________________
१००
द्वादशारनयचक्रम्
[विध्यर तस्मात्तदतद्विषयतया तदतद्भूतसामान्यगोचरोपसंहारादङ्गीकृतप्रत्यक्षविनाश इत्यत आह
नन्वत एव न तत्प्रत्यक्षं स्वार्थे सामान्यगोचरत्वादनुमानवत्, अनुमानमपि वा न, स्वार्थे सामान्यगोचरमिति कुमारब्रह्मचारिपितृवचनवचैतत् ।।
(नन्विति) स्वार्थ इति-खविषये-स्वग्राह्ये वस्तुनि सामान्यगोपरत्वाज्ज्ञानमप्रत्यक्षं दृष्टं 5 यथाऽनुमानमिति, अनुमानमपि वा नेति, नानुमानमपि तत्स्यात् स्वार्थे सामान्यगोचरत्वात् प्रत्यक्षवत् ।
खार्थे सामान्यगोचरमिति, एतत्स्ववचनविरोधे, किमिव ? कुमारब्रह्मचारिपितृवचनवचैतत्, यथा कश्चिद्भूयात् पिता मे कुमारब्रह्मचारीति, तस्य तद्वचनं स्वत एव विरुद्ध्यते, यदि पिता कथं कुमारब्रह्मचारी ? अथ कुमारब्रह्मचारी कथं पितेति । तथेदमपि यदि तज्ज्ञानं स्वार्थे कथं सामान्यगोचरम् ,
अथ सामान्यगोचरं कथं तत्स्वार्थे ? 10 स्वार्थ इति च त्वया प्रमेयमुच्यते, सामान्यतो वस्तुस्वलक्षणं स्वार्थ इति, तथा सामान्य
लक्षणमिति लिङ्गगम्यं सर्वम् , अस्वार्थविशिष्टे-स्वविषये-एकस्मिन्नेव रूपादिप्रकारे सामान्यगोचरमिति, सामान्यविषयश्च स्वार्थे ज्ञानमिति च विस्पर्धितमेतम् , अर्थविषयशब्दौ हि लक्षणार्थावेव, तद्विस्मृत्य भ्रान्तेन नेन्द्रियग्राह्यस्वार्थसामान्यभेदकल्पनापरिहारो युज्यते वक्तुम् , प्रत्यक्षव्याख्याविषयत्वात् स्वार्थस्वलक्षणस्वविषयशब्दानाम् । 15 (वार्थ इति) स्वार्थ इति च त्वया न चक्षुषोऽन्यस्य वेन्द्रियस्य विषय इति विशेषमाश्रित्य लक्षणमभिधीयते किन्तर्हि ? प्रमेयमुच्यते, सामान्यतो वस्तुस्खलक्षणं स्वार्थ इति, तथा सामान्यलक्षणमिति न धूमानुमेयामिमात्रम् , किं तर्हि ? लिङ्गगम्यं सर्वम् , एतस्यार्थस्य प्रतिपादनार्थमाह स्वार्थलक्षणमेव निरूपयन्-अस्वार्थविशिष्टे, खोऽर्थः स्वार्थो न स्वार्थोऽस्वार्थ:-स्वार्थादन्यस्ततो विशिष्टः स्वार्थस्तस्मिन् स्वार्थे, तमेवार्थ पर्यायेणाह-स्वविषये, किमुक्तं भवति, एकस्मिन् रूपादिप्रकारे प्रकृष्टे 20 कारे रूपे रसेऽस्मिन्नेव सामान्यगोचरमिति, सामान्यविषयञ्च स्वार्थे ज्ञानमिति च विस्पर्धितमेतत् परस्परतो द्वयम् , यस्मादर्थविषयशब्दौ लक्षणार्थावेव-लक्षणशब्दपर्यायवाचिनौ, तस्मात् स्वार्थः खविषयः खलक्षणमित्येतद्विवक्षितं भवतः, तद्विस्मृत्य भ्रान्तेन नेन्द्रियग्राह्यस्वार्थसामान्यभेदकल्पनापरिहारो युज्यते वक्तुम् , कस्मात् ? प्रत्यक्षव्याख्याविषयत्वात् स्वार्थस्खलक्षणखविषयशब्दानाम् ।
भूतविषयपरामर्शको शब्दावेतौ । स्वविषय इति, प्रमाणस्य विषयो द्विविधः ग्राह्योऽध्यवसेयश्च, यदाकारं ज्ञानमुत्पद्यते स 25 ग्राह्यः, तच्च वस्तुनोऽसाधारणं तःचम् , यमध्यवस्यति सोऽध्यवसेयः प्रापणीयश्च, अन्यो हि ग्राह्योऽन्योऽध्यवसेयः सन्तानश्चाध्यवसेयः, अयमेव विकल्पस्यानुमानस्य च विषयः, सामान्यगोचरत्वादनुमानमप्रत्यक्षं, अनुमानेनावसीयमानस्यार्थस्य सनिधानासन्निधानाभ्यां ज्ञानप्रतिभासदाभावादेवं प्रत्यक्षस्य सामान्यगोचरत्वेऽनुमानवदप्रत्यक्षमेव तत्स्यादिति भावः । खार्थे सामान्यगोचरमित्यस्य विरुद्धवचनत्वं स्पष्टयति स्वार्थ इति चेति चक्षुस्तद्भिन्नेन्द्रियविषयत्वं न स्वार्थत्वं किन्तु खार्थः प्रमेयम् , सामान्यतो वस्तुखलक्षणमेव, यल्लिङ्गगम्यं तत्सर्वं सामान्यलक्षणमित्युच्यते, तथाच खार्थे ज्ञानं सामान्यविषयञ्चेति 30 विस्पर्षितम् , एकस्य ज्ञानस्य खलक्षणविषयत्वसामान्य विषयत्वयोर्विरुद्धत्वात् , अर्थ विषयलक्षणशब्दानां पर्यायत्वादिति भावः।
अस्वार्थविशिष्टे-स्वार्थभिन्नात्सामान्यलक्षणाद्विलक्षणे, एवम्भूतः खविषयः खलक्षण एव नान्यः कश्चिदिति भावः । नेन्द्रिपमापति, खार्थसामान्ययोरिन्द्रियग्राह्यत्वं परिकल्प्य विरोधपरिहारो न शक्यते कर्तुमित्यर्थः । अस्यापव्याख्यानत्वं निर
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org