________________
द्वादशारनयचक्रम्
- [विध्यरे विभक्तेत्यादि, तेन प्रकारेण तथा, अविभक्तं तत्त्वं यस्य तदिदमविभक्ततत्त्वं तद्भावस्तत्त्वम् , एकानेकत्वाद्यविभक्तवस्तुतत्त्वं, तेन तथाऽविभक्ततत्त्वेन ज्ञानोत्पत्तरिति हेतुः, कस्मिन् साध्ये ? तस्यैवैकानेकतायाम् । दृश्यते हि तदेव रूपायतनं पश्यत एकमनेकञ्च परमाणवस्तत्समूहश्चेति ज्ञानोत्पत्तिः, दूरान्मणिसमूहमनेकवर्णसंस्थानं पश्यत इत्युदाहरणमप्येवमेवैकानेकरूपद्रव्यरूपायतनत्वे साध्ये चक्षु5 विज्ञानाधारस्य वस्तुनः साधर्म्यदृष्टान्तत्वं भजते नैकान्तैकानेकरूपत्वे, ततश्चावश्यमेषोऽर्थ आपद्यते स्यादेकं रूपायतनं स्यादनेक रूपायतनमिति, कस्मात् ? स्निग्धरूक्षत्वाभ्यां चैक्यपरिणामापत्तेस्तत्समूहग्राह्यत्वादेकम् , द्रव्यार्थावस्थानात् परमाणूनां स्वरूपभिन्नानां भेदादनेकम् । अत एव द्रव्यम् , रूपादिगुणपर्यायपरिणामापत्तेरद्रव्यम्, प्रतिस्वमसाधारणरूपादिपरिणामापेक्षया स्वलक्षणविषयम् ,
साधारणीभूतभेदसमूहापेक्षं चाक्षुषत्वादिपरिणामापत्तः सामान्यविषयम्, यथोक्तं 'भेदसंघाताभ्यां 10 चाक्षुषाः' (तत्त्वार्थ० अ० ५ सू० २८) इति । उक्तहेतुवदिति, तथाऽविभक्ततत्त्वज्ञानोत्पत्ते:दाभेदात्मकज्ञानोत्पत्तिवदेतदपि वस्तु भेदाभेदात्मकमिति ।
इतर आह
ननु कदाचिच्छब्दःकालान्तरवचनः, तस्मिन्नैव हि वस्तुनि कदाचित्कालान्तरे ज्ञान___ मेकाकारमुत्पद्यते कदाचिदनेकाकारं ज्ञानस्यैवाकारवत्त्वात्तन्न, एककाल एवोभयरूपत्वात् , 1B स्यात्तत् तत् , परमाणुद्रव्यसमूहाभेदात् , स्यान्न तत् तत् , रूपादिपरिणामभेदात् , ग्रहणापदेशविशिष्टार्थत्वादेकानेकात्मकं तद्वस्तु, अनेकवर्णमणिरूपवत् , एकपुरुषपितृपुत्रादिवद्वा।
(नन्वित्यादि) निराकारबाह्यवस्तुपक्षे । अत्रोच्यते तन्नैककाल एवोभयरूपत्वात् , एकस्मिनेव हि काले नीलपरमाणुसमूहाकारज्ञानस्य भेदाभेदात्मकत्वं दृष्टमतो न सम्यगुक्तं कदाचिच्छब्दः
कालान्तरवचनस्तस्मादेकाकारं कदाचित् कदाचिदनेकाकारं ज्ञानमुत्पद्यते तस्मिन्नेव वस्तुनीति, तस्माच्चै20 ककाल एवोभयरूपत्वात् , स्यात्तत्तत्,-तदेव तद्वस्तु, परमाणुद्रव्यसमूहाभेदात् , स्यान्न तत्तत् , रूपादि
अयम्भावः रूपायतनमधिकृत्योत्पद्यमानं नीलादिचाक्षुषं ज्ञानं यथा परमाणून् समुदाय वा पार्थक्येन गृह्णन्नोत्पद्यते किन्त्वविभक्तवस्तुतत्त्वेन, अत एव तज्ज्ञानं खलक्षणविषयं सामान्यविषयमपि, अत एव च भेदाभेदात्मकमपेक्षाविशेषादेवमेव तद्राह्यमपि वस्तु भेदाभेदात्मकं द्रव्यपर्यायात्मकमेकानेकरूपश्च तथाऽविभक्ततत्त्वेन ज्ञानोत्पत्तेरिति । तदेव रूपायतनमिति.
अविभक्ततत्त्वताऽनेन प्रकाशिता । रूपायतनस्यैकत्वं कथमित्यत्राह-स्निग्धेति, परमाणूनां परस्परं स्निग्धत्वरूक्षत्वगुणत ऐक्य26 परिणामो जायत इति तदपेक्षया समूहस्यैव ग्राह्यतया तदपेक्षया चैकत्वं रूपायतनात्मकपरमाणूनामिति भावः । अनेकत्वे कार
णमाह-द्रव्यार्थति, ऐक्यपरिणामलक्षणपर्यायं प्रति सर्वेषां परमाणूनां द्रव्यार्थतयाऽवस्थानेऽपि प्रतिपरमाणु स्वरूपभेदात्तदपेक्षयाऽनेकत्वमिति भावः । अत एवेति, रूपादिगुणपर्यायं प्रति परमाणूनां द्रव्यार्थतयाऽवस्थानादेवेत्यर्थः । तेषामेव परमा: णूनां रूपादिगुणात्मकतया पर्ययनादद्रव्यमित्याह-रूपादीति, परमाणूनां चाक्षुषविज्ञानस्य च खलक्षणविषयत्वे कारणमाह
प्रतिस्वमिति, प्रतिपरमाणु रूपादिगुणपर्यायस्यान्यासाधारणत्वात्तदपेक्षया द्वयोरपि स्खलक्षणविषयत्वमिति भावः। द्वयोः सामा30 न्यविषयत्वे हेतुमाह-साधारणीभूतेति नीलपीतादिनानारूपरूपिसाधारणश्चाक्षुषत्वपरिणामो परमाणूनां भेदसंघाताभ्यां
भवति तदपेक्षया द्वयोः सामान्यविषयत्वमिति भावः । नन्वविभक्ततत्त्वेन ज्ञानोत्पत्तेरिति हेतुरसिद्धो येन ज्ञानस्यैकानेकाकारतया वस्त्वपि तथा स्यात् , किन्तु ज्ञानमेकदैकाकारमन्यदा चानेकाकारमुत्पद्यते न त्वेकदोभयाकारमित्याशङ्कते-नन्विति । एकाकारं ज्ञानमुत्पद्यतेऽनेकाकारं ज्ञानमुत्पद्यत इत्युक्त्या ज्ञानस्येव नीलाद्याकारो धर्मः न त्वर्थस्य, शुक्तिरजतादो रजतज्ञानमथान
भावेऽपि साकारमुपलक्ष्यते, नतु विज्ञानाभावे साकारोऽर्थ इति साकारज्ञानवादिमताभिप्रायेणोक्तं-ज्ञानस्यैवाऽऽकारवत्त्वा35 दिति, एवकारेणार्थस्य साकारत्वं प्रतिक्षिप्तम् । अथैकदैव परमाणुनीलसमुदायाकारज्ञानस्य दर्शनाद्भेदाभेदात्मकं सिद्धमेवे
स्युत्तरयति-तन्नेति, स्यात्तत्तदिति, समूहस्य समृह्यनन्यत्वं प्रतिपादयति स्यान्न तत्तदिति, समूहस्य समूह्यन्यत्वं प्रतिपाद
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org