________________
१०२
द्वादशारनयचक्रम्
[ विध्यरे
एवमवस्थिते सामान्यगोचरव्यावृत्तार्थेन भवितव्यम्, ततः स्वार्थे सामान्यगोचरमित्येतद्विरुज्यते । न हि तादृशस्वार्थेऽस्य सामान्यस्य सम्बन्धोऽस्ति, नापि सामान्यस्य स्वार्थस-म्बन्ध इति ।
(अधिगम्यस्य द्वित्वादिति), अधिगमनिमित्तं द्विरूपमित्येवं व्यवस्थापिते लक्षणशब्दोऽ5 पर्यायवाची नेन्द्रियग्राह्य इति, विशेषार्थः प्राक् कृतः, इत्येतस्मिंश्चार्थे स्थिते प्रत्यक्षानुमानयोः स्वरूपाभावः स्ववचनविरोधश्च दोषाः स्वार्थे सामान्यगोचरमिति ब्रुवतः प्रोक्तविधिनेति स्थितम्, पुनश्चात्रदोषः एवमवस्थिते ( इत्यादि ) ।
मा भूदेष दोष इति
तस्मिन्नेव सामान्ये स्वविषये स्वार्थे प्रत्यक्षं ज्ञानमुत्पद्यत इति चेत्तत एव सामान्यमेव 10 स्वविषयः, स्वलक्षणं नास्त्यतो लक्षणद्वयं नास्ति, एकमेवानुमानं प्रमाणं स्यात्, ततश्च प्रमेयप्रमाणद्वित्वावधारणकल्पना व्यर्था, प्रमाणयोर्वा विषयसङ्करः प्राप्तः ।
( तस्मिन्नेवेति ) अतः - पारिभाषितासाधारणस्वलक्षणविषयाभावादेवं कल्प्यमाने लक्षणद्वयं नास्ति, एकमेव-सामान्यलक्षणद्वयाभावात्तद्विषयमेकमेवानुमानं प्रमाणं स्यात्, ततश्च प्रमेयप्रमाणद्वित्वावधारणकल्पना व्यर्था । मा भूदवधारणवैयर्थ्यमिति स्वार्थे सामान्ये च प्रत्यक्षं प्रवृत्तं तथानुमान - 15 ति प्रमाणयोर्वा विषयसङ्करः प्राप्तः, वाशब्दादेकस्य ज्ञानस्य व्यर्थता या ।
प्रत्यक्षमपि वा परपरिकल्पितमनुमानभेद एव स्यात्, अनेकार्थजनितसामान्यगोचर रूपादिप्रकारपरिग्रहात्, त्वयैवोक्तं हि तत्रानेकार्थजन्यत्वात् स्वार्थे सामान्यगोचरमिति । धूमबलाकालिङ्गजनितज्ञानवत्, एतस्मादेव हेतोरस्वलक्षणविषयत्वञ्चोभयत्र ।
( प्रत्यक्षमपीति ) प्रत्यक्षमपि वा परपरिकल्पितमनुमानभेद एव स्यात्, कस्माद्धेतोः ? अने20 कार्थजनितसामान्यगोचररूपादिप्रकारपरिग्रहात् मा ज्ञासीरसिद्धोऽयं हेतुरिति, त्वयैवोक्तं हि तत्रानेकार्थजन्यत्वात् स्वार्थे सामान्यगोचरमिति, अनेकेन भिन्नेनार्थेनाभिन्नमेकं सामान्यं रूपं रस इत्यादि प्रकारं परिगृह्मोत्पद्यमानं ज्ञानं तेन जनितं तत्तस्मादनेकार्थजनितसामान्यगोचररूपादिप्रकारपरिग्रहात्तस्य ज्ञानस्य, को दृष्टान्तः ? धूम बलाकालिङ्गजनितज्ञानवत्, धूमादत्राग्निर्बलाकाभ्योऽत्र जलमिति लिङ्गजनितयोरग्निजलज्ञानयोरपि स्वरूपतोऽनुमानत्वाभेदः, एवं रूपादिषूत्पद्यमानानां प्रत्यक्षाभिमता25 नामनुमानत्वाभेदः एतस्मादेव हेतोरस्वलक्षणविषयत्वञ्च, अस्वलक्षणविषयं प्रत्यर्थमनेकार्थजनितसामा
न्ययोः प्रत्यक्षविषयत्वेऽनुमानाभावः, अनुमानविषयत्वे प्रत्यक्षाभावः प्राप्त इति तथा स्वलक्षणविषयज्ञानस्य सामान्यविषयत्वासंभवात्सामान्यगोचरस्य च स्वलक्षणविषयत्वासम्भवात्स्वार्थे सामान्यगोचरमिति विरुद्धं वचनमिति भावः । एवमवस्थित इति, एवं प्रमाणभेदेन विषयभेदे व्यवस्थिते सति, स्वार्थः सामान्यगोचरव्यावृत्तोऽभ्युपेय इत्यर्थः । परस्परासम्बद्धयोः सामान्यस्त्रार्थयोः प्रत्यक्षज्ञानजनकत्वे दोषमाह - तस्मिन्नेवेति । परेति - बौद्धेत्यर्थः, परपरिकल्पितं प्रत्यक्षमनुमानमेद 30 एवानेकार्थजनितसामान्यगोचररूपादिप्रकारपरिग्रहाद्धूमबलाका लिङ्गजनितज्ञानवत् । अत्रासिद्धिवारणायाह त्वयैवोक्तमिति । अनुमानत्वाभेद इति, प्रत्यक्षानुमानयो रूपरसादिव हिजला दिसामान्यप्रकारपरिग्रहेणोत्पद्यमानत्वाविशेषादिति भावः सामान्यगोचररूपादिप्रकारपरिग्रहेणोत्पद्यमानत्वादेवानुमान वदखलक्षणविषयत्वश्च प्रत्यक्षस्येत्याह - एतस्मादेव हेतोरिति ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org