________________
5
द्वादशारनयचक्रम्
[ विध्यरे
(प्रागभिहितेति ) एतत्तु व्याख्यानं प्रागुच्चार्य चोदितमेव, दोषश्च लपित्वा प्रतिष्ठापितवानसि - स्थिरीकृतवानसीत्यर्थः, यत्तु समस्तालम्बनमित्यादि यावदित्येतत्प्रतिष्ठापितमेव स्थिरीकृतमिति । एष तु विशेषोऽज्ञानत्वप्रसङ्गस्तद्यथा - स्फुटतरक इत्यादि यावत्कुतः प्रत्यक्षत्वमित्येतपदर्शितम् ।
( एष इति ) एष तु विशेषः कल्पनात्मकत्वदोषादन्यो दोषः कतमः ? अज्ञानत्वप्रसङ्गः । तार्थम् ।
योऽपि
चैकाकारेत्यादिचोद्यप्रत्युच्चारणमेतद्यावत्सश्चितालम्बनतायाम् ।
(योsपि चेति ) एतदुक्तं भवति - यदि तदेकतो न विकल्पयति कथं सवितालम्बनता, कल्पनानन्तरीयका हि सा, कल्पनामन्तरेण न सम्भवतीति चोदिते तत्रोत्तरो वक्ष्यमाणो यः समाधिरभि10 धीयते स एव किलास्वलक्षणत्व दोष परिहारोऽभिमतोऽर्थद्वयवाचित्वाविरोधादस्य वाक्यस्येति तत्प्रत्यु चारयति सव्याख्यानम् -
अनेकार्थजन्यत्वात् स्वार्थे सामान्यगोचरमित्यनेकद्रव्योत्पाद्यत्वात्तत् स्वायतने सामाम्यगोचरमुच्यते न तु तद्भिन्नेष्वभेदकल्पनात् तेषु पृथक्पृथग्ग्रहणाभावादिति ।
"
( अनेकार्थेति ) गतार्थः, पिण्डार्थस्तु यद्यपि परमाणुसमूहजन्यत्वान्न ज्ञानमर्थत: सामान्य15 गोचरं तथापि रूपं रसो वा स्वार्थोऽन्यापृथक्त्वादर्थान्तरकल्पने तस्य ज्ञानस्यापटुत्वात्, तच विज्ञानमुत्पादयितुं शिबिकोद्वाहकवत्संहत्य समर्थाः परमाणवो नान्यथेति सामान्यगोचरताऽस्तु को दोष: ? यदि तद्भिन्नेष्वभेदं कल्पयदुत्पद्येत तस्मात् कल्पनात्मकम्, न तु भिन्नेष्वभेदैकाकारपरिकल्पनात्तदुपद्यत इति ।
अस्यार्थस्य दृष्टान्तः—
20 यथाहि शमीशाखापत्रेषु ज्ञानमन्तादिमध्याविवेकेनोत्पद्यते, एवं प्रत्यक्षमपि ।
यथाहि शमीशाखापत्रेष्वित्यादि, यथा सर्वपत्रावलम्बनं ज्ञानमन्तादिमध्याविवेकेनोत्पद्यते एवं प्रत्यक्षमपि ।
रूपायतने कदाचिदेकेन द्रव्येण ज्ञानमुत्पाद्यते कदाचिदने केनेत्युक्तौ तर्हि तज्ज्ञानं कल्पनात्मकमस्वलक्षणविषयञ्च स्यादिति पर्यनुयोगे कृते कल्पनात्मकत्वप्रसङ्गे दूषणमनुक्त्वाऽऽआयतनखलक्षणं प्रत्येते स्वलक्षणविषया न द्रव्यखलक्षणं प्र 25 तद्दोषं स्थिरीकृतवानसीत्यर्थः । एष तु विशेष इत्यादि, अत्र मूलं न सम्यगुपलब्धम् । व्याख्याकृद्भिर्गतार्थमि त्युक्तवा मूलाक्षरार्थानभिधानात् । अनेकार्थजन्यत्वादिति, कदाचिदनेकेन द्रव्येण ज्ञानमुत्पाद्यत इति पक्षेऽनेकार्थजन्यत्वात्तज्ज्ञानं नार्थतो द्रव्यतः सामान्यगोचरम्, किंतु खार्थे सामान्यगोचरम्, स्वार्थश्च रूपं रसो वा, प्रमाणस्य हि विषयो बौद्धनये द्विविधः, ग्राह्योऽध्यवसेयश्च प्रायो यदाकारं ज्ञानमुत्पद्यते सः, प्रत्यक्षस्य हि क्षण एवैको प्रायः, स एवार्थ उच्यते, अध्यवसेयस्तु प्रत्यक्षबलोत्पन्नेन निश्चयेन सन्तान एव स एव च प्रत्यक्षस्य प्रापणीयो नतु क्षणः 30 अत्यन्तसूक्ष्मत्वेन प्रापयितुमशक्यत्वात् स एवानर्थ उच्यते एवञ्च रूपं रसो वाऽत्र समानं सन्तानरूपं रूपायतनं वा प्रायमन्यसाधारणत्वात् यथा शमीपत्रेषु ज्ञानमन्तादिमध्याविवे के नोत्पद्यते तथाऽनेकार्थजन्यं ज्ञानमपि परमाणुषु पृथकू पृथक विवेकेन रूपस्याग्रहणाद्रूपमिति सामान्येनान्यापृथक्त्वेन ग्रहणात्स्वार्थे सामान्यगोचरमित्युच्यते इति भावः । को दोष इति, न कोऽपीत्यर्थः इत्थं स्वार्थे सामान्यगोचरत्वेऽपि न कल्पनाकत्वदोषः, यदि हि तज्ज्ञानं भिन्नेष्वमेदं
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org