________________
5
द्वादशारनयचक्रम्
[ विध्यरे
( ननूक्तमिति ) चशब्दान्नावयवी न च परिणामान्तरं तद्व्यतिरिक्तं त्वन्मतेन, कस्माद्धेतोः ? तेषां - पत्राणामनारब्धस्वलक्षणकायत्वात्, न हि पत्रविशेषैरारब्धं किञ्चित्कार्यान्तरमस्ति, त एवं नारब्धलक्षणा: पत्रविशेषाः सचित्य कार्यभूताः, तस्मान्न तेष्वन्यत्सामान्यमस्ति, एवमणुवपि - परमाणुष्वपि तथा - न किञ्चित्सामान्यमस्ति तस्मान्न स्वार्थे सामान्यगोचरं ज्ञानमिति ।
१०४
यदपि चोक्तमनेकद्रव्योत्पाद्यत्वात्तत्स्वायतने सामान्यगोचरमित्युच्यते, न तु भिन्नेष्वभेदकल्पनादिति, साऽपि त्वदिष्टा नोपपद्यते, न हि तदनेकद्रव्योत्पाद्यम्, किन्तु सचयात्, न च सञ्चयः सामान्यम्, ततो न स रूपादिभ्यो भेदेन कश्चिदस्ति, अत एव न प्रत्ययस्यालम्बनं युज्यते, अभूतत्वाद्वन्ध्यापुत्रवत् ।
( यदपीति) सापि - सामान्यगोचरतापि च न घटते, यस्मान्न तदनेकद्रव्योत्पाद्यम्, कुतस्त10 ह्युत्पद्यते ? सखयात् न च सञ्चयः सामान्यम्, तस्मान्न च स रूपादिभ्यो भेदेन कश्चिदस्ति रूपादिसञ्चयः, अत एव न प्रत्ययस्यालम्बनं युज्यते, प्रत्ययो ज्ञानम् । किं कारणं ? अभूतत्वाद्वन्ध्यापुत्रवत् । स्यादाशङ्का स्वाभासज्ञानोत्पत्तेरालम्बनं भविष्यति समुदायोऽकारणे सत्यपि, एतत् कुत: ? अकारणत्वादेवालम्बनत्वाभावे का प्रत्याशाऽऽभासार्थस्येत्यत आह
अनालम्बनत्वाच्चाभासार्थमपि तन्नास्ति, वन्ध्यापुत्रत्वाना भासवत्, स्वाभासं हि यस्य 15 ज्ञानेन स्वाभावावभासः, अस्वत्वादनात्मकत्वात् कुत आभासविज्ञापनम् ?
(अनालम्बनत्वाचेति) अनालम्बनत्वाश्चाभासार्थमपि तन्नास्ति, किमिव ? वन्ध्यापुत्रवानाभासवत्, यथा ह्यसत्वादनालम्बनं वन्ध्यापुत्रः, अनालम्बनत्वाश्चानाभासः, तथा सञ्जय इति, स्वाभासं हीत्यादि विषयो हि नाम यस्त्र ज्ञानेन स्वभावावभास इति त्वदुक्तोपपत्तिरेवात्र व्यापार्यते, तत्पुनः कुतः ? अस्वत्वादनात्मकत्वात्, यस्त्वात्मना स्वभावेनासिद्धः स न विषयः स्याज्ज्ञानस्येति, 20 का युक्तिः ? अस्वत्वात्वस्याद्रव्यत्वात् परमार्थसत्त्वाभावात् कुत आभासविज्ञापनम्, -परवाचोयुक्त्या विज्ञापनम्, विज्ञप्तिर्बुद्धिरिति पर्यायात्, दूर एवत नास्तीत्यर्थः ।
एवं तर्हि स्वे तु परमाणवः आत्मानस्ते विषयतां यान्तु नेत्युध्यते, ते नाभासमुत्पादयि -
यापूर्वम्पस एव कृता तत एव द्रष्टव्या । येभ्यः कार्यान्तरमारभ्यते तत्प्रति तेषां विशेषता कार्यान्तरस्य सामान्यता भवेत्, न तथा पत्रविशेषैः कार्यान्तरमारभ्यते किन्तु त एव सञ्चित्य कार्योंभूता अतो नान्यत् सामान्यमस्तीत्येवं परमाणुष्वपि 25 भाव्यमिति भावः । नोपपद्यत इति, यज्ज्ञानमनेकद्रव्योत्पाद्यतया रूपायतने सामान्यगोचरतयाऽभिमतं तज्ज्ञानं सचयावुत्पन्नं न त्वनेकद्रव्यात्, सञ्चयोऽपि न रूपादिभ्यो मेदेन कश्चिदस्ति, न वा सञ्चयः सामान्यम्, अत एवाभूतत्वात् सामान्य न तस्यालम्बनं भवितुमर्हति, अन्यथा खरविषाणोऽप्यालम्बनं स्यादिति भावः । यदेव कारणं ज्ञानस्य तदेवालम्बनमिति नास्ति नियमः, अकारणत्वेऽपि मृगतृष्णिकादेरालम्बनत्वादाभासज्ञानस्य, अतोऽकारणत्वेऽपि सामान्यस्याssलम्बनता युज्यत इत्याशङ्कते - स्यादाशङ्केति, स्वाभासज्ञानं खमाभासयज्ज्ञानं स्वविषयं ज्ञानमित्यर्थः । एतत् कुत इति, अकारणस्या30 प्यालम्बनत्वं कुत इत्यर्थः । समुदायस्यालम्बनत्वमेव नास्ति, असत्त्वाद्वन्ध्यापुत्रवदिति न ज्ञानविषयतेत्याह- अनालम्बन. त्वाश्चेति, यस्य स्वभावमवभासयति ज्ञानं स एव विषय इति तवाभिमतम्, सञ्चयस्य स्वत्वं स्वभावो नास्ति परमार्थ सद्रूपत्वाभावात्, अतः कथं स्वभावावभासः सञ्चयस्य ज्ञानेन कर्तुं पार्यत इति न सञ्चयो विषय इत्याह-स्वाभासं हीत्यादीति । परमाणवोऽप्यतीन्द्रियत्वाद्विज्ञानस्य नालम्बनं, तस्मात् प्रत्यक्षज्ञानं निरालम्बनमापन्नमित्याह एवं तहींति, परमाणूनां
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org