________________
प्रमाणसंप्लवनिरासः] न्यायागमानुसारिणीव्याख्यासमेतम्
१०१ __मा मंस्था नैतदेवं भवतीति, उक्तं हि प्रमाणसंख्यानिरूपणे त्वयैव 'प्रत्यक्षमनुमानश्च प्रमाणे' इत्यादि प्रमाणद्वित्वं नियम्यते प्रमेयद्वित्वात् परिमेयद्वित्वनियतप्रस्थतुलादिपरिमाणद्वित्ववत् , लक्षणद्वयाद्यद्यन्यत् प्रमेयं स्यात्तदपेक्षया प्रमाणान्तरं स्यात् , नहि स्वसामान्या लक्षणाभ्यामन्यत् प्रमेयमस्ति, प्रत्यक्षानुमानाभ्यामग्रहणात् खरविषाणवत् ।
(मा मंस्था इति) तदर्शयति-यस्मालक्षणद्वयं प्रमेयं स्यात् ततोऽन्यत्-प्रमेयान्तरं वसा-5 मान्यद्वित्वरूपलक्षणं तदपेक्षया प्रमाणान्तरं स्यादिति, तन्निवारणार्थमाह-नहि स्वसामान्यलक्षणाभ्यामन्यत् प्रमेयमस्ति प्रत्यक्षानुमानाभ्यामग्रहणात् , खरविषाणवत् ।
स्यान्मतं तत्रैव विषयद्वये विकल्पसमुच्चयाङ्गाङ्गिभावैः प्रत्यक्षानुमानागमादीनां प्रमाणानां वृत्तिर्भविष्यतीति तन्न भवति यस्मात् स्वलक्षणविषयनियतं प्रत्यक्षं सामान्यलक्षणविषयनियतमनुमानमित्युक्तम् , कथं पुनर्लक्षणशब्दोऽर्थपर्यायः? अयते गम्यत इत्यर्थः, तथा लक्ष्यत 10 इति लक्षणं तच्च वस्तुस्वभावः, स्वरूपमर्थः प्रमेयमिति पर्यायाः, तत्पुनर्द्विरूपं द्वाभ्यां प्रमाणाभ्यां परिच्छेद्यत्वात् , प्रमेयाधिगमनिमित्तं हि प्रमाणमिति, न च प्रमाणयोर्विषयसङ्करः ।
(स्यान्मतमिति), (लक्ष्यत इति लक्षणमिति) कर्मसाधनत्वाल्लक्षणशब्दस्य, तञ्च लक्षणं वस्तुस्वभावः, स्वरूपमर्थः प्रमेयमिति पर्यायाः, तत्पुनर्द्विरूपं परिच्छेद्यं द्वाभ्यां प्रमाणाभ्यां परिच्छेद्यत्वात्, प्रमाणं परिच्छेदकं प्रमेयं परिच्छेद्यमित्यर्थः, यस्माल्लोके दृष्टं प्रमेयाधिगमनिमित्तं प्रमाणम् , हि 15 शब्दस्य हेत्वर्थत्वात् । प्रमेयाधिगमनिमित्तं हि प्रमाणमिति, नोचेत् 'अग्निहोत्रं जुहुयात् स्वर्गकामः, दानं दद्याद्धर्मकामः' इत्येवमाद्यागमवददृष्टार्थ प्रत्यक्षं स्यान्न त्वेवमतो दृष्टार्थमेव, एतदुपलम्भकत्वात् , उपलभ्यस्य द्विविधस्य दृष्टत्वात् , न च प्रमाणयोर्विषयसङ्कर इति प्रागुक्तयुक्तिको विविक्तविषयतां दर्शयति, इतिशब्दःप्रदर्शने, एतावानत्र संक्षेपेणार्थस्तद्विस्तरपरो ग्रन्थ इति सूचयति । इदानीं व्यवस्थितार्थोपसंहारार्थमिदं वाक्यमाह
20 अधिगम्यस्य द्वित्वाल्लक्षणशब्दोऽर्थपर्यायवाची नेन्द्रियग्राह्य इति स्थिते प्रत्यक्षानुमानयोः स्वरूपाभावः स्ववचनविरोधश्च दोषाः स्वार्थे सामान्यगोचरमिति ब्रुवत इति स्थितम् । स्यति मा मंस्था इति । प्रमेयद्वित्वादिति, नहि प्रमेयद्वैविध्यमन्तरेण प्रमाणद्वैविध्यं सम्भवति, प्रमेयभेदादन्यस्य प्रमाणमेदहतोरभावात् प्रमाणं द्विविधमेव, नहि खलक्षणसामान्यलक्षणाभ्यामन्यत् प्रमेयं प्रसिद्धमिति भावः। प्रमाणसंप्लवमाशय निराचष्टे स्यान्मतमिति । अधिगतमर्थमधिगमयता प्रमाणेन पिष्टं पिष्टं स्यादित्यन्यरूपतया तु तद्रहणमुत्तरप्रमाणेन दुःश-25 क्यमादिप्रमाणविरुद्धत्वात्, तमान प्रमाणसंप्लवो युक्तः, एवञ्च खलक्षणस्य प्रत्यक्षेण मुद्रितत्वात्ततोऽन्यस्य सामान्यस्यानुमानेन मुद्रितत्वात् केतरप्रमाणानामवकाश इति भावः । लक्ष्यतेऽनेनेति लक्षणशब्दस्य साधनपर्यायत्वात् कथमर्थपर्यायत्वमित्याशङ्कते कथं पुनरिति, अयत इत्यर्थः, लक्ष्यते यत्तलक्षणमिति कर्मसाधनत्वं तयोः शब्दयोः, लक्ष्यते हि वस्तुखभावः प्रत्यक्षेणानुमानेन चेत्यर्थो लक्षणापरपर्यायो द्विविधः, तथाच लक्षणमर्थः प्रमेयमिति शब्दा अभिन्नार्थाः सामान्यविशेषरूपेणार्थस्य द्वैविध्यात्तदधिगमनिमित्त प्रमाणमपि द्विविधमर्थद्वयस्य चैकप्रमाणाधिगम्यत्वे प्रमाणान्तरवैयर्थं स्यादतः कथं स्वार्थे सामान्य-30 मोचरं प्रत्यक्षमनुमानं वा स्यादिति भावः । नोचेदिति, नोचेद्धवनदानादेरिव प्रत्यक्षमप्यदृष्टार्थ स्यान्न त्वेवमस्ति, अतः प्रत्यक्षं दृष्टार्थमेवेति भावः । य एवेन्द्रियग्राह्यः स एवार्थो नान्य इति न युक्तं किन्तु वस्तुखभावात्मा लक्षणपर्यायोऽर्थशब्दः स द्विविधः प्रमाणद्वैविध्यादित्याशयेनाह-अधिगम्यस्येति । ततः किमित्यत्राह-प्रत्यक्षानुमानयोरिति । खलक्षणसामा
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org