________________
मप्रत्यक्षत्वादिदोषाः] न्यायागमानुसारिणीव्याख्यासमेतम्
१०३ न्यगोचररूपादिप्रकारपरिग्रहादनुमानवत् , उभयत्रेत्यनेनानुमानेऽप्यस्खलक्षणविषयत्वं तत एव हेतोरनन्तरभावितप्रत्यक्षवत् ।
अथवोभयत्रेति स्वलक्षणे सामान्यलक्षणे चास्वलक्षणविषयत्वम् , अनेकैकीभावात् , समुदायवत्, सामान्यमपि न स्वलक्षणमत एवानन्तरोक्तसमुदायवत् । सामान्यास्वलक्षणत्वं सिद्धं साध्यत इति चेन्न, स्वार्थ एव सामान्यगोचरमिति वचनात् स्वार्थत्वेनाभ्युपगतत्वात् ।।
अथवोभयत्रेति स्खलक्षणे सामान्यलक्षणे चावलक्षणविषयत्वम् , कथं ? स्खलक्षणाभिमतमस्खलक्षणमनेकैकीभावात् समुदायवत्तस्मात्सामान्यमपि न खलक्षणमत एवान्तरोक्तसमुदायवत् । सामान्यास्वलक्षणत्वं सिद्धं साध्यत इति चेन्न, स्वार्थ एव सामान्यगोचरमिति वचनात् स्वार्थत्वेनाभ्युपगतत्वादिति ।
अवश्यश्चैतदेवमभ्युपगन्तव्यं यतश्शमीशाखापत्रसंघाताविशेषदर्शनोदाहरणेन च 10 स्फुटमेव दर्शितमप्रत्यक्षत्वमनुमानत्वमप्रमाणत्वमस्वलक्षणविषयत्वं विषयसङ्कर इत्येवमादिदो. पजातम् , अनेकैकत्वापत्तिसामान्यगोचरस्वलक्षण एवार्थः प्रत्यक्षस्येत्येषा भवत आशंसा चेन्न, आरात्परान्तमध्यवर्णप्रमाणसंस्थानविविक्तवृत्त्यवस्थपत्रविशेषस्वलक्षणसामान्यात्मकत्वात् ।
(अवश्यमिति) अनेकैकत्वापत्तिसामान्यं गोचरः, स एव स्खलक्षणः-सामान्यगोचर एव खलक्षणः, असावेवार्थः प्रत्यक्षस्यैषा भवत आशंसा चेन्न, आरात्परान्तमध्येत्यादि यावत्स्वलक्षण 15 विषयसामान्यात्मकत्वात् , नैतदुपपद्यते पूर्वापरादिपरस्परविविक्तावस्थापन्नविषयसामान्यात्मकत्वात् , आरादन्तः, परान्तः, मध्यः, नीलप्रकर्षादिवर्णः, ह्रखदीर्घाल्पमहत्त्वादिप्रमाणं वृत्तादिसंस्थानश्च तैर्विविक्ता वृत्तयोऽवस्थाश्च येषां पत्रविशेषाणां ते विविक्तवृत्त्यवस्थपत्रविशेषास्त एव स्वलक्षणाः विषयोऽस्य सामान्यस्य तत् स्खलक्षणविषयसामान्यमात्मा स्वरूपमस्य तद्भावः सामान्यात्मकत्वं तस्मात् सामान्यात्मकत्वात् । एतदुक्तं भवति, देशाकृतिवयोवर्णप्रमाणसंस्थानादिभिरत्यन्तविशिष्टानां स्वल-20 क्षणानामेव सामान्यात्मकत्वं नान्यत्सामान्यमस्त्यतोऽनुपपन्नमनेकैकत्वापत्तिसामान्यगोचरस्खलक्षण एवार्थ इति ।
ननूक्तमनेकैकत्वापत्तिसामान्यगोचरमिति तन्न, यस्मान्न च सङ्घातः कश्चिदस्ति, न च परिणामान्तरम् , तेषामनारब्धस्वलक्षणकायत्वात् , एवमणुष्वपि तथा, तस्मान्न स्वार्थे सामान्यगोचरं ज्ञानमिति ।
25 प्रत्यक्षग्राह्यत्वेनाभिमतं खलक्षणमपि वस्तुतो न खलक्षणमित्याह-अथ वेति । प्रयोगमाह-स्खलक्षणाभिमतमिति, अनेकैकीभावात्-अनेकेभ्यः परमाणुभ्यस्तस्यामेदेन भवनादित्यर्थः, सामान्यमपि न खलक्षणमित्याह-सामान्यमपीति, ननु सामान्यस्याखलक्षणत्वं सिद्धमेव साध्यत इत्याशङ्कते सामान्येति । स्वार्थत्वेनेति, सामान्यस्योक्तवचनेन स्वार्थत्वेनाभ्युपगतत्वान्न तस्यास्खलक्षणत्वं सिद्धमिति भावः । अनेकार्थजन्यखार्थसामान्यगोचरज्ञानस्याप्रत्यक्षत्वादिकं त्वयाऽवश्यमभ्युपेयमित्याह-अवश्यञ्चैतदिति, यथाऽनेकार्थजन्यत्वात्स्वार्थे सामान्यगोचरमित्यत्र प्रत्यक्षस्योदाहरणत्वेन शमीशाखापत्रेषु 30 ज्ञानस्य प्रदर्शनात् स्फुटमेवाप्रत्यक्षादिदोषजातं विषयसङ्करश्च प्रत्यक्षानुमानयोर्बोध्यः। आरादिति, अनपेक्षितादिमध्यान्तरूपादिहखादिवृत्ताद्यवस्थाः पत्रविशेषा एव खलक्षणाः सामान्यात्मका नान्यत्किञ्चित्सामान्यमस्ति तस्मान्ममैवाशङ्केयम्, न तु तथास्माकमभ्युपगम इति जस्पनमसाध्विति भावः । ननूक्तमिति, अत्रत्यशङ्कासमाधानव्याख्या स्यान्मतं तव्यतिरेकेणे
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org