________________
संघातनिरासः] न्यायागमानुसारिणीव्याख्यासमेतम्
स्यान्मतं तव्यतिरेकेण पत्रे समुदाये च यथा ज्ञान तथा प्रत्यक्षमपि स्यादित्येतच्चायुक्तम् , न च संघातः कश्चिदेकोऽस्ति, तेषामनारब्धलक्षणकायत्वात् , न हि समुदायो वैशेषिककल्पितकायद्रव्यवत् पृथगस्ति, नापि परिणामान्तरमापन्नम् , तेषां क्षणिकत्वादारम्भनिष्ठाकालभेदावस्थानाभावादेवमणुष्वपि ।
(स्यान्मतमिति) तेषां-कारणभूतानाम् । एवमणुष्वपीति दान्तिकं निदर्शयति । । अत्रोत्तरमुच्यते
अयमसमाधिरेव, अस्यार्थस्य जरत्कुटीरवदारोहणाक्षमत्वादङ्गीकृतार्थविनाशित्वात् , शब्दकृतकत्वाभिव्यक्तिस्थापनार्थप्रवृत्तवैशेषिकवत् , कुतस्तत्साधर्म्यमिति चेदुच्यते, अविषयतां प्रतिज्ञाय तदतद्विषयतया तदतद्भूतसामान्यगोचरोपसंहारात्।।
(अयमिति) अयमसमाधिरेव-त्वद्वाक्यजनितस्य प्राक् चोदितापायस्यायं समाधिरप्यस- 10 माधिरेव, अङ्गीकृतार्थविनाशित्वात् , शब्दकृतकत्वाभिव्यक्तिस्थापनार्थप्रवृत्तवैशेषिकवत्, वैशेषिकस्येव वैशेषिकवत् , अचाक्षुषप्रत्यक्षस्य 'गुणस्य सतोऽपवर्गः कर्मभिः साधर्म्यम् , सतो लिङ्गाभावात्' (वैशे० अ. २ आ० २ सू० २५,२६) कार्यत्वादिभिरनित्यत्वं वैशेषिकत्वात् सिद्धं कृतकत्वञ्च, तस्याभिव्यक्तिस्थापनार्थं प्रवृत्तस्य वैशेषिकस्येवाङ्गीकृतार्थनाशित्वमेवमनेकार्थजन्यत्वात् खार्थे सामान्यगोचरमित्यर्थवचनयोर्दोषः, तद्व्याचष्टे-कुतस्तत्साधर्म्यमिति चेदुच्यते-अविषयतां प्रतिज्ञाय तदतद्विषयतया 15 तदतद्भूतसामान्यगोचरोपसंहारात्, स चासश्च विषयोऽस्य स तदतद्विषयः, तद्भावस्तदतद्विषयता, तदतद्भूतं सामान्यं, तद्गोचरोऽस्य विषय उपसंहारस्य तस्मादुपसंहारात् । स चान्यश्च विषयः सामान्यस्येति तदन्यतरत्रैव न प्रवर्तते, एकतरत्रादृष्टत्वात् , त्वन्मतेनैव प्रतिष्ठां नियतत्वाद्भावानां नैकरूपमपि, तन्न च तत्र वृत्तं न चातोऽन्यत्र, तत्रावृत्तत्वात्तन्न भवति, अतत्रावृत्तत्वादतन्न भवति ततसदतद्भूतं सामान्यं गोचरोऽस्योपसंहारस्य यः स तदतद्विषयतया त्वयाङ्गीक्रियते ।
20 कल्पयदुत्पद्येत घटोऽयं घटोऽयमिति तदा स्यात्कल्पनात्मकम् , न तु भिन्नेष्वभेदैकाकारपरिकल्पनात्तदुत्पद्यत इति न कल्पनात्मकत्वप्रसङ्ग इति भावः । दृष्टान्तवैषम्यं शङ्कते स्यान्मतमिति, यथाऽऽदिमध्यान्ताविवेकेन सर्वपत्रालम्बनं ज्ञानमिव प्रत्येकमपि पत्रे ज्ञानमुत्पद्यमानं दृश्यते तथैव परमाणुसमूहालम्बनं ज्ञानमिव प्रत्येकं परमाणुष्वपि प्रत्यक्षमुत्पयेतेति शङ्कार्थः । संघातस्य कस्यचिद्वस्तुनोऽभावाद्यदुत्पद्यते प्रत्यक्षं तदणुष्वेवेति समाधत्ते पूर्वपक्षी-नच सजात इति। आरम्मेति, आरम्भणक्रियाकालमवधीकृत्य यावत्समाप्तिक्रियाकालमेकस्यापि परमाणोः स्थित्यभावादित्यर्थः। 25 जरत्कुटीरवदिति, यथा जीर्णकुटीरमारोङमयोग्यं कृते चारोहणे तस्य विनाश एव प्रसज्यते तथाऽयं समाधिरङ्गीकृतार्थविनावित्वादसमाधिरेवेत्यर्थः । प्राक् चोदितापायस्य-प्रागभिहितदोषस्य । शब्दकृतकत्वेति, वैशेषिकमते शब्दो त्यनित्यः कृतकत्वात् , तत्र चक्षुन्निबहिरिन्द्रियजन्यप्रत्यक्षविषयस्य गुणस्य सत कर्मवदाशुविनाश उच्चारणादूई सद्भावे प्रमाणाभावाद्वेरीदण्डसंयोगादिकार्यत्वाच्च कृतकत्वं सिद्धम् , स एव वैशेषिको यदि शब्दस्याभिव्यक्तिस्थापनार्थ यतते तर्हि खालीकृतानित्यत्वलक्षणार्थहानिरेव तस्य स्यात्तथैवात्रापि दोष इति भावः । कथं तथाविधवैशेषिकतुल्यतेत्याशय समाधत्ते-कत-30 स्तदिति, अविषयतामिति, परमाणूनामविषयत्वं प्रतिज्ञायेत्यर्थः, परमाणूनामध्यवसेयलक्षणं विषयत्वं नास्तीति तेषामविषयता बोध्या, तदतद्धतसामान्यविषयत्वोक्तौ च परमाणूनामपि विषयत्वं प्रतिष्ठापितमेवेति वैशेषिकतुल्यताऽऽयाता । ननु तदतद्विषयत्वं सामान्यस्य भवतु तदतद्भुतत्वं कथमित्यत्राह-स चान्यश्चेति, उभयविषयत्वादुभयत्रैव तस्य वृत्तिः, न त्वन्यतरत्रैव, एकतरत्रैव वृत्तेरदृष्टत्वात् , तस्मात् सामान्यं तत्र वृत्तं न चातोऽन्यत्रेति नच, तथाच सामान्यं तत्रावृत्तत्वान तदात्मकमतत्रापि वृतेः, अतत्रावृत्तत्वादतदात्मकं न भवति तत्रापि वृत्तः, तस्मात्तदतद्भूतं तत् । यः स इति, गोचरी-35
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org