________________
कल्पनात्मकत्वादिदोषाः] न्यायागमानुसारिणीव्याख्यासमेतम् परिणामभेदात् । हेत्वन्तरमप्यत्रोच्यते-ग्रहणापदेशविशिष्टार्थत्वात् , ग्रहणं-ज्ञानं ज्ञानमेवापदेशो हेतुः, तेन हेतुना विशिष्टो ग्रहणापदेशविशिष्टः स चासावर्थश्च तद्भावो ग्रहणापदेशविशिष्टार्थत्वम् , यस्माचक्षुर्विज्ञानाद्धेतोर्विशिष्टोऽर्थो रूपं समुदायात्मकं गृह्यते तस्मादेकानेकात्मकं तद्वस्तु, को दृष्टान्तः ? अनेकवर्णमणिरूपवत्, एक एव वा मणिर्मेचकः स्फटिकाद्यन्यतमस्तद्रूपवत् , नानावर्णानां वा मणीनां समूहस्य रूपवत् , यथा तद्हणापदेशविशिष्टज्ञानं परिच्छिन्नविभिन्नरूपं तथा चक्षुर्विषयाभिमतं वस्तु । । एकपुरुषपितृपुत्रवद्वेति ग्रहणापदेशविशिष्टस्य साधर्म्यदृष्टान्तान्तरम् , यथैकः पुरुषोऽनेकसम्बन्धिजनापेक्षया पिता पुत्रो भागिनेयो मातुल इत्येवमादिव्यपदेश्यत्वं भजते न चास्य विरोधसङ्करानवस्थाप्रसङ्गदोषा ग्रहणापदेशविशिष्टार्थत्वादेवं चक्षुर्विज्ञानविज्ञेयं वस्तु प्रतिपत्तव्यम् ।
___ अतोऽनपेक्षितस्वाभ्युपगममनेकान्तदूषणमापद्यते , अविभावितैवमर्थ्यपूर्वाभ्युपगमत्वाद्वोन्मुग्धभ्रान्तोन्मत्तादिवत् , अनपेक्षितस्वाभ्युपगमानेकान्तदूषणत्वात् कस्य वयं विशे-10 प्यायमेवोन्मुग्धो भ्रान्त उन्मत्तो वेति दोषं ब्रूमः? न विशेषदोषः कस्यचिदपि ।
अतोऽनपेक्षितेत्यादि, अत एव कारणायेऽत्र चोदयन्ति परस्परविरुद्धानां कथमेकत्र सम्भव इति तेषां तदनपेक्षितस्वाभ्युपगममनेकान्तदूषणमापद्यते, स्वाभ्युपगमः स नापेक्षते यस्मिन् दूषणे तदनपेक्षितस्वाभ्युपगममनेकान्तदूषणम् , तद्यथा-सर्वं सर्वात्मकमविशिष्टं प्रतिज्ञाय परिणामभेदव्याख्यानश्चानपेक्ष्यानेकान्तदूषणम् । देशकालकृतात्यन्तविशिष्टत्वं प्रतिज्ञाय संतानविशेषव्याख्या- 15 नमनपेक्ष्यानेकान्तदूषणम् । असत्कार्योत्पत्तिं प्रतिज्ञाय तुल्यजातीयद्रव्यगुणान्तरारम्भनियमव्याख्यानञ्चानपेक्ष्यानेकान्तदूषणम् । कस्माद्धेतोः ? अविभावितैवमर्थ्यपूर्वाभ्युपगमत्वाद्वा, एकान्तवादिनामुक्तानेकान्तस्वरूपोऽर्थ एवमर्थः, तद्भाव ऐवमर्थ्यमविभावितमैवमर्थ्य पूर्वाभ्युपगमश्च यैस्त इमेऽविभावितैवमर्थ्यपूर्वाभ्युपगमा एकान्तवादिनस्तद्भावादविभावितैवमर्थ्यपूर्वाभ्युपगमत्वादुन्मुग्धभ्रान्तोन्मत्तादिवदनपेक्षितस्वाभ्युपगमानेकान्तदूषणत्वात् कस्य वयं विशेष्यायमेवोन्मुग्धो भ्रान्त उन्मत्तो वेति 20 दोषं ब्रूमः ? सर्व एव यूयमेवं दोषद्रष्टारः किं तपस्विना विशेषैकान्तवादिनैव वादिपरमेश्वरपरिरक्ष्यलोकतत्त्वविलोपनोद्यमिनेति, अत आह-न विशेषदोषः कस्यचिदपीति ।
प्रागभिहितसम्बन्धागतकल्पनात्मकत्वापादनचोद्यदूषणमनुक्त्वा तदभ्युपगमेन परिहारोक्तिरायतनस्वलक्षणं प्रत्येते स्वलक्षणविषया न द्रव्यस्वलक्षणं प्रतीति दोषं च लपित्वा प्रतिष्ठापितवानसि ।
25 यति । अत एव कारणादिति, तथाऽविभक्ततत्त्वेन ज्ञानोत्पत्तेरेककाल एवोभयरूपत्वाद्हणापदेशविशिष्टार्थत्वाद्भेदामेदात्मकं वस्त्वविरुद्धं यतोऽत एव वादिप्रयुक्ता अनेकान्ते ये दोषास्ते स्वाभ्युपगमोपेक्षामूलका एवेति भावः । सांख्यबौद्धमैयायिकानां क्रमेणानपेक्षितखाभ्युपगममनेकान्तदूषणं दर्शयति-तद्यथेति सामान्यमादावभिधाय तस्यैव परिणामवर्णनात्सामाग्यविशेषात्मकत्वं खयं खीकृत्याप्यनेकान्तवादे दोषं वक्तीति स तथा। क्षणिकत्वं वस्तुन उक्त्वा सामान्यात्मकसन्तानखीकारात्सामान्यविशेषात्मकत्वमिति तद्दोषोऽप्यनेकान्ते तादृश एव । सदसत्कार्यवादमङ्गीकृत्यापि स्याद्वादे दूषणं नैयायिकस्म तार-30 मेव, अत्र हेतुमाह-अविभावितेति, मदीयोऽर्थोऽनेकान्तरूपः मया तथैव पूर्वमभ्युपगतोऽत्र दोषो नास्त्येवेति तैर्विचारमविधायैवोच्यन्त इति ते उन्मुग्धादिसदृशा अनेकान्ततत्त्वविलोपने समानव्यापारा इति सर्व एते समानतया दूध्या म स्वैक एवं विशेषकान्तवादी अभ्यो वा यः कोऽपीति भावः । कल्पनात्मकत्वापादनेति । भीलपीताबमेकप्रकार मिले
द्वा० न० १३
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org