाषुकैर्निमत्सरैर्जिनवचनश्रद्धालुभिः सुखेनावगन्तुमर्हस्य भगवतोऽर्हतो वचनस्य कल्याणं भवत्विति गाथार्थः । तथा नयखरूपमप्यत्रार्थे प्रमाण. 25 त्वेनाह-द्रव्यस्येति । नन्वेकान्तवादाः स्याद्वादैकदेशास्तहि कथं तद्वादिनो निगृह्यन्त इति चेत्स्याद्वादसमाश्रयणादित्याह-कथं पुनरिति । स्याद्वादाश्रयणमेव तेषां प्रतिवादिपक्षाश्रयणं तदाश्रयणस्य निग्रहस्थानत्वात्तदभ्युपगमे स निगृहीत एवेति भावः । एकमेव रूपायतनमिति, नीलपीतादिनानारूपिरूपायतनमेकमिष्टं, ज्ञानाधारतया तद्वचनेऽधिकरणवाचिप्रत्ययान्तेन तत्र शब्देन रूपायतनस्यैवाभिन्नस्य ग्रहणात् , तत्रैवावच्छेदानवच्छेदाभ्यां रूपरूपायतनयोः प्रदर्शनाच, एवञ्च तत्रशब्दग्राह्यस्यैकानेकरूपतया वर्णितस्य रूपायतनत्वे तदपि रूपायतनमेकानेकसंख्या निर्देश्यमेव स्यात् , अन्यथा तत्रशब्देन सामानाधिकरण्यं न 30 स्यात्, किन्तु तत्रैकस्मिन् रूपायतने नीलादिप्रकारावच्छेदोऽन्यत्राव्यवच्छेद इति स्यान्न तु तथा भवतीति भावः । त्वयैव रूपायतनस्यैकानेकतोकेति साधयति-एवञ्चति. तथा च चक्षुर्विज्ञानाधारं रूपायतनमेकानेकखरूपम् , तथाऽविभकत्वेन ज्ञानोपत्तेः, दूराचक्षुर्विषयानेकवर्णसंस्थानमणिसमूहवदिति प्रयोगः, समूहरूपेणैकत्वं परमाण्वात्मनाऽनेकत्वं रूपायतनस्य विज्ञेयम् ,
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org